रत्नमालावदान · भाग 81100
कुलधर्मपरिभ्रष्टा विनष्टा स्यान् न संशयः ॥ र्म्_9.154{42} ॥
ततो ऽस्माकं यशोधर्मविनष्टो ऽपि भवेत् खलु ।
तस्याश् च दूरगामिन्या दर्शनं स्यात् सुदुल्लभं ॥ र्म्_9.155{43} ॥
तस्माद् अस्या न कर्त्तव्या वारणा धर्मसाधने ।
चरतु सौगतीं चर्य्याम् इयं हि निर्वृतये ॥ र्म्_9.156{44} ॥
तथा चेत् सफलं जन्म मानुष्ये स्यान् ममापि च ।
तेनेयं जगतां भर्तुः शासने चरतु व्रतं ॥ र्म्_9.157{45} ॥
इत्य् एवं मनसा ध्यात्वा शाक्यो ऽसौ रोहिणः पिता ।
शुक्लां तां स्वात्मजां भद्रां संनिरीक्ष्यैवम् अब्रवीत् ॥ र्म्_9.158{46} ॥
सत्यम् एवं सुते भद्रे यथोद्दिष्टं त्वया खलु ।
किं तु त्वं दारिका नारी प्रव्रज्यां तत् कथं चरेः ॥ र्म्_9.159{47} ॥
प्रव्रज्या दुष्करस्थानं नारीणां तु विशेषतः ।
तत् प्रव्रज्याव्रते स्थित्वा मा पश्चात् परितप्यथाः ॥ र्म्_9.160{48} ॥
यदि त्वं निश्चयेनैव प्रव्रज्याव्रतम् इछसि ।
तच् चरस्व मुनीन्द्रस्य शासने व्रतम् आदरात् ॥ र्म्_9.161{49} ॥
यथा च गुरुणादिष्टं श्रुत्वा तथा समाहितः ।
सम्यक् छिक्षाः समाधाय चर नित्यम् अतन्द्रिता ॥ र्म्_9.162{50} ॥
संबुद्धशासनं धृत्वा श्रद्धाभक्तिसमन्विता ।
त्रिरत्नशरणं गत्वा बोधिव्रतं समाचर ॥ र्म्_9.163{51} ॥
इति पित्रा समादिष्टे शुक्ला सा प्रतिमोदिता ।
नत्वा पादौ पितुश् चैवं जनन्याश् चरणे ऽनमत् ॥ र्म्_9.164{52} ॥
ततः सा जननी दृष्ट्वा तां शुक्लां स्वात्मजां प्रियां ।
परिष्वज्य रुदन्त्य् एवं प्रव्रज्यायां न्यवारयत् ॥ र्म्_9.165{53} ॥
हा पुत्रि कथम् एकान्ते मां त्यक्त्वा क्व व्रजिष्यसे ।
हा जीव किं नु पश्यन्ती प्रव्रजितुं त्वम् ईहसे ॥ र्म्_9.166{54} ॥
किं चिद् दुःखं न ते दत्तं मयाम्वया कदा चन ।
केनैवं हेतुना पुत्री प्रव्रजितुं त्वम् इछसि ॥ र्म्_9.167{55} ॥
त्वं तु नारी सुभाद्राङ्गी कुमारी दिव्यसुंदरी ।
किंचिद् दुःखानभिज्ञा च तत् प्रव्रज्यां कथं चरे ॥ र्म्_9.168{56} ॥
यावज् जीवाम्य् अहं चैव तावत् मा गाः कुहापि हि ।
यावच् चास्ति गृहे संपत् तावद् भुक्त्वा सुखं वस ॥ र्म्_9.169{57} ॥
यदाहं मरणं याता यदा चापि गृहे विपत् ।
ज्ञातिमित्रजनैस् त्यक्त्वा तदा व्रजस्व वांछया ॥ र्म्_9.170{58} ॥
इति मात्रा निषिद्धे ऽपि शुक्ला सा विघ्नशंकितास् ।
मातुः पादौ प्रणत्वैव सहसा निर्ययौ गृहात् ॥ र्म्_9.171{59} ॥
ततः सा सत्वरा गत्वा न्यग्रोधारम आश्रमे ।
ददर्श भिक्षुणीभिक्षून् शन्तशीलाञ् जितेंद्रियान् ॥ र्म्_9.172{60} ॥
तान् सर्वान् क्रमतो नत्वा विहारे समुपाविशत् ।
तत्रस्थं सुगतं नाथम् अपश्यच् छ्रिघनं जिनं ॥ र्म्_9.173{61} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं ।
सहस्रेणाधिकाभासं व्यामाभपरिरोचितं ॥ र्म्_9.174{62} ॥
शान्तात्मानम् सुभद्रांशं समन्तभद्ररूपिणं ।
रत्नराशिम् इवोज्ज्वालं सुमेरुम् इव जंगमं ॥ र्म्_9.175{63} ॥
दृष्ट्वैव निश्चला तस्थौ हर्षोत्फुल्लतनूरुहा ।
दृष्ट्वैवं सुचिरात् तस्य श्रीघनस्यान्तिके ययौ ॥ र्म्_9.176{64} ॥
तथैवं समुपायातां दृष्ट्वा तां भगवान् मुनिः ।
स्वागतं दारिके भद्रे एहीत्य् उक्त्वा समग्रहीत् ॥ र्म्_9.177{65} ॥
ततो ऽसौ दारिका शुक्ला स्वागतास्मि मुनीश्वर ।
इत्य् उक्त्वा प्रांजलिं कृत्वा ननाम चरणौ मुनेः ॥ र्म्_9.178{66} ॥
ततो भगवता तेन प्रेषिता मातुर् अन्तिके ।
सा शुक्ला सहसा गत्वा गौतम्याच् चरणे ऽनमत् ॥ र्म्_9.179{67} ॥
तथा तां समुपायातां शुक्लां सद्व्रतवांछिनीं ।
दृष्ट्वा सा गौतमी स्पृष्ट्वा हस्तेनैव समग्रहीत् ॥ र्म्_9.180{68} ॥
ततः प्रव्राजयित्वा सा गौतम्या भिक्षुणी कृता ।
खिक्खिरीपात्रहस्ताङ्का संगताभूज् जितेन्द्रिया ॥ र्म्_9.181{69} ॥
येनैव शुक्लवस्त्रेण प्रावृता समजायत ।
ततः पंचसुरक्तं जातानि चीवराण्य् अपि ॥ र्म्_9.182{70} ॥
तैर् एव चिवरै रक्तैः प्रावृता परिशोभिता ।
सा शुक्ला सुप्रसन्नास्या मुण्डिताप्य् अभ्यरोचत ॥ र्म्_9.183{71} ॥
ततो बुद्धानुभावेन सुप्रशान्तसुभाविनी ।
जित्वा क्लेशारिवर्गांश् च शिक्षापारं समाययौ ॥ र्म्_9.184{72} ॥
मत्वानित्यं च संसारं भवगतिं विघातिनीं ।
निहत्य सर्वसंस्कारगतीसतनधर्मिणी ॥ र्म्_9.185{73} ॥
मारचर्य्याविनिर्मुक्ता साक्षाद् अर्हत्वम् आययौ ।
अविद्याङ्गं विनिर्भिद्य प्राप्तविद्या शुभाशया ॥ र्म्_9.186{74} ॥
अभिज्ञा गुणसंपन्ना प्रतिसंविद्वती सुधीः ।
सुवीतरागिणी धीरा लोष्ठहेमसमानिका ॥ र्म्_9.187{75} ॥
आकाशसमचित्ता च पाणीतलसमाशया ।
निरंजनाविकल्पा च श्रीखण्डतुल्यवासिनी ॥ र्म्_9.188{76} ॥
स्वात्मसत्कारलाभेषु पराण्मुखी सुनिस्पृहा ।
सर्वसत्वहिताधानि संबुद्धधर्मचारिणी ॥ र्म्_9.189{77} ॥
सदेवासुरलोकानां पूज्या मान्या समन्ततः ।
वंदनीया चाभितोष्या च वभूव ब्रह्मचारिणी ॥ र्म्_9.190{78} ॥
अथ ते भिक्षवः सर्वे दृष्ट्वा तां ब्रह्मचारिणीं ।
विस्मिताः सुगतं नत्वा पप्रछुर् इति सादरं ॥ र्म्_9.191{79} ॥
भगवन् किम् इयं शुक्ला पुरा कर्माकरोच् छुभं ।
येन वस्त्रावृता जाता भवत्य् एवं च भिक्षुणी ॥ र्म्_9.192{80} ॥
तत् सर्वं नः समादेष्टुम् अर्हसि सर्वविद् गुरो ।
यद् अनया कृतं कर्म भिक्षुण्या शुक्लया पुरा ॥ र्म्_9.193{81} ॥
इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् भिक्षुसांघिकान् सर्वान् संनिरीक्ष्यैवम् अब्रवीत् ॥ र्म्_9.194{82} ॥
शृणुध्वं भिक्षवः सर्वे यद् अनया कृतं पुरा ।
तत् सर्वं कथयिष्यामि सर्वलोकाभिबोधने ॥ र्म्_9.195{83} ॥
पुरास्मिन्न् एव भद्राख्ये कल्पे ऽभूत् काश्यपो जिनः ।
संबुद्धः सुगतो नाथो धर्मराजस् तथागतः ॥ र्म्_9.196{84} ॥
सर्वविद्याधिपः शास्ता त्रैधातुकविनायकः ।
सर्वज्ञो भगवान् अर्हन् ब्रह्मचारी हितंकरः ॥ र्म्_9.197{85} ॥
स मुनीन्द्रो जगन्नाथो वाराणसीम् उपाश्रयन् ।
मृगदावे वने रम्ये व्यहरच् छ्रावकैः सह ॥ र्म्_9.198{86} ॥
भिक्षुभिर् बोधिसत्वैश् च भिक्षुणीभिर् उपासकैः ।
सार्द्धम् उपासिकाभिश् च यतिभिश् च महर्षिभिः ॥ र्म्_9.199{87} ॥
तत्रस्थो भगवान् बुद्धो सर्वसत्वहिताय सः ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_9.200{88} ॥
तदैकान्यतरा काचिच् छ्रेष्ठिभार्या शुभाशया ।
सुकल्याणार्थिनी श्राद्धा सद्धर्ममानसी सुधीः ॥ र्म्_9.201{89} ॥
केन चित् करणियेन मृगदावम् उपाचरत् ।
तत्र भिक्षून् क्रमाद् दृष्ट्वा संबुद्धान्तिकम् उपाययौ ॥ र्म्_9.202{90} ॥
तत्र सा समुपागत्य ददर्श तं मुनीश्वरं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैर् उपलक्षितं ॥ र्म्_9.203{91} ॥
व्यामाभालंकृतं सौम्यं शतसूर्य्याधिकप्रभं ।
सुप्रशान्तेन्द्रियां काम्यं समंतभद्ररूपकं ॥ र्म्_9.204{92} ॥
रत्नराशिम् इवोज्ज्वालं सुमेरुम् इव जंगमं ।
तथा दृष्ट्वैव प्रामोदात् सांजलिं समुपागता ॥ र्म्_9.205{93} ॥
नत्वा पादौ मुनेस् तस्थाव् एकान्तिके कृतांजलिः ।
ततः स भगवान् दृष्ट्वा तस्याश् चित्तं विशोधितं ॥ र्म्_9.206{94} ॥
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ।
तत् सद्धर्मामृतं पीत्वा सा शूद्री परिहर्षिता ॥ र्म्_9.207{95} ॥
ससंघं सुगतं नाथं भोजयितुं समैछत ।
ततः सा स्वगृहे गत्वा साधयित्वा सुभोजनं ॥ र्म्_9.208{96} ॥
संबुद्धप्रमुखं संघं स्वांतर्गेहे न्यमंत्रयत् ।
तत्र स्वस्वासनासीनं संबुद्धं तं ससांघिकं ॥ र्म्_9.209{97} ॥
पूजयित्वा तदर्हैश् च भोजनैः समतोषयत् ।
ततः सा श्रद्धया तेभ्यः सर्वेभ्यो ऽपि प्रसन्निता ॥ र्म्_9.210{98} ॥
बुद्धप्रमुखसंघेभ्यः प्रत्येकं चीवरं ददौ ।
ततो नित्यं च सा भक्त्या चक्रे संबुद्धसेवनां ॥ र्म्_9.211{99} ॥
तत्पुण्यैश् चापि सद्धर्मे प्रव्रजितुं समैछत ।
ततो ऽसौ पितरौ नत्वाभ्यनुज्ञाप्य प्रसादिनी ॥ र्म्_9.212{100} ॥
भगवच्छासने गत्वा प्रव्रज्याव्रतम् आचरत् ।
तस्मात् किं भिक्षवो यूयं मन्यध्वे याभवत् तदा ॥ र्म्_9.213{1} ॥
श्रेष्ठिभार्या न चान्या सा शुक्लैवैषेति मन्यत ।
यद् अनया प्रसादिन्या बुद्धप्रमुखसांघिके ॥ र्म्_9.214{2} ॥
प्रत्येकं चीवरं दत्तं प्रव्रज्या चापि साधिता ।
एतत्पुण्यविपाकेन प्रावृत्य शुक्लवाससा ॥ र्म्_9.215{3} ॥
जाता प्रव्रजिता चैषा भवति ब्रह्मचारिणी ।
इत्य् एवं कर्मजं भोग्यं प्राणिनो भुंजते भवे ॥ र्म्_9.216{4} ॥
येनैव यत् कृतं कर्म तेनैव भुज्यते फलं ।
न नश्यंति हि कर्माणि कल्पकोटिशतैर् अपि ॥ र्म्_9.217{5} ॥
सामग्रीं प्राप्य कालं च फलंति खलु देहिनां ।
अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ र्म्_9.218{6} ॥
नाग्निभिर् दह्यते कर्म वायुभिश् च न शुष्यते ।
जलैश् च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ र्म्_9.219{7} ॥
अन्यथा च भवेन् नैव कर्मगतिः कथं चन ।
शुक्लानां शुभता नित्यं कृष्णानां दुःखता सदा ॥ र्म्_9.220{8} ॥
मिश्रिता मिश्रितानां च जंतुभिर् भुज्यते गतिः ।
तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ र्म्_9.221{9} ॥
चरितव्यं शुभेष्व् एव कर्मसु सुखवांछिभिः ।
तथेति भिक्षवः सर्वे ते च लोकः सभास्थिताः ॥ र्म्_9.222{10} ॥
श्रुत्वा तत् सुगतादिष्टम् अभ्यनन्दन् प्रसादिताः ।
एवम् एतन् महाराज गुरुणा मे प्रभाषितं ॥ र्म्_9.223{11} ॥
एवं राजंस् त्वयाप्य् एवं कर्त्तव्यं पुण्यम् आदरात् ।
पुण्यम् एव भवे वन्धुभ्राता मित्रं सुहृत्सखा ॥ र्म्_9.224{12} ॥
नान्यः पुण्यात् परः कश्चिद् विद्यते भवचारिणां ।
तस्मात् पुण्यं स्वयं कृत्वा लोकेष्व् अपि प्रचारय ॥ र्म्_9.225{13} ॥
प्रजाश् च बोधयित्वैवं पुण्यमार्गे प्रचारय ।
इत्य् एवं गुरुणादिष्टम् उपगुप्तेन भिक्षुणा ॥ र्म्_9.226{14} ॥
श्रुत्वा तथेति राजासौ प्राभ्यनन्दज् जनैः सह ॥ र्म्_9.227{15} ॥
य इदं शुक्लावदानं जिनवरकथितं पुण्यहेतोर् नराणां
शृण्वन्ति श्रवयन्ति प्रमुदितमनसः सद्गुणप्राप्तुकामाः ।
ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिचर्या चरन्तः
सत्सौख्यान्य् एव भुक्त्वा मुनिवरनिलये संप्रयाता वसन्ति ॥ र्म्_9.228{16} ॥
++ इति रत्नमालायां शुक्लावदानं नाम समाप्तम् ++
x हिरण्यपाण्यवदान
अथाशोको महीपाल उपगुप्तं जिनांशजं ।
कृतांजलिपुटो नत्वा पुनर् एवम् अभाषत ॥ र्म्_10.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणा ख्यातं तथा वक्तुं समर्हसि ॥ र्म्_10.2{2} ॥
एवं तेन नृपेन्द्रेण प्रार्थिते स जिनात्मजः ।
उपगुप्तो महाभिज्ञस् तं नृपं चैवम् अब्रवीत् ॥ र्म्_10.3{3} ॥
शृणु राजंस् तथा वक्ष्ये यथा मे गुरुणोदितं ।
श्रुत्वा चैवं सदा बोधिचर्यां चर समाहितः ॥ र्म्_10.4{4} ॥
पुरैकसमये ऽसौ च शाक्यमुनिस् तथागतः ।
सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ र्म्_10.5{5} ॥
सर्वविद्याधिपस् तायी षडभिज्ञो मुनीश्वरः ।
जिनो ऽर्हं भगवान् बुद्धो धर्मराजो विनायकः ॥ र्म्_10.6{6} ॥
श्रावस्त्यां वहिर् उद्याने जेतवने जिनाश्रमे ।
अनाथपिण्डदारामे विहारे मणिमण्डिते ॥ र्म्_10.7{7} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिर् उपासकैः ।
त्रिरत्नोपासिकाभिश् च चैलकैश् च शुभाशयैः ॥ र्म्_10.8{8} ॥
बोधिसत्वगणैश् चापि सहान्यैश् च महर्षिभिः ।
ओसद्धर्मदेशनां दत्वा तस्थौ लोकहितार्थतः ॥ र्म्_10.9{9} ॥
तत् सद्धर्मामृतं पातुं प्राजग्मुः सद्गुणार्थिनः ।
देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ र्म्_10.10{10} ॥
सिद्धविद्याधराद्याश् च लोकपालगणादयः ।
ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः ॥ र्म्_10.11{11} ॥
अमात्याः श्रेष्ठिनश् चापि धनिनश् च महाजनाः ।
वणिजः सार्थवाहाश् च तदन्ये ऽपि च सज्जनाः ॥ र्म्_10.12{12} ॥
पौरा जानपदाश् चापि सर्वे ते समुपागताः ।
तं बुद्धं सुगतं नत्वा पूजयित्वा समंततः ॥ र्म्_10.13{13} ॥
परिवृत्य परस्कृत्य तस्थुः सांजलयो मुदा ।
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपास्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_10.14{14} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाः सुरादयः ।
हर्षिता अनुमोदन्तो वभूवुर् बोधिचारिणः ॥ र्म्_10.15{15} ॥
एवं नित्यं च ते सत्वाः पीत्वा धर्मामृतं मुनेः ।
त्रिरत्नशरणं गत्वा भेजिरे समुपाश्रिताः ॥ र्म्_10.16{16} ॥
तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः ।
आसीद् गृहपतिः प्राढ्यो महाभोग्यसमृद्धिमान् ॥ र्म्_10.17{17} ॥
कुवेलवन् महाश्रीमान् सुविस्तीर्णपरिग्रहः ॥ र्म्_10.18{18} ॥
श्राद्धो दाता महाभोगी सर्वलोकहितार्थभृत् ।
एवं महर्द्धिकस्यापि तस्य गृहपतेश् चिरं ।
न पुत्रो न च पुत्री वा समुदपादि दैवतः ॥ र्म्_10.19{19} ॥
ततो ऽपुत्रो गृहस्थो ऽसौ वंशविछिन्नखेटितः ।
कपोलं स्वकरे स्थाप्य विषाद्यैवं व्यचिन्तयत् ॥ र्म्_10.20{20} ॥
अनेकधनरत्नाद्याः संपदो मे महर्द्धिकाः ।
विशालपरिवाराश् च विद्यन्ते सुपरिग्रहाः ॥ र्म्_10.21{21} ॥
पुत्रो मे दुहिता वापि विद्यते न कथं चन ।
संपदो ऽपि निरर्थाः स्युर् यतो भोक्ता न विद्यते ॥ र्म्_10.22{22} ॥
हा हा सर्वं विनष्टं स्याद् यतो मे सन्ततिर् न हि ।
किं मे ऽनया समृद्ध्यापि यत्र वंशो न विद्यते ॥ र्म्_10.23{23} ॥
व्यर्थम् एव मया द्रव्यं कष्टेन समुपार्जितं ।
किं करिष्यामि तद्द्रव्यं सर्वथा मरणे सति ॥ र्म्_10.24{24} ॥
के हि ग्रस्ता न संसारे मृत्युसर्प्पेण जंतवः ।
मयि मृत्युप्रयाते ऽत्र संस्कारं कः करिष्यति ॥ र्म्_10.25{25} ॥
दुर्गतिशोधनं कश् च पिण्डम् एकं प्रदास्यति ।
नूनं मदत्ययाद् राजा सर्वस्वम् आहरिष्यति ॥ र्म्_10.26{26} ॥
तदा नामापि मे लोके न कश् चन ग्रहीष्यति ।
यद् अर्थम् एव संपत्तीः साधयामि प्रयत्नतः ॥ र्म्_10.27{27} ॥
तद् एव यदि नास्त्य् एवं तत् किं मे स्यात् सुजीविते ॥ र्म्_10.28{28!} ॥
वरम् एवाद्य मृत्युर् न मिथ्याचिरजीवनं ।
यस्माच् चिरम् अपि स्थित्वा मृत्युदुःखं तदैव हि ॥ र्म्_10.29{29} ॥
तन् मे भोग्ये ऽपि वांछा न भुक्त्वापि किं सुखं विना ।
अपुत्रस्य सुखं नैव परत्रेह निरन्वयात् ॥ र्म्_10.30{30} ॥
तन् मे जन्मापि व्यर्थं स्याद् ध्य् अपुत्रो ऽस्मि निरन्वयात् ।
हा हतो ऽहं स्वदैवेन किं मयात्र करिष्यते ॥ र्म्_10.31{31} ॥
कस्याग्रे संवदिष्यामि को मे बुद्धिं प्रदास्यति ।
कस्याहं शरणं यास्ये को मां समुद्धरिष्यति ॥ र्म्_10.32{32} ॥
इति चिन्ताविषण्नो ऽसौ तस्थौ कोष्ठे यथातुरः ।
निरुत्साही गृहान् नैव निरपायात् कदाचन ॥ र्म्_10.33{33} ॥
एतच् चिन्ताविषण्णाभं तं गृहस्थं सुहृज्जनाः ।
दृष्ट्वैव सहसोपेत्य बोधयितुं समब्रुवन् ॥ र्म्_10.34{34} ॥
किं ते दुःखं समुत्पन्नं केनैवं तिष्ठसे सखे ।
वक्तव्यं चेत् तदा आशु सर्वथा वक्तुम् अर्हसि ॥ र्म्_10.35{31} ॥
इति पृष्टे सुहृद्भिस् तैर् गृहस्थः स विनिश्वसन् ।
तान् सर्वान् सुहृदो दृष्ट्वा तद् दुःखं समुदाहरत् ॥ र्म्_10.36{36} ॥
सुहृदो मे भवन्तो हि तन् मयात्र प्रचक्ष्यते ।
संपत्तिर् महती मे ऽस्ति पुत्रो नैव सुतापि नः ॥ र्म्_10.37{37} ॥
तेन मे संपदः सर्वा विनक्ष्यन्ति निरर्थिताः ।
एतच् चिन्ताविषार्त्ताहं तिष्ठामि पुत्रवांछितः ॥ र्म्_10.38{38} ॥
अपुत्रस्य सुखं नास्ति परत्रेह समंततः ।
तन् मे जन्मापि व्यर्थं स्याद् अपुत्रस्य निरन्वयात् ॥ र्म्_10.39{39} ॥
तथा हतो ऽहं स्वदैवेन किं मयात्र चरिष्यते ।
इति तेनोदिते सर्वे ज्ञातिवंधुसुहृज्जनाः ॥ र्म्_10.40{40} ॥
तस्य ग्रीहपतेश् चैवां तद् उपायं समादिशत् ।
किं भद्रात्र विषादेन यत्र देवाधिकारता ॥ र्म्_10.41{41} ॥
तथापि क्रियतां यत्नं क्लैब्यं त्यक्त्वा त्वयाधुना ।
यद् अशक्यं वलैर् द्रव्यैस् तद् उपायेन शक्यते ॥ र्म्_10.42{42} ॥
तस्मात् क्लैब्यम् इह त्यक्त्वा कुरु यत्नं समाहितः ।
देवताराधनां कृत्वा सर्वकार्य्यं हि साधयेत् ॥ र्म्_10.43{43} ॥
तदादौ देवताः पूज्य याचस्व पुत्रम् आत्मना ।
ततो देवप्रसादेन तवधर्मानुभावतः ।
पुत्रो वा दुहिता वापि समुपपत्स्यते ध्रुवं ॥ र्म्_10.44{44} ॥
ततस् ते संततिश् चैवं वर्द्धिष्यति क्रमात् तथा ।
तदापि भृशतो मुक्तः सद्गतिं समवाप्नुयात् ॥ र्म्_10.45{45} ॥
इति तैः समुपादिष्टं श्रुत्वासाव् अनुमोदिताः ।
देवताराधनं कर्तुं प्रयतात्मा समारभत् ॥ र्म्_10.46{46} ॥
पूजांगैः पूजयित्वैवं ब्रह्माणं हरिम् ईश्वरं ।
इंद्रादिलोकपालानां संततिं समयाचत ॥ र्म्_10.47{47} ॥
एवं पुत्राभिलासी स सदा च सन्ततीछया ।
देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ॥ र्म्_10.48{48} ॥
नित्यम् एवं कृतस्यापि तस्य दैवप्रणामतः ।
न पुत्रो दुहिता वापि नोदपादि चिराद् अपि ॥ र्म्_10.49{49} ॥
तथा चापि गृहस्थो ऽसौ देवतासु निराशया ।
सन्तत्युच्छिन्नचिन्तार्त्तस् तस्थौ भूयो विषादितः ॥ र्म्_10.50{50} ॥
ततः कश्चित् सुहृत् साधुः संबुद्धोपासकः सुधीः ।
तं गृहस्थम् उपागत्य तथैवं पर्य्यबोधयत् ॥ र्म्_10.51{51} ॥
साधो किन् ते विषादेन तद् धीरं समुपाश्रय ।
यदि ते सन्ततौ वांछा तन् मे श्रुत्वा ततश् चर ॥ र्म्_10.52{52} ॥
किम् एवं देवताः पूज्य याचसे पुत्रम् आदरात् ।
यत्र दैवाधिकारत्वं तत्र किं देवता वलं ॥ र्म्_10.53{53} ॥
वंशार्थे यदि ते भक्तिर् अस्त्य् एवं देवतासु तत् ।
संबुद्धशरणं गत्वा सद्धर्मं समुपाश्रय ॥ र्म्_10.54{54} ॥
ततो धर्मानुभावेन बुद्धस्यापि प्रसादतः ।
नूनं ते सत्सुतः शीघ्रम् उत्पत्स्यति न संशयः ॥ र्म्_10.55{55} ॥
यदि नोत्पत्स्यते पुत्रस् तव देवविरोधतः ।
पुण्यम् उत्पत्स्यते नूनं तेन सद्गतिम् आप्नुयात् ॥ र्म्_10.56{56} ॥
ये बुद्धशरणं यान्ति ते लभन्ति शुभाशयं ।
ये विशुद्धाशया लोके सद्धर्मं ते शृण्वन्ति हि ॥ र्म्_10.57{57} ॥
ये सद्धर्मानुशृण्वन् तो बोधिचित्तं लभन्ति ते ।
प्रलब्धबोधिचित्ता ये ते चरन्ति गुणार्थिनः ॥ र्म्_10.58{58} ॥
गुणकामाश् च ये लोके ते भजन्ति जिनात्मजान् ।
बोधिसत्वानुभावेन बोधिचर्यां समाप्नुयुः ॥ र्म्_10.59{59} ॥
बोधिचर्यारता ये च न ते गछंति दुर्गतिं ।
सर्वक्लेशगणाञ् जित्वा सौख्यावतीम् अवाप्नुयुः ॥ र्म्_10.60{60} ॥
एवं मत्वा जिनं स्मृत्वा सद्धर्मं समुपाश्रयेः ।
ततस् ते संभवेद् भद्रम् इहामुत्रापि सर्वतः ॥ र्म्_10.61{61} ॥
इति तेनोदितं श्रुत्वा गृहस्थो ऽसौ ऽनुमोदितः ।
तथेति प्रतिसंश्रुत्य संबुद्धं स्मर्तुम् ऐछत ॥ र्म्_10.62{62} ॥
ततो गृहपतिर् नित्यं सदारः श्रद्धयान्वितः ।
संबुद्धं सुगतं स्मृत्वा वंशम् एवम् अयाचत ॥ र्म्_10.63{63} ॥
नमस् ते भगवन् नाथ भवतां शरणं व्रजे ।
तन् मां करुणाय दृष्ट्या द्रष्टुम् अर्हसि सर्वथा ॥ र्म्_10.64{64} ॥
भवान् एव हि जगन्नाथः सर्वसत्वहितार्थदः ।
त्वया मह्यं हितार्थाय सत्पुत्रं दातुम् अर्हसि ॥ र्म्_10.65{65} ॥
इत्य् एवं स गृही साधुः पुत्राभिलषितः सदा ।
सभार्य्यः सुगतं स्मृत्वा तथा नित्यं समुत्सुकः ॥ र्म्_10.66{66} ॥
तदैव समये कश्चिद् देवपुत्रो दिवश् च्युतः ।
स संबुद्धानुभावेन तद्भार्यागर्भम् आविशत् ॥ र्म्_10.67{67} ॥
ततः स्वापन्नसत्वाभूत् सा भार्या गृहिणः सती ।
दोहदलक्षणोपेता कृशाङ्गी भाविनी क्रमात् ॥ र्म्_10.68{68} ॥
प्रवृद्धगर्भा सा दृष्ट्वा स्वयं च गर्भम् आदरात् ।
दक्षपार्श्वगतं सत्वं मत्वा चैवं व्यचिंतयत् ॥ र्म्_10.69{69} ॥
नूनं मे जायते गर्भे सत्वो बुद्धानुभावतः ।
यद् अयं दक्षिणे वर्त्ति तेन पुत्रो भवेत् खलु ॥ र्म्_10.70{70} ॥
इति निश्चित्य सा नारी पुत्रोत्पत्याशया मुदा ।
स्वस्वामिनो पुरे स्थित्वा रहस्यैवं न्यवेदयत् ॥ र्म्_10.71{71} ॥
दृष्ट्यार्य्यपुत्र वर्द्धस्व यद् अहं गर्भिणी भवे ।
नूनम् अयं भवेत् पुत्रो यत् स्थितो दक्षिणोदरे ॥ र्म्_10.72{72} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रमोदितः ।
दक्सिणं वाहुम् उन्नम्य नन्दन्न् एवम् उदानयत् ॥ र्म्_10.73{73} ॥
चिराभिलषितं पुत्रमुखं पश्येयं सांप्रतं ।
जातः स्यान् नामजाता मे कुलवंशस्थितिर् भवेत् ॥ र्म्_10.74{74} ॥
कृत्यानि च प्रकुर्वीत बिभृयाद् भरणं प्रति ।
नूनं बुद्धानुभावेन सत्पुत्रो ऽपि भविष्यति ॥ र्म्_10.75{75} ॥
यद् अस्माकं कृतं पूर्वं कर्म दानादिकं शुभं ।
एतत् पुण्यानुभावेन भवेत् कुशलम् एतयोः ॥ र्म्_10.76{76} ॥
ततस् तेन सदा भर्त्ता सह संमोदचारिणी ।
पथ्याहारोपचारैश् च वर्द्धितो सुखचारिणी ॥ र्म्_10.77{77} ॥
ततः सा समये सूत पुत्रं दिव्यातिसुंदरं ।
दर्शनीयं सुसौम्याङ्गं प्रासादिकं मनोहरं ॥ र्म्_10.78{78} ॥
सर्वाङ्गलक्षणोपेतं सदीनारकरद्वयं ।
सर्वसत्वमनापीशम् अभिरूपं सुभद्रिकं ॥ र्म्_10.79{79} ॥
ततः सा जननी तस्य वालकस्य करद्वयं ।
दीनारांकितम् आलोक्य सहर्षं विस्मिताभवत् ॥ र्म्_10.80{80} ॥
ततो ऽसौ जनकश् चापि जातं पुत्रमहाद्भुतं ।
सखीभिर् वेदितं श्रुत्वा विस्मितो द्रष्टुम् आययौ ॥ र्म्_10.81{81} ॥
ततः प्रजापतिः सापि विस्मितो स्वामिनो ऽग्रतः ।
दर्शयित्वा सुतं पुत्रं शंकितैवं न्यवेदयत् ॥ र्म्_10.82{82} ॥
स्वामिं पश्य महाश्चर्य्यम् अस्य हेमान्वितौ करौ ।
तच् छुभं वाप्य् अशुभं वा दर्शयित्वा विचारय ॥ र्म्_10.83{83} ॥
इति भार्य्योदितं श्रुत्वा दृष्ट्वा तं वालकं चिरं ।
दीनारं भुजयोः पश्यं तस्थौ सविस्मयान्वितः ॥ र्म्_10.84{84} ॥
ततस् तस्य गृहस्थो ऽसौ निमित्तं ज्ञातुम् आदरात् ।
नैमित्तिकं समाहूय दारकं तम् अदर्शयत् ॥ र्म्_10.85{86} ॥
भवन्तो दृश्यताम् अस्य दारकस्य करद्वयं ।
तन् निमित्तं परिज्ञाय तत् फलं वक्तुम् अर्हथ ॥ र्म्_10.86{86} ॥
इत्य् उक्ते तेन ते सर्वे दृष्ट्वा तं दारकं शुभं ।
दीनारे भुजयोश् चापि परिज्ञायैवम् अब्रवीत् ॥ र्म्_10.87{87} ॥
साधो गृहपते ह्य् अस्य दारकस्य करद्वयं ।
सुवर्णलक्षणोपेतं तत् ते भद्रं भवेत् खलु ॥ र्म्_10.88{88} ॥
तवायं दारको दाता महेशाख्यो भवेत् किल ।
स्वहस्तं संप्रसार्य्यैव हेमवृष्टिं करिष्यति ॥ र्म्_10.89{89} ॥
अपनीय स्वयं हस्ताद् इदं दीनारम् अर्पयेत् ।
अपनीते पुनर् अन्यत् प्रादुर् भवेत् ततो ऽधिकं ॥ र्म्_10.90{90} ॥
इत्य् एवं तैः समादिष्टं श्रुत्वा संहर्षितो गृही ।
ततो जातिमहं कृत्वा ज्ञातीन् एवम् अभाषत ॥ र्म्_10.91{91} ॥
भवन्तो दारकस्यास्य शुभाक्षरसमन्वितं ।
नामधेयं यथायोग्यं क्रियतां संप्रसिद्धितं ॥ र्म्_10.92{92} ॥
इति तेनार्थितं श्रुत्वा सर्वे ते ज्ञातयस् तथा ।
दृष्ट्वा तस्य निमित्तानि संमतेनैवम् अब्रुवन् ॥ र्म्_10.93{93} ॥
यस्माद् धस्तद्वयो ऽप्य् अस्य हिरण्येनोपलक्षितं ।
तन् नाम्ना प्रसिद्धो ऽस्तु हिरण्यपाणिर् इत्य् अयं ॥ र्म्_10.94{94} ॥
एवं ज्ञातिसमुदिष्टं श्रुत्वासौ स गृहाधिपः ।
तथेति तस्य पुत्रस्य चक्रे नामव्यवस्थितं ॥ र्म्_10.95{95} ॥
ततो हिरण्यपाणिः स दारकः प्रतिपालने ।
अष्टासु यो ऽपि धात्रीषु तेन पित्रा समर्पितः ॥ र्म्_10.96{96} ॥
ताभिः प्रपाल्यमानो ऽसौ पथ्यपुष्टोपचारणैः ।
वर्द्धितो ऽभूत् क्रमाद् आशु ह्रदस्थम् इव पंकजं ॥ र्म्_10.97{97} ॥
तथा क्रमात् प्रवृद्धो ऽसौ हिरण्यपाणिर् आत्मवित् ।
श्राद्धो भद्राशयो धीमान् स्वपरार्थहितार्थिकः ॥ र्म्_10.98{98} ॥
ततः स शिक्षितुं विद्याः सद्गुरुं समुपाश्रयत् ।
क्रमात् तेषां प्रसादाच् च विद्यापारं ययौ लघुः ॥ र्म्_10.99{99} ॥
ततो ऽसौ दारको विद्वान् दाता श्रद्धासमन्वितः ।
स्वहस्तं संप्रसार्य्यैव ददौ दानं यथेप्सितं ॥ र्म्_10.100{100} ॥
गुरुभ्यो ब्राह्मणेभ्यश् च याचकेभ्यः स दारकः ।
स्वहस्तं संप्रसार्य्यैव ददौ हेमं यथेप्सितं ॥ र्म्_10.101{1} ॥
तथा तद् दानम् आकर्ण्य श्रवणब्राह्मणादयः ।
अर्थिनो धनलुब्धाश् च संप्रतीयुः समंततः ॥ र्म्_10.102{2} ॥
तथा तं समुपेत्यैवं सर्वदिग्भ्यः समागताः ।
वालावृद्धादयो दीना ययाचिरे यथेप्सितं ॥ र्म्_10.103{3} ॥
तदा हिरण्यपाणिः स दृष्ट्वैतान् अर्थिनो मुदा ।
सर्वोपकरणैश् चापि सर्वांस् तान् समतोषयत् ॥ र्म्_10.104{4} ॥
ततस् ते याचकाः सर्वे तेनैव परितर्पिताः ।
यथेछया सुखं भुक्त्वा प्रचेरुर् धर्ममानसा ॥ र्म्_10.105{5} ॥
तथा वीथिगतश् चैवं हस्तद्वयं प्रसार्य सः ।
हेमराशिं समुत्थाप्य सर्वेभ्यः प्रददौ मुदा ॥ र्म्_10.106{6} ॥
तथा सर्वे ऽपि ते लोका धनाढ्याः सुखिनो ऽभवन् ।
नैको ऽभूत् कृपनो दुःखी नो ऽपि कश्चिद् दरिद्रितः ॥ र्म्_10.107{7} ॥
सर्वे ऽपि धनिनः प्राढ्या दातारो भोगिनो ऽभवन् ।
सत्यधर्मानुरक्ताश् च सद्धर्मश्रवणार्थिनः ॥ र्म्_10.108{8} ॥
तदा तस्यैव तत् कीर्त्तिः सर्वत्र भुवनेष्व् अपि ।
लोकैर् उद्गीर्यमानो ऽसौ प्रससार समंततः ॥ र्म्_10.109{9} ॥
तद् दृष्ट्वा ब्राह्मणो लोभी मात्सर्य्यप्रहताशयः ।
तद् यशः प्रतिलब्धं स मनसैवं व्यचिन्तयत् ॥ र्म्_10.110{10} ॥
यद् अस्य भुजयोर् हेम चिन्तामणिसमं खलु ।
तेनायं भवते श्रीमान् प्रार्थितार्थाधिकप्रदः ॥ र्म्_10.111{11} ॥
यच् चायं दारकः श्राद्धः प्रार्थनासंप्रदायकः ।
तद् अहं प्रार्थनां कृत्वा प्रतिगृह्णीय तत् मणिं ॥ र्म्_10.112{12} ॥
इत्य् असौ मनसा ध्यत्वा लोभाकृष्टो त्वरान्वितः ।
तं हिरण्यभुजं प्रेत्य तद् दीनारं समयाचत ॥ र्म्_10.113{13} ॥
जयो ऽस्तु ते सदा साधो दीर्घायुश् च सुमंगलं ।
तथैव त्वं सदा भूया अर्थिनां कल्पपादपः ॥ र्म्_10.114{14} ॥
त्वत्कीर्त्त्या समाहूतः प्रागतो ऽस्मि यद् आशया ।
तदर्थं पूरयित्वा मे चित्तं हर्षय सर्वतः ॥ र्म्_10.115{15} ॥
इत्य् एवं प्रार्थिते तेन विप्रेणाभिप्रगल्भिना ।
दृष्ट्वा हिरण्यपाणिः स तं विप्रं प्रत्यभाषत ॥ र्म्_10.116{16} ॥
साधु विप्र प्रसीद त्वं यदर्थं समुपागतः ।
तदर्थं संप्रदत्वाद्य हर्षयिष्यामि ते मनः ॥ र्म्_10.117{17} ॥
तच् छंका मा कृथा ह्य् अत्र यद् यत् ते हृदि रोचते ।
तत् तन् नूनं प्रदास्ये ते तद् वदस्व यद् ईहितं ॥ र्म्_10.118{18} ॥
इति तेनोदितं श्रुत्वा विप्रो ऽसौ संप्रहर्षितः ।
स्वस्तीत्य् आशीर्वचो दत्वा तद् दीनारम् अयाचत ॥ र्म्_10.119{19} ॥
साधो हिरण्यपाणे यत् तव हस्तसमुद्भवं ।
तद् दीनारं प्रदत्वा मे चित्तं संहर्षयार्थदः ॥ र्म्_10.120{20} ॥
इति तेनोदितं श्रुत्वा तत् पितासौ सुविस्मितः ।
सवन्धुज्ञातिमित्रस् तं पुत्रम् एवम् अभाषत ॥ र्म्_10.121{21} ॥
शृणु पुत्र मया प्रोक्तं तवैव हितकारणं ।
यदि ते स्वामिनी प्रीतिस् तत् कर्त्तव्यं हि सर्वथा ॥ र्म्_10.122{22} ॥
त्वं हि पुत्र मया लब्धः संबुद्धस्यानुभावतः ।
तत् संबुद्धशासने कार्य्यम् एव दातु समर्हसि ॥ र्म्_10.123{23} ॥
यच् चेदन् भुजयोर् जातं दीनारं मणिसंनिभं ।
तद् अपि सुगतस्यैव प्रभावान् मन्यतां खलु ॥ र्म्_10.124{24} ॥
यच् चेदं ते करोद्भूतं जीवितं सहजेन्द्रियं ।
तत् स्वकरात् समुद्धृत्य कथं दद्या द्विजातये ॥ र्म्_10.125{25} ॥
यदीदं दास्यते हस्तात् समुद्धृत्य वलाद् अपि ।
तदा ते जीवितं वापि सहानेन व्रजं खलु ॥ र्म्_10.126{26} ॥
तस्माद् एवं परिज्ञाय यदि ते जीवित प्रियं ।
तद् एवं सहजं हेम मा प्रदाहि द्विजातये ॥ र्म्_10.127{27} ॥
तद् अन्यद् दीयतां तस्मै यद् यद् वस्तु समीछितं ।
इदं तु सर्वथान्यस्मै दातव्यं नैव यत्नतः ॥ र्म्_10.128{28} ॥
येनैव त्वं महेशाख्यो सर्वार्थिप्रार्थितार्थदः ।
तेन यदा परिभ्रष्टस् तदा किं तेन मन्यसे ॥ र्म्_10.129{29} ॥
येनापि च त्वया सर्वे याचकाः संप्रतर्पिताः ।
तच् चिन्तामणिसामान्यं कथं दातुं समिछसि ॥ र्म्_10.130{30} ॥
यत् त्वया सुकृतं कर्म प्रकृत्वा पुण्यम् आचितं ।
नूनं तस्य विपाकत्वं भुंजयोस् ते प्रतिष्ठितं ॥ र्म्_10.131{31} ॥
तस्माद् इदं महारत्नं कस्मिञ्चिन् मा प्रदीयतां ।
दत्वा त्व् इदं महारत्नं किम् अन्यल् लब्धम् इछसि ॥ र्म्_10.132{32} ॥
यदि त्व् इदं महारत्नं दातुम् एवं प्रतिष्ठितं ।
संप्रदेहि जिनेन्द्राय तत् पुण्यम् अक्षयं वहुं ॥ र्म्_10.133{33} ॥
पुण्येन लभ्यते जन्म शुद्धवम्षे महत्कुले ।
पुण्येन दीयते कीर्त्तिं निर्वृतिं च समाप्नुयात् ॥ र्म्_10.134{34} ॥
यदि पुण्ये ऽस्ति ते वांछा तद् बुद्धशरणं गतः ।
देहि बुद्धानुशासिन्या तद् दानं हि महत्फलं ॥ र्म्_10.135{35} ॥
ततो नित्यं सुखं भुक्त्वा कृत्वा संबोधिसाधनं ।
क्रमाद् बोधिचरिं प्राप्ते निर्वृतिं वा समाप्नुयाः ॥ र्म्_10.136{36} ॥
इति पित्रा समादिष्टं श्रुत्वासौ हेमभृत् सुधीः ।
तथेति निश्चयं कृत्वा पुनर् एवम् अभाषत ॥ र्म्_10.137{37} ॥
सत्यं तात त्वयादिष्टं तत् सर्वं हितम् एव मे ।
तस्मात् तथा चरिष्यामि त्वदाज्ञां शिरसा वहन् ॥ र्म्_10.138{38} ॥
किं तु सत्यं मया प्रोक्ताम् इदं दातुं द्विजातये ।
तत् कथम् अन्यथा कृत्वा पुण्यम् एव समाप्नुयात् ॥ र्म्_10.139{39} ॥
तत् सत्यं पूरणे तात प्रदद्यामि ममात्मनः ।
अथ न दास्यते ह्य् अत्र कियत् कालं हि जीवितं ॥ र्म्_10.140{40} ॥
यद् इदं भुजयोर् हेमं ममात्मसहसंभवं ।
तथैवं सहजीवेन विनक्ष्यति न संशयः ॥ र्म्_10.141{41} ॥
यथेदं तु महारत्नं मम देवसमुद्भवं ।
तथैवं संप्रदत्वास्मै पुनः प्राप्स्यामि ते ऽधिकं ॥ र्म्_10.142{42} ॥
यथा बुद्धानुभायेन संजातं करयोर् इदं ।
तथा सत्यानुभावेन पुनर् अन्यज् जनिष्यते ॥ र्म्_10.143{43} ॥
धर्मेण तुष्यते बुद्धो मूलं धर्मस्य सत्यवाक् ।
तत् सत्यपारणार्थेन दास्याम्य् अहम् इदं मणिं ॥ र्म्_10.144{44} ॥
सत्यं विना न फुल्लन्ते पुण्यानि प्रकृतान्य् अपि ।
म्लानिभूतानि नश्यन्ते शस्यानीवामृतं विना ॥ र्म्_10.145{45} ॥
सत्येन वर्द्धते धर्मं धर्मेण पाल्यते नरः ।
धर्मिष्ठः सद्गतिं याति तस्मात् सत्यं महद्वली ॥ र्म्_10.146{46} ॥
तस्मात् सत्यवलेनात्र यशोधर्मार्थलब्धये ।
सर्वथास्मै प्रदास्यामि मा कृथास् तं निवारणं ॥ र्म्_10.147{47} ॥
इति पुत्रवचः श्रुत्वा पिता स विस्मयान्वितः ।
तथेत्य् अभ्यनुमोदित्वा तस्थौ तूष्णी विलोकयन् ॥ र्म्_10.148{48} ॥
ततो हिरण्यपाणिः स मत्वा पित्राधिवासितं ।
तद् दीनारं सहसोत्कृत्य विप्राय प्रददौ मुदा ॥ र्म्_10.149{49} ॥
तत् प्रदत्तम् असौ विप्रः प्रतिगृह्य प्रमोदितः ।
दत्वाशीर्वचनं तस्मै स्वगृहं सहसा ययौ ॥ र्म्_10.150{50} ॥
ततश् चानन्तरं तस्य भुजे ऽन्यत् तद्गुणाधिकं ।
दीनारं दिव्यरत्नाभैः प्रादुरासीन् महाद्भुतं ॥ र्म्_10.151{51} ॥
तद् दत्तानंतरोद्भूतं दीनारं तद्गुणाधिकं ।
दृष्ट्वा श्रुत्वा च सर्वे ते लोका आशु सुविस्मिताः ॥ र्म्_10.152{52} ॥
ततो हिरण्यपाणिः स एवं लोकान् प्रहर्षयन् ।
संबुद्धशासने दातुं जेतवनम् उपाचरत् ॥ र्म्_10.153{53} ॥
तत्र भिक्षून् यतीन् दृष्ट्वा सद्धर्मचरणोत्सुकः ।
संबुद्धं सुगतं द्रष्टुं विहारं समुपाविशत् ॥ र्म्_10.154{54} ॥
तत्रासौ भगवन्तं तम् अद्राक्षीत् समितिस्थितं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं ॥ र्म्_10.155{55} ॥
व्यामप्रभासम् उज्वालं सहस्रेणाधिकप्रभं ।
शान्तेंद्रियं सुभद्रांगं सौम्यरूपं मनोहरं ॥ र्म्_10.156{56} ॥
दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः ।
नत्वा पादौ मुनेस् तस्य पुरस्तात् समुपाश्रयन् ॥ र्म्_10.157{57} ॥
तत्रासौ भगवान् तस्य दृष्ट्वाशयविशुद्धतां ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_10.158{58} ॥
तं धर्मं सुगतादिष्टं श्रुत्वासौ संप्रमोदितः ।
आनंदं समुपाश्रित्य प्रणम्यैवं व्यजिज्ञपत् ॥ र्म्_10.159{59} ॥
भदन्त दातुम् इछामि संघेभ्यो भोजनं खलु ।
तद् आज्ञां देहि मे शास्त यदि ते ऽस्ति कृपा मयि ॥ र्म्_10.160{60} ॥
इति विज्ञापिते तेन हिरण्यपाणिना मुदा ।
स आनंदः समालोक्य दारकं तं समादिशत् ॥ र्म्_10.161{61} ॥
साधु वत्स महाभाग्याद् भद्रम् आलोचितं त्वया ।
यद्य् अत्र दास्यते भोज्यं कार्षापणं प्रदीयतां ॥ र्म्_10.162{62} ॥
एवंकृते तु ते वत्स मंगलं सर्वदा भवेत् ।
अतश् च दुर्गतिं हित्वा सद्गतिं समवाप्नुयाः ॥ र्म्_10.163{63} ॥
इत्य् आनंदसमादिष्टे दारको ऽसौ प्रमोदितः ।
स्वयं हस्तौ प्रसार्य्यैव हेमराशिं व्यधात् पुनः ॥ र्म्_10.164{64} ॥
तां दृष्ट्वा भिक्षवः सर्वे विस्मिताः संप्रहर्षिताः ।
तद्द्रव्यैः साधयामास भोज्यानि सुरसानि च ॥ र्म्_10.165{65} ॥
ततः स दारको भोज्यैस् तैः प्रणीतसुसाधितैः ।
संबुद्धप्रमुखं सर्वसांघिकं समतोषयत् ॥ र्म्_10.166{66} ॥
ततो ऽसौ भोजनान्ते च संबुद्धप्रमुखं क्रमात् ।
सर्वसंघं प्रणम्यैवं पुनस् तस्थौ कृतांजलिः ॥ र्म्_10.167{67} ॥
ततः श्रीभगवान् दृष्ट्वा तस्याशयविशुद्धतां ।
आर्य्यसत्यं समायुक्तं दिदेश धर्मम् उत्तमं ॥ र्म्_10.168{68} ॥
तच् छ्रुत्वा हेमपाणिः स सत्कायदृष्टिपर्वतं ।
प्रभित्वा ज्ञानवज्रेण विंशतिशिखरोद्गतं ॥ र्म्_10.169{69} ॥
श्रोतापत्तिफलं प्राप्तो दृष्टसत्यो ऽभवत् ततः ।
संबुद्धसगणं नत्वा स्वगेहं हर्षितो ययौ ॥ र्म्_10.170{70} ॥
तत्र सर्वं स तद्वृत्तं पित्रोर् आख्याय हर्षितः ।
प्रव्रज्याचरणानुज्ञां पितरौ प्रत्ययाचत ॥ र्म्_10.171{71} ॥
चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने ।
तद् अनुज्ञां प्रदत्तं मे हितं मयि यदीच्छथ ॥ र्म्_10.172{72} ॥
इति पुत्रोदितं श्रुत्वा स्वात्मजं स पितावदत् ।
मा कृथा सहसा पुत्र प्रव्रज्याचरणे मनः ॥ र्म्_10.173{73} ॥
प्रव्रज्याचरणे भैक्ष्यं दुःखिनाम् एव तद्व्रतं ।
त्वं वृद्धिमान् महादाता तत् प्रव्रज्यां कुतश् चरेः ॥ र्म्_10.174{74} ॥
किं वाप्यते विवाहस् त्वं दहरश् च कुमारिकः ।
प्रव्रज्या दुष्करं स्थानं तत् कथं प्रचरेत् सुतः ॥ र्म्_10.175{75} ॥
तत् तावत् त्वं युवा पुत्र विवाहित्वा कुलस्त्रियं ।
भुक्त्वा सौख्यं यथाकामं गृहे धर्मं समाचर ॥ र्म्_10.176{76} ॥
ततो वंशं समुत्पाद्य कुलस्थितिप्रसिद्धये ।
कुलधर्मं प्रतिस्थाप्य ततः प्रव्रज वार्द्धिकः ॥ र्म्_10.177{77} ॥
यदा वृद्धो दरिद्रश् च प्रव्रज्यां हि तदा चरेत् ।
यावद् युवा समृद्धश् च तावत् त्वं प्रव्रज कथं ॥ र्म्_10.178{78} ॥
संपत्तिः क्षणयौवन्यम् एतन् मारवलध्रुवं ।
तदेतदा कथं पुत्र प्रव्रज्याव्रतम् आचरेः ॥ र्म्_10.179{79} ॥
इत्य् एतद् दुष्करं मत्वा प्रव्रज्याचरणे मनः ।
सर्वथा त्वं विनिर्वार्य कुलधर्मं समाचर ॥ र्म्_10.180{80} ॥
ततस् ते मंगलं नित्यं इमु पुत्र भवेद् ध्रुवं ।
यशोधर्मसुखान्वेत्य सद्गतिं चाप्य् अवाप्नुयाः ॥ र्म्_10.181{81} ॥
इति पित्रोदितं श्रुत्वा दारको ऽसौ विशंकितः ।
बोधयन् पितरं धर्मे पुनर् एवम् अभाषत ॥ र्म्_10.182{82} ॥
सत्यम् एव तथा तात यद् एतद् भाष्यते त्वया ।
तथापि श्रूयतां तात यद् अभिप्रायकं मम ॥ र्म्_10.183{83} ॥
अनित्यं खलु संसारं जीवितं चापि भंगुरं ।
क्षणध्वंसि शरीरं च क्षणसंपद् घनोपमं ॥ र्म्_10.184{84} ॥
एवं पश्यन् अहं तात संसारभोगनिस्पृहः ।
प्रव्रज्याव्रतम् आश्रित्य प्राप्तुम् इछामि निर्वृतिं ॥ र्म्_10.185{85} ॥
अपि च दुल्लभं जन्म मानुषं भवचारिणां ।
सर्वेषाम् अपि जन्तूनां मरणं सर्वथा ध्रुवं ॥ र्म्_10.186{86} ॥
मानुष्ये लभ्यमाने तु कुतो धर्मानुभावना ।
विना धर्मानुभावेन कथं सद्गतिम् आप्नुयात् ॥ र्म्_10.187{87} ॥
संबुद्धो ऽपि ससंघो ऽयं स्थास्यति न सदेह च ।
अन्यत्रापि व्रजेन् नूनं निर्वृतिं वा गमिष्यति ॥ र्म्_10.188{88} ॥
संबुद्धे निर्वृतिं याते सद्धर्मो ऽपि विनक्ष्यते ।
सद्धर्मान्तर्गते लोके म्लेछधर्मवली भवेत् ॥ र्म्_10.189{89} ॥
म्लेछधर्मवलीक्रान्ते सर्वत्र भूमिमंडले ।
सर्वलोकाश् च कामांधा भवेयुः क्लेशमानिनः ॥ र्म्_10.190{90} ॥
तद धर्मानुसंवृत्तौ मतिः कस्यापि नो चरेत् ।
प्रव्रज्यासंवरं धर्तुं कः समर्थो भविष्यति ॥ र्म्_10.191{91} ॥
नैव संयुज्यते चित्तं प्रव्रज्यासंवरं विना ।
अविशोधितचित्तात्मा न यायात् परमां गतिं ॥ र्म्_10.192{92} ॥
तच् चित्तये विशुद्ध्यर्थं निर्वाणपदलब्धये ।
प्रव्रज्यासंवरं धर्त्तुं इछामि तात सांप्रतं ॥ र्म्_10.193{93} ॥
तद् यदि मे हितं द्रष्टुम् इछसि तात सर्वदा ।
तद् अनुज्ञां समादातुम् अर्हसि मात्र चारये ॥ र्म्_10.194{94} ॥
इति पुरोदितं श्रुत्वा पिता स परिबोधितः ।
तथेत्य् अनुमतं कृत्वाभवत् तूष्णीव्यवस्थितः ॥ र्म्_10.195{95} ॥
तदा तज्जननी चासौ दृष्ट्वा तं सुतम् आत्मजं ।
स्नेहाद् अश्रु विमोचन्ती निवारयितुम् अब्रवीत् ॥ र्म्_10.196{96} ॥
हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसे ।
मा पुत्र सहसा गछ किंचित् कालं विनोदय ॥ र्म्_10.197{97} ॥
यावज् जीवाम्य् अहं तात तावन् मा गाः कुहापि च ।
मृतायां मयि भो पुत्र तदा व्रजस्व वांछिते ॥ र्म्_10.198{98} ॥
अचिरेणैव मां मृत्युर् ग्रहीष्यति न संशयः ।
तावद् एव गृहे स्थित्वा दानं कुर्वन् सुखं वस ॥ र्म्_10.199{99} ॥
इति मात्रोदितं श्रुत्वा पुत्रो ऽसौ परिमोदितः ।
नत्वा तां जननीम् एवं बोधयितुम् अभाषत ॥ र्म्_10.200{100} ॥
यत् त्वयाम्वे रुदन्त्य् एवं मृत्युनाम प्रकीर्तितं ।
तेन मे चोदितं चित्तं प्रव्रज्याव्रतसाधने ॥ र्म्_10.201{1} ॥
ध्रुवं जन्मवतां मृत्युर् मृतानां जन्म च ध्रुवं ।
परिवर्त्तिनि संसारे मृतः को हि न जायते ॥ र्म्_10.202{2} ॥
धर्मिष्ठो वीर्यावांश् चापि मरणं याति सर्वतः ।
पापिष्ठो निघ्नितश् चापि मरणं याति सर्वतः ॥ र्म्_10.203{3} ॥
धर्मिष्ठः सत्सुखं भुक्त्वा मृतो यात्य् एव सद्गतिं ।
पापिष्ठो दुःखतां भुक्त्वा मृतो गछति दुर्गतिं ॥ र्म्_10.204{4} ॥
यदा संत्यजते जन्तुः संसारप्राणवायुना ।
तदा संत्यज्यते सर्वैर् वंधुमित्रजनैर् अपि ॥ र्म्_10.205{5} ॥
तदा न विद्यते को ऽपि हितकारी सहानुगः ।
धर्म एकः सहायः स्यात् सर्वत्रापि हितार्थकृत् ॥ र्म्_10.206{6} ॥
तस्मात् मातः प्रयत्नेन कर्त्तव्यं धर्मम् आदरात् ।
धर्मेण रक्ष्यते सर्व इहामुत्र सहापि हि ॥ र्म्_10.207{7} ॥
धर्मेणैवाभिपाल्यन्ते वालवृद्धातुरादयः ।
धर्मेण सुधृताः सत्वा निमग्ना दुःखसागरे ॥ र्म्_10.208{8} ॥
धर्मेण जीयते दुष्टो धर्मेण जीयते कलिः ।
धर्मेण जीयते रागो मृत्युर् धर्मेण जीयते ॥ र्म्_10.209{9} ॥
धर्मेण सुकुले जन्म लक्ष्मी धर्मेण स्थीयते ।
विद्यायशो ऽर्थमोक्साश् च प्राप्यन्ते धर्मतः खलु ॥ र्म्_10.210{10} ॥
धर्मं तु सौगतं कार्यं सर्वलोकहितंकरं ।
सुगतस्यापि धर्मेषु प्रव्रज्याधर्मम् उत्तमं ॥ र्म्_10.211{11} ॥
यम् आश्रित्य महासत्वा जित्वा क्लेशगणान् लघुः ।
साक्षाद् अर्हत्पदं प्राप्य व्रजन्ति निर्वृतिं परां ॥ र्म्_10.212{12} ॥
इति मत्वा हि ते सर्वे भिक्षवो भवनिस्पृहाः ।
प्रव्रज्याव्रतम् आश्रित्य भवन्ति ब्रह्मचारिणः ॥ र्म्_10.213{13} ॥
तथात्राहं समिछामि प्रव्रज्याव्रतम् उत्तमं ।
तद् अनुज्ञां प्रदत्वा मे नात्र कार्यो विषादितः ॥ र्म्_10.214{14} ॥
यदि न दीयते ऽनुज्ञा तद् अपि नो वियोगतः ।
अकस्मान् मृत्युना घ्राय ग्रसिष्यति पुरो हि नः ॥ र्म्_10.215{15} ॥
तदा किं ते करिष्यामि ममापि किं करिष्यसि ।
कृत्वानुशोचनां चैव यास्यामो मरणं ध्रुवं ॥ र्म्_10.216{16} ॥
इति मातः परिज्ञाय तद् अनुज्ञां प्रदेहि मे ।
विषादं मा कृथा अत्र प्रसादीनी भवेत् प्रभु ॥ र्म्_10.217{17} ॥
तथा ते मंगलं नित्यम् इहामुत्रापि संभवेत् ।
अहं च सौगतं धर्मं धृत्वा निर्वृतिम् आप्नुयां ॥ र्म्_10.218{18} ॥
इति पुत्रोदितं श्रुत्वा मातासौ परिबोधिता ।
तथानुमोदनां कृत्वा तस्थौ तूष्णीव्यवस्थितान् ॥ र्म्_10.219{19} ॥
अथ हिरण्यपाणिः सः पित्रोर् मत्वाभिसंमतं ।
तयोश् च चरणे नत्वा सहसा निर्ययौ गृहात् ॥ र्म्_10.220{20} ॥
तत्र ज्ञातिगणांश् चासौ वन्धुमित्रसुहृज्जनान् ।
कृपणातिथिसंघादिं वांछितार्थैर् अतोषयत् ॥ र्म्_10.221{21} ॥
ततो ऽसौ वांधवान् सर्वान् संतर्प्य परिबोधयन् ।
आशु जेतवनं गत्वा विहारं समुपाविशत् ॥ र्म्_10.222{22} ॥
तत्रासौ सुगतं दृष्ट्वा कृतांजलिपुटो मुदा ।
भगवंतं तम् आनम्य प्रव्रज्यां समयाचत ॥ र्म्_10.223{23} ॥
नमस् ते भगवच् छास्त भवतां चरणं व्रजे ।
तत् प्रव्रज्याव्रतं दत्वा ब्रह्मचर्यं प्रदेहि मे ॥ र्म्_10.224{24} ॥
इति तेनार्थिते ऽसौ श्रीभगवान् तम् अभाषत ।
एहि भिक्षो कुमार त्वं ब्रह्मचर्यं चरेहि स ॥ र्म्_10.225{25} ॥
इति प्रोक्तो मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् ।
सम्यक्प्रवाजयित्वाशु स्वसंघे तं समग्रहीत् ॥ र्म्_10.226{26} ॥
एहीति प्रोक्तमात्रे ऽपि जिनेन्द्रेण स मुण्डितः ।
खिक्खिरीपात्रहस्ताभूच् ल्चीवरप्रावृतः सुधीः ॥ र्म्_10.227{27} ॥
ततः शिक्षासु शिक्षित्वा प्राप्योपसंपदो ऽपि च ।
व्यायच्छद् घटमानश् च समाधिषु समाहितः ॥ र्म्_10.228{28} ॥
तद् इदं पंचगंदं च भवचक्रं चलाचलं ।
विदित्वा सर्वसंस्कारगतिश् चापि विघाटिनी ॥ र्म्_10.229{29} ॥
भिंदन् सर्वम् अविद्याङ्गं प्राप्य विद्याः शुभंकराः ।
प्रतिसंविद्गुणप्राप्तो जितक्लेशगणो यतिः ॥ र्म्_10.230{30} ॥
साक्षाद् अर्हत्पदं प्राप्य वीतरागो जितेन्द्रियः ।
समलोष्टसुवर्णश् च वासीचंदनसंनिभः ॥ र्म्_10.231{31} ॥
आकाशसमचित्तश् च निर्विकल्पो निरंजनः ।
संसारभोग्यसत्कारलाभलोभसुनिस्पृहः ॥ र्म्_10.232{32} ॥
पंचाभिज्ञपदप्राप्तो चतुर्ब्रह्मविहारिकं ।
सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां ॥ र्म्_10.233{33} ॥
पूज्यो मान्यो ऽभिवंद्यश् च बभूव स हिरण्यभृत् ।
ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं ॥ र्म्_10.234{34} ॥
विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां ।
भगवन् केन धर्मेण हिरण्यपाणिर् अयं सुधीः ॥ र्म्_10.235{35} ॥
सर्वार्थिनो हि संतर्प्य साक्षाद् अर्हन् भवत्य् अपि ।
इति तैर् भिक्षुभिः पृष्टे भगवान् तान् तथाब्रवीत् ॥ र्म्_10.236{36} ॥
श्रूयतां भिक्षवः सर्वैर् युष्माभिर् विस्मिताशयैः ।
अनेन यत् कृतं कर्म तन् मया कथ्यते ऽधुना ॥ र्म्_10.237{37} ॥
पुरासीद् भगवान् बुद्धः काश्यपो ऽर्हन् मुनीश्वरः ।
सर्वविद्याधिपः शास्ता तथागतो विनायकः ॥ र्म्_10.238{38} ॥
ससांघिको जिनेन्द्रो ऽसौ वाराणसीम् उपाश्रितः ।
बोधिचर्यां समादिश्य कृत्वा धर्ममयं जगत् ॥ र्म्_10.239{39} ॥
सर्वाणि बुद्धकार्याणि समाप्य निर्वृतिं ययौ ।
तदा राजा कृकी नाम मत्वा तं निर्वृतिं गतं ॥ र्म्_10.240{40} ॥
विधिवद् अग्निसंस्कारं कारयित्वा महार्चनैः ।
ततस् तद्धातुरत्नानि गर्भ आरोप्य सादरात् ॥ र्म्_10.241{41} ॥
हेमरत्नमयं स्तूपं कारयाम् आस स प्रभुः ।
तत् सुसिद्धं प्रतिष्ठाप्य सद्विधानैर् महोत्सवैः ॥ र्म्_10.242{42} ॥
महश् चापि तदा तत्र स्थापयित्वा भजन् नृपः ।
तस्मिन्न् आरोप्यमानायां यष्ट्यां पूजापरिग्रही ॥ र्म्_10.243{43} ॥
किन्तवो कंदरो नाम निदधे रूपकद्वयं ।
ततः स पादयोर् नत्वा प्रणिधानं व्यधात् तथा ॥ र्म्_10.244{44} ॥
यन् मया श्रद्धया भक्त्यारोपितं रूपकद्वयं ।
यत् पुण्यं च विपाकेन जायेयं सुकुले सदा ॥ र्म्_10.245{45} ॥
करोद्भवसुवर्णैः संतर्पयित्वार्थिनो जनान् ।
एवंविधं च शास्तारम् आरोग्य समुपाश्रितः ॥ र्म्_10.246{46} ॥
एतद् धर्मं समासाद्य प्राप्नुयां परमां गतिं ।
तेन पुण्यविपाकेन प्रणिधानेन भूयसा ॥ र्म्_10.247{47} ॥
हिरण्यपाणिर् अयं दाता भवत्य् अर्हं स सांप्रतं ।
एवं सर्वे ऽपि संसारे भुंजते कर्मजं फलं ॥ र्म्_10.248{48} ॥
येनैवं यत् कृतं कर्म तेनैव भुंज्यते फलं ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ र्म्_10.249{49} ॥
शुभं वाप्य् अशुभं वापि भुक्तं तु क्षीयते खलु ।
नाग्निभिर् दह्यते कर्म क्लिद्यते नोदकैर् अपि ॥ र्म्_10.250{50} ॥
वायुभिः शुष्यते नापि भूमिषु क्षीयते न हि ।
अन्यथापि भवेन् नैव संसारे कर्मणो गतिः ॥ र्म्_10.251{51} ॥
शुभस्य शुभतैव स्यात् कृष्णस्य कृष्णतैव हि ।
मिश्रस्य मिश्रितैव स्याद् अन्यथा न सदा भवेत् ॥ र्म्_10.252{52} ॥
एवं मत्वाथ संसारे चरितव्यं सदा शुभं ।
न प्रणस्यंति कर्माणि कल्पकोटिशतैर् अपि ॥ र्म्_10.253{53} ॥
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ।
इत्य् असौ भगवान् बुद्धः सत्कर्मदेशनामतैः ॥ र्म्_10.254{54} ॥
तर्पयन् स कलांल् लोकान् ततो विश्रान्तम् आदधौ ।
इति शास्त्रोदितं श्रुत्वा सर्वे ते भिक्षुसांघिकाः ॥ र्म्_10.255{55} ॥
शुभेष्व् एव सदा नित्यं संप्रचेरुः समाहितः ।
महाराज त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ र्म्_10.256{56} ॥
बोधयित्वा प्रजाञ् चैवं स्थापनीयाः शुभे सदा ।
ततस् ते मंगलं नित्यं सर्वत्रापि भवेत् खलु ।
क्रमाद् बोधिचरीं प्राप्य संबोधिपदम् आपुण्याः ॥ र्म्_10.257{57} ॥
इति तेन समादिष्टं श्रुत्वा स नृपतीश्वरः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ र्म्_10.258{58} ॥
शृण्वन्ति ये श्रावयन्तीह यश् च हिरण्यपाणेर् अवदानम् एतत् ।
ते क्लेशमुक्ताः सुगतानुभक्ताः प्रयान्ति नूनं सुगतालयेषु ॥ र्म्_10.259{59} ॥
++ इति श्रीरत्नमालयां हिरण्यपाण्यवदानं नाम समाप्तं ++
xइ हस्तकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा भूयो ऽप्य् एवम् अभाषत ॥ र्म्_11.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणाख्यातं तथा मे वक्तुम् अर्हसि ॥ र्म्_11.2{2} ॥
इति तेन नरेन्द्रेण पृष्टो ऽसौ सुगतांशजः ।
उपगुप्तो महाभिज्ञस् तं नृपं प्रत्यभाषत ॥ र्म्_11.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि तद् अनुमोदनां कुरु ॥ र्म्_11.4{4} ॥
पुरैकसमये चैवं श्रीघनो ऽसौ तथागतः ।
संबुद्धः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ र्म्_11.5{5} ॥
श्रावस्त्यां वहिर् उद्याने जेतवने मनोरमे ।
अनाथपिण्डदोद्याने विहारे सुगताश्रमे ॥ र्म्_11.6{6} ॥
भिक्षुभिः श्रावकैः सार्द्धं उपासकैश् च चैलकैः ।
बोधिसत्वैर् महासत्वैस् तदन्यैश् च महर्षिभिः ॥ र्म्_11.7{7} ॥
व्यहरत् सर्वहितार्थाय धर्मामृतं प्रवर्षयन् ।
तत् सद्धर्मामृतं पातुं प्रययुर् बोधिकामिनः ॥ र्म्_11.8{8} ॥
लोकपाला महाराजा स्वस्वसैन्यजनैः सह ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मंत्रिणो जनाः ॥ र्म्_11.9{9} ॥
अमात्याः साधवः पौरा धनिनश् च महाजनाः ।
वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः ॥ र्म्_11.10{10} ॥
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः ।
तं बुद्धं सुगतं नाथं पूजयित्वा समंततः ॥ र्म्_11.11{11} ॥
परिवृत्य पुरोधाय शख्याविगुणकामिताः ।
कृतांजलिपुटो तस्थुः सद्धर्मचरणोत्सुकाः ॥ र्म्_11.12{12} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_11.13{13} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः ।
हर्षितास् ते ऽनुमोदन्तो वभूवुः परिबोधिताः ॥ र्म्_11.14{14} ॥
तदैव समये तस्यां श्रावस्त्यां पुरिसंभवः ।
आसीद् गृहपतिः प्राढ्यः कुवेरवत् समृद्धिमान् ॥ र्म्_11.15{15} ॥
श्राद्धो दाता महाभोगी सर्वहितार्थभृत् ।
त्रिरत्नसेवको धीमान् सुविशालपरिग्रहः ॥ र्म्_11.16{16} ॥
संगृही विधिवद् भार्यां स्वकुलधर्मचारिणी ।
परिणीता यथाकामं संरमे परिचारयन् ॥ र्म्_11.17{17} ॥
तस्यासौ रमणी भार्या संवृत्ता गर्भिणी सती ।
असूत समये पुत्रं प्रासादिकं मनोहरं ॥ र्म्_11.18{18} ॥
स च जातिस्मरो वालो जातमात्रः स्वकौ भुजौ ।
संदृष्ट्वालिंग्य चुंवित्वा परिष्वज्यैवम् अब्रवीत् ॥ र्म्_11.19{19} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ र्म्_11.20{20} ॥
तेनैवं जातमात्रेण दृष्टं कृतं प्रभाषितं ।
दृष्ट्वा श्रुत्वा च सा माता त्रासिता विस्मिताभवत् ॥ र्म्_11.21{21} ॥
किम् एतद् इति संत्रस्ता दृष्ट्वा तं दारकं मुदा ।
भर्त्तारं सहसाहूय अग्रम् एनम् अदर्शयत् ॥ र्म्_11.22{22} ॥
तदासौ दारकश् चापि दृष्ट्वा तं जनकं मुदा ।
हस्तौ दृष्ट्वा तथालिंग्य चुंवयित्वा चैवम् अब्रवीत् ॥ र्म्_11.23{23} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ र्म्_11.24{24} ॥
इति संदर्शयं हस्ताव् एवं चाप्य् अवदच् छिशुः ।
दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया ॥ र्म्_11.25{25} ॥
ततो ऽसौ जनको ऽप्य् एतद् दृष्ट्वा श्रुत्वा प्रविस्मितः ।
किं एतद् इति साशंका ज्ञातिन् आहूय चाब्रवीत् ।
भवन्तो ऽद्य प्रजातं मे पुत्ररत्नं मनोहरं ।
तन् निमित्तं निरीक्ष्यैतत् सत्यं मे वक्तुम् अर्हथ ।
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा ।
तत् पुत्रं दारकं द्रष्टुं तत् कोष्ठं समुपादिशत् ।
तथासौ दारकश् चैवं तान् दृष्ट्वा समुपस्थितान् ।
भुजौ पश्यन् परिष्वज्य चुंवित्वैवम् अभाषत ।
अहो वताद्य मे हस्तौ सुचिरेण मयाधुना ।
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचं च मार्हत्सु निश्चारयत सर्वदा ।
एवं संदर्शयं हस्तौ वचनं संवदं शिशुः ।
दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया ।
एतत् ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वे ऽपि विस्मिताः ।
किम् एतद् इति भाषन्तो वभूवुः परिसंकिताः ॥ र्म्_11.26{26} ॥
ततस् ते ज्ञातयः सर्वे विज्ञाय तस्य लक्षणं ।
संमील्य तम् उपामंत्र्य गृहस्थः प्रतिहर्षितः ॥ र्म्_11.27{27} ॥
तस्य जातिमहं कृत्वा पुनर् एवम् अवोचत ।
भदन्तो दारकस्यास्य नामधेयं प्रमाणतः ॥ र्म्_11.28{28} ॥
यथायोग्यप्रसिद्धेन कर्त्तुम् अर्हथ सांप्रतं ।
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयस् ततः ॥ र्म्_11.29{29} ॥
संमील्य संमतं कृत्वा तं गृहस्थं समब्रुवन् ।
यद् अयं ते सुतो वालो जातमात्रः स्वकौ भुजौ ॥ र्म्_11.30{30} ॥
पश्यन् आलिंग्या चुंवित्व मुदा चैवं प्रभाषते ।
तद् अयं दारको नाम्ना हस्तक इति विश्रुतः ॥ र्म्_11.31{31} ॥
भवतु सर्वलोकेषु सुचिरं चापि जीवतु ।
तथेति प्रतिनंदित्वा गृहस्थो ऽसौ प्रमोदितः ॥ र्म्_11.32{32} ॥
तेन नाम्ना प्रसिद्धेन प्रथयाम् आस तं सुतं ।
ततो ऽसौ दारकस् तेन पित्रा पुत्राभिनंदितः ।
उपन्यस्तोपधात्रीषु धारणप्रतिपालने ॥ र्म्_11.33{33} ॥
ततस् तासां प्रयत्नैः स पथ्योपचारणैः क्रमात् ।
दिने दिने प्रवृद्धो ऽभूद् ह्रदस्थम् इव पंकजं ॥ र्म्_11.34{34} ॥
एवं स हस्तकस् ताभिः पाल्यमानः प्रवर्द्धितः ।
कुमारः सखिभिः सार्द्धं क्रीडास्थानं गतो ऽरमत् ॥ र्म्_11.35{35} ॥
तत्र तेषां सखीनां च हस्तको ऽसौ पुरःस्थितः ।
हस्ताव् आलिंग्य संरक्ष्य चुंवित्वैवम् अभाषत ॥ र्म्_11.36{36} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ र्म्_11.37{37} ॥
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदाचन ।
खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ र्म्_11.38{38} ॥
इति संरक्षितौ हस्तौ तेनैवं च प्रभाषितं ।
दृष्ट्वा श्रुत्वाभवन् सर्वे सखायातीवविस्मिताः ॥ र्म्_11.39{39} ॥
ततश् च जनकेनासौ लिपिशालानिवेशितः ।
गुरुं सम्यग् उपाश्रित्य विद्यापारं ययौ लघु ॥ र्म्_11.40{40} ॥
तत्र तेषां गुरुणां च हस्तको ऽसौ पुरःस्थितः ।
हस्तौ दृष्ट्वा समालिंग्य चुंवित्वा चैवम् अब्रवीत् ॥ र्म्_11.41{41} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धव् इमौ हस्तौ सुचिरेण मयाधुना ॥ र्म्_11.42{42} ॥
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ र्म्_11.43{43} ॥
इति दृष्ट्वा च संश्रुत्य सर्वे ते गुरवो ऽपि च ।
सर्वे शिष्य गणाश् चापि वभूवुर् विस्मयान्विताः ।
यस्मिंश् च समये तत्र देशे भयौपक्रमे ।
जनकायः समुद्भ्रान्तो ऽगोपायत् स्वस्वभाण्डकं ।
तदासौ हस्तको ऽप्य् एवं समुद्भ्रान्तः स्वकौ भुजौ ।
संभुज्य गोपयित्वैवं जनकायम् अभाषत ।
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ।
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचैव मार्हत्सु निश्चारयत केषु चित् ।
एवं हस्तौ सुसंरक्ष्य तेनैवं च प्रभाषितं ।
दृष्ट्वा श्रुत्वा च ते सर्वे लोका आसन् सुविस्मिताः ॥ र्म्_11.44{44} ॥
ततो ऽसौ हस्तको ऽन्यस्मिं दिवसे सखिभिः सह ।
जेतवनं महोद्यानं जिनाश्रमे उपाययौ ॥ र्म्_11.45{45} ॥
तत्राद्राक्षीत् महाबुद्धं भगवन्तं सभास्थितं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं ॥ र्म्_11.46{46} ॥
व्यामप्रभासमुद्दीप्तं शतसूर्याधिकप्रभं ।
शान्तेन्द्रियं सुभद्रांगं सौम्यकान्तं मनोहरं ॥ र्म्_11.47{47} ॥
दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः ।
पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुं पुरो ऽविशत् ॥ र्म्_11.48{48} ॥
ततो ऽसौ भगवान् तस्य दृष्ट्वाशयं विशोधितं ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_11.49{49} ॥
तं सुगतोदितं धर्मं आर्य्यसत्यसमन्वितं ।
श्रुत्वासौ हस्तको विज्ञः सत्कायदृष्टिपर्वतं ॥ र्म्_11.50{50} ॥
संभिद्य ज्ञानवज्रेण विंशतिशिखरोद्गतं ।
श्रोतापत्तिफलं प्राप्तो दृष्टसत्यो ऽभवत् ततः ॥ र्म्_11.51{51} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0