रत्नावलीनाटिका · अध्याय 2
सुसंगता । हद्धी हद्धी । अध कहिं दाणिं मम हत्थे इमं सारिअं णिक्खिविअ गदा मे पिअसही साअरिआ भविस्सदि । अन्यतो दृष्ट्वा । एसा खु णिउणिआ इदो ज्जेव्व आअच्छदि ।
ततः प्रविशति निपुणिका ।
निपुणिका । उवलद्धो क्खु मए भट्टिणो वुत्तन्तो । ता जाव गदुअ भट्टिणीए णिवेदेमि । इति परिक्रामति ।
सुसंगता । हला णिउणिए । कहिं दाणिं तुमं विम्हआखित्तहिअआ विअ इधट्ठिदं मं अवधीरिअ इदो अदिक्कमसि ।
निपुणिका । कधं । सुसंगदा । हला सुसंगदे । सुट्ठु तए जाणिदं । एदं खु मम विम्हअस्स कारणं । अज्ज किल भट्टा सिरिपव्वदादो आअदस्स सिरिखण्डदासणामधेअस्स धम्मिअस्स सआसादो अआलकुसुमसंजणणदोहलं सिक्खिअ अत्तणो परिगहिदं णोमालिअं कुसुमसमिद्धिसोहिदं करिस्सदि त्ति एदं वुत्तन्तं देवीए णिवेदिदुं पेसिद म्हि । तुमं उण कहिं पत्थिदा ।
सुसंगता । पिअसहिं साअरिअं अण्णेसिदुं ।
निपुणिका । दिट्ठा मए साअरिआ गहिदसमुग्गअचित्तफलअवट्टिआ कअलीहरं पविसन्ती । ता गच्छ पिअसहिं । अहं पि देवीसआसं गमिस्सं ।
इति निष्क्रान्ते ।
इति प्रवेशकः ।
ततः प्रविशति गृहीतचित्रफलका मदनावस्थां नाटयन्ती सागरिका ।
सागरिका । हिअअ । पसीद पसीद । किं इमिणा आआसमेत्तफलएण दुल्लहजणपत्थणाणुबन्धेण । अण्णं च । जेण ज्जेव्व दिट्ठमेत्तेण ईदिसो संतावो वट्टदि पुणो वि तं जेव्व पेक्खिदुं अहिलससि त्ति अहो दे मूढदा । अदिणिसंस हिअअ । जम्मदो पहुदि सह संवड्ढिदं इमं जणं परिच्चैअ खणमेत्तदंसणपरिचिदं जणं अणुअच्छन्तो ण लज्जसि । अध वा को तुह दोसो । अणङ्गसरपडणभीदेण तए एव्वं अज्झवसिदं । भोदु । अणङ्गं दाव उवालहिस्सं । सास्रम् । भअवं कुसुमाउह । णिज्जिदसुरासुरो भविअ इत्थीजणं पहरन्तो ण लज्जसि । सव्वधा मम मन्दभाइणीए इमिणा दुण्णिमित्तेण अवस्सं मरणं उवट्ठिदं । फलकम् अवलोक्य । ता जाव ण को वि इध आअच्छदि ताव आलेक्खसमप्पिदं तं अहिमदं जणं पेक्खिअ जधासमीहिदं करिस्सं । सावष्टम्भम् एकमना भूत्वा नाट्येन फलकं गृहीत्वा निःश्वस्
य । जै वि अदिसद्धसेण वेवदि अअं अदिमेत्तं मे अग्गहत्थो तधा वि तस्स जणस्स अण्णो दंसणोवाओ णत्थि त्ति जधा तधा आलिहिअ पेक्खिस्सं । इति नाट्येन लिखति ।
ततः प्रविशति सुसंगता ।
सुसंगता । एदं खु कअलीहरं । ता जाव पविसामि । प्रविश्यावलोक्य च सविस्मयं । किं उण एसा गरुआणुराआखित्तहिअआ आलिहन्ती ण मं पेक्खदि । ता जाव दिट्ठिपधं से परिहरिअ णिरूवैस्सं । स्वैरं पृष्ठतो ऽस्याः स्थित्वा दृष्ट्वा च सहर्षम् । कधं । भट्टा आलिहिदो । साहु साअरिए साहु । अध वा ण कमलाअरं वज्जिअ राअहंसी अण्णस्सिं अहिरमदि ।
सागरिका । सबाष्पम् । आलिहिदो मए एसो । किं उण णिवडन्तबाहसलिला मे दिट्ठी पेक्खिदुं ण पहवदि । ऊर्ध्वम् अश्रूणि संहरन्ती सुसंगतां दृष्ट्वोत्तरीयेण प्रच्छादयन्ती विलोक्य स्मितं कृत्वा । कधं । सुसंगदा । सहि सुसंगदे । इदो उवविस ।
सुसंगता । उपविश्य फलकं दृष्ट्वा च । सहि । को एसो तए आलिहिदो ।
सागरिका । सहि । णं पौत्तमहूसवो भअवं अणङ्गो ।
सुसंगता । सविस्मयं । अहो दे णिउणत्तणं । किं उण सुण्णं विअ चित्तं पडिभादि । ता अहं पि आलिहिअ रदिसणाधं करिस्सं । वर्तिकां गृहीत्वा नाट्येन लिखति ।
सागरिका । विलोक्य सक्रोधम् । सहि । कीस तए अहं एत्थ आलिहिदा ।
सुसंगता । सहि । किं अआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि किं तुह एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तं ।
सागरिका । सलज्जा स्वगतम् । णं जाणिद म्हि पिअसहीए । प्रकाशम् । पिअसहि । महदी खु मे लज्जा । ता तधा करेसु जधा ण अवरो को वि एदं वुत्तन्तं जाणिस्सदि ।
सुसंगता । सहि । मा लज्ज मा लज्ज । ईदिसस्स कण्णआरअनस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं । तधा वि जधा ण को वि अवरो एदं वुत्तन्तं जाणिस्सदि तधा करेमि । एदाए उण मेधाविणीए सारिआए एत्थ कारणेण होदव्वं । कदा वि एसा इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तैस्सदि त्ति ।
सागरिका । सहि । अदो वि मे अधिअदरं संतावो वट्टदि ।
सुसंगता । सागरिकाया हृदये हस्तं दत्त्वा । सहि । समस्सस समस्सस । जाव इमादो दिग्घिआदो णलिणीवत्तआइं मुणालिआओ अ गेण्हिअ लहुं लहुं आअच्छामि । निष्क्रम्य पुनः प्रविष्टा नाट्येन नलिनीपत्त्राणि सागरिकाया हृदये निक्षिपति ।
सागरिका । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलं एदिणा । कीस अआरणे अत्ताणअं आआसेसि । णं भणामि ।
दुल्लहजणाणुराओलज्जा गरुई परव्वसो अप्पा ।
पिअसहि विसमं पेम्मंमरणं सरणं णवरम् एक्कं ॥ 26 ॥ (2.1)
इति मूर्छति ।
नेपथ्ये कलकलः ।
कण्ठे कृत्तावशेषं कनकमयम् अधः शृङ्खलादाम कर्षन्
क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः ।
दत्तातङ्को ऽङ्गनानाम् अनुसृतसरणिः संभ्रमाद् अश्वपालैः
प्रभ्रष्टो ऽयं प्लवङ्गः प्रविशति नृपतेर् मन्दिरं मन्दुरायाः ॥ 27 ॥ (2.2)
अपि च ।नष्टं वर्षवरैर् मनुष्यगणनाभावाद् अपास्य त्रपाम्
अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासाद् अयं वामनः ।
पर्यन्ताश्रयिभिर् निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैर् आत्मेक्षणाशङ्किनः ॥ 28 ॥ (2.3)
सुसंगता । आकर्ण्य ससंभ्रमम् । सहि । उट्ठेहि उट्ठेहि । एसो क्खु दुट्ठवाणरो इदो ज्जेव्व आअच्छदि ।
सागरिका । किं दाणिं करिस्सं ।
सुसंगता । एहि । इमस्सिं तमालविडवन्धआरे पविसिअ एदं अदिवाहेम्ह ।
इति परिक्रम्यैकान्ते पर्यवस्थिते ।
सागरिका । सुसंगदे । कधं । तए चित्तफलओ उज्झिदो । कदा वि को वि तं पेक्खिस्सदि ।
सुसंगता । ऐ सुट्ठिदे । किं अज्ज वि चित्तफलएण करिस्ससि । एसो वि दधिभत्तलम्पडो एदं पञ्जरं उग्घाडिअ दुट्ठवाणरो अदिक्कन्तो । एसा खु मेधाविणी उड्डीणा अण्नदो गच्छदि । ता एहि । लहुं अणुसरम्ह ।
सागरिका । सहि । एव्वं करेम्ह ।
इति परिक्रामतः ।
नेप्थ्ये । ही ही भो । अच्छरीअं अच्छरीअं ।
सागरिका । सभयं विलोक्य । सुसंगदे । जाणीअदि । पुणो वि दुट्ठवाणरो ज्जेव्व आअच्छदि त्ति ।
सुसंगता । दृष्ट्वा विहस्य । ऐ कादरे । मा भाआहि । भट्टिणो परिवासवत्ती खु एसो अज्ज वसन्तओ ।
ततः प्रविशति विदूषकः ।
विदूषकः । ही ही भो । अच्छरीअं अच्छरीअं । साहु रे सिरिकण्डदास धम्मिअ साहु ।
सागरिका सस्पृहम् अवलोकयति ।
सुसंगता । सहि । किं एदिणा दिट्ठेण । दूरीभूदा खु सारिआ । ता अणुसरम्ह ।
इति निष्क्रान्ते ।
विदूषकः । साहु रे सिरिकण्डदास साहु । जेण दिण्णमेत्तेण ज्जेव्व दोहलएण ईदिसी णोमालिआ संवुत्ता जेण णिरन्तरुब्भिण्णकुसुमगुच्छच्छादिदविडवा उवहसन्ती विअ लक्खीअदि देवीपरिगहिदं माहवीलदं । ता जाव गदुअ पिअवअस्सस्स णिवेदेमि । परिक्रम्यावलोक्य च । एसो क्खु पिअवअस्सो तस्स दोहलअस्स लद्धप्पच्चअदाए परोक्खं पि तं णोमालिअं पच्चक्खं विअ कुसुमिदं पेक्खन्तो हरिसुप्फुल्ललोअणो इदो ज्जेव्व आअच्छदि । ता जाव णं उवसप्पामि । इति राजानं प्रति गतः ।
ततः प्रविशति यथानिर्दिष्टो राजा ।
राजा । सहर्षं ।
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरलैर् आतन्वतीम् आत्मनः ।
अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्य् अहम् ॥ 29 ॥ (2.4)
विदूषकः । सहसोपसृत्य । जअदु जअदु पिअवअस्सो । भो वअस्स । दिट्ठिआ वड्ढसि । जेण दिण्णमेत्तेण इति पुणः पठति ।
राजा । कः संदेहः । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तद् आदेशय मार्गं येन वयम् अपि तदालोकनेन चक्षुषः फलम् अनुभवामः ।
विदूषकः । साटोपम् । एदु एदु भवं ।
इत्य् उभौ परिक्रामतः ।
विदूषकः । आकर्ण्य सभयं निवृत्य राजानं हस्ते गृहीत्वा ससंभ्रमम् । भो वअस्स । एहि । पलाअम्ह ।
राजा । किम् अर्थम् ।
विदूषकः । भो । एदस्सिं बौलपाअवे को वि भूदो पडिवसदि ।
राजा । धिङ् मूर्ख । विश्रब्धं गम्यताम् । कुत ईदृशानाम् अत्र संभवः ।
विदूषकः । फुडक्खरं जेव्व मन्तेदि । जै मम वअणं ण पत्तिआअसि ता अग्गदो भविअ सअं जेव्व आअण्णेहि ।
राजा । तथा कृत्वा श्रुत्वा च ।
स्पष्ताक्षरम् इदं तावन् मधुरं स्त्रीस्वभावतः ।
अल्पाङ्गत्वाद् अनिर्ह्रादि मन्ये वदति शारिका ॥ 30 ॥ (2.5)
ऊर्ध्वं निरूप्य स्मितं कृत्वा । शारिकैव ।
विदूषकः । ऊर्ध्वं निरूप्य । कधं । सच्चं जेव्व सारिआ ।
राजा । विहस्य । एवम् ।
विदूषकः । भो वअस्स । तुमं भआलुओ जेण सारिअं भूदं ति मन्तेसि ।
राजा । धिङ् मूर्ख । यद् आत्मना कृतम् तन् मयि संभावयसि ।
विदूषकः । भो । जै एव्वं मा खु मं णिवारेसु । सरोषं दण्डककाष्ठम् उद्यम्य । आ दासीए धीए सारिए । तुमं जणासि । सच्चं जेव्व बम्हणो भआदि त्ति । ता चिट्ठ दाव । इमिणा पिसुणजणहिअअकुडिलेण दण्डअट्ठेण परिपक्कं विअ फलं इमादो बौलपाअवादो तुमं पाडैस्सं । इति हन्तुम् उद्यतः ।
राजा । निवारयन् । किम् अप्य् एषा रमणीयं व्याहरति । तत् किं एनां त्रासयसि । शृणुवस् तावत् ।
इत्य् आकर्णयतः ।
विदूषकः । भो । एसा भणादि । सहि । को एसो तए आलिहिदो । सहि । णं पौत्तमहूसवो भअवं अणङ्गो त्ति । पुणो वि एसा भणादि । सहि । कीस तए अहं एत्थ आलिहिदा । सहि । किं अआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि । किं तुए एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तं ति । भो वअस्स । किं णेदं ।
राजा । वयस्य । एवं तर्कयामि । कयापि हृदयवल्लभो ऽनुरागाद् आलिख्य कामदेवव्यपदेशेन निह्नुतः । तत्सख्यापि प्रत्यभिज्ञाय वैदग्ध्यात् सापि तत्रैव रतिव्यपदेशेनालिखितेति ।
विदूषकः । छोटिकां दत्त्वा । जुज्जदि क्खु एदं ।
राजा । वयस्य । तूष्णीं भव । पुनर् अप्य् एषा व्याहरति ।
विदूषकः । पुनर् आकर्ण्य । भो । एसा भणादि । मा लज्जा मा लज्जा । ईदिसस्स कण्णआरअणस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं ति । भो वअस्स । जा एसा आलिहिदा सा खु कण्णआ दंसणीआ ।
राजा । यद्य् एवम् अवहितौ शृणुवस् तावत् । अस्त्य् अवकाशो ऽस्माकं कौतूहलस्य ।
विदूषकः । पुनर् आकर्ण्य । भो । सुदं तए जं एदाए मन्तिदं । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलं एदिणा । कीस अआरणे अत्ताणअं आआसेसि त्ति ।
राजा । वयस्य । न केवल श्रुतम् अभिप्रायो ऽपि लक्षित एव ।
विदूषकः । भो । मा पण्डिदगव्वं उव्वह । अहं दे सव्वं सुणिअ वक्खाणैस्सं । सुणम्ह दाव । किं कुरुकुराअदि दासीए धीआ सारिआ ।
राजा । युक्तम् अभिहितम् ।
पुनर् आकर्णयतः ।
विदूषकः । भो । एसा दासीए धीआ चदुव्वेदी विअ बम्हणो रिचाइं पढिदुं पौत्ता ।
राजा । वयस्य । किम् अप्य् अन्यचेतसा मया नावधारितम् । तत् कथय । किम् अन्योक्तम् ।
विदूषकः । भो । एदं एदाए पढिदं । दुल्लह इत्यादि पुनः पठति ।
राजा । विहस्य । साधु महाब्राह्मण साधु । को ऽन्य एवंविधं ब्राह्मणं भवन्तं मुक्त्वैवंविधानाम् ऋचाम् अभिज्ञः ।
विदूषकः । किं खु दाणिं एदं ।
राजा । मूर्ख । गाथिकेयम् । कयापि श्लाघ्ययौवनया प्रियतमम् अनासादयन्त्या जीवितनिरपेक्षयोक्तम् ।
विदूषकः । उच्चैर् विहस्य । अहह । किं एदेहिं वक्कभणिदेहिं । उज्जुअं जेव्व किं ण भणासि जधा । मं अणासादअन्तीए त्ति । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि । उच्चैर् विहस्य । अहह ।
राजा । ऊर्ध्वम् अवलोक्य । धिङ् मूर्ख । किम् उच्चैर् विहसता त्ययेयम् उत्त्रासिता येनोड्डीयान्य् अत्र क्वापि गता ।
उभौ निरूपयतः ।
विदूषकः । विलोक्य । भो एसा खु कअलीहर गदा । ता लहुं अणुसरम्ह ।
राजा । एवं भवतु । परिक्रम्य ।
दुर्वारां मदनशरव्यथां वहन्त्या
कामिन्या यद् अभिहितं पुरः सखीनाम् ।
तद् भूयः शिशुशुकशारिकाभिर् उक्तं
धन्यानां श्रवणपथातिथित्वम् एति ॥ 31 ॥ (2.5)
विदूषकः । भो वअस्स । एदं कअलीहरं । जाव पविसम्ह ।
इत्य् उभौ प्रविशतः ।
विदूषकः । किं एदाए दासीए धीआए सारिआए । इध दाव मन्दमारुदुव्वेल्लिदबालकअलीदलसीदले सिलादले उवविसिअ मुहुत्तअं वीसम्ह ।
राजा । यद् अभिरुचितं भवते ।
इत्य् उपविशतः ।
राजा दुर्वारामित्यादि पुनः पठति ।
विदूषकः । पार्श्वतो ऽवलोक्य । एदिणा खु उण उग्घाडिददुवारेण ताए सारिआए पञ्जरेण होदव्वं ।
राजा । वयस्य । निरूप्यताम् ।
विदूषकः । जं भवं आणवेदि । परिक्रम्यावलोक्य च । एसो वि चित्तफलओ । जाव णं गेण्हामि । फलकं गृहीत्वा निरूप्य च सहर्षम् । भो वअस्स । दिट्ठिआ वड्ढसि ।
राजा । सकौतुकम् । वयस्य । किम् एतत् ।
विदूषकः । भो । एदं खु तं जं मए भणिदं । तुमं जेव्व एत्थ आलिहिदो । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि त्ति ।
राजा । सहर्षं हस्तौ प्रसार्य । सखे । उपनय ।
विदूषकः । भो । ण एदं दंसैस्सं । सा वि कण्णआ इध ज्जेव्व आलिहिदा चिट्ठदि । ता किं पारितोसिएण विणा ईदिसं कण्णआरअणं दंसीअदि ।
राजा । कटकं समर्पयन्न् एव बलाद् गृहीत्वा सविस्मयं पश्यति । वयस्य ।
लीलावधूतपद्माकथयन्ती पक्षपातम् अधिकं नः ।
मानसम् उपैति केयञ्चित्रगता राजहंसीव ॥ 32 ॥ (2.8)
अपि च ।विधायापूर्वपूर्णेन्दुम् अस्या मुखम् अभूद् ध्रुवम् ।
धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥ 33 ॥ (2.9)
ततः प्रविशति सागरिका सुसंगता च ।
सुसंगता । सहि । ण समासादिदा सारिआ । चित्तफलअं पि दाव इमादो कअलीहरादो गेण्हिअ लहुं गच्छम्ह ।
सागरिका । सहि । एव्वं करेम्ह ।
इत्य् उपसर्पतः ।
विदूषकः । भो । कीस उण एसा अवणदमुही आलिहिदा ।
सुसंगता । आकर्ण्य । सहि । जधा वसन्तओ मन्तेदि तधा तक्केमि । भट्टिणो वि इध ज्जेव्व होदव्वं ति । ता कअलीगुम्मन्तरिदाओ भविअ पेक्खम्ह ।
इत्य् उभे आकर्णयतः ।
राजा । वयस्य । पश्य पश्य । विधायापूर्वपूर्णेन्दुम् इत्यादि पुनः पठति ।
सुसंगता । सहि । दिट्ठिआ वड्ढसि । एसो दे पिअवल्लहो तुमं जेव्व णिव्वण्णअन्तो चिट्ठदि ।
सागरिका । सहि । किं एत्थ परिहाससीलदाए इमं जणं लहुं करेसि ।
विदूषकः । राजानं चालयित्वा । णं भणामि । कीस एसा अवणदमुही आलिहिद त्ति ।
राजा । वयस्य । ननु शारिकयैव सर्वम् आवेदितम् ।
सुसंगता । दंसिदं खु मेधाविणीए अत्तणो मेधावित्तणं ।
विदूषकः । भो । अवि सुहअदि दे एसा लोअणाइं ण वा ।
सागरिका । ससाध्वसं स्वगतं । किं एसो भणिस्सदि त्ति जं सच्चं मरणजीविदाणं अन्तरे वट्टामि ।
राजा । वयस्य । किम् उच्यते । मुखयतीति । पश्य ।
कृच्छेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्यले
मध्ये ऽस्यास्त्रीवलीतरङ्गविषमे निःष्पन्दताम् आगता
मे दृष्टिस् तृषितेव संप्रति शनैर् आरुह्य तुङ्गौ स्तनौ
साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने ॥ 34 ॥ (2.9)
सुसंगता । सहि । सुदं तए ।
सागरिका । सहि । तुमं जेव्व सुण जाए आलेक्खविण्णाणं वण्णीअदि ।
विदूषकः । भो वअस्स । जस्स उण ईदिसीओ वि पिअसमागमं बहुमण्णन्ति तस्स दे अत्तणो उवरि को परिहवो जेण इमाए ज्जेव्व आलिहिदं अत्ताणअं ण पेक्खसि ।
राजा । निवर्ण्य । वयस्य । अनयालिखितो ऽहम् इति यत् सत्यम् इदानीम् आत्मन्य् एव बहुमानः । तत् कथं न पश्यामि ।
भाति पतितो लिखन्त्यास् तस्या बाष्पाम्बुशीकरकणौघः ।
स्वेदोद्गम इव करतलसंस्पर्शाद् एव मे वपुषि ॥ 35 ॥ (2.10)
सागरिका । आत्मगतम् । हिअअ । समस्सस समस्सस । मणोरधो वि दे एत्तिअं भूमिं ण गदो ।
सुसंगता । सहि । तुमं जेव्व एक्का सलाहणीआ जाए भट्टा एव्वं संतोसीअदि ।
विदूषकः । पार्श्वतो ऽवलोक्य । भो । एदं अवरं सरसकमलिणीदलमुणालविरैदं ताए मअणावत्थासूअअं सअणीअं लक्खीअदि ।
राजा । निपुणं अभिलक्षितम् । तथा हि ।
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर् मध्यस्यान्तः परिमिलनम् अप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः संतापं वदति बिसिनीपत्त्रशयनम् ॥ 36 ॥ (2.11)
अपि चस्थितम् उरसि विशालं पद्मिनीपत्त्रम् एतत्
कथयति न तथान्तर् मन्मथोत्थाम् अवस्थाम् ।
अतिशयपरितापग्लापिताभ्यां यथास्याः
स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ 37 ॥ (2.12)
विदूषकः । नाट्येन मृणालिकां गृहीत्वा । भो । अअं अवरो ताए ज्जेव्व पीणत्थणकिलिस्सन्तकोमलमुणालहारो । ता पेक्खदु भवं ।
राजा । गृहीत्वोरसि विन्यस्य । अयि जडप्रकृते ।
परिच्युतस् तत्कुचकुम्भमध्यात्
किं शोषम् आयासि मृणालहार ।
न सूक्ष्मतन्तोर् अपि तावकस्य
तत्रावकाशो भवतः कथं स्यात् ॥ 38 ॥ (2.13)
सुसंगता । आत्मगतम् । हद्धी हद्धी । गरुआणुराआखित्तहिअओ असंबद्धं भट्टा मन्तिदुं पौत्तो । ता ण जुत्तं अदो अवरं उवेक्खिदुं । भोदु एव्वं दाव । प्रकाशम् । सहि । जस्स कदे तुमं आअदा सो अअं दे पुरदो चिट्ठदि ।
सागरिका । सासूयम् । सुसंगदे । कस्स कदे अहं आअदा ।
सुसंगता । विहस्य । ऐ अण्णसङ्किदे । णं चित्तफलअस्स । ता गेण्ह एदं ।
सागरिका । सरोषम् । सुसंगदे । औसल म्हि तुह ईदिसाणं आलावाणं । ता गमिस्सं । इति गन्तुम् इच्चति ।
सुसंगता । सागरिकां गृहीत्वा । ऐ असहणे । इध दाव मुहुत्तअं चिट्ठ । जाव इमादो कअलीहरादो चित्तफलअं गेण्हिअ आअच्छामि । इति कदलीगृहं प्रविशति ।
विदूषकः । सुसंगतां दृष्ट्वा ससंभ्रमम् । भो वअस्स । पच्छादेहि एदं चित्तफलअं । एसा खु देवीए परिचारिआ सुसंगदा आअदा ।
राजा पटान्तेन फलकं प्रच्छादयति ।
सुसंगता । उपसृत्य । जअदु जअदु भट्टा ।
राजा । सुसंगते । कथम् अहम् इहस्थो भवन्त्या ज्ञातः ।
सुसंगता । भट्टा । ण केवलं तुमं चित्तफलएण समं सव्वो वि वुत्तन्तो मए विण्णादो । ता देवीए गदुअ णिवेदैस्सं । इति गन्तुम् इच्छति ।
विदूषकः । अपवार्य सभयम् । भो । सव्वं संभावीअदि । मुहरा खु एसा गब्भदासी । ता परितोसेहि णं ।
राजा । युक्तम् अभिहितम् । सुसंगतां हस्ते गृहीत्वा । सुसंगते । क्रीडामात्रम् एवैतत् । तथापि नाकारणे त्वया देवी खेदयितव्या । कर्णाभरणं समर्पयति ।
सुसंगता । प्रणम्य सस्मितम् । भट्टा । अलं सङ्काए । मए वि भट्टिणो पसादेण कीलिदं जेव्व । ता किं कण्णाहरणएण । एसो ज्जेव्व मे गरुओ पसादो । जं कीस तए अहं एत्थ चित्तफलए आलिहिद त्ति कुविदा मे पिअसही साअरिआ । ता एसा जेव्व पसादीअदु ।
राजा । ससंभ्रमम् उत्थाय । क्वासौ । क्वासौ ।
सुसंगता । एदु एदु भट्टा ।
सर्व उत्तिष्ठन्ति ।
विदूषकः । भो । अहं गेण्हामि चित्तफलअं । कदा वि इमिणा पुणो वि कज्जं भविस्सदि ।
सर्वे कदलीगृहान् निष्क्रामन्ति ।
सागरिका । राजानं दृष्ट्वा सहर्षं समाध्वसं सकम्पं चात्मानं प्रति । हद्धी हद्धी । एदं पेक्खिअ ण सक्कणोमि पदादो पदं पि गन्तुं । ता किं दाणिं एत्थ करिस्सं ।
विदूषकः । सागरिकां दृष्ट्वा । अच्छरीअं अच्छरीअं । ईदिसं पि णाम कण्णआरअणं माणुसलोए दीसदि । ता तक्केमि । पआवदिणो वि एदं णिम्मिअ विम्हओ समुप्पण्णो त्ति ।
राजा । वयस्य । ममाप्य् एतद् एव मनसि वर्तते ।
दृशः पृथुतरीकृता जितनिजाब्जपत्त्रत्विषश्
चतुर्भिर् अपि साधु साध्व् इति मुखैः समं व्याहृतम् ।
शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसा
विधाय ललनां जगत्त्रयललाम् अभूताम् इमाम् ॥ 39 ॥ (2.14)
सागरिका । सासूयं सुसंगताम् अवलोक्य । सुसंगदे । ईदिसो चित्तफलओ तए आणिदो । इति गन्तुम् इच्चति ।
राजा ।
दृष्टिं रुषा क्षिपसि भामिनि यद्य् अपीमां
स्निग्धेयम् एष्यति तथापि न रूक्षभावम् ।
त्यक्त्वा त्वरां व्रज पदस्खलितैर् अयं ते
खेदं गमिष्यति गुरुर् नितरां नितम्बः ॥ 40 ॥ (2.15)
सुसंगता । भट्टा । अदिकोवणा खु एसा । ता हत्थे गेण्हिअ पसादेहि णं ।
राजा । साननदम् । यथाह भ्वती । सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति ।
विदूषकः । भो । एसा खु तए अपुव्वा सिरी समासादिदा ।
राजा । वयस्य । सत्यम् ।
श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।
कुतो ऽन्यथा पतत्य् एष स्वेदच्छद्मामृतद्रवः ॥ 41 ॥ (2.16)
अयि । प्रसीद । न खलु सखीजने युक्तम् एवंविधं कोपानुबन्धं कर्तुम् ।
सुसंगता । सहि । अदक्खिणा सि दाणिं तुमं जा एव्वं भट्टिणा हत्थे अवलम्बिदा अज्ज वि कोवं ण मुञ्चसि ।
विदूषकः । एसा खु अवरा देवी वासवदत्ता ।
राजा सचकितं सागरिकां मुञ्चति ।
सागरिका । सुसंगदे । किं दाणिं एत्थ करिस्सं ।
सुसंगता । सहि । एदाए तमालवीधिआए अन्तरिदाओ भविअ णिक्कमम्ह ।
इति निष्क्रान्ते ।
राजा । विलोक्य सविस्मयम् । वयस्य । क्वासौ देवी वासवदत्ता ।
विदूषकः । एदं मए भणिदं जधा । एसा खु अवरा देवी वासवदत्ता अदिदीहकोवणदाए संवुत्त त्ति ।
राजा । धिङ् मूर्ख ।
प्राप्ता कथम् अपि दैवात्कण्ठम् अनीतैव सा प्रकटरागा ।
रत्नावलीव कान्तामम हस्ताद् भ्रंषिता भ्वता ॥ 42 ॥ (2.17)
ततः प्रविशति वासवदत्ता काञ्चनमाला च ।
वासवदत्ता । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सा अज्जौत्तपरिगहिदा णोमालिआ ।
काञ्चनमाला । भट्टिणि । एदं कअलीहरं अदिक्कमिअ दीसदि ज्जेव्व । ता एदु भट्टिणी ।
इति परिक्रामतः ।
राजा । वयस्य । क्वेदानीं प्रियतमा द्रष्टव्या ।
काञ्चनमाला । भट्टिणि । जधा समीवे भट्टा मन्तेदि तधा तक्केमि । तुमं जेव्व पडिवालअन्तो चिट्ठदि त्ति । ता उवसप्पदु भट्टिणी ।
वासवदत्ता । उपसृत्य । जअदु जअदु अज्जौत्तो ।
राजा । अपवार्य । वयस्य । प्रच्छादय चित्रफलकम् ।
विदूषको गृहीत्वोत्तरीयेण प्रच्छादयति ।
वासवदत्ता । अज्जौत्त । कुसुमिदा णोमालिआ ।
राजा । देवि । प्रथमम् अप्य् आगतैर् अस्माभिस् त्वं चिरयसीति नैव दृष्टा । तद् एहि । सहिताव् एव पश्याव ।
वासवदत्ता । निवर्ण्य । अज्जुत्तमुहराएण ज्जेव्व मए जाणिदं जधा । कुसुमिदा सा णोमालिअ त्ति । ता ण गमिस्सं ।
विदूषकः । भोदि । जै एव्वं ता जिदं अम्हेहिं । इति बाहू प्रसार्य नृट्यन् कक्षतटात् फलके निपतिते विषादं नाटयति ।
राजापवार्य विदूषकम् अङ्गुल्या तर्जयति ।
विदूषकः । अपवार्य । भो । मा कुप्प । अहं जेव्व एत्थ जाणिस्सं ।
काञ्चनमाला । फलकं गृहीत्वा । पेक्खदु पेक्खदु भट्टिणी । किं एत्थ आलिहिदं ।
वासवदत्ता । निरूप्य । अअं अज्जौत्तो । इअं पि साअरिआ । राजानं प्रति । अज्जुत्त । किं णेदं ।
राजा । सवैलक्ष्यम् अपवार्य । वयस्य । किं ब्रवीमि ।
विदूषकः । भोदि । अप्पा किल दुक्खं आलिहीअदि त्ति मम वअणं सुणिअ पिअवअस्सेण एदं विण्णाणं दंसिदं ।
राजा । यथाह वसन्तकस् तथैवैतत् ।
वासवदत्ता । फलकं निर्दिश्य । अज्जुत्त । एसा वि जा अवरा तुह समीवे दीसदि एदं किं अज्जवसन्तअस्स विण्णाणं ।
राजा । सवैलक्ष्यस्मितम् । देवि । अलम् अन्यथा संभावितेन । इयं हि मया स्वचेतसैव परिकल्प्यालिखिता न तु दृष्टपूर्वा ।
विदूषकः । भोदि । सच्चं । सवामि बम्हत्तणेण जै ईदिसी कदा वि दिट्ठपुव्वा ।
काञ्चनमाला । अपवार्य । भट्टिणि । घुणक्खरं पि कदा वि संवददि ।
वासवदत्ता । अपवार्य । ऐ उज्जुए । वसन्तओ क्खु एसो । ण जाणासि तुमं एदस्स वक्कभणिदं । प्रकाशम् । अज्जौत्त । मम उण एदं चित्तफलअं पेक्खन्तीए सीसवेअणा समुप्पण्णा । ता गमिस्सं ।
राजा । पटान्तेन गृहीत्वा । देवि ।
प्रसीदेति ब्रूयाम् इदम् असति कोपे न घटते
करिष्याम्य् एव नो पुनर् इति भवेद् अभ्युपगमः ।
न मे दोषो ऽस्तीति त्वम् इदम् अपि च ज्ञास्यसि मृषा
किम् एतस्मिन् वक्तुं क्षमम् इति न वेद्मि प्रियतमे ॥ 43 ॥ (2.18)
वासवदत्ता । सविनयं पटान्तम् आकर्षन्ती । अज्जौत्त । मा अण्णधा संभावेहि । सच्चं जेव्व सीसवेअणा समुप्पण्णा । ता गमिस्सं ।
इति निष्क्रान्ते ।
विदूषकः । भो । दिट्ठिआ वड्ढसि । खेमेण अम्हाणं अदिक्कन्ता अआलवादावली ।
राजा । धिङ् मूर्ख । कृतं परितोषेण । आभिजात्या निगूढो न लक्षित्तस् त्वया देव्याः कोपानुबन्धः । तथा हि ।
भृऊभण्गे सहसोद्गते ऽपि वदनं नीतं परां नम्रताम्
ईषन् मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजडिकृतं प्रभुतया चक्षुर् न विस्फरितं
कोपश् च प्रकटीकृतो दयितया मुक्तश् च न प्रश्रयः ॥ 44 ॥ (2.19)
तद् एहि । देवीसकाशम् एव गच्छाव ।
इति निष्क्रान्तौ ।
इति द्वितीयो ऽङ्कः ।
(अच्त् इइइ)
ततः प्रविशति मदनिका ।
मूल पाठ: Ratnāvalīnāṭikā · Edition: Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0