भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 258-277

258

सति बाह्ये तदज्ञानं वस्तुनि स्यात् तमःकृतम्
तमसाच्छाद्यमाना हि न ते मुक्ता भवन्ति च ॥

259

विकल्पो बिन्दुसंक्षोभाच् छब्दवेधेन संविदाम्
जायते मलरुद्धानाम् अणूनामर्थदर्शने ॥

260

निर्मलानामसंक्षोभाद् बिन्दोस्तद्बन्धमोक्षजा
निर्विकल्पार्थसंवित्तिस् तदहर्जातबालवत् ॥

261

यो यदा वर्तते भावो भूतो भावि च तत् तदा
यथार्थस्थितिं गृःनाति स्वसंवेद्या चिदव्यया ॥

262

न ते विश्वस्य कर्तारः कर्तास्य शिव एव यत्
न हि कर्तृबहुत्वस्य गमकं विद्यते क्वचित् ॥

263

नित्यमुक्तोदिताचिन्त्य प्रभावा शक्तिसंज्ञिता
संविदाश्रयते शश्वच् छिवं परमकारणम् ॥

264

स तया जडमाक्रम्य सृजत्यवति हन्ति च
तिरोदधाति भगवान् अनुगृह्णाति चात्मनः ॥

265

कृत्येषु तेषु कर्तासौ त्रिविधः पञ्चसूच्यते
शक्तिमानाहितोद्योगः प्रवृत्तश्चेति देशिकैः ॥

266

तत्र शक्तो भवेदाद्यो निष्कलः शिवसंज्ञितः
तस्मिन् मुकुलितेवास्ते क्रियाख्या शक्तिरैश्वरी ॥

267

सैवोन्मिषन्ती सम्प्राप्त बिन्दुगर्भभरालसा
पत्युराविष्करोत्युच्चैः परमानन्दसन्ततिम् ॥

268

स तया रमते नित्यं समुद्युक्तः सदाशिवः
पञ्चमन्त्रतनुः श्रीमान् देवः सकलनिष्कलः ॥

269

मननात् सर्वभावानां त्राणात् संसारसागरात्
मन्त्ररूपा हि तच्छक्तिर् मननत्राणधर्मिणी ॥

270

कार्यभेदादधिष्ठान वशादेकैव पञ्चधा
सा भाति बिन्दुशान्त्यादि पञ्चाधिष्ठेयगोचरा ॥

271

बिन्दुः शान्तिः कला विद्या प्रतिष्ठा सनिवृत्तिका
भोगस्थानानि पञ्चैषां बिन्दुसंज्ञा शिवेरिता ॥

272

कलानामविभागो ऽयं पञ्चानां बिन्दुसंज्ञितः
तद्गोचरा परा मूर्तिर् अपरा कार्यगोचरा ॥

273

या तय्स विमला शक्तिः शिवस्य समवायिनी
सैव मूर्तिः क्रियाभेदात् सादाख्या तनुरुच्यते ॥

274

महामाया समाक्रान्ता शिवेन बलशालिना
भोगस्थाननिविष्टानां निर्मलानां शिवात्मनाम् ॥

275

तनुभोगेन्द्रियस्थान विज्ञानादि करोति यत्
तत्कार्यं सा क्रियाशक्तिर् असावपि तथोच्यते ॥

276

सर्वज्ञानक्रियारूपा शक्तिरेका हि शूलिनः
इच्छाज्ञानक्रियाद्या यत् प्रभवाः कर्ययोनयः ॥

277

ईश्वराणां शिवानां च महामायामयास्तथा
देहेन्द्रियादयः शुद्धाः सुभगाः स्वधिकारकाः ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc