भाषा

ENहिગુ
ग्रंथ पाठ

रत्नावली · अध्याय 2

2.1

2
कदली पाटिता यद्वन्निःशेषावयवैः सह ।
न किंचित्पुरुषस्तद्वत्पाटितः सह धातुभिः

2.2

सर्वधर्मा अनात्मान इत्यतो भाषितं जिनैः ।
धातुषट्कं च तैः सर्वं निर्णितं तच्च नार्थतः

2.3

नैवमात्मा न चानात्मा याथाभूत्येन लभ्यते ।
आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः

2.4

दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम् ।
पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः

2.5

इति सत्यानृतातीतो लोको ऽयं परमार्थतः ।
अस्मादेव च तत्त्वेन नोपैत्यस्ति च नास्ति च

2.6

यच्चैवं सर्वथा नेति सर्वज्ञस्तत्कथं वदेत् ।
सान्तमित्यथवानन्तं द्वयं वाद्वयमेव वा

2.7

असंख्येया गता बुद्धास्तथैष्यन्त्यथ सांप्रताः ।
कोट्यग्रशश्च सत्त्वान्तस्तेभ्यस्त्रैकाल्यजो मतः

2.8

वृद्धिहेतुर्न लोकस्य क्षयस्त्रिकाल्यसंभवः ।
सर्वज्ञेन कथं तस्य पूर्वान्तो ऽव्याकृतः कृतः

2.9

एतत्तु धर्मगाम्भीय यत्तद्गुह्यं पृथग्जने ।
मायोपमत्वं लोकस्य बुद्धानां शासनामृतम्

2.10

मायागजस्य दृश्येत यथा जन्मान्त एव च ।
न च कश्चित्स तत्त्वेन जन्मान्तश्चैव विद्यते

2.11

मायोपमस्य लोकस्य तथा जन्मान्त एव च ।
दृश्यते परमार्थेन न च जन्मान्त एव च

2.12

यथा मायागजो नैति कुतश्चिद्याति न क्वचित् ।
चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति

2.13

तथा मायोपमो लोको नैति याति न कुत्रचित् ।
चित्तमोहनमात्रत्वाभ्दावत्वेन न तिष्ठति

2.14

त्रकाल्यव्यतिवृत्तात्मा लोक एवं नु को ऽर्थतः ।
यो ऽस्ति नास्त्यथवापि स्यादन्यत्र व्यवहारतः

2.15

चतुष्प्रकारमित्यस्मात् शान्तो ऽनन्तो द्वयो ऽद्वयः ।
बुद्धेन हेतोर्नान्यस्मादयमव्याकृतः कृतः

2.16

शरीराशुचिता तावत् स्थूला प्रत्यक्षगोचरा ।
सततं दृश्यमानापि यदा चित्त न तिष्ठति

2.17

तदातिसूक्ष्मो गम्भीरः सद्धर्मो ऽयमनालयः ।
अप्रत्यक्षः कथं चित्ते सुखेनावतरिष्यति

2.18

संबुध्यास्मान्निवृत्तो ऽभूद्धर्मं देशयितुं मुनिः ।
दुर्ज्ञानमतिगाम्भीर्याद् ज्ञात्वा धर्ममिमं जनैः

2.19

विनाशयति दुर्ज्ञातो धर्मो ऽयमविपश्चितम् ।
नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति

2.20

अपरो ऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः ।
प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः

2.21

दुर्भुक्तेन यथान्नेन विनाशमधिगच्छति ।
सुभुक्तेनायुरारोग्यं बलं सौख्यानि चाश्नुते

2.22

दुर्ज्ञातेन तथानेन विनाशमधिगच्छति ।
सम्यग्ज्ञातेनात्र सुइखं बोधिं चाप्नोत्यनुत्तराम्

2.23

तस्मादत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीम् ।
सम्यग्ज्ञानपरं यत्नं कुरु सर्वार्थसिद्धये

2.24

धर्मस्यास्यापरिज्ञानादहंकारो ऽनुवर्तते ।
ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम्

2.25

तस्माद्यावदविज्ञातो धर्मो ऽहंकारशातनः ।
दानशीलक्षमाधर्मे तावदादरवान् भव

2.26

धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव ।
साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति

2.27

धर्मात्कीर्तिः सुखं चैव नेह भीर्न मुमूर्षतः ।
परलोकसुखं स्फीतं तस्माद्धर्म सदा भज

2.28

धर्म एव परा नीतिर्धर्माल्लोको ऽनुरज्यते ।
रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते

2.29

अधर्मेण तु या नीतिस्तया लोको ऽपरज्यते ।
लोकोपरञ्जनाच्चैव नेह नामुत्र नन्दति

2.30

परातिसंधानपरा कष्टा दुर्गतिपद्धतिः ।
अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथं कृता

2.31

परातिसंधानपरो नीतिमान् कथमर्थतः ।
येन जन्मसहस्राणि बहून्यात्मैव वञ्च्यते

2.32

रिपोरप्रियमन्विच्छन् दोषांस्त्यक्त्वा गुणान् श्रय ।
स्वहितावाप्तिरेवम् तु रिपोश्चाप्यप्रियं भवेत्

2.33

दानेन प्रियवद्येन हितेनैकार्थचर्यया ।
एभिराचर लोकस्य धर्मस्यैव च संग्रहम्

2.34

विश्वासं जनयत्येकं सत्यं राज्ञां यथा दृढम् ।
तथैवाभूतमप्येषामविश्वासकरं परम्

2.35

नाविसंवादवत्सत्यं [सत्त्वे] उद्गतमर्थतः ।
परैकान्तहितं सत्यमहितत्वान्मृषेतरत्

2.36

दोषान् प्रच्छादयत्येकस्त्यागो राज्ञां यथोज्ज्वलः ।
तथा कार्पण्यमप्येषां गुणसर्वस्वघातकम्

2.37

उपशान्तस्य गाम्भीर्यं गाम्भीर्याद्गौरवं परम् ।
गौरवाद्दीप्तिराज्ञा च तस्मादुपशमं भज

2.38

अहार्यबुद्धिः प्राज्ञत्वादपरप्रत्ययः स्थिरः ।
नातिसंधीयते राजा तस्मात्प्रज्ञापरो भव

2.39

सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिपः ।
धर्मश्चतुर्भद्र इव स्तूयते देवमानुषैः

2.40

निगृह्यवादिभिः सुद्धैः प्रज्ञाकारुण्यनिर्मलैः ।
सहासीनस्य सततं प्रज्ञा धर्मश्च वर्धते

2.41

दुर्लभाः पथ्यवक्तारः श्रोतारस्त्वतिदुर्लभाः ।
तेभ्यो ऽतिदुर्लभतमा ये पथ्यस्याशुकारिणः

2.42

पथ्यमप्यप्रियं तस्माज्ञात्वा शीघ्रं समाचर ।
पिबेदौषधमप्युग्रमारोग्यायात्मवानिव

2.43

जीवितारोग्यराज्यानां चिन्तयानित्यतां सदा ।
ततः संवेगवान् धर्ममेकान्तेन प्रयास्यसे

2.44

अवश्यं मरणं पश्यन् पापद्दुःखं मृतस्य च ।
एहिकेन सुखेनापि न पापं क्षातुमर्हसि

2.45

कस्मिंश्चेदभ्यं दृष्टं भयं दृष्टं क्वचित्क्षणे ।
यद्येकस्मिन् समाश्वासः किमेकस्मिन्न ते भयम्

2.46

मद्यात्परिभवो लोके कार्यहानिर्धनक्षयः ।
आकार्यकरणं मोहात्[मद्यं त्यज ततः सदा]

मूल पाठ: Ratnāvalī · Edition: P.L. Vaidya: Madhyamaka shastra, · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc