रत्नत्रयपरीक्षा · श्लोक 278-297
सेयं क्रियात्मिका शक्तिः शिवस्याव्यभिचारिणी
तत्सम्बन्धाच्छिवो ऽशेष कार्याणां हेतुरुच्यते ॥
स बिन्दोरवतीर्याणु सदाशिवसमावृतः
पतिकृत्याधिकारेषु सदाशिवमहेश्वरान् ॥
सम्प्रेषयन्नशेषाध्व मूर्धनि भ्राजते प्रभुः
पञ्चस्रोतोमुखः शान्तः प्रभुः शक्तिशिराः शिवः ॥
दृक्क्रियेच्छाविशालाक्षो विज्ञानेन्दुकलान्वितः
ईशानमूर्धा पुंवक्त्रो दशदिग्बाहुमण्डलः ॥
अघोरहृदयो वाम गुह्यो जाततनूज्ज्वलः
प्रवृत्तिमानयं देवः सकलः सर्वपावनः ॥
एक एव शिवस्तद्वच् छक्तिरप्यविकारिणी
लयभोगाधिकारेषु तौ हि चिन्मात्ररूपिणौ ॥
तथा हि विमलोदार गभीरे चिन्महोदधौ
स्वात्मनि प्रविलीयन्ते तेनैके समधिष्ठिताः ॥
शिवेन निभृतात्मीय शक्तयो ऽन्ये विशेरते
समालिङ्ग्य महामायाम् अपरे वृत्तिशालिनीम् ॥
तत्सम्पर्किअसुखैकाग्र बुद्धयो भोगलम्पटाः
तथा परे परव्योम समाश्रित्याध्वमूर्धनि ॥
कुर्वन्ति पञ्चकृत्यानि पत्युराज्ञानुवर्तिनः
ततः स तेषामेको ऽपि लयभोगाधिकारिणाम् ॥
अधिष्ठातृतया भेदम् औपचारिकमृच्छति
तद्वदेव मता शक्तिस् तयोर्भेदो ऽधुनोच्यते ॥
शुद्धे ऽध्वनि शिवः कर्ता कारणं शक्तिराश्रिता
समाश्रयः स विज्ञेयः स्वनिष्ठघनचिन्मयः ॥
सा तु संविदशेषार्थ ग्रहणे लम्पटोदया
परमैश्वर्यरूपा च महिमा व्याप्तिरूपिणी ॥
महेश्वरो महानेष सर्वार्थव्यापकस्तयोः
परानपेक्षं रूपं यद् विज्ञानं शिवसंज्ञितम् ॥
तस्य शक्तिं परापेक्षं रूपमाहुर्विपश्चितः
आकारद्वयसंवित्तिर् अशेषस्यापि वस्तुनः ॥
परापेक्षानपेक्षाभ्याम् अस्ति शक्तिः शिवाश्रया
नित्योदितानवच्छिन्न विभूतेरीश्वरस्य यत् ॥
शेयाधिष्ठेयकार्यादौ न तु हेत्वादिकं परम्
तेन शक्तिः परापेक्षं रूपमीशस्य युज्यते ॥
न सर्वस्य परापेक्षं रूपमात्रमसौ भवेत्
कार्यपुत्रादिरूपाणाम् अन्यथैवोपलम्भनात् ॥
न तु निर्विषयं ज्ञानं तदेव विषयग्रहः
विरोधेनाथ पर्यायान् नैवमप्यविनाशि यत् ॥
नश्वराणामयं धर्मो यः काले नान्यथोदयः
अविनाशि च तन्नित्यम् इष्टमस्माद् विभिद्यते ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0