रत्नावलीनाटिका · अध्याय 1
नान्द्यन्ते
सूत्रधारः । अलम् अतिविस्तरेण । अद्याहं वसन्तोत्सवे सबहुमानम् आहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तो यथा । अस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कृता रत्नावली नाम नाटिका कृतेत्य् अस्माभिः श्रोत्रपरम्परया श्रुता न तु प्रयोगतो दृष्टा । तत् तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानाद् अस्मासु चानुग्रहबुद्ध्या यथावत् प्रयोगेण त्वया नाटयितव्येति । तद् यावद् इदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि । परिक्रम्यावलोक्य च । अये । आवर्जितानि सकलसामाजिकानां मनांसीति मे निश्चयः । कुतः ।
श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयं ।
वस्त्व् एकैकम् अपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्
मद्भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥ 5 ॥ (1.5)
तद् यावद् अहं गृहं गत्वा गृहिणीम् आहूय संगीतकम् अनुतिष्ठामि । परिक्रम्य नेपथ्याभिमुखम् अवलोक्य च । इदम् अस्मदीयं गृहम् । यावत् प्रविशामि । उच्चैः । आर्ये । इतस् तावत् ।
प्रविश्य
नटी । अज्जौत्त । इअम्हि । आणवेदु अज्जो । को णिओओ अणुचिट्ठीअदु त्ति ।
सूत्रधारः । आर्ये । रत्नावलीदर्शनोत्सुको ऽयं राजलोकः । तद् गृह्यतां नेपथ्यम् ।
नटी । सोद्वेगम् । अज्ज । णिच्चिन्तो दाणिं सि तुमं । ता कीस ण णच्चसि । मम उण मन्दभाइणीए एक्का ज्जेव्व दुहिदा । सा वि तए कहिं पि देसन्तरे दिण्णा । दूरट्ठिदेण जामादुणा से पाणिग्गहणं कधं भविस्सदि त्ति इमाए चिन्ताए अप्पा वि ण मे पडिभादि । किं उण णच्चिदव्वं ।
सूत्रधारः । आर्ये । दूरस्थितेनेत्य् अलम् उद्वेगेन । पश्य ।
द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जलनिधेर् दिशो ऽप्य् अन्तात् ।
आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखीभूतः ॥ 6 ॥ (1.6)
नेपथ्ये । साधु भरतपुत्र साधु । एवम् एतत् । कः संदेहः । द्वीपाद् अन्यस्माद् इति पुनः पठति ।
सूत्रधारः । आकर्ण्य नेपथ्याभिमुखम् अवलोक्य च । आर्ये । किम् अतः परं विलम्बसे । नन्व् अयं मम कनीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव । तद् एहि । नेपथ्यग्रहणाय सज्जीभवाव । इति निष्क्रान्तौ ।
इति प्रस्तावना ।
ततः प्रविशति यौगन्धरायणः ।
यौगन्धरायणः । एवम् एतत् । कः संदेहः । द्वीपाद् अन्यस्माद् इति पुनः पठति । अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गनिमग्नायाः फलकासादनं क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः संभावनं रत्नमालाचिह्नायाश् चेहानयनम् । सर्वथा स्पृशन्ति नः स्वामिनम् अभ्युदयाः । विचिन्त्य । मयापि चैनां देवीहस्ते सगौरवं निक्षिपता युक्तम् एवानुष्ठितम् । श्रुतं च मया । बाभ्रव्यो ऽपि कञ्चुकी वसुभूतिना सिंहलेश्वरामात्येन सह कथं कथम् अपि समुद्राद् उत्तीर्य कोसलोच्छित्तये गतस्य रुमण्वतो मिलित इति । तद् एवं निष्पन्नप्रायम् अपि प्रयोजनं न मे धृतिम् आवहति । कष्टो ऽयं खलु भृत्यभावः । कुतः ।
प्रारम्भे ऽस्मिन् स्वामिनो वृद्धिहेतौ
दैवेनेत्थं दत्तहस्तावलम्बे ।
सिद्धेर् भ्रान्तिर् नास्ति सत्यं तथापि
स्वेच्छाचारी भीत एवास्मि भर्तुः ॥ 7 ॥ (1.7)
नेपथ्ये कलकलः ।
यौगन्धरायणः । आकर्ण्य । अये । यथायम् अभिहन्यमानमृदुमृदङ्गानुगतसंगीतमधुरः पुरः पौराणाम् उच्चरति चर्चरीध्वनिस् तथा तर्कयामि । मदनमहमहीयांसं पुरजनप्रमोदम् अवलोकयितुं प्रासादाभिमुखं प्रस्थितो देव इति । ऊर्ध्वम् अवलोक्य । अये कथम् । अधिरूढ एव देवः प्रासादं । य एष
विश्रान्तविग्रहकथो रतिमाञ् जनस्य
चित्ते वसन् प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥ 8 ॥ (1.8)
तद् यावद् गृहं गत्वा कार्यशेषं चिन्तयामि । इति निष्क्रान्तः ।
इति विष्कम्भकः ।
ततः प्रविशत्य् आसनस्थो गृहीतवसन्तोत्सववेषो राजा वसन्तकश् च ।
राजा । सादरम् । सखे वसन्तक ।
विदूषकः । आणवेदु भवं ।
राजा ।
राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस् त्वं चेति नाम्ना धृतिं
कामः कामम् उपैत्व् अयं मम पुनर् मन्ये महान् उत्सवः ॥ 9 ॥ (1.9)
विदूषकः । सहर्षम् । भो वअस्स । एव्वं णेदं । अहं उण जाणामि । ण भवदो ण कामदेवस्स मम ज्जेव्व एक्कस्स बम्हणस्स अअं मअणमहूसवो त्ति जेण पिअवअस्सेण तुमं ति मन्तीअदि । विलोक्य । ता किं इमिणा । पेक्ख दाव इमस्स महुमत्तकामिणीजणसअङ्गाहगहिदणच्चन्तणाअरजणजणिदकोदूहलस्स समन्तदो संवुत्तमद्दलुद्दामचच्चरीसद्दमुहररच्छामुहसोहिणो पैण्णपडवासपुञ्जपिञ्जरिज्जन्तदहदिसामुहस्स ससिरीअत्तणं मअणमहूसवस्स ।
राजा । सहर्षं समन्ताद् अवलोक्य । अहो । परां कोटिम् अधिरोहति प्रमोदः पुरः पौरानाम् । तथा हि ।
कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैर्
हेमालङ्कारभाभिर् भरनमितशिखैः शेखरैः कैङ्किरातैः ।
एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा
कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥ 10 ॥ (1.10)
अपि च ।धारायन्त्रविमुक्तसंततपयःपूरप्लुते सर्वतः
सद्यः सान्द्रविमर्दकर्दमकृतक्रीडे क्षणम् प्राङ्गणे ।
उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः
सैन्दूरीक्रियते जनेन चरणन्यासैः पुरः कुट्टिमम् ॥ 11 ॥ (1.11)
विदूषकः । विलोक्य । एदं पि दाव सुविअड्ढजणापूरिदसिङ्गअजलपहारमुक्कसिक्कारमणोहरं वारविलासिणीजणविलसिदं अवलोएदु पिअवअस्सो ।
राजा । विलोक्य । वयस्य । सम्यग् दृष्टं त्वया । कुतः ।
अस्मिन् प्रकीर्णपटवासकृतान्धकारे
दृष्टो मनाङ् मणिविभूषणरश्ंइजालैः ।
पातालम् उद्यतफणाकृतिशृङ्गको ऽयं
माम् अद्य संस्मरयतीव भुजङ्गलोकः ॥ 12 ॥
विदूषकः । विलोक्य । भो वअस्स । पेक्ख पेक्ख । एसा खु मअणिआ मअणसरिसं वसन्ताहिणअं णच्चन्ती चूदलदिआए सह इदो ज्जेव्व आअच्छदि ।
ततः प्रविशतो मदलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेत्यौ ।
मदनिका गायति ।
कुसुमाउहपिअदूअओ मौलाइअबहुचूअओ ।
सिढिलिअमाणग्गहणओ वाऐ दाहिणपवणओ ॥ 13 ॥
विरहविवड्ढिअसोअओ कङ्खिअपिअअणमेलओ ।
पडिवालणअसमत्थओ तम्मै जुवईसत्थओ ॥ 14 ॥
इह पढमं महुमासो जणस्स हिअआइ कुणै मौआइं ।
पच्छा विज्झै कामो लद्धप्पसरेहि कुसुमबाणेहिं ॥ 15 ॥
राजा । निर्वर्ण्य । अहो मधुरो ऽयम् आसां निर्भरः क्रीडारसः ।
स्रस्तः स्रग्दामशोभां त्यजति विरचिताम् आकुलः केशपाशः
क्षीबाया नूपुरौ च द्विगुणतरम् इमौ क्रन्दतः पादलग्नौ ।
व्यस्तः कम्पानुबन्धाद् अनवरतम् उरो हन्ति हारो ऽयम् अस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥ 16 ॥
विदूषकः । भो वअस्स । अहं पि एदाणं बद्धपरिअराणं मज्झे णच्चन्तो मअणमहूसवं माणैस्सं ।
राजा । वयस्य । एवं क्रियताम् ।
विदूषकः । जं भवं आणवेदि । इत्य् उत्थाय चेट्योर् मध्ये नृत्यति । भोदि मअणिए । मम वि एदं चच्चरिं सिक्खावेहि ।
मदनिका । अए हदास । ण एसा चच्चरी ।
विदूषकः । भोदि । किं खु एदं ।
मदनिका । हदास । दुवदीखण्डं क्खु एदं ।
विदूषकः । सहर्षम् । किं एदिणा खण्डेण मोदआ करीअन्ति ।
मदनिका । विहस्य । ण हि ण हि । पढीअदि क्खु एदं ।
विदूषकः । सविषादम् । जै पढीअदि ता अलं एदिणा । वरं पिअवअस्सस्स ज्जेव्व सआसं गमिस्सं । इति गन्तुम् उद्यतः ।
उभे । हस्ते गृहीत्वा । हदास । कहिं गच्छसि । इध ज्जेव्व कीलम्ह । इति उभे विदूषकं बहुविधम् आकर्षतः ।
विदूषकः । हस्तम् आकृष्य प्रपलाय्य राजानम् उपसृत्य । वअस्स । णच्चिदो म्हि ।
राजा । साधु कृतम् ।
चूतलतिका । हला मअणिए । चिरं खु अम्हेहिं कीलिदं । ता एहि । णिवेदेम्ह दाव भट्टिणीए संदेसं महाराअस्स ।
मदनिका । एहि । तुवरम्ह । परिक्रम्योपसृत्य च ।
उभे । जअदु जअदु भट्टा । देवी आणवेदि । इत्य् अर्धोक्ते लज्जां नाटयन्त्यौ । ण हि ण हि । विण्णवेदि ।
राजा । सहर्षं विहस्य सादरम् । मदनिके । नन्व् आज्ञापयतीत्य् एव रमणीयं विशेशतो ऽद्य मदनमहोत्सवे । तद् उच्यताम् । किम् आज्ञापयति देवीति ।
विदूषकः । आ दासीए धीए । किं देवी आणवेदि ।
चेत्यौ । एव्वं भट्टिणी विण्णवेदि जधा । अज्ज मए मअरन्दुज्जाणं गदुअ रत्तासोअसंठिदस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तिदव्वा । तत्थ अज्जौत्तेण संणिहिदेण होदव्वं ति ।
राजा । वयस्य । किं व्यक्तव्यम् । उत्सवाद् उत्सवान्तरम् आपतितम् ।
विदूषकः । ता उट्ठेहि । तहिं जेव्व गच्छम्ह जेण तहिं गदस्स मम वि बम्हणस्स सोत्थिवाअणं किं पि भविस्सदि ।
राजा । मदनिके । गम्यतां देव्यै निवेदयितुं । अयम् अहम् आगत एव मकरन्दोद्यानम् इति ।
चेट्यौ । जं भट्टा आणवेदि । इति निष्क्रान्ते ।
राजा । वयस्य । एहि । अवतराव ।
इत्य् उत्थाय प्रासादावतरणं नाटयतः ।
राजा । वयस्य । आदेशय मकरन्दोद्यानस्य मार्गम् ।
विदूषकः । एदु एदु भवं ।
इति परिक्रामतः ।
विदूषकः । अग्रतो ऽवलोक्य । भो । एदं मअरन्दुज्जाणं । ता एहि । पविसम्ह ।
इति प्रविशतः ।
विदूषकः । सविस्मयम् । भो महाराअ । पेक्ख पेक्ख । एदं तं मलअमारुदन्दोलिदमौलन्तसहआरमञ्जरीरेणुपडलपडिबद्धपडविदाणं मत्तमहुअरणिअरमुक्कझङ्कारमिलिदमहुरदरकोइलालावसंगीदसुहावहं तुह आगमणदंसिदाअरं विअ मअरन्दुज्जाणं लक्खीअदि । ता अवलोएदु पिअवअस्सो ।
राजा । समन्ताद् अवलोक्य । अहो रम्यता मकरन्दोद्यानस्य । इह हि
उद्यद्विद्रुमकान्तिभिः किसलयैस् ताम्रां त्विषं बिभ्रतो
भृङ्गालीविरुतैः कलैर् अविशदव्याहारलीलाभृतः ।
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर् मुहुर्
भ्रान्तिं प्राप्य मधुप्रसङ्गम् अधुना मत्ता इवामी द्रुमाः ॥ 17 ॥ (1.17)
अपि च ।मूले गण्डूषसेकासव इव बकुलैर् वम्यते पुष्पवृष्त्या
मध्वाताम्रे तरुण्या मुखशशिनि चिराच् चम्पकान्य् अद्य भान्ति ।
आकर्ण्याशोकपादाहतिषु च रणतां निर्भरं नूपुराणां
झङ्कारस्यानुगीतैर् अनुकरणम् इवारभ्यते भृङ्गसार्थैः ॥ 18 ॥ (1.18)
विदूषकः । आकर्ण्य । भो वअस्स । ण एदे महुअरा णेउरसद्दं अणुहरन्ति । णेउरसद्दो ज्जेव्व एसो देवीए परिअणस्स ।
राजा । वयस्य । सम्यग् अवधारितम् ।
ततः प्रविशति वासवदत्ता काञ्चनमाला सागरिका विभवतश् च परीवाराः ।
वासवदत्ता । हञ्जे कञ्चनमाले । आदेसेहि मअरन्दुज्जाणमग्गं ।
काञ्चनमाला । एदु एदु भट्टिणी ।
वासवदत्ता । परिक्रम्य । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सो रत्तासोअपाअवो जहिं मए भअवदो मअणस्स पूआ णिव्वत्तिदव्वा ।
काञ्चनमाला । भट्टिणि । आसण्णो ज्जेव्व । किं ण पेक्खदि भट्टिणी । इअं खु णिरन्तरुब्भिण्णकुसुमसोहिणी भट्टिणीए परिगहिदा माहवीलदा । एसा खु अवरा णोमालिआलदा जाए अआलकुसुमसमुग्गमसद्धालुएण भट्टिणा अप्पा आआसीअदि । ता एदं अदिक्कमिअ दीसदि ज्जेव्व सो रत्तासोअपाअवो जहिं देवी पूअं णिव्वत्तैस्सदि ।
वासवदत्ता । ता एहि । तहिं गच्छम्ह ।
काञ्चनमाला । एदु एदु भट्टिणी ।
सर्वाः परिक्रामन्ति ।
वासवदत्ता । अअं सो रत्तासोअपाअवो जहिं पूअं निव्वत्तैस्सं । तेण हि मे पूआणिमित्ताइं उवअरणाइं उवणेहि ।
सागरिका । उपसृत्य । भट्टिणि । एदं सव्वं सज्जं ।
वासवदत्ता । निरूप्यात्मगतम् । अहो पमादो परिअणस्स । जस्स दंसणपधादो रक्खीअदि तस्स ज्जेव्व दिट्ठिगोअरं पडिदा भवे । भोदु एव्वं दाव । प्रकाशम् । हञ्जे साअरिए । कीस तुमं अज्ज मअणमहूसवपराहीणे परिअणे सारिअं उज्झिअ इध आअदा । ता तहिं जेव्व लहुं गच्छ । एदं पि सव्वं पूओवअरणं कञ्चणमालाए हत्थे समप्पेहि ।
सागरिका । जं भट्टिणी आणवेदि । तथा कृत्वा कति चित् पदानि गत्वात्मगतम् । सारिआ मए सुसंगदाए हत्थे समप्पिदा । एव्वं पि अत्थि मे कोदूहलं पेक्खिदुं । किं जधा तादस्स अन्तेउरे भअवं अणङ्गो अच्चीअदि इध वि तधा जेव्व किं वा अण्णध त्ति । ता अलक्खिदा भविअ पेक्खिस्सं । परिक्रम्यावलोक्य च । जाव इध पूआसमओ भोदि ताव अहं पि भअवन्तं मअणं जेव्व पूइदुं कुसुमाइं अवचिणिस्सं । इति कुसुमावचयं नाटयति ।
वासवदत्ता । कञ्चणमाले । पडिट्ठावेहि भअवन्तं पज्जुण्णं ।
काञ्चनमाला । जं भट्टिणी आणवेदि । इति तथा करोति ।
विदूषकः । परिक्रम्यावलोक्य च । भो वअस्स । जधा वीसन्तो णेउरसद्दो तधा तक्केमि । आअदा देवी असोअमूलं ति ।
राजा । वयस्य । सम्यग् अवधारितम् । पश्य । एषा
कुसुमसुकुमारमूर्तिर् दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्तिर् इव ॥ 19 ॥
तद् एहि । उपसर्पाव । उपसृत्य । प्रिये वासवदत्ते ।
वासवदत्ता । विलोक्य । कधं । अज्जौत्तो । जअदु जअदु अज्जौत्तो । अलङ्करेदु इमं देसं आसणपडिग्गहेण । एदं आसणं । एत्थ उवविसदु अज्जौत्तो ।
राजा नाट्येनोपविशति ।
काञ्चनमाला । भट्टिणि । सहत्थदिण्णकुसुमकुङ्कुमचन्दणथासएहिं सोहिदं कदुअ रत्तासोअपाअवं अच्चीअदु भअवं पज्जुण्णो ।
वासवदत्ता । तेण उवणेहि मे पूओवअरणाइं ।
काञ्चनमालोपनयति ।
वासवदत्ता तथा करोति ।
राजा । प्रिये वासवदत्ते ।
प्रत्यग्रमज्जनविशेषविविक्तकान्तिः
कौसुम्भरागरुचिरस्फुरदंशुकान्ता ।
विभ्राजसे मकरकेतनम् अर्चयन्ती
बालप्रवालविटपिप्रभवा लतेव ॥ 20 ॥ (1.20)
अपि च ।स्पृष्टस् त्वयैष दयितेस्मरपूजाव्यापृतेन हस्तेन ।
उद्भिन्नापरमृदुतर-किसलय इव लक्ष्यते ऽशोकः ॥ 21 ॥ (1.21)
अपि च । अनङ्गो ऽयम् अनङ्गत्वम् अद्य निन्दिष्यति ध्रुवम् ।
यद् अनेन न संप्राप्तः पाणिस्पर्शोत्सवस् तव ॥ 22 ॥ (1.22)
काञ्चनमाला । भट्टिणि । अच्चिदो भअवं पज्जुण्णो । ता करेहि भट्टिणो पूआसक्कारं ।
वासवदत्ता । तेण हि उवणेहि मे कुसुमाइं विलेवणं च ।
काञ्चनमाला । भट्टिणि । एदं सव्वं सज्जं ।
वासवदत्ता नाट्येन राजानं पूजयति ।
सागरिका गृहीतकुसुमा । हद्धी हद्धी । कधं । कुसुमलोहाक्खित्तहिअआए अदिचिरं मए कदं । ता इमिणा सिन्दुवारविडवेन वारिदा भविअ पेक्खामि । विलोक्य । कधं । पच्चक्खो ज्जेव्व भअवं कुसुमाउहो पूअं पडिच्छदि । ता अहं पि इमेहिं कुसुमेहिं इधट्ठिदा जेव्व भअवन्तं कुसुमाउहं पूऐस्सं । इति कुसुमानि प्रक्षिपति । णमो दे भअवं कुसुमाउह । अमोहदंसणो मे भविस्ससि । दिट्ठं जं दट्ठव्वं । इति प्रणमति । अच्छरीअं । दिट्ठो वि पुणो पेक्खिदव्वो । ता जाव ण को वि पेक्खदि ताव ज्जेव्व गमिस्सं । इति निष्क्रामति ।
काञ्चनमाला । अज्ज वसन्तअ । एहि । संपदं तुमं सोत्थिवाअणं पडिच्छ ।
विदूषक उपसर्पति ।
वासवदत्ता । विलेपनकुसुमाभरणदानपूर्वकम् । अज्ज वसन्तअ । एदं सोत्थिवाअणं । इत्य् अर्पयति ।
विदूषकः । सहर्षं गृहीत्वा । सोत्थि भोदीए ।
नेपथ्ये वैतालिकः पठति ।
अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवाव्
आस्थानीं समये समं नृपजनः सायन्तने संपतन् ।
संप्रत्य् एव सरोरुहद्युतिम् उषः पादांस् तवासेवितुं
प्रीत्युत्कर्षकृतो दृशाम् उदयनस्येन्दोर् इवोद्वीक्षते ॥ 23 ॥
सागरिका । परिवृत्य राजानम् अवलोक्य सस्पृहम् । कधं । अअं सो राआ उदअणो जस्स अहं तादेण दिण्णा । ता परपेसणकरिसिदं मे सरीरं एदस्स दंसणेण बहुमदं सम्वुत्तं ।
राजा । कथम् । उत्सवापहृतचेतोभिः संध्यातिक्रमो ऽप्य् अस्माभिर् नोपलक्षितः । देवि । पश्य ।
उदयतटान्तरितम् इयंप्राची सूचयति दिङ् निशानाथम् ।
परिपाण्डुना मुखेनप्रियम् इव हृदयस्थितं रमणी ॥ 24 ॥
देवि । तद् उत्तिष्ठ । आवासाभ्यन्तरं प्रविशाव ।
सर्व उत्थाय परिक्रामन्ति ।
सागरिका । कधं । पत्थिदा देवी । भोदु । तुरिदं गमिस्सं । राजानं सस्पृहं दृष्ट्वा निःश्वस्य च । हद्धी हद्धी । मन्दभाइनीए मए पेक्खिदुं पि चिरं ण पारिदो अअं जणो । इति निष्क्रान्ता ।
राजा । परिक्रामन् ।
देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा
पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ।
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना
लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव ॥ 25 ॥
इति निष्क्रान्ताः सर्वे ।
इति प्रथमो ऽङ्कः ।
(अच्त् इइ)
ततः प्रविशति शारिकापञ्जरव्यग्रहस्ता सुसंगता ।
मूल पाठ: Ratnāvalīnāṭikā · Edition: Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0