रावणवध · अध्याय 4
निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम्
प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्.
अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः
बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.
अवाक्-शिरसमुत्-पादं कृतान्तेना ऽपि दुर्-दमम्
भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.
आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः
अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.
पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः
शरभङ्गः प्रदिश्याऽऽरात् सुतीक्ष्ण-मुनिः-केतनम्
"यूयं समैष्यथेत्यस्मि न्नासिष्महि वयं वने,
दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य-विजितां गतिम्"
तस्मिन् कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ
उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान्,
वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः
शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे
ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन्
बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान्.
वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ
काण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्र-वान्
हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,
तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्-भयः.
व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन्
पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्.
परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्
वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात्.
आ-तिष्ठद्-गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्.
ददृशे पर्ण-शालायां राक्षस्या ऽभीकया ऽथ सः,
भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ.
दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना
वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ
सु-पाद् द्वि-रद्-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः
प्रथिमानं दधानेन जघनेन घनेन सा
उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम्
कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना
प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्
अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा.
"सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशं-वदाम्
त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्."
तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे
अ-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे.
मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी
त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि.
उग्रं-पश्याऽऽकुलो ऽरण्ये शालीन-त्व-विवर्जिता
कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा.
राघवं पर्ण-शालायामिच्छा ऽनुरहसं पतिम्,
यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः
वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,
संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ.
बद्धो दुर्-बल-रक्षाऽर्थमसिर् येनोपनीविकः,
यश् चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम्.
जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर् वने
प्राप्य दार-गवानां यः मुनीनाम-भयं सदा"
ततो वावृत्यमाना ऽसौ राम-शालां न्यविक्षत,
"मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः
"अ-स्त्रीको ऽसावहं स्त्री-मान्, स पुष्यति-तरां तव
पतिर्"इत्यब्रवीद् रामस्"तमेव व्रज, मा मुचः."
लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्
मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः.
तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः
असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्.
"अहं शूर्प-णखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,
दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्.
पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्श्य भय-दं वपुः
अपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः
खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,
विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः
"कृते सौभागिनेयस्य भरतस्य विवासितौ
पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.
मम रावण-नाथाया भगिन्या युवयोः पुनः
अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्.
अ-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ
अ-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्."
"श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि सा
प्राणिवस् तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.
जक्षिमो ऽनपराधेऽपि नरान् नक्तं-दिवं वयम्,
कुतस्-त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे."
तौ चतुर्दश-साहस्रबलौ निर्ययतुस् ततः
पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ.
अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ
बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश् चा ऽहतां मृधे.
तैर् वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः.
निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश् च मेदिनी.
के-चिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,
स-रक्तं वमथुं केचिद्, भ्राजथुं न च के-चन.
मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वतीं मरावुदन्यन्,
रघु-तनयमुपाययौ त्रि-मूर्धो, विशभृदिवोग्र-मुखं पतत्रि-राजम्,
शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः
भयमुपनिदधे स राक्षसानाम् अ-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः.
मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0