भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 298-317

298

शक्तिराशयतः शम्भोः स च तस्यास्ततस्तथा
कार्योपाधिवशाच्छक्ति संज्ञा स्यादपि चिद्घने ॥

299

न तु शक्तिः परापेक्षा वस्तुतो ऽस्तीति केचन
करणेन विना कार्यं कुर्वन् कर्ता भवेदिति ॥

300

मतिरेषामयुक्तैव युक्तिप्रत्यक्षबाधिता
किञ्चागृहीतमपि चेद् उपाधिः कार्यमीशितुः ॥

301

सदोपहितभावेन निरुपाधिः कथं शिवः
कथं वायं भवेत् कर्ता कारणज्ञानवर्जितः ॥

302

पुरुषो वा कथं बुद्धिं पश्येत् शक्त्या तया विना
इदमन्धतमः कृत्स्नम् अन्तरा शक्तिदीपिकाम् ॥

303

जायेतान्यच्च भगवान् अशक्तः किं करिष्यति
अनन्यापि तथा शम्भोर् विभिन्ना शक्तिरिष्यते ॥

304

यथा मसूरस्त्वङ्गुष्ठान् नापि भिन्नोक्तहेतुभिः
अनन्यापि विभिन्नातः शम्भोः सा समवायिनी ॥

305

स्वाभाविकी च तन्मूला प्रभा भानोरिवामला
न ह्येष भगवान् शक्त्या स्वात्मनो ऽत्यन्तभिन्नया ॥

306

कदाचित् कुरुते किञ्चिन् नापि जानाति किञ्चन
अनाहितविशेषो ऽपि हेतुर्देवो महेश्वरः ॥

307

कार्यभेदो ऽपि कार्यस्य स्यादवस्थाविशेषतः
बिन्दुः प्रलीनकार्यो ऽसौ शिवशक्तिसमीरितः ॥

308

सर्गाय स्थितये स्रष्टृ प्रपञ्चविलयाय च
चिरस्थापितविश्वो हि बिन्दुरेव प्रवर्तते ॥

309

अवस्थाभेदमासाद्य घटमारभते यथा
मृदवस्थान्तरापत्त्या पूर्वमेवमसावपि ॥

310

प्रभुशक्तिसमाक्रान्तस् तत्तद्वृत्तिविशेषतः
कार्यभेदाय घटते निर्विकारे ऽपि शूलिनि ॥

311

अनापन्नविकारो ऽपि यथोक्तक्रमभाविनाम्
भेदसंशोषचूर्णानाम् अवस्थाभेदजन्मनाम् ॥

312

विधाता कमलस्योष्ण गभस्तिः स्यात् तथा शिवः
कर्ता सर्गादिकार्याणाम् अविकारो ऽपि शक्तिमान् ॥

313

यथा मधूच्छिष्टमृदोर् अनपेक्षः क्षणेन च
द्रवताशुष्कताहेतुर् अविकारो ऽपि भास्करः ॥

314

तथा समासमात्मीय पुण्यापुण्याख्यकर्मणाम्
अणूनामविकारो ऽपि बन्धमोक्षकरः शिवः ॥

315

परस्परविरोधेन निवारितविपाकयोः
कर्मणोः सन्निपातेन शैवी शक्तिः पतत्यणोः ॥

316

तस्यां पतितमात्रायां निर्धूतघनसंवृतिः
प्रशान्तमलकालुष्यम् आत्मानमनुपश्यति ॥

317

तदैव हि विमुक्तो ऽसौ यदाघ्रातः शिवेच्छया
नित्यनैमित्तिकेनैष कर्मणा वर्तते परम् ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc