भाषा

ENहिગુ
ग्रंथ पाठ

रावणवध · अध्याय 5

5.1

निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्
उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ.

5.2

तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ
अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे.

5.3

अथ तीक्ष्णाऽऽयसैर् बानैरधि-मर्म रघूत्तमौ
व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर् द्विषौ.

5.4

हत-बन्धुर् जगामा ऽसौ ततः शूर्प-णखा वनात्
पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम्.

5.5

संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला,
नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके.

5.6

"दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ,
नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ.

5.7

विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा
सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः

5.8

यद्यहं नाथ ! ना ऽयास्यं वि-नासा हत-बान्धवा,
ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार-दुर्-बलः.

5.9

करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,
अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्.

5.10

वृतस् त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान्
पान-शौण्डः श्रियं नेता ना ऽत्यन्तीन-त्वमुन्मनाः

5.11

अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्
अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना,

5.12

आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम्
हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः

5.13

युव-जानिर् धनुश्-पाणिर् भूमि-ष्ठः ख-विचारिणः
रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः

5.14

मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः
अश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः

5.15

कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज,
लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय.

5.16

सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम्
श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः

5.17

लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात्
अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते.

5.18

योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी
दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला.

5.19

नाऽऽस्यं पश्यति यस् तस्या, निंस्ते दन्त-च्छदं न वा,
संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.

5.20

सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,
तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्.

5.21

न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेः
त्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव.

5.22

नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,
वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा."

5.23

प्रत्यूचे राक्षसेन्द्रस् ताम् "आश्वसिहि, बिभेषि किम्,
त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.

5.24

मामुपास्त दिदृक्षा-वान् याष्टीक-व्याहतो हरिः
आज्ञा-लाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः

5.25

विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि
अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली.

5.26

कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्
बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्.

5.27

आहोपुरुषिकां पश्य मम, सद्-रत्न-कान्ति-भिः
ध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.

5.28

हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि
पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित्.

5.29

अ-तुल्य-महसा सार्धं रामेण मम विग्रहः
त्रपा-करस्, तथाप्येष यतिष्ये तद्-विनिग्रहे."

5.30

उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत्
समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे.

5.31

सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत्,
त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.

5.32

"अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,
यो रण्ने दुरुपस्थानो हस्त-रोधं दधद् धनुः,

5.33

भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत्,
जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.

5.34

यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्.
शूरं-मन्यो रणाच् चाऽहं निरस्तः सिंह-नर्दिना.

5.35

न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,
अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्,

5.36

अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः,
स कन्या-शुल्कमभनङ् मिथिलायां मखे धनुः

5.37

सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ,
यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः.

5.38

सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः
अधि-लङ्कं स्त्रियो दीव्य, मा ऽऽरब्धा बलि-विग्रहम्."

5.39

तंभीतं-कारमाक्रुश्य रावणः प्रत्यभाषत
"यात-यामं विजितवान् स रामं यदि, किं ततः

5.40

अघानि ताडका तेन लज्जा-भय-विभूषणा,
स्त्री-जने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्र-मानसम्.

5.41

यद् गेहे-नर्दिनमसौ शरैर् भीरुमभाययत्
कु-ब्रह्म-यज्ञ-के रामो भवन्तं, पौरुषं न तत्.

5.42

चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः
किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके.

5.43

वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ
किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ.

5.44

त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि,
गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा.

5.45

शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम्,
कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ.

5.46

तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः
मारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते.

5.47

हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ,
उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु."

5.48

ततश् चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः
यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.

5.49

तेना ऽदुद्यूषयद् रामं मृगेण मृग-लोचना
मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्.

5.50

योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः
मृगस्याऽनुपदी रामो जगाम गज-विक्रमः

5.51

स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्
वीक्षमाणो मृगं रामश् चित्र-वृत्तिं विसिष्मिये.

5.52

चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम्
शब्दायमानमव्यात्सीत् भय-दं क्षणदा-चरम्.

5.53

श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी
मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्.

5.54

"एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते,
ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्."

5.55

"राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः
राम-स्वनित-सङ्काशः स्वान्", इत्यवदत् स ताम्.

5.56

"आप्यान-स्कन्ध-कण्ठांऽसं रुषितं सहितुं रणे
प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः

5.57

देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्
ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान् मुमूर्षया.

5.58

शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,
मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"

5.59

"यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,
इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया.

5.60

मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः
निरगात् "शत्रु-हस्तं त्वं यास्यसी"ति शपन् वशी.

5.61

गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी
जञ्जपूको ऽक्ष-माला-वान् धारयो मृदलाबुनः

5.62

कमण्डलु-कपालेन शिरसा च मृजा-वता
संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान्

5.63

अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम्
वदन् बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन्

5.64

संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम्
चंक्रमा-वान् समागत्य सीतामूचे"सुखाभव."

5.65

सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम्
कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता.

5.66

का त्वमेकाकिनी भीरु ! निरन्वय-जने वने,
क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वाम-पालां कथं न वा.

5.67

हृदयं-गम-मूर्तिस् त्वं सुभगं-भावुकं वनम्
कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना.

5.68

सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे,
पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः.

5.69

परि-पर्युदधे रूपमा-द्यु-लोकाच् च दुर्-लभम्.
भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम्.

5.70

आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी
सत्-परिमल-लक्ष्मीका ना ऽ-पुंस्काऽसीति मे मतिः.

5.71

मिथ्यैव श्रीः श्रियं-मन्या, श्रीमन्-मन्यो मृषा हरिः,
साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः

5.72

नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,
खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत्,

5.73

वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,
कान्तिं नाऽभिमनायेत को वा स्थाणु-समो ऽपि ते.

5.74

दुःखायते जनः सर्वाह्, स एवैकः सुखायते,
यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.

5.75

कः. पण्डितायमानस् त्वा- मादायाऽऽमिष-सन्निभाम्
त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्."

5.76

ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकाऽऽत्मजा
उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः

5.77

"महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम
पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्.

5.78

निहन्ता वैर-काराणां सतां बहु-करः सदा
पारश्वधिक-रामस्य शक्तेरन्त-करो रणे

5.79

अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा
पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम्

5.80

पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने
यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते.

5.81

दीव्यमानं शितान् बाणानस्यमानं महा-गदाः
निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि.

5.82

भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,
एषितुं प्रेषितो यातो मया तस्या ऽनु-जो वनम्

5.83

अथा ऽऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः
संदर्षिताऽऽन्तराकूतस् तामवादीद् दशाननः,

5.84

"कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्
को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्.

5.85

राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान्
यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः

5.86

मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः
युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः

5.87

निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः
अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्.

5.88

भिन्न-नौक इव ध्यायन् मत्-तो बिभ्यद् यमः स्वयम्
कृष्णि-मानं दधानेन मुखेना ऽऽस्ते निरुद्यतिः

5.89

समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी
रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि !

5.90

आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता
आर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह.

5.91

संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !
राघवः प्रोष्य-पापीयान्, जहीहि तम-किं-चनम्.

5.92

अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि
वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे.

5.93

मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,
उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव."

5.94

तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीम-विग्रहः
बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः

5.95

त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम्
तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः

5.96

उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ
जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.

5.97

"द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने
अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.

5.98

यशस्-कर-समाचारं ख्यातं भूवि दया-करम्
पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्

5.99

अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः
तव राक्षस ! रामस्य नेयः कर्म-करोपमः

5.100

सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम्
हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.

5.101

धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ
मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत.

5.102

न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे
आघ्नानो विध्यमानो वा रणान् निववृते न च.

5.103

पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम्
युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम्

5.104

संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,
स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना.

5.105

अ-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,
भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः.

5.106

हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्,
न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः.

5.107

उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः,
छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः

5.108

प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन्
रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्.

मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc