भाषा

ENहिગુ
ग्रंथ पाठ

रावणवध · अध्याय 6

6.1

ओषांचकार कामाऽग्निर् दशा-वक्त्रमहर्-निशम्.
विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम्.

6.2

प्रजागरांचकारारेरीहास्वनिशमादरात्,
प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः.

6.3

न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः.
नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.

6.4

विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,
रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्.

6.5

रामो ऽपि हत-मारीचो निवर्त्स्यन् खर-नादिनः
क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः

6.6

आशङ्कमानो वैदेहीं खादितां निहतां मृताम्
स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत.

6.7

सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां
विज्ञाया ऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्."

6.8

सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,
रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः

6.9

संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्
प्राणान् दुहन्निवा ऽऽत्मानं शोकं चित्तमवारुधत्.

6.10

"गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्.
आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा.

6.11

आः, कष्टं, बत, ही-चित्रं, हूं, मातर्, दैवतानि धिक्,
हा पितः !, क्वा ऽसि हे सु-भ्रु !," बह्वेवं विललाप सः,

6.12

इहा ऽऽसिष्ठा ऽशयिष्टेह सा, स-खेलमितो ऽगमत्,
अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.

6.13

"इदं नक्तं-तनं दाम पौष्पमेतद् दिवा-तनम्,
शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,

6.14

ऐक्षिष्महि मुहुः सुप्तां यां मृता ऽऽशङ्कया वयम्,
अ-काले दुर्मरमहो, यज् जीवामस् तया विना,

6.15

अ-क्षेमः परिहासो ऽयं. परीक्षां मा कृथा मम,
मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,

6.16

अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,
मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.

6.17

मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,
शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्.

6.18

ऐ वाचं देहि. धैर्यं नस् तव हेतोरसुस्रुवत्.
त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः.

6.19

रुदतो ऽशिश्वयच् चक्षु रास्यं हेतोस् तवा ऽश्वयीत्,
म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्.

6.20

लक्ष्मणा ऽऽचक्ष्व, यद्याख्यत् सा किञ्चित् कोप-कारणम्,
दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम्.

6.21

इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,
इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः

6.22

तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,
अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्.

6.23

स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विना
तथा ऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः

6.24

तथा ऽऽ र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,
महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति.

6.25

आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,
"एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,

6.26

स्व-पोषमपुषद् युष्मान् या पक्षि-मृग-शावकाः !
अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः."

6.27

गिरिमन्वसृपद् रामो लिप्सुर् जनक-संभवाम्,
तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत्

6.28

"सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,
इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः.

6.29

इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,
एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्

6.30

मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,
अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्.

6.31

गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !
जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशा-चरात्."

6.32

क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त-नेत्रो ऽजनि क्षणात्,
उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानु-वत्.

6.33

अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत्,
उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.

6.34

अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,
समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः.

6.35

अथा ऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः,
"रुणध्मि सवितुर् मार्गं, भिनद्मि कुल-पर्वतान्.

6.36

रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,
क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्.

6.37

यमं युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम्,
शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा

6.38

भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,
भनज्मि सर्व-मर्यादास्, तनच्मि व्योम विस्तृतम्

6.39

न तृणेह्मीति लोको ऽयं मां विन्ते निष्-पराक्रम्,"
एवं वदन् दाशरथिरपृणग् धनुशा शरं.

6.40

न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षुं जगत्-क्षयम्,
ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्

6.41

तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत,
"मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि."

6.42

उपास्थितैवमुक्ते तं सखायं राघवः पितुः,
पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम्.

6.43

व्रण-वेदनया ग्लायन् ममार गिरि-कन्दरे,
तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर् वनम्.

6.44

सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता
क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना.

6.45

भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,
स छिन्न-बाहुरपतद् विह्वलो ह्वलयन् भुवम्.

6.46

प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्
आत्मानं वन-वासं च जेयं चा ऽरिं रघूत्तमः

6.47

"लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,
सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम."

6.48

"अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन्,
पाप-चर्यो मुनेः शापाज् जात" इत्यवदत् स तम्.

6.49

"प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते,
रावणेन हृता सीता लङ्कां नीता सुरारिणा.

6.50

ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः
सुग्रीवो नाम, वर्यो ऽसौ भवता चारु-विक्रमः.

6.51

तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्
राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम्.

6.52

आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः
वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः.

6.53

तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्.
लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि.

6.54

अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम्.
मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि.

6.55

आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः
इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि.

6.56

नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः,
मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते."

6.57

स राजसूययाजीव तेजसा सूर्य-सन्निभः
अ-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशा-चरः

6.58

अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः
रत्नाऽन्न-पान-कुप्यानामाटतुर् नष्टसंस्मृती.

6.59

समुत्तरन्ताव-व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान्
सिध्य-तारामिव ख्यातां शबरीमापतुर् वने.

6.60

वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम्
क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिना ऽऽस्तराम्

6.61

प्रगृह्य-पद-वत् साध्वीं स्पष्ट-रूपाम-विक्रियाम्
अ-गृह्यां वीत-काम-त्वाद् देव-गृह्याम-निन्दिताम्

6.62

धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम्
दृष्ट्वा ताममुचद् रामो युग्याऽऽयात इव श्रमम्.

6.63

स तामूचे ऽथ-"कच्चित् त्वममावास्या-समन्वये
पित् णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः

6.64

अवश्य-पाव्यं पवसे कच्चित् त्वं देव-भाग्घ्विः,
आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि.

6.65

आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,
कच्चिदग्निमिवा ऽऽनाय्यं काले संमन्यसे ऽतिथिम्.

6.66

न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति
देव-कार्य-विघाताय धर्मद्रोही महोदये !

6.67

कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा
कथाभी रमसे नित्यमुपचाय्य-वतां शुभे !

6.68

वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान्,
अजैषीः कामसंमोहौ, संप्राप्था विनयेन वा.

6.69

ना ऽऽयस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषः
यमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः"

6.70

अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीया ऽऽदरादसौ
अर्चयित्वा फलैरर्च्यौ सर्वत्रा ऽऽख्यदनामयम्.

6.71

"सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः,
द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्.

6.72

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्
वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ.

6.73

"भृङ्गाऽऽली-कोकिल-क्रुङ्भिर् वाशनैः पश्य लक्ष्मण !
रोचनैर् भूषितां पम्पा- मस्माकं हृदयाविधम्

6.74

परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्
उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम्

6.75

सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम्
येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम्.

6.76

पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैः
अ-ज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः.

6.77

ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्
आजिघ्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्.

6.78

धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्
शाखिभिर् हा हता भूयो हृदयानामुदेजयैः

6.79

ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्
लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः.

6.80

अवश्याय-कणाऽऽस्रावाश् चारु-मुक्ता-फल-त्विषः
कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः

6.81

अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,
न जीवस्या ऽवहारो मां करोति सुखिनं यमः

6.82

दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,
नायः कोऽत्र स, येन स्यां बता ऽहं विगत-ज्वरः

6.83

समाविष्टं ग्रहेणेव ग्राहेणेवा ऽऽत्तमर्णवे
दृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम्

6.84

वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः
दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः.

6.85

एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ
लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम्.

6.86

तौ वालि-प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,
"बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्."

6.87

स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम्
जगाम स-परीवारो व्योम-मायमिवोत्थितम्.

6.88

शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम्
शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः.

6.89

विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः
चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम्

6.90

सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः
ऋष्यमूकमगाद् भृङ्गैः प्रगीतं साम-गैरिव.

6.91

तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः
वीरौ सुखा ऽऽहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः.

6.92

"बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव
आचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम्

6.93

व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः
तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम्.

6.94

सत्वमेजय-सिंहाऽऽढ्यान् स्तनं-धाय-सम-त्विषौ
कथं नाडिंधमान् मार्गानागतौ विषमोपलान्.

6.95

अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,
आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.

6.96

रामो ऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम्
ऐव विद्वन्! पितुः कामात् पान्तावल्पं-पचान् मुनीन्.

6.97

अ-मितं-पचमीशानं सर्व-भोगीणमुत्तमम्
आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.

6.98

छलेन दयिता ऽरण्याद् रक्षसा ऽरुं-तुदेन नः
अ-सूर्यं-पश्यया मूर्त्या हृता, तां मृगयावहे."

6.99

प्रत्यूचे मारुति रामम् "अस्ति वालीति वानरः"
शमयेदपि संग्रामे यो ललाटं-तपं रविम्.

6.100

उग्रं-पश्येन सुग्रीवस् तेन भ्राता निराकृतः,
तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं-वदः

6.101

प्रियं-वदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परं-तप !,
सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्.

6.102

वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते,
एहि, सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्."

6.103

सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः
आदायाऽ भ्रं-कषं प्रायान् मलयं फल-शालिनम्.

6.104

मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः
दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम्.

6.105

उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ,
क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः.

6.106

आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्
बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्

6.107

ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम्
सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्

6.108

"वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली,
हृदयं-गममेतत् त्वां ब्रवीमि, न पराभवम्.

6.109

दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः
अपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः

6.110

वरेण तु मुनेर् वाली संजातो दस्युहो रणे
अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः

6.111

अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते
चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम्.

6.112

शीर्ष-घातिनमायातमरीणां त्वां विलोकयन्
पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.

6.113

शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्न-कृत्रिमान्
शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान्.

6.114

आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः
प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम्.

6.115

प्रियंभावुकतां यातस् तं क्षिपन् योजनं मृतम्
स्वर्गे प्रियं-भविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्",

6.116

जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः
अभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्.

6.117

ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः
अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्.

6.118

गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्
भ्रातरं युङ् भियः संख्ये घोषेणा ऽऽपूरयन् दिशः

6.119

व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः
बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः.

6.120

ऋष्यमूकमगात् क्लन्तः कपिर् मृग-सदृग् द्रुतम्
किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.

6.121

कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्.
अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे.

6.122

तयोर् वानर-सेनान्योः संप्रहारे तनुच्छिदम्
वालिनो दूर-भाग् रामो बाणं प्राणाऽदमत्यजत्

6.123

वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम्
बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश

6.124

धिग् दाशरथिमित्यूचुर् मुनयो वन-वर्तिनः.
उपेयुर् मधु-पायिन्यः क्रोशन्त्यस् तं कपि-स्त्रियः.

6.125

राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः
व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत्.

6.126

"मृषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः
अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः.

6.127

पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः
मामपापं दुराचार ! किं निहत्या ऽभिधास्यसि.

6.128

अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु
अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता.

6.129

मांस-विक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्
मां घ्नता भवता ऽकारि निःषङ्कं पाप-दृष्वना.

6.130

बुद्धिपूर्वं ध्रुवन् न त्वा राज-कृत्वा पिता खलम्
सहयुध्वानमन्येन यो ऽहिनो मामनागसम्

6.131

पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः,
कौशल्या-ज ! शशाऽऽदीनां तेषां नैको ऽप्यहं कपिः.

6.132

कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,
आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा.

6.133

मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे
लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः".

6.134

प्रत्यूचे वालिनं रामो"ना ऽकृतं कृतवानहम्
यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर !

6.135

ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्
ऊषुषां पर-दारैश् च सार्धं निधनमैषिषुः.

6.136

अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा
उपेयिवाननूचानैर् निन्दितस्-त्वं लता-मृग !

6.137

अन्वनैषीत् ततो वाली त्रपा-वानिव राघवम्.
न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं

6.138

म्रियमाणः स सुग्रीवं प्रोचे सद्-भावमागतः
"संभाविष्याव एकस्यामभिजानासि मातरि.

6.139

अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,
अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्.

6.140

दैवं न विदधे नूनं युगपत् सुखमावयोः,
शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्.

6.141

ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,
राज्यं संदिश्य भोगाम्श् च ममार व्रण-पीडितः

6.142

तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया
किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम्

6.143

नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर् वानरेन्द्रो विराजन्
अभ्यर्णे ऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्.

मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc