भाषा

ENहिગુ
ग्रंथ पाठ

रत्नावली · अध्याय 1

1.1

रत्नावली । (न्र)
। नमो रत्नत्रयाय ॥
सर्वदोषविनिर्मुक्तं गुणैः सर्वैरलंकृतम् ।
प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकबान्धवम्

1.2

धर्ममेकान्तकल्याणं राज[न् ध]र्मोदयाय ते ।
वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने

1.3

प्राग्धर्माभ्युदयो यत्र पश्चानैःश्रेयसोदयः ।
संप्राप्याभ्युदयं यस्मादेति नैःश्रेयसं क्रमात्

1.4

सुखमभ्युदय[स्तत्र मोक्षो]नैःश्रेयसो मतः ।
अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः

1.5

श्राद्धत्वाभ्दजते धर्मं प्राज्ञत्वाद्वेत्ति तत्त्वतः ।
प्रज्ञा प्रधानं त्वनयोः श्रद्धा पूर्वंगमास्य तु

1.6

छन्दाद् द्वेषाभ्दयान्मोहाद्यो धर्मं नातिवर्तते ।
स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम्

1.7

कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य यः ।
परात्महितमाज्ञाय सदा कुर्यात्स पण्डितः

1.8

अहिंसा चौर्यविरतिः परदारविवर्जनम् ।
मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः

1.9

लोभव्यापादनास्तिक्यदृष्टीनां परिवर्जनम् ।
एते कर्मपथाः शुक्ला दश कृष्णा विपर्ययात्

1.10

अमद्यपानं स्वाजीवो ऽविहिंसा दानमादरात् ।
पूज्यपूजा च मैत्री च धर्मश्चैष समासतः

1.11

शरीरतापनाद्धर्मः केवला(न्नास्ति तेन हि) ।
न परद्रोहविरतिर्न परेसामनुग्रहः

1.12

दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम् ।
अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः

1.13

स संसाराटवीं घोरामनन्तजनपादपाम् ।
क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते

1.14

हिंसया जायते ऽल्पायुः बहवाबाधो विहिंसया ।
चौर्येण भोगव्यसनी सश(त्रुः) पारदारिकः

1.15

प्रत्याख्यानं मृषावादात् पैशुन्यान्मित्रभेदनम् ।
अप्रियश्रवणं रौक्ष्यादबाद्धा(दपार्था?)द्दुर्भगं वचः

1.16

मनोरथान् हन्त्यमिध्या व्यापादो भयदः स्मृतः ।
मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः

1.17

अप्रदानेन दारिद्यं मिथ्याजीवेन वञ्चना ।
स्तम्भेन दुष्कुलीनत्वमल्पौजस्कत्वमीर्ष्यया

1.18

क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम् ।
फलमेतन्मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः

1.19

एषामकुशलाख्यानां विपाको यः प्रकीर्तितः ।
कुशलानां च सर्वेषां विपरीतः फलोदयः

1.20

लोभो द्वेषश्च मोहश्च तज्जं कर्मेति चाशुभम् ।
अलोभामोहाद्वेषाश्च तज्जं कर्मेतरच्छुभम्

1.21

अभुभात्सर्वदुःखानि सर्वदुर्गतयस्तथा ।
शुभात्सुगतयः सर्वाः सर्वजन्मसुखानि च

1.22

निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा ।
मनसा कर्मणा वाचा धर्मो ऽयं द्विविधः स्मृतः

1.23

नरकप्रेततिर्यग्भ्यो धर्मादस्माद्विमुच्यते ।
नृषु देवेषु चाप्नोति सुखश्रिराज्यविस्तरान्

1.24

ध्यानाप्रमाणारूप्यैस्तु ब्रह्माद्यसुखमश्नुते ।
इत्यभ्युदयधर्मो ऽयं फलं चास्य समासतः

1.25

नैःश्रेयसः पुनर्धर्मः सूक्ष्मो गम्भीरदर्शनः ।
बालानां[अश्रोत्रवताम्] उक्तस्त्रासकरो जिनैः

1.26

नास्म्यहं न भविष्यामि न मे ऽस्ति न भविष्यति ।
इति बालस्य संत्रासः पण्डितस्य भयक्षयः

1.27

अहंकरप्रसूतेयं ममकारोपसंहिता ।
प्रजा प्रजाहितैकान्तवादिनाभिहिताखिला

1.28

अस्त्यहं मम चास्तीति मिथ्यैतत्परमार्थिभिः ।
यथाभूतपरिज्ञानान्न भवत्युभयं यतः

1.29

अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः ।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः

1.30

स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते ।
अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः

1.31

यथादर्शमुपादाय(स्वमुखप्रतिबिम्बकम् ।
दृश्य) ते नाम तच्चैवं न किंचिदपि तत्त्वतः

1.32

अहंकारस्तथा स्कन्धानुपादायोपलभ्यते ।
न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत्

1.33

यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् ।
न दृश्यते तथा स्कन्धाननादायाहमित्यपि

1.34

एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान् ।
आर्यानन्दः स्वयं चैव भिक्षुभ्यो ऽभीक्ष्णमुक्तवान्

1.35

स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि ।
अहंकारे सति पुनः कर्म जन्म ततः पुनः

1.36

त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् ।
अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम्

1.37

स्वपरोभयतस्तस्य त्रैकाल्यतो ऽप्यप्राप्तितः ।
अहंकारः क्षयं याति ततः कर्म च जन्म च

1.38

एवं हेतुफलोत्पादं पश्यंस्तत्क्षयमेव च ।
नास्तितामस्तितां चैव नैति लोकस्य तत्त्वतः

1.39

सर्वदुःखक्षयं धम श्रुत्वैवमपरीक्षकः ।
संकम्पत्यपरिज्ञानादभयस्थानकातरः

1.40

न भविष्यति निर्वाणे सर्वमेतन्न ते भयम् ।
उच्यमान इहाभावस्तस्य ते किं भयंकरः

1.41

मोक्षे नात्मा न च स्कन्धा मोक्षश्चेदीदृशः प्रियः ।
आत्मस्कन्धापनयनं किमिहैव तवाप्रियम्

1.42

न चाभावो ऽपि निर्वानं कुत एव तस्य[वास्य] भावता ।
भावाभावपरामर्शक्षयो निर्वाणमुच्यते

1.43

समासान्नास्तितादृष्टिः फलं नास्तीति कर्मणः ।
अपुण्यापायीकी चैषा मिथ्यादृष्टिरिति स्मृता

1.44

समासादस्तितादृष्टिः फलं चास्तीति कर्मणाम् ।
पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिरिति स्मृता

1.45

ज्ञाने नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः ।
दुर्गतेः सुगतेश्चास्मात् स मोक्षः सभ्दिरुच्यते

1.46

सहेतुमुदयं पश्यन् नास्तितामतिवर्तते ।
अस्तितामपि नोपैति निरोधं सह हेतुना

1.47

प्राग्जातः सहजातश्च हेतुरहेतुको ऽर्थतः ।
प्रज्ञप्तेरप्रतीतत्वादुत्पत्तेश्चैव तत्त्वतः

1.48

अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति ।
[तस्योत्पादादुदेतीदं दीपोत्पादाद्यथा] प्रभा

1.49

ह्रस्वे ऽसति पुनर्दीर्घं न भवति स्वभावतः ।
प्रदीपस्याप्यनुत्पादात्प्रभाया अप्यसंभवः

1.50

एवं हेतुफलोत्पादं दृष्ट्वा नोपैति नास्तिक्यम्(नास्तिताम्) ।
अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम्

1.51

निरोधं च प्रपञ्चोत्थं याथाभूत्यादुपागतः ।
नोपयात्यस्तितां तस्मान्मुच्यते ऽद्वयनिश्चितः

1.52

दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् ।
मरीचिर्यदि वारि स्यादासन्नैः किं न दृश्यते

1.53

दूरीभूतैर्यथाभूतो लोको ऽयं दृशयते तथा ।
न दृश्यते तदासन्नैरनिमित्तो मरीचिवत्

1.54

[मरीचिस्तोयसदृशी यथा नाम्बु न] चार्थतः ।
स्कन्धास्तथात्मसदृशा नात्मानो नापि ते ऽर्थतः

1.55

मरीचीं तोयमित्येतदिति मत्वागतो ऽत्र सन् ।
यदि नास्तीति तत्तोयं [गृण्हीयान्मूढ एव सः

1.56

मरीचिप्रतिमं लोकमेवमस्तीति गृण्हतः ।
नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते

1.57

नास्तिको दुर्गतिं यातिं सुगतिं यति चास्तिकः ।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः

1.58

अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया ।
नास्तितां लभते मोहात् कस्मान्न लभते ऽस्तिताम्

1.59

स्यादस्तिदूषणादस्य नास्तिताक्षिप्यते ऽर्थतः ।
नास्तितादूषणादेव कस्मान्नाक्षिप्यते ऽस्तिता

1.60

न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् ।
नास्तिकत्वे ऽर्थतो येषां कथं ते नास्तिकाः स्मृताः

1.61

ससांख्यौलूक्यनिर्ग्रन्थपुग्दलस्कन्धवादिनम् ।
पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम्

1.62

धर्मयौतकमित्यस्मान्नास्त्यस्तित्वव्यतिक्रमम् ।
विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम्

1.63

विभवं नैति नायाति न तिष्ठत्यपि च क्षणम् ।
त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतो ऽर्थतः

1.64

द्वयोरप्यागतिगती प्रस्थितिश्च न तत्त्वतः ।
लोकनिर्याणयोस्तस्माद्विशेषः क इवार्थतः

1.65

स्थितेरभावादुदयो निरोधश्च न तत्त्वतः ।
उदितश्च स्थितश्चेति निरुद्धश्च कुतो ऽर्थतः

1.66

कथमक्षणिको भावः परिणामः सदा यदि ।
नास्ति चेत्परिणामः स्यादन्यथात्वं कुतो ऽर्थतः

1.67

एकदेशे क्षयाद्वा स्यात् क्षणिकं सर्वशो ऽपि वा ।
वैषम्यानुपलब्धेश्च द्विधाप्येतदयुक्तिमत्

1.68

क्षणिके सर्वथा भावे कुतः काचित्पुराणता ।
स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता

1.69

यथान्तो ऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् ।
त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः

1.70

आदिमध्यावसानानि[चिन्त्यानि क्षणवत्पुनः ।
आदिमध्या] वसानत्वं न स्वतः परतो ऽपि वा

1.71

नैको ऽनेकप्रदेशत्वान्नाप्रदेशश्च कश्चन् ।
विनैकमपि नानेको नास्तित्वमपि चास्तिताम्

1.72

विनाशात् प्रतिपक्षाद्वा स्यादस्तित्वस्य नास्तिता ।
विनाशः प्रतिपक्षो वा कथं स्यादस्त्यसंभवात्

1.73

निर्वृतेस्तेन लोकस्य नोपैत्यूनत्वमर्थतः ।
अन्तवानिति लोकश्च पृष्टस्तूष्णीं जिनो ऽभवत्

1.74

सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते ।
येनैतद्धर्मगाम्भीर्यं नोवाचाभजने लोके

1.75

इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः ।
अनालय इति प्रोक्तः संबुद्धैस्तत्वदर्शिभिः

1.76

अस्मादनालयाद्धर्मादायलयाभिरता जनाः ।
अस्तिनास्त्यव्यतिक्रान्ता भीता नश्यन्त्यमेधसः

1.77

ते नष्टा नाशयन्त्यन्यानभयस्थानभीरवः ।
तथा कुरु यथा राजान् नष्टैर्न विप्रणाश्यसे

मूल पाठ: Ratnāvalī · Edition: P.L. Vaidya: Madhyamaka shastra, · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc