रत्नत्रयपरीक्षा · श्लोक 238-257
ज्ञानानिवृत्तिं गमयेत् कारणं तिमिरादिवत्
तच्छिवप्रणिधानेन शिवशास्त्रोदितेन च ॥
कर्मणैव निवर्त्येत नान्यथा ज्ञानकोटिभिः
तिमिरादिर्यथारोग्य शास्त्रोक्तेनैव कर्मणा ॥
देशकालनरान्यत्वे ऽप्यन्यथानवभासितः
अबाधितः प्रमाणैश्च विवर्तः स्यात् कथं चितेः ॥
प्रपञ्चः किञ्च मायेयः प्रमाणैरेव साधितः
तस्माद्विवर्तते संविद् अणूनामेव बन्धनात् ॥
विवर्तः खलु चिच्छक्तेर् मिथ्यापरिणतिर्यया
अतद्रूपापि तद्रूप रूपिणीवानुभूयते ॥
स परस्परसम्बद्धश् चिदचिद्गोचरस्तयोः
अन्योन्याध्याससाध्यत्वाद् अविवेककृतोदयः ॥
तत्र चित् स्वाभिसम्बन्ध बुद्धितत्त्वाविवेकतः
आरोप्यात्मनि तद्वृत्ति विकारानविकारिणी ॥
जन्मादीननु जातेति नष्टेति विविधेति च
ससुखेति सदुःखेति स्वात्मानं दर्शयत्यणोः ॥
तद्वज्जडं च चैतन्यम् आरोप्यात्मनि चिद्गुणम्
अविवेकेन जानति बालो ऽहं कृश इत्यतः ॥
सर्वेषामविवेको ऽयम् अणूनां मलहेतुकः
भ्रान्तिप्रधानसन्तान कन्दश्चिज्जडवस्तुनोः ॥
न हि संविद्विशेषाणां विशिष्टैर्जडवस्तुभिः
विवर्तभेदो युज्येरन्न् अन्तरा दृढबन्धनम् ॥
तथा हि देहे ऽहंबुद्धिर् न लोष्टे सापि कस्यचित्
अणोरेव न सर्वेषाम् अतो बन्धस्तयोर्मतः ॥
यानि यस्येन्द्रियाणासन् नरस्य ज्ञानकर्मणोः
न तानि पुनरन्यस्य करणानि तयोस्तथा ॥
विशिष्टैव विवर्ताय चिद्विशेषस्य वार्यते
बुद्धिर्न सर्वा सर्वेषां तेन बन्धस्तयोर्मतः ॥
बुद्ध्यारूढं सुखं दुःखं किञ्चित् केनचिदेव यत्
पुंसोपभुज्यते तेन तयोर्बन्धो नियामकः ॥
अविवेको नियन्ता चेत् स तयोरेव किङ्कृतः
तेन बन्धो ऽस्ति बन्धश्च पृथगेवेशितुर्मतः ॥
बन्धवर्ती विमूढात्मा मोक्षस्तद्बन्धमोचनम्
गलिते सर्वथा बन्धे विमुक्ते चाणवे मले ॥
सर्वार्थद्योतिका शक्तिः शिवस्यैव विजृम्भते
सर्वावरणनिर्मुक्ता शक्तिरेषा महीयसी ॥
अल्पीयांसं समावृत्य विषयं सा तु दर्शयेत्
परसंवित्स्वरूपायाः शक्तेरसति बन्धने ॥
परमात्रं प्रकाशेत मुक्ताणूनामनारतम्
अतो विमुक्ताः सर्वज्ञा न तु चिन्मात्रवेदिनः ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0