भाषा

ENहिગુ
ग्रंथ पाठ

रत्नावली · अध्याय 4

4.1

...
(सन्स्क्रित् तेxत् ओf 2.47-95 अन्द् 3 लोस्त्!)
4
अधर्ममन्वाय्यमपि प्रायो राजानुजीविभिः ।
आचरन् स्तूयते तस्मात् कृच्छ्राद्वेत्ति क्षमाक्षमम्

4.2

अन्यो ऽपि तावद्यः कश्चिद्दुर्वचः क्षममप्रियम् ।
किमु राजा महाभौमस्त्वं मया भिक्षुणा सता

4.3

त्वत्कृतादेव तु स्नेहाज्जगतामनुकम्पया ।
अहमेको वदामि त्वां पथ्यमप्यप्रियं भृशम्

4.4

सत्यं श्लक्ष्णार्थवत्पथ्यं शिष्यः काले ऽनुकम्पया ।
वाच्य इत्याह भगवांस्तदेवमभिधीयसे

4.5

अक्रोधे सत्यवाक्ये च श्लाध्यमानो यदि स्थितः ।
श्रव्यं संपरिगृण्हीयात् सत्तोयं स्नाप्यमानवत्

4.6

तस्य मे वदतो वाक्यं त्वमिहामुत्र च क्षमम् ।
ज्ञात्वा कुरु हितायेदमात्मनो जगतो ऽपि च

4.7

याचकेभ्यः पुरा दानात् प्राप्यार्थांश्चेन्न दास्यसि ।
अकृतज्ञत्वलोभाभ्यां नार्थान् पुनरवाप्स्यसि

4.8

इह पथ्यदनं लोके न वहत्यभृतो भृतः ।
याचकस्त्वभृतो ऽमुत्र हीनः शतगुणोद्वहः

4.9

उदारचित्तः सततं भवोदारक्रियारतः ।
उदारकर्मणः सर्वमुदारं जायते फलम्

4.10

मनोरथैरपि क्लीबैरनालीढं नराधिपैः ।
कुरु धर्मास्पदं श्रीमत्ख्यातं रत्नत्रयास्पदम्

4.11

सामन्तराजरोमाञ्चकरं धर्मास्पदं न यत् ।
मृतस्याप्यप्रशस्यत्वाद् राजंस्तदकृतं वरम्

4.12

अत्यौदार्यादुदाराणां विस्मयोत्साहवर्धनम् ।
उत्साहन्घं च मन्दानां सर्वस्वेनापि कारय

4.13

उत्सृज्यामुत्र गन्तव्यं सर्वस्वमवशेन ते ।
धर्मे नियुक्तं यात्येव पुरस्तात्सर्वमेव तत्

4.14

सर्वस्वं पूर्वनृपतेर्नृपस्य वशमागतम् ।
किं पूर्वकस्य धर्माय सुखाय यशसे ऽपि वा

4.15

भुक्तादर्थादिह सुखं दत्तात्पारत्रिकं सुखम् ।
अभुक्तादत्तनष्टत्वाद्दुःखमेव कुतः सुखम्

4.16

विनश्यन् सचिवैर्दातुमस्वातन्त्र्यान्न शक्यसि ।
आपतिच्छेदनिःस्नेहैर्नवराजप्रियैषिभिः

4.17

सर्वस्वेनाप्यतः स्वस्थः शीघ्रं धर्मास्पदं कुरु ।
मृत्युप्रत्ययमध्यस्थः प्रवातस्थप्रदीपवत्

4.18

धर्माधिकारा ये चान्ये पूर्वराजप्रवर्विताः ।
देवद्रोण्यादयस्ते ऽपि प्रवर्त्यन्तां यथास्थिताः

4.19

अहिंसकैः शुभाचारैर्व्रतस्थैरतिथिप्रियैः ।
सर्वक्षमैरकलहैर्भज्येरंस्तैः सदो(द्य)तैः

4.20

अन्धव्याधितहीनाङ्गदीनानाथवनीपकाः ।
ते ऽप्यन्नपानं साम्येन लभेरन्नविघट्टिताः

4.21

अनर्थानामपि सतां धार्मिकाणामनुग्रहान् ।
अप्यन्यराज्यसंस्थानामनुरूपान् प्रवर्तय

4.22

सर्वधर्माधिकारेषु धर्माधिकृतमुत्थितम् ।
अलुब्धं पण्डितं धर्म्यं कुरु तेसामबाधकम्

4.23

नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तानकातरान् ।
कुलीनान् शीलसंपन्नान् कृतज्ञान् सचिवान् कुरु

4.24

अक्षुद्रांस्त्यागिनः शूरान् स्निग्धान् संभोगिनः स्थिरान् ।
कुरु नित्याप्रमत्तांश्च धार्मिकान् दण्डनायकान्

4.25

धर्मशीलान् शूचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान् ।
कृतवृत्तीन् समान् स्निग्धान् वृद्धानधिकृतान् कुरु

4.26

प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं शृणु ।
श्रुत्वा धर्माधिकाराद्यं कार्यं सर्वं स्वयं वद

4.27

धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः ।
ततः सफलमत्यर्थमनर्थार्थमतो ऽन्यथा

4.28

परस्परामिषीभूते लोको ऽस्मिन् प्रायशो नृप ।
यथा राज्यं च धर्मश्च भवेत्तव तथा शृणु

4.29

ज्ञानवृद्धाः कुले जाता न्यायज्ञाः पापभीरवः ।
समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः

4.30

दण्डबन्धप्रहारदीन् कुर्युस्ते न्यायतो ऽपि चेत् ।
कारुण्यार्द्रः सदा भूत्वा त्वमनुग्रहवान् भव

4.31

हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् ।
कारुण्यात्सततं राजंस्तीव्रपापकृतामपि

4.32

तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषतः ।
त एव हि कृपास्थानं हतात्मानो महात्मनाम्

4.33

प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय ।
शेषानपि यथायोगं मा कांश्चित् नैव मोचय

4.34

येष्वमोक्षणचित्तं ते जायते तेष्वसंवरः ।
तस्मादसंवरात् पापमजस्रमुपचीयते

4.35

यावच्च न विमुच्येरंस्तावत्स्युः सुखबन्धनाः ।
नापितस्नानपानान्नभैषज्यवसनान्विताः

4.36

अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया ।
कारुण्या[त्ताडनं कार्यं न द्वेषान्]नार्थलिप्सया

4.37

विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि ।
अहत्वा पीडयित्वा च कुरु निर्विषयान् नरान्

4.38

स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा ।
नित्याप्रमत्तः स्मृतिमान् कुरु कार्यं च धार्मिकम्

4.39

प्रदानमानसत्कारैर्गुणस्थान् सततं भज ।
उदारैरनुरूपैस्तु शेषानपि यथाविधि

4.40

संमानस्फीतकुसुमः संप्रदानमहाफलः ।
राजवृक्षः क्षमाच्छायः सेव्यते भृत्यपक्षिभिः

4.41

त्यागशीलमयो राजा तेजस्वी भवति प्रियः ।
शर्करामोदको यद्वदेलामरिचकर्कशः

4.42

मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भविष्यति ।
न चान्यायो न वाधर्मो धर्मश्चैवं भविष्यति

4.43

परलोकात्त्वया राज्यं नानीतं नापि नेष्यसि ।
धर्मात् प्राप्तमतो ऽस्यार्थे नाधर्मं कर्तुमर्हसि

4.44

राज्येन भाण्डमूल्येन दुःखभाण्डपरंपराम् ।
राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा

4.45

राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम् ।
राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा

4.46

चतुर्द्वीपमपि प्राप्य पृथिवीं चक्रवर्तिनः ।
शारीरं मानसं चैव सुखद्वयमिदं मतम्

4.47

दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखम् ।
संज्ञामयं मानसं तु केवलं कल्पनाकृतम्

4.48

दुःखप्रतिक्रियामात्रं कल्पनामात्रमेव च ।
लोकस्य सुखसर्वस्वं व्यर्थमेतदतो ऽर्थतः

4.49

द्वीपदेशपुरावासप्रदेशस्थानवाससाम् ।
शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता

4.50

यदा च यत्र चित्तं स्यात् तदानेन सुखं किल ।
शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थतः

4.51

विषयान् पञ्चभिः पञ्च चक्षुरादिभिरिन्द्रियैः ।
न कल्पयति चेद्गण्हन् नास्मात्तेषु तदा सुखम्

4.52

जानीते विषयं यं यं येन येनेन्द्रियेण च ।
तदा न शेषैः शेषाणि व्यर्थान्येव यतस्तदा

4.53

इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मनः ।
उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखम्

4.54

एकमर्थं विजानाति यद्यप्येकमिहेन्द्रियम् ।
तदप्यर्थं विना व्यर्थं व्यर्थो ऽर्थो ऽपि च तद्विना

4.55

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः

4.56

अतीतानागता व्यर्था विषयाः सार्धमिन्द्रियैः ।
तदुद्वयानतिरिक्तत्वाद् व्यर्था ये ऽपि च सांप्रताः

4.57

अलातचक्रं गृण्हाति यथा चक्षुर्विपर्ययात् ।
तथेन्द्रियाणि गृण्हन्ति विषयान् सांप्रतानिव

4.58

इन्द्रियाणिन्द्रियाएर्थाश्च पञ्चभूतमया मताः ।
प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः

4.59

निरिन्धनो ऽग्निर्भूतानां विनिर्भागे प्रसज्यते ।
संपर्के लक्षणाभावः शेषेष्वप्येष निर्णयः

4.60

एवं द्विधापि भूतानां व्यर्थत्वात्संगतिर्वृथा ।
व्यर्थत्वात्संगतेश्चैवं रूपं व्यर्थमतो ऽर्थतः

4.61

विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः ।
प्रत्येकमात्मवैयर्थ्यद्वैयर्थ्यं परमार्थतः

4.62

सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः ।
तथा सुखाभिमानो ऽपि सुखस्य प्रतिघातजः

4.63

सुखे संयोगतृष्णैवं नैःस्वाभाव्यात्प्रहीयते ।
दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः

4.64

कः पश्यतीति चेच्चित्तं व्यहारेण कथ्यते ।
न हि चैत्तं विना चित्तं व्यर्थत्वान्न सहेष्यते

4.65

व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पदः ।
निर्वाति निरुपादानो निरुपादानवन्हिवत्

4.66

बोधिसत्त्वो ऽपि दृष्टैवं संबोधौ नियतो मतः ।
केवलं तस्य कारुण्यादा बोधेर्भवसंततिः

4.67

बोधिसत्त्वस्य संभारो महायाने तथागतैः ।
निर्दिष्टः स तु संमूढैः प्रद्विष्टश्चैव निन्द्यते

4.68

गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा ।
अथवापि गुणद्वेषी महायानस्य निन्दकः

4.69

परोपघातिनो दोषान् परानुग्राहिणो गुणान् ।
ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दकः

4.70

यत्स्वार्थनिरपेक्षत्वात् परार्थैकरसप्रियम् ।
गुणाकरं महायानं तद्द्विषी तेन दह्यते

4.71

श्राद्धो ऽपि दुर्गृहीतेन द्विष्यात् क्रुद्धो ऽथवेतरः ।
श्राद्धो ऽपि दग्ध इत्युक्तः का चिन्ता द्वेषाबन्धुरे

4.72

विषेणापि विषं हन्याद्यथैवोक्तं चिकित्सकैः ।
दुःखेनाप्यहितं हन्यादित्युक्ते किं विरुध्यते

4.73

मनःपूर्वंगमा धर्मा मनःश्रेष्ठा इति श्रुतेः ।
हितं हितमनाः कुर्वन् दुःखेनाप्यहितं कथम्

4.74

दुःखमप्यायतीपथ्यं कार्यं किमु सुखं हितम् ।
आत्मनश्च परेषां च धर्म एषा सनातनः

4.75

मात्रासुखपरित्यागात् पश्चाच्चेद्विपुलं सुखम् ।
त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम्

4.76

न मृश्यते च यद्येतत् कटुभैषज्यदायिनः ।
ततश्चिकित्सकाद्याश्च हता नैवं च युज्यते

4.77

अपथ्यमपि यद्दृष्टं तत्पथ्यं पण्डितैः क्वचित् ।
उत्सर्गश्चापवादश्च सर्वशास्त्रेषु शस्यते

4.78

करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः ।
उक्ता यत्र महायाने कस्तन्निन्देत्सचेतनः

4.79

अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभिः ।
निन्द्यते ऽद्य महायानं मोहात् स्वपरवैरिभिः

4.80

दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकम् ।
महायानमतस्तस्मिन् कस्माद्दुर्भाषितं वचः

4.81

परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मनः ।
ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रहः

4.82

परा[त्महित]मोक्षार्थाः संक्षेपाद्बुद्धशासनम् ।
ते षट्पारमितागर्भास्तस्माद् बौद्धमिदं वचः

4.83

पुण्यज्ञानमयो यत्र बुद्धैर्बोधेर्महापथः ।
देशितस्तन्महायानमज्ञानाद्वै न दृश्यते

4.84

खमिवाचिन्त्यगुणत्वादुक्तो ऽचिन्त्यगुणो जिनः ।
महायाने यतो बुद्धमाहात्म्यं क्षम्यतामिदम्

4.85

आर्यशारद्वतस्यापि शीलमात्रे ऽप्यगोचरः ।
यस्मात् तद्बुद्धमाहात्म्यमचिन्त्यं किं न मृष्यते

4.86

अनुत्पादो महायाने परेसां शून्यता क्षयः ।
क्षयानुत्पादयोश्र्चैक्यमर्थतः क्षम्यतां यतः

4.87

शून्यता बुद्धमाहात्म्यमेवं युक्त्यानुपश्यताम् ।
महायानेतरोक्तानि न समेयुः कथं सताम्

4.88

तथागताभिसंध्योक्तान्यसुखं ज्ञातुमित्यतः ।
एकयानत्रियानोक्तादात्मा रक्ष्य उपेक्षया

4.89

उपेक्षया हि नापुण्यं द्वेसात्पापं कुतः शुभम् ।
महायाने यतो द्वेषो नात्मकामैः कृतो ऽर्हति

4.90

न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना ।
उक्ताः श्रावकयाने ऽस्माद्बोधिसत्त्वः कुतस्ततः

4.91

अधिष्ठानानि नोक्तानि बोधिसत्त्वस्य बोधये ।
बुद्धैरन्यत्प्रमाणं च को ऽस्मिन्नर्थे जिनाधिकः

4.92

अधिष्ठानार्यसत्यार्थबोधिपक्षोपसंहितात् ।
मार्गाच्छावकसामान्याद्बौद्धं केनाधिकं फलम्

4.93

बोधिचर्याप्रतिष्ठार्थ न सूत्रे भाषितं वचः ।
भाषितं च महायाने ग्राह्यमस्माद्विचक्षणैः

4.94

यथैव वैयाकरणो मातृकामपि पाठयेत् ।
बुद्धो ऽवदत्तथा धर्मं विनेयानां यथाक्षमम्

4.95

केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये ।
केषांचित्पुण्यसिद्धयर्थं केषांचिदू द्वयनिश्रितम्

4.96

द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम् ।
शून्यताकरुणागर्भमेकेषां बोधिसाधनम्

4.97

इति सद्भिर्महायाने कर्तव्यः प्रतिघक्षयः ।
प्रसादश्चाधिकः कार्यः सम्यक्संबोधिसिद्धये

4.98

महायानप्रसादेन तदुक्ताचरणेन च ।
प्राप्यते ऽनुत्तरा बोधिः सर्वसौख्यानि चान्तरा

4.99

दानं शीलं क्षमा सत्यं गृहस्थस्य विशेषतः ।
धर्म उक्तः कृपागर्भः स सात्मीक्रियतां दृढम्

4.100

अथ लोकस्य वैधर्म्याद्राज्यं धर्मेण दुष्करम् ।
ततो धर्मयशोर्थं ते प्रव्रज्याधिगमः क्षमः

मूल पाठ: Ratnāvalī · Edition: P.L. Vaidya: Madhyamaka shastra, · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc