रत्नमालावदान · भाग 101120
संबुद्धसुगतं नत्वा स्वगेहं सहसा ययौ ॥ र्म्_11.52{52} ॥
तत्रैतत् सर्ववृत्तांतं पित्रोर् आज्ञाय हर्षितः ।
प्रव्रज्यासाधने ऽनुज्ञां पितरौ प्रत्ययाचत ॥ र्म्_11.53{53} ॥
चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने ।
तद् अनुज्ञां प्रदत्तं मे हितं मयि यदीछथ ॥ र्म्_11.54{54} ॥
इति पुत्रोदितं श्रुत्वात्मजं तं पितावदत् ।
मा कृथाः सहसा पुत्र प्रव्रज्यासाधने मनः ॥ र्म्_11.55{55} ॥
प्रव्रज्या दुष्करं स्थानं तद् अन्यद्व्रतम् आचर ।
प्रव्रज्याग्रहणं वृद्धे दरिद्रिते सुशोभिते ॥ र्म्_11.56{56} ॥
त्वं च पुत्र कुमारो ऽसि दहरो ऽतिसुकोमलः ।
किंचिद् दुःखे ऽनभिज्ञाय तत् प्रव्रज्यां चरेः कथं ॥ र्म्_11.57{57} ॥
तद् यावद् यौवनं देहं यावत् संपच् च ते गृहे ।
तावद् गेहे सुखं भुक्त्वा गृही धर्मं समाचर ॥ र्म्_11.58{58} ॥
यदा वृद्धो दरिद्रो च प्रव्रज्यायां तदा चर ।
यावद् युवा समृद्धश् च तावत् त्वं प्रव्रजेः कथं ॥ र्म्_11.59{59} ॥
संपत्तिक्षणयौवन्यं एतन् मारस्य गोचरं ।
तद् एतस्मिं कथं पुत्र प्रव्रज्याव्रतम् आचरेः ॥ र्म्_11.60{60} ॥
इत्य् एतद् दुष्करं मत्वा प्रव्रज्याचरणे मनः ।
यत्नेनापि विनिवार्य कुलधर्मे समाश्रय ॥ र्म्_11.61{61} ॥
ततस् ते मंगलं नित्यम् इहामुत्रापि सर्वतः ।
यशोधर्मसुखान्य् एवं सद्गतिं समवाप्नुयाः ॥ र्म्_11.62{62} ॥
इति वाक्यं पितुः श्रुत्वा हस्तको ऽसौ विशंकितः ।
पितरौ बोधयन् धर्मे पुनर् एवम् अभाषत ॥ र्म्_11.63{63} ॥
सत्यम् एतत् तथा तात त्वयैवं सत्यम् उच्यते ।
अत्रापि श्रूयतां तात ममाभिप्रायम् उच्यतां ॥ र्म्_11.64{64} ॥
अनित्यं खलु संसारं जीवितं चापि चंचरं ।
क्षणध्वंसि शरीरं च संपच् चापि घनोपमा ॥ र्म्_11.65{65} ॥
एवं दृष्ट्वा ह ताताहं संसारसुखनिःस्पृहः ।
प्रव्रज्याव्रतम् आधाय प्राप्तुम् इछामि सद्गतिं ॥ र्म्_11.66{66} ॥
अपि च जन्म मानुष्यं दुल्लभं भवचारिणां ।
तत्रापि मरणं नित्यं पुरतः सर्वसंमुखं ॥ र्म्_11.67{67} ॥
मानुष्यं लभ्यमाने हि कुतो धर्मानुचारितं ।
विना धर्मानुचारेण सद्गतिं कथम् आप्नुयां ॥ र्म्_11.68{68} ॥
संबुद्धो ऽपि सदा नात्र संस्थाप्यति ससांघिकः ।
अतो ऽन्यत्रापि यायाद् वा निर्वृतिं चाव्रजेत् खलु ॥ र्म्_11.69{69} ॥
संबुद्धे निर्वृतिं याते सद्धर्म लप्स्यते कुतः ।
सद्धर्मान्तर्गते लोके मारचर्य्या समाचरेत् ॥ र्म्_11.70{70} ॥
मारचर्य्यासमाक्रान्ते सर्वत्र भुवनेष्व् अपि ।
सर्वे सत्वाश् च कामार्त्ता भवेयुः क्लेशभागिनः ॥ र्म्_11.71{71} ॥
तदा धर्मानुचारेषु बुद्धिः कस्य कथं चरेत् ।
प्रव्रज्यासंवरं स्थातुं कः समर्थो भवेत् तदा ॥ र्म्_11.72{72} ॥
न च संशुद्ध्यते चित्तं प्रव्रज्यासंवरं विना ।
अविशोधितचित्ते हि नैव यायाच् छिवां गतिं ॥ र्म्_11.73{73} ॥
तच् चित्तपरिशुद्ध्यर्थं निर्वृते च यद् आप्तये ।
प्रव्रज्याव्रतम् आदातुम् इछामि तात सांप्रतं ॥ र्म्_11.74{74} ॥
यद् अत्र यदि मे तात हितं कर्तुं समिछसि ।
प्रव्रज्यासाधने ऽनुज्ञां दातुं मे प्रार्हसि द्रुतं ॥ र्म्_11.75{75} ॥
इति पुत्रवचः श्रुत्व स गृहस्थो ऽनुबोधितः ।
तथेत्य् अभ्यनुमोदित्वा तद् अनुज्ञां व्यसृजत ॥ र्म्_11.76{76} ॥
तच् छ्रुत्वा जननी चासौ दृष्ट्वा तं पुत्रम् आत्मजं ।
वियोगदुःखसंकार्ता रुन्दन्त्य् एवं न्यवारयत् ॥ र्म्_11.77{77} ॥
हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसि ।
सहसा पुत्र मा कार्षी प्रव्रज्याचरितं मनः ॥ र्म्_11.78{78} ॥
यावज् जीवाम्य् अहं जीव तावन् मा प्रव्रजात्मजे ।
मृतायां मयि पुत्र त्वं प्रव्रजस्व यथेछया ॥ र्म्_11.79{79} ॥
अचिरेण हि मे मृत्युर् भविष्यति न संशयः ।
तावद् एव गृहे धर्मं कुर्वन् भुक्त्वा सुखं वस ॥ र्म्_11.80{80} ॥
इति मातुर् वचः श्रुत्वा पुत्रो ऽसौ परिचोदितः ।
मातरं तां प्रणत्वैवं बोधयितुम् अभाषत ॥ र्म्_11.81{81} ॥
यत् त्वयाम्वे रुदन्त्य् एवं मृत्युनामात्र कीर्त्त्यते ।
तेन मे प्रेरितं चित्तं प्रव्रज्याव्रतधारणे ॥ र्म्_11.82{82} ॥
ध्रुवं जन्मवतां मृत्युः संसारे परिवर्त्तिनः ।
जातो न म्रियते को हि मृतः कश् च न जायते ॥ र्म्_11.83{83} ॥
गृहस्थो धर्मकृच् चापि यात्य् एवं मरणं ध्रुवं ।
ब्रह्मचारी वनस्थो ऽपि यात्य् एवं मरणं खलु ॥ र्म्_11.84{84} ॥
गृहस्थो बहुभिर् यत्नैः प्रकृत्वा द्रव्यसाधनं ।
कृच्छ्रेण साधयन् धर्मं मृतो याति सुरालयं ॥ र्म्_11.85{85} ॥
यावद् धर्मफलं स्वर्गे तावद् भुक्त्वा सुखं वसेत् ।
ततो धर्मफले हीने स्वर्गाच् च्युतो यतेद् अधः ॥ र्म्_11.86{86} ॥
अधोलोकेष्व् अवीच्यादौ नरकेषु भ्रमेच् चिरं ।
विविधानि च दुःखानि भुक्त्वा जीवं चिरं वसेत् ॥ र्म्_11.87{87} ॥
यावन् न जायते तस्य पुण्यानुमोदना मतौ ।
तावत् कर्मजदुःखानि प्रभुक्त्वा नरके चरेत् ॥ र्म्_11.88{88} ॥
यदा तु जायते तस्य त्रिरत्नस्मरणे मतिः ।
तदा तत्स्मृतिपुण्येन धर्मे ऽनुमोद्यते मतिः ॥ र्म्_11.89{89} ॥
यदा पुण्यानुरागेण संबुद्धशरणं व्रजेत् ।
तदा तं सुगतं दृष्ट्वा धर्माकरैः परिस्पृशेत् ॥ र्म्_11.90{90} ॥
सुगते दृक्प्रभास्पृष्टे पापदुःखैर् विमोचितः ।
नरकेभ्यः समुत्तीर्य प्रयायात् सुगतालयं ॥ र्म्_11.91{91} ॥
तत्रापि यदि धर्मेषु चरन् नित्यम् अतंद्रितः ।
क्रमाद् बोधिचरीं प्राप्य प्रयायात् परमां गतिं ॥ र्म्_11.92{92} ॥
एवं मात गृहस्थो हि कृत्वापि धर्मम् आदरात् ।
सुखदुःखानि संभुक्त्वा संसारे चरते भ्रमन् ॥ र्म्_11.93{93} ॥
कथं चित् सुचिरेणैवं सुगतस्य प्रसादतः ।
भवचारकनिर्मुक्तं प्रयायात् परमां गतिं ॥ र्म्_11.94{94} ॥
प्रव्रज्यार्हत्पदं प्राप्य प्राप्तुम् इछामि निर्वृतिं ।
तन् ममात्र त्वया मात नैव कार्या निवारणा ॥ र्म्_11.95{95} ॥
यदि पुण्ये ऽस्ति ते वांछा तद् अनुज्ञाशु दीयतां ।
यदि न दीयते ऽनुज्ञा तद् अपि नौ वियोगता ॥ र्म्_11.96{96} ॥
अकस्मात् मृत्युर् आगत्य भविष्यति पुरापि नौ ।
तदा ते किं करिष्यामि किं ममापि करिष्यसि ॥ र्म्_11.97{97} ॥
सदानुशोचनाम् एव कृत्वा जीवं त्यजेवहि ।
इति मातर् विदित्वा त्वं तदनुज्ञां प्रदेहि मे ॥ र्म्_11.98{98} ॥
विघ्नतां मा कृथा ह्य् अत्र धर्मे भवानुमोदिनी ।
तथा चेच् छुभता नित्यम् इहामुत्रापि ते भवेत् ॥ र्म्_11.99{99} ॥
अहं च सौगतिं चर्यां कृत्वा यास्यामि निर्वृतीं ।
इति पुत्रोदितं श्रुत्वा मतासौ परिबोधिता ॥ र्म्_11.100{100} ॥
तथानुमोदनां कृत्वाभवत् तूष्णीव्यवस्थिता ॥ र्म्_11.101{1} ॥
अथासौ हस्तको विज्ञः पित्रोर् मत्वाभिसंमतं ।
तयोः पादान् प्रणत्वैवं सहसा निर्ययौ गृहात् ॥ र्म्_11.102{2} ॥
ततो ज्ञातिगणान् सर्वान् वन्धुमित्रसुहृज्जनान् ।
सर्वान् अतिथिवर्गांश् च वांछितार्थैः प्रतोषयन् ॥ र्म्_11.103{3} ॥
सन्तर्प्य बोधयित्वा च सहसा संप्रहर्षितः ।
जेतवनं प्रगत्वा स विहारं समुपाविशत् ॥ र्म्_11.104{4} ॥
तत्रस्थं सुगतं दृष्ट्वा सहसा समुपायतः ।
कृतांजलिपुटो नत्वा प्रव्रज्यां समयाचत ॥ र्म्_11.105{5} ॥
नमस् ते भगवन् नाथ भवतां शरणं व्रजे ।
तत् प्रव्रज्यां व्रतं देहि चरिष्ये ब्रह्मसंवरं ॥ र्म्_11.106{6} ॥
इति तेनार्थिते बुद्धो भगवान् तम् अभाषत ।
एहि भिक्षो कुमारात्र चर ब्रह्मव्रतं वरं ॥ र्म्_11.107{7} ॥
इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् ।
सम्यक् प्रव्राजयित्वाशु स्वसंघे तं समग्रहीत् ॥ र्म्_11.108{8} ॥
एहीत्य् आदिष्टमात्रे ऽपि मुनीन्द्रेण स हस्तकः ।
मुण्डितः खिष्खिरीपात्रहस्तो ऽभूच् चीवरावृतः ॥ र्म्_11.109{9} ॥
क्रमाच् छिक्षा समासाद्य प्राप्योपसंपदो ऽपि च ।
व्यायच्छ घटमानश् च समाधिषु समाहितः ॥ र्म्_11.110{10} ॥
तद् इदं पंचगंडं च भवचक्रं चलाचलं ।
विदित्वा सर्वसंस्कारगतिश् चापि विघातिनी ॥ र्म्_11.111{11} ॥
भिन्दन् सर्वम् अविद्याङ्गं प्राप्य विद्यागणाः शिवाः ।
प्रतिसंविद्गुणाः प्राप्य जित्वा क्लेशगणां यतिः ॥ र्म्_11.112{12} ॥
साक्षाद् अर्हत्पदं प्राप्तः वीतरागो जितेंद्रियः ।
समलोष्टहिरण्यश् च वासीचंदनसंनिभः ॥ र्म्_11.113{13} ॥
आकाशसमचित्तांगो निर्विकल्पो निरंजनः ।
संसारभोग्यसत्कारलाभलोभपराङ्मुखः ॥ र्म्_11.114{14} ॥
पंचाभिज्ञापदप्राप्तश् चतुर्ब्रह्मविहारकः ।
सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां ॥ र्म्_11.115{15} ॥
पूज्यो मान्यो ऽभिवंद्यो ऽभूद् धस्तको ऽर्हं यतिः सुधीः ।
सहसा क्लेशगणाञ् जित्वा साक्षाद् अर्हन् भवत्य् अपि ॥ र्म्_11.116{16} ॥
ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं ।
विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां ॥ र्म्_11.117{17} ॥
तद् अद्य भगवच् छास्तः सर्वसत्वानुबोधये ।
यद् अनेन कृतं कर्म तत् समादेष्टुम् अर्हति ॥ र्म्_11.118{18} ॥
इति ते भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् स्वशिष्यान् यतीन् भिक्षून् समामंत्र्याब्रवीत् तथा ॥ र्म्_11.119{19} ॥
शृणुध्वं भिक्षवः सर्वे यूयं हि विस्मयान्विताः ।
यद् अनेन कृतं कर्म तन् मया वः प्रचक्ष्यतां ॥ र्म्_11.120{20} ॥
पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
स्सर्वत्रैधातुकाधीशः सर्वविद्याधिपो जिनः ॥ र्म्_11.121{21} ॥
धर्मराजो जगच्छास्ता तथागतो विनायकः ।
सर्वधर्मानुसंभर्त्ता संबोधिसंप्रकाशितः ॥ र्म्_11.122{22} ॥
ससांघिको मुनीन्द्रो ऽसौ वाराणसीम् उपाश्रितः ।
सर्वसत्वहितार्थेन तस्थौ धर्मं समादिशत् ॥ र्म्_11.123{23} ॥
तस्य सद्धर्मराजस्य काश्यपस्य जगद्गुरोः ।
शासने द्वौ यती भिक्षू संशीतिकौ वभूवतुः ॥ र्म्_11.124{24} ॥
तयोर् एको महाधीरो विनीतो ऽर्हं वहुश्रुतः ।
द्वितीयो ऽल्पश्रुतः भिक्षुः पृथग्जनसमानिकः ॥ र्म्_11.125{25} ॥
यो ऽसाव् अर्हन् महाविज्ञो वहुश्रुतो विचक्षणः ।
स ज्ञातो ऽर्हन् महापुण्यः सर्वलोकैः प्रपूजितः ॥ र्म्_11.126{26} ॥
यो ऽभूच् चाल्पश्रुतो भिक्षुः संशीतिकः पृथग्जनः ।
स केन चित् पूजितो नैवं यथा सो ऽर्हं यतिः सुधीः ॥ र्म्_11.127{27} ॥
यदा सो ऽर्हन् महाभिज्ञो यत्र यत्र निमंत्रितः ।
तेनैव सर्वतः पश्चाच्छ्रमनेन सहाचरत् ॥ र्म्_11.128{28} ॥
तथान्यस्मिन् दिने सो ऽर्हं दात्रान्येन निमंत्रितः ।
गन्तुकामस् तदा तत्र पश्चाच्छ्रमणम् ऐच्छत ॥ र्म्_11.129{29} ॥
तद् आगमनम् अन्विष्य नैव प्रत्यलभत् क्वचित् ।
ततस् तद्दर्शनाभावाद् अन्यम् आहूय भिक्षुकं ॥ र्म्_11.130{30} ॥
तं पश्चाच्छ्रमणं कृत्वा दातुर् गृहम् उपाचरत् ।
तदनन्तरम् एवासौ तत्राश्रमे उपागतः ॥ र्म्_11.131{31} ॥
तम् अर्हन्तम् अपश्यन् स तस्थौ तूष्णी निराशितः ।
तथैवं तं निषीदन्तं दृष्ट्वा ते भिक्षवो नराः ॥ र्म्_11.132{32} ॥
तस्यौद्धत्यमनः कर्तुम् एवम् ऊचुः परस्परं ।
भदन्त पश्यताद्यायं तेनाहतो न नीयते ॥ र्म्_11.133{33} ॥
अन्यो ऽद्य नीयते पश्चाच्छ्रमणः केन हेतुना ।
इति तैर् भिक्षुभिः प्रोक्तं श्रुत्वासौ प्रतिभेदितः ।
तस्यार्हतो ऽन्तिके चित्तं प्रदुष्याभ्यशपत् तथा ॥ र्म्_11.134{34} ॥
यद् अद्य मां परित्यज्य समाहूयान्यतो हरात् ।
गछत भोजनं भोक्तुं तद् अहस्तो भवत्व् असौ ॥ र्म्_11.135{35} ॥
तदासौ भोजनं भुक्त्वा तेनैवं भिक्षुणा सह ।
स्वाश्रमं समुपायातस् तम् अद्राक्षीद् रुषाकुलं ॥ र्म्_11.136{36} ॥
इत्य् एवं शपितं वापि मत्वा सो ऽर्हं महामतिः ।
दृष्ट्वा तं कृपया दृष्ट्या तूष्णीभूत्वा व्यचिंतयत् ॥ र्म्_11.137{37} ॥
अहो अयं महामूढ ईदृग् मयि प्रभाषते ।
एतत् कर्मफलं घोरं कथं भोक्ष्यति नारके ॥ र्म्_11.138{38} ॥
यद् अयं मम दोषेण क्रोधेनैवं खलीकृतः ।
तद् एतत् कर्मवैपाक्यं मयैव परिपाच्यतां ॥ र्म्_11.139{39} ॥
इत्य् एवं मनसा ध्यात्वा स महार्हं कृपानिधिः ।
तत्पापपरिशुद्ध्यर्थं समाधिं विदधे चिरं ॥ र्म्_11.140{40} ॥
ततः सो ऽप्य् अयतिर् भिक्षुर् दृष्ट्वा तं ध्यानसंस्थितं ।
पश्चात्तापाग्निसंतप्तेस् तत्पादप्रणतो ऽवदत् ॥ र्म्_11.141{41} ॥
भदन्त यन् मया रौष्यात् क्रोधाभिभूतचेतसा ।
प्रोचितं पातकं घोरं तद् भवान् क्षन्तुम् अर्हति ॥ र्म्_11.142{42} ॥
यन् मया दुष्टचित्तेन भवतो ऽप्य् उपभाष्यते ।
तदत्ययं भवाञ् छास्तः प्रतिहर्तुं समर्हति ॥ र्म्_11.143{43} ॥
अद्याग्रेण सदा चापि भवतां शरणं व्रजे ।
तन् मे यद् अपराधत्वं तत् सर्वं क्षन्तुम् अर्हति ॥ र्म्_11.144{43!} ॥
पुनर् नैतत् करिष्ये ऽहं अकर्त्तव्यं यद्य् अत्र हि ।
अवक्तव्यं च यत् किं चिन् न तद् वक्ष्यामि सर्वथा ॥ र्म्_11.145{44} ॥
अभाव्यं चापि यत् किंचिद् भावयिष्ये न तत् पुनः ।
यद् एव तं प्रकर्त्तव्यं तद् एव हि करोम्य् अहं ॥ र्म्_11.146{45} ॥
वक्तव्यम् एव वक्ष्ये ऽहं भाव्यम् एव प्रभावये ।
एतत् सर्वं समासेन समादेष्टुं समर्हति ॥ र्म्_11.147{46} ॥
भवदाज्ञां शिरोधृत्वा सत्यम् एवं चरेत् सदा ॥ र्म्_11.148{47!} ॥
इति तेनार्थितं श्रुत्वा स समाधेः समुत्थितः ।
तं भिक्षुं कृपया दृष्ट्वा पश्यन्न् एवं समब्रवीत् ॥ र्म्_11.149{48} ॥
शृणु वत्स समाधाय त्वाम् अत्राहं प्रबोधये ।
यथा मे गदितं श्रुत्वा तथा कुरु समाहितः ॥ र्म्_11.150{49} ॥
प्राणिहिंसा न कर्त्तव्या तथादत्तप्रतिग्रहं ।
स्त्रीणां संगानुरागं च अकर्त्तव्यं कदा चन ॥ र्म्_11.151{50} ॥
मृषावादं न वक्तव्यं पैशून्यवचनं तथा ।
संभिन्नप्रलापं च पारुष्यं च कदा चन ॥ र्म्_11.152{51} ॥
मिथ्यादृष्टिर् अभिध्या च व्यापादं च तथा सदा ।
भिक्षुभिर् मनसा नैव चिंतनीया कदा चन ॥ र्म्_11.153{52} ॥
एतानि दशपापानां मूलानि दुःखदानि हि ।
तस्माद् एवं परिज्ञाय त्यक्तव्यानि सुखार्थिभिः ॥ र्म्_11.154{53} ॥
पुनर् अन्यच् छृणुष्वात्र वक्ष्ये दारुणपातकं ।
सद्धर्माणां प्रतिक्षेपं कर्तव्यं न कदा चन ॥ र्म्_11.155{54} ॥
तथा वार्यापवादत्वं वक्तव्यं न कदा चन ।
पंचानंतर्यपापानि नैव कार्याणि केन चित् ॥ र्म्_11.156{55} ॥
यानि श्रुत्वापि दृष्ट्वापि भावयित्वानुमोद्य च ।
पतन्तो नरकेष्व् एव क्लेशान्धानि च सन्ति हि ॥ र्म्_11.157{56} ॥
तस्माद् एतानि कर्माणि मानसापि च मा कृथा ।
वर्जनीयानि यत्नेन सद्धर्मसुखवांछिभिः ॥ र्म्_11.158{57} ॥
कर्त्तव्यं तु सदा नित्यम् आर्यसत्यानुभावितं ।
आर्याष्टांगिकमार्गे च चरित्वा व्रतम् आदरात् ॥ र्म्_11.159{58} ॥
व्रतानाम् अपि सर्वेषाम् आर्याष्टांगम् उपोषधं ।
प्रवरं व्रतम् आख्यातं सर्वैर् अपि मुनीश्वरैः ॥ र्म्_11.160{59} ॥
यस्य पुण्यानुभावेन परिशुद्धत्रिमंडलाः ।
निःशेषपापनिर्मुक्ताः प्रयान्त्य् अर्हत्पदं द्रुतं ॥ र्म्_11.161{60} ॥
एवम् एतत् परिज्ञाय व्रतं कृत्वा समाचरन् ।
ततस् ते क्रमतः पापं निःशेषं क्षिणुयाद् द्रुतं ॥ र्म्_11.162{61} ॥
ततश् च क्रमशः शिक्षाः शिक्षित्वात्र समाहितः ।
त्रिरत्नशरणं कृत्वा ब्रह्मचर्य्यं समाचर ॥ र्म्_11.163{62} ॥
ततस् त्वं क्रमशश् चैवं शोधयित्वा त्रिमंडलं ।
सर्वक्लेशविनिर्मुक्तः साक्षाद् अर्हन् भविष्यसि ॥ र्म्_11.164{63} ॥
इति तेनार्हतादिष्टं श्रुत्वासौ परिबोधितः ।
तथेति च परिज्ञाय तद्व्रतं कर्तुम् ऐछत ॥ र्म्_11.165{64} ॥
तथा तस्यार्हतः शास्तुः सदैवं शरणं गतः ।
क्रमाच् छिक्षाश् च शिक्षित्वा तद् उपोषधम् आचरत् ॥ र्म्_11.166{65} ॥
अधीत्य सकला विद्या त्रिरत्नसमुपाश्रयन् ।
सर्वक्लेशान् विनिर्जित्य ब्रह्मचर्यं समाचरत् ॥ र्म्_11.167{66} ॥
भिक्षवो ज्ञायताम् एष यो ऽसौ भिक्षुः पृथग्जनः ।
यद् अनेनार्हते शास्त्रे शपितं रुष्टचेतसा ॥ र्म्_11.168{67} ॥
तेनाहस्तो वभूवायं पंचजन्मशतान्य् अपि ।
यच् चानेनार्हतः शस्तुर् गत्वा च शरणं सदा ॥ र्म्_11.169{68} ॥
अधीत्य सकला विद्या ब्रह्मचर्यं समाश्रितं ।
तेनायं शासनेनात्र प्रव्रज्यार्हं भवत्य् अपि ॥ र्म्_11.170{69} ॥
इति हि भिक्षवो मत्वा चरितव्यं शुभे सदा ।
शुभेन सद्गतिं यांति कृष्णेन दुर्गतिं सदा ॥ र्म्_11.171{70} ॥
मिश्रितेनापि मिश्रत्वं भुंजते सर्वजंतवः ।
येनैव यत् कृतं कर्म तस्यैव कर्मणः फलं ॥ र्म्_11.172{71} ॥
तेनैव भुज्यते लोके नान्येन स्पृश्यते क्वचित् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ र्म्_11.173{72} ॥
भुक्तं तु क्षीयते कर्म शुभं वाप्य् अशुभं तथा ।
नाग्निभिर् दह्यते केन वायुभिश् च न शुष्यते ॥ र्म्_11.174{73} ॥
क्लिद्यते नोदकैश् चापि क्षीयते नैव भूमिषु ।
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ॥ र्म्_11.175{74} ॥
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ।
एवम् एतत् प्रभषित्वा जिनेन्द्रो ऽसौ महामुनिः ॥ र्म्_11.176{75} ॥
बोधयन् सकलांल् लोकान् समाधिं विदधे ततः ।
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे च सांघिकाः ॥ र्म्_11.177{76} ॥
शुभेष्व् एव सदा रक्ताः प्रचेरिरे समाहिताः ॥ र्म्_11.178{77} ॥
इत्य् एवं मे समाख्यातं गुरुणा शाणवासिना ।
तथैवं ते मया ख्यातं श्रुत्वा चैवं शुभे चर ॥ र्म्_11.179{78} ॥
प्रजाश् च श्रावयित्वैवं बोधयित्वा प्रयत्नतः ।
सद्धर्माचरणेष्व् एवं प्रेरणीया नराधिप ॥ र्म्_11.180{79} ॥
ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिपथः प्राप्य संबोधिम् आप्नुयाः खलु ॥ र्म्_11.181{80} ॥
इति तेनोपगुप्तेन भाषितं स नरेश्वरः ।
श्रुत्वा तथेति वंदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_11.182{81} ॥
ये शृण्वन्तीदम् एवं प्रमुदितमनसो हस्तकाख्यावदानं
ये चापि श्रावयन्ति प्रतिदिनम् अनिशं बोधिचर्याभिरक्ताः ।
ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिसत्वा गुणाढ्या
भुक्त्वा सौख्यं प्रकामं मुनिवरनिलयं संप्रयांति प्रमोदाः ॥ र्म्_11.183{82} ॥
++ इति श्रिरत्नमालायां हस्तकावदानं नाम समाप्तम् ++
xइइ सार्थवाहावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_12.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणादिष्टं तथा मे ख्यातुम् अर्हसि ॥ र्म्_12.2{2} ॥
इति तेन नरेन्द्रेण पृष्टे ऽसौ सुगतात्मजः ।
उपगुप्तो यतिश् चैवं तं नृपं प्रत्यभाषत ॥ र्म्_12.3{3} ॥
शृणु राजन् समाधाय यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि तच् छ्रुत्वा मुदितो भव ॥ र्म्_12.4{4} ॥
पुरैकसमये चैवं शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ र्म्_12.5{5} ॥
सर्वविद्याधिपो नाथस् त्रैधातुकविनायकः ।
धर्मराजो मुनीन्द्रो ऽसौ सर्वसत्वहितंकरः ॥ र्म्_12.6{6} ॥
श्रावस्त्यां वहिर् उद्याने जेताह्वये महावने ।
अनाथपिण्डदारामे विहारे सौगताश्रमे ॥ र्म्_12.7{7} ॥
श्रावकैर् भिक्षुभिः सार्द्धम् उपासकैश् च चैलकैः ।
बोधिसत्वगणैश् चापि तथान्यैश् च महर्षिभिः ॥ र्म्_12.8{8} ॥
व्यहरत् सत्वहितार्थेन धर्मामृतैः प्रवर्षयन् ।
तत् सद्धर्मामृतं पातुं प्राययुर् बोधिवांछिनः ॥ र्म्_12.9{9} ॥
लोकपालगणाः सर्वे स्वस्वसैन्यगणैः सह ।
ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः ॥ र्म्_12.10{10} ॥
अमात्या धनिनः पौराः साधवश् च महाजनाः ।
वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः ॥ र्म्_12.11{11} ॥
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः ।
संबुद्धं श्रीघनं नत्वा पूजयित्वा समंततः ॥ र्म्_12.12{12} ॥
परिवृत्य पुरस्कृत्य सद्धर्मश्रवणार्थिनः ।
कृतांजलिपुटो दृष्ट्वा संतस्थुः संमुखानताः ॥ र्म्_12.13{13} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् ।
आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_12.14{14} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः ।
हर्षितास् ते ऽनुमोदन्तो ननन्दुः परिबोधिताः ॥ र्म्_12.15{15} ॥
तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः ।
आसीत् सांयात्रिकोत्साही सार्थवाहो महोद्यमी ॥ र्म्_12.16{16} ॥
स्वकुलधर्मभृद् वीरः स्वकुलवृत्तिमानितः ।
यशोधर्मार्थकामाप्त्यै समुद्रं गन्तुम् ऐछत ॥ र्म्_12.17{17} ॥
ततो ऽसौ स्वां प्रियां भार्यां बोधयित्वा प्रयत्नतः ।
स्वसहायाश् च तां सर्वां समाहूय समब्रवीत् ॥ र्म्_12.18{18} ॥
भवंतो श्रूयतां सर्वे यद् अभिलषितं मम ।
अत्रास्ति यदि वो वांछा तन् मे स्वागन्तुम् अर्हथ ॥ र्म्_12.19{19} ॥
अहं रत्नाकरं गन्तुम् इछे रत्नसमृद्धये ।
तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ ॥ र्म्_12.20{20} ॥
इति तेनोदितं श्रुत्वा सर्वे ते रत्नलोभिताः ।
सहसा गंतुम् इछन्ते रत्नाकरे महोदधौ ॥ र्म्_12.21{21} ॥
ततो ऽसौ सार्थभृच् छीघ्रं सर्वे सार्थगणैः सह ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ र्म्_12.22{22} ॥
ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च ।
सर्वे ते प्रचरन्तो वै तीरं प्रापुर् महोदधेः ॥ र्म्_12.23{23} ॥
ततो भांडानि नौकायाम् आरोप्यारुह्य च स्वयं ।
कर्णधारप्रयत्नैस् ते जगाहिरे ऽम्बुधिं क्रमात् ॥ र्म्_12.24{24} ॥
ततः क्रमात् समुल्लंघ्य बहुद्वीपान्तराणि ते ।
रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ र्म्_12.25{25} ॥
ततस् ते बहुरत्नानि समासाद्य प्रमोदिताः ।
ततः प्रत्यागता अब्धेस् तीरान्तिकं समाययुः ॥ र्म्_12.26{26} ॥
तत्र तत् कर्मदोषेण कालवातैर् विघट्टितं ।
भिद्यते वहनं तेषां हृदयैः सा सहाशु तत् ॥ र्म्_12.27{27} ॥
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया ।
सर्वभाण्डैः सहागाढे निपेतुर् दुष्करे ऽम्बुधौ ॥ र्म्_12.28{28} ॥
केचित् फलकम् आलम्व्य समुत्तीर्णाः स्ववीर्यतः ।
केचिद् वाहुवलाधानं समुत्तीर्य स्थलं ययुः ॥ र्म्_12.29{29} ॥
केचिच् च विलयं प्राप्ता निरालम्व्यनिराश्रयाः ।
उत्प्रवन्तो निमज्जन्तः खेदिता निधनं ययुः ॥ र्म्_12.30{30} ॥
ततस् ते वणिजः सर्वे ये विशिष्टा विषादिताः ।
ते यशोधनविभ्रष्टाः शून्यहस्ता गृहं ययुः ॥ र्म्_12.31{31} ॥
तथासौ सार्थवाहो ऽपि गृहं प्राप्तो विषादितः ।
एतद् वृत्तं स्वभार्यायाः कथित्वैवं व्यचिन्तयत् ॥ र्म्_12.32{32} ॥
हा हा मे मन्दभाग्यत्वाज् जायते मीदृशी विपत् ।
अत्राहं किं करिष्यामि यतो भाग्यं न विद्यते ॥ र्म्_12.33{33} ॥
भाग्यवान् पुरुषो धीरो भाग्यवान् कुशली सुधीः ।
भाग्येन लभ्यते संपद् यशः सौख्यगुणान्वितः ॥ र्म्_12.34{34} ॥
धीः श्रीलक्ष्मीयशोरत्नं वलं संपत् क्षणादयः ।
एतदाद्या गुणाः सर्वे शोभन्ति भाग्यम् आश्रिताः ॥ र्म्_12.35{35} ॥
निहीनभाग्यवृत्तेस् तु पुरुषस्यापि संमते ।
एतदाद्यादिगुणाः सर्वे न प्रसिद्ध्यंति सर्वतः ॥ र्म्_12.36{36} ॥
तद् अत्र किं करिष्ये ऽहं क्व यास्यामि धनाप्तये ।
धनहीना न शोभन्ते गृहस्थाः साधवो ऽपि हि ॥ र्म्_12.37{37} ॥
वरं प्राणपरित्यागं न तु द्रव्यैर् विना गृहे ।
पशुवन् निरसं भुक्त्वा स्थास्याम्य् एवं निरुत्सवं ॥ र्म्_12.38{38} ॥
भाग्येन लभ्यते द्रव्यं भाग्यं धर्मेण लभ्यते ।
धर्मे हि जायते स्वेष्टदेवतायाः प्रसादतः ॥ र्म्_12.39{39} ॥
तद् धर्मभाग्यलब्धार्थं स्वकुलदेवतां प्रति ।
सम्यग् आराधयित्वैवं यायां रत्नाकरं पुनः ॥ र्म्_12.40{40} ॥
मनसीति विनिश्चित्य स सार्थवाहकः पुनः ।
स्वकुलदेवतां सम्यग् आराध्य समयाचत ॥ र्म्_12.41{41} ॥
नमस् ते देवते नित्यं भजे ऽहं शरणं गतः ।
क्षंतव्यं मे ऽपराधत्वं प्रसीद परमेश्वर ॥ र्म्_12.42{42} ॥
इत्थं सा देवता सम्यग् आराध्य संप्रमोदिता ।
सर्वसार्थान् समाहूय पुनर् एवम् अभाषत ॥ र्म्_12.43{43} ॥
भो भवन्तो विजानीध्वं वयं सर्वे वणिग्जनाः ।
तद् अत्र भवताम् अग्रे कथ्यते मे समीहितं ॥ र्म्_12.44{44} ॥
यद् भवन्तो वयं सर्वे सार्थवाहकुलोद्भवाः ।
तत् तथैव गृहे स्थित्वा नैव शोभां व्रजेमहि ॥ र्म्_12.45{45} ॥
तस्मात् स्वकुलवृत्तिस्थैः सर्वैर् अस्माभिर् उद्यतैः ।
यशोधर्मसुखाप्त्यर्थं कर्त्तव्यं धनसाधनं ॥ र्म्_12.46{46} ॥
धनहीना न शोभन्ते गृहस्था हि कुटुंविनः ।
सार्थवाहो ऽस्तु शोभन्ते वहुरत्नार्जनोद्यताः ॥ र्म्_12.47{47} ॥
तद् विषादं परित्यक्त्वा यशोरत्नसुखाप्तये ।
धैर्य्यम् आलम्व्य सर्वैश् च कर्त्तव्यं धनसाधनं ॥ र्म्_12.48{48} ॥
धनवान् पुरुषो लोकैः सर्वत्रापि प्रमान्यते ।
धनेन साधयेद् धर्मं धर्मेण सद्गतिं व्रजेत् ॥ र्म्_12.49{49} ॥
तस्मान् नित्यं महोत्साहैस् ञ्ल्त्यक्त्वालस्यकुशीदता ।
अर्जनीयं प्रयत्नेन धनं दानाय भुक्तये ॥ र्म्_12.50{50} ॥
दानं विभूषणं लोके दानं दुर्गतिनिवारणं ।
दानं स्वर्गस्य सोपानं दानं शान्तिकरं सदा ॥ र्म्_12.51{51} ॥
अस्माद् दानं सदा कर्तुं भोक्तुं सौख्यं यथेछया ।
भूयो रत्नाकरं गंतुम् अर्हामहे धनार्जने ॥ र्म्_12.52{52} ॥
तत्र रत्नानि संगृह्य स्वस्तिप्रत्यागता वयं ।
यावज् जीवं सुखं भुक्त्वा दानं कृत्वा वसेमहि ॥ र्म्_12.53{53} ॥
यदि दैवो विपत्तिः स्यात् समुद्रे पतिता वयं ।
तीर्थराजे मृताः सर्वे यास्यामः स्वर्गतिं ध्रुवं ॥ र्म्_12.54{54} ॥
यदि भाग्याद् अथास्माकं देवानां च प्रसादतः ।
यात्रासिद्धिर् भवेन् नूनं यावज् जीवं सुखं तदा ॥ र्म्_12.55{55} ॥
अस्माद् रत्नाकरे गन्तुं इछे रत्नप्रलब्धये ।
तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ ॥ र्म्_12.56{56} ॥
इति तस्योदितं श्रुत्वा ते सर्वे वणिजो मुदा ।
तथा तेन सहैछान्त गन्तुं रत्नाकरैः पुनः ॥ र्म्_12.57{57} ॥
ततो ऽसौ सार्थभृच् छीघ्रं धृत्वा स्वस्त्ययनं मुदा ।
सर्वे सार्थगणैः सार्द्धं प्रतस्थे स्वपुराद् वहि ॥ र्म्_12.58{58} ॥
ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च ।
प्रचरन्तश् च ते सर्वे तीरं प्रापुर् महोदधेः ॥ र्म्_12.59{59} ॥
तत्र सर्वे ऽपि ते सार्था भाण्डानि वहने क्रमात् ।
आरोप्य सहसारूढा जगाहिरे महाम्बुधौ ॥ र्म्_12.60{60} ॥
ततः क्रमात् समुल्लंघ्य वहुद्वीपान्तराणि ते ।
रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ र्म्_12.61{61} ॥
तत्र ते वहुरत्नानि समागृह्य प्रहर्षिताः ।
ततः प्रत्यागताश् चाब्धेस् तीरान्तिकम् उपाययुः ॥ र्म्_12.62{62} ॥
ततस् तद्दैवयोगेन कालिकावातघट्टिता ।
सा नौका भिद्यते चैवं तेषां वै हृदयैः सह ॥ र्म्_12.63{63} ॥
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया ।
सर्वभाण्डैः सहागाढे न्यपतन् दुष्टरे ऽम्बुधौ ॥ र्म्_12.64{64} ॥
तत्र ते विलयं प्राप्ता निरालंवा निराश्रयाः ।
उन्मज्जन्तो निमज्जन्तः प्रेरितास् तीरम् ऊर्मिभिः ॥ र्म्_12.65{65} ॥
केचित् फलकम् आश्रित्य समुत्तीर्य्य स्ववीर्य्यतः ।
केचिद् वाहुवलाधानैः समुत्तीर्य्य स्थलं ययुः ॥ र्म्_12.66{66} ॥
केचिन् निहीनवीर्य्याङ्गा हन्यमाना महोर्मिभिः ।
उत्प्लवन्ता निमज्जन्तः खेदिता निधनं ययुः ॥ र्म्_12.67{67} ॥
ततस् तेषां च सार्थानां ये ऽवशिष्टा सुजीविनः ।
यशोरत्नवियुक्तास् ते शून्यहस्ता गृहं ययुः ॥ र्म्_12.68{68} ॥
तथासौ सार्थवाहो ऽपि गृहं गत्वा विषादितः ।
एतद् वृत्तं स्ववंधूनां कथित्वैवम् अभाषत ॥ र्म्_12.69{69} ॥
हा मया किं कृतं पापं येनेद्रिग् जायते विपत् ।
द्विधापि सिद्ध्यते नैव यतो भाग्यं न विद्यते ॥ र्म्_12.70{70} ॥
पापैर् न सिद्ध्यते कर्म अत्र यत्नस्य किं वलैः ।
धर्मेण सिद्ध्यते कर्म तस्माद् धर्मो वलोत्तमः ॥ र्म्_12.71{71} ॥
तस्माद् धर्मं पुरस्कृत्य कर्त्तव्यं द्रव्यसाधनं ।
द्रव्येन साधयेत् कर्म सद्गतिं समवाप्नुयाः ॥ र्म्_12.72{72} ॥
कर्म तु सिद्ध्यते सम्यक् कुलवृत्तिं च चारिणां ।
कुलवृत्तिं परित्यज्य यो ऽन्यवृत्तौ चरेत् कुधीः ॥ र्म्_12.73{73} ॥
स इहापि परिभ्रष्टः परत्र दुर्गतिं व्रजेत् ।
येनैवं सद्गतिप्राप्तिस् तदैव कर्म्म साधयेत् ॥ र्म्_12.74{74} ॥
यतो ऽपि दुर्गतिं प्राप्तिस् तत् कर्म तर्हितं बुधैः ।
तद् अत्र किं करिष्ये ऽहं क्व यास्याम्य् अर्थम् अर्जितुं ।
अर्थं विना कथं धर्मं कर्त्तव्यं हि कुटुंविभिः ॥ र्म्_12.75{75} ॥
विना धर्मं हि संसारे जन्म जीवं च निस्फलं ।
किं ते न पौरुषेणापि येन धर्मं न साध्यते ॥ र्म्_12.76{76} ॥
धिग् धिग् मे जन्म संसारे जीवितुं न तथोत्सहे ।
वरं प्राणपरित्यागं न त्व् एवं चिरजीवितं ॥ र्म्_12.77{77} ॥
अवश्यं जन्तुभिर् मृत्युर् गन्तव्यं एकधा ध्रुवं ।
ततो ऽत्र मर्तुम् इछामि न त्व् एवम् उषितुं गृहे ॥ र्म्_12.78{(78)} ॥
एवंजीवो न शोभे ऽहं धिग् प्रवादाग्निदग्धितः ।
कथं मे शाम्यते दुःखं येनाहं परिखेदितः ॥ र्म्_12.79{(78)} ॥
किं कर्त्तव्यं क्व गन्तव्यं यत्नं चात्र न विद्यते ।
सर्वथाहं विनष्टो ऽस्मि को मे ऽस्ति रक्षको जनः ॥ र्म्_12.80{79} ॥
यशोधर्मपरिभ्रष्टो व्रजेयं दुर्गतिं खलु ।
तदाहं किं करिष्यामि धर्मयशःसुखान्वितः ॥ र्म्_12.81{80} ॥
मानुष्ये लभ्यमाने हि कुतो धर्मानुसाधनं ।
विना धर्म्मं यशोद्रव्यः किं सौख्यं गृहवासिनां ॥ र्म्_12.82{81} ॥
विना धर्मयशोद्रव्यैर् यो गृहस्थः पशुः खलु ।
धर्मेण साधयेद् द्रव्यं यशोभाग्यसुखाप्तये ॥ र्म्_12.83{82} ॥
धर्माद् धि जायते पुण्यं दानशीलक्षमादिभिः ।
पुण्येनैव प्रलभ्यन्ते चतुर्वर्गा अपि ध्रुवं ॥ र्म्_12.84{83} ॥
तद् एतेषां ममैको ऽपि न विद्यते कथं चन ।
हा हतो ऽस्मि स्वदैवेन किं करोमि विखेदितः ॥ र्म्_12.85{84} ॥
सर्वथाहं विनष्टो ऽस्मि नमो दैवाय कर्मणे ।
एवं तेषां स्ववंधूनां विलपीत्वा स सार्थपः ॥ र्म्_12.86{85} ॥
तस्थौ चिन्ताकुलीभूतो धनार्जननिराश्रया ।
एवं व्यवस्थितं दृष्ट्वा तं ते सर्वे ऽपि वांधवाः ॥ र्म्_12.87{86} ॥
दत्वाश्वासं विनोदाय बोधयन्ते ध्रुवं तथा ।
साधो सार्थपते सत्यं तत् सर्वं यत् त्वयोच्यते ॥ र्म्_12.88{87} ॥
तद् एवं धैर्य्यम् आलंव्य प्रोद्यमस्व गृहे वसन् ।
साधो कुत्रापि मा धाव निर्माणसदृशं फलं ॥ र्म्_12.89{88} ॥
यावद् एवाम्भसा कुम्भः सिंधाव् अन्धौ ऽवपूर्यते ।
यद् अभावि न तद् भावि भावि नैव तद् अन्यथा ॥ र्म्_12.90{89} ॥
अवश्यं भाविनो भावा भवंति सर्वदेहिनां ।
अवश्यं भाविनो भावा न भवेयुस् तथा यदि ॥ र्म्_12.91{90} ॥
पित्रा त्यक्तः कथं रामो राज्यभ्रष्टो वनं ययौ ।
तत्रापि वसतस् तस्य भार्या शीता पतिव्रता ॥ र्म्_12.92{91} ॥
आहृत्य रक्षसा नीता कथं लंकापुरे ऽवसत् ।
ततो रामेण वीर्येण हत्वासौ रावणस् ततः ॥ र्म्_12.93{92} ॥
प्रत्यानीय पुनः शीता त्यक्ता भर्त्त्रा स्वयं कथं ।
पुनर् ऋषेः समानीय सभामध्ये परिक्षिता ॥ र्म्_12.94{93} ॥
ततः पृथ्या स्वयं गृह्य सीतानीता रसातलं ।
ततस् तद्विरहार्त्तासौ रामः संसारनिस्पृहः ॥ र्म्_12.95{94} ॥
नद्यां प्राणस्वयं त्यक्त्वा जनं सार्द्धं दिवं ययौ ।
एवम् अन्ये ऽपि राजानो युधिष्ठिरा नृपादयः ।
राज्यभ्रष्टा वने गत्वा विभ्रमुस् ते ऽपि दैवतः ॥ र्म्_12.96{95} ॥
एवम् अन्ये ऽपि लोकाश् च सर्वत्रैधातुकभवाः ।
उत्तमा अधमा मध्या संति ते ऽपि स्वदैवतः ॥ र्म्_12.97{96} ॥
केचिद् गृहे मृताः केचिज् जायमाना मृता अपि ।
केचिद् वाल्ये मृताः केचित् कौमारत्वे मृतास् तथा ॥ र्म्_12.98{97} ॥
यौवने ऽपि मृताः केचिन् मृता वृद्धे वदन्ति मे ।
सर्वे ऽप्य् एवं मृता लोकाः स्वस्वदैवप्रमाणतः ॥ र्म्_12.99{98} ॥
एवं देवादयो लोकाः सुखदुःखानुयोगिनः ।
स्वस्वदैवानुभावेन षड्गतिषु चरन्ति ते ॥ र्म्_12.100{99} ॥
केचिद् वाल्ये सुखं भुक्त्वा यौवने दुःखभागिनः ।
केचिच् च यौवने सौख्यं भुक्त्वा वृद्धे सुदुःखिताः ॥ र्म्_12.101{100} ॥
केचिच् च दुःखिता वाल्ये यौवने सौख्यभागिनः ।
वृद्धत्वस्य सुखीभूता भवंति ते ऽपि हि दैवतः ॥ र्म्_12.102{1} ॥
सर्वे ऽपि सुखम् इछन्ति दुःखं नेछति कश् चन ।
तथा सुखानि संप्राप्तुं यत्नं कुर्वन्त्य् अनेकशः ॥ र्म्_12.103{2} ॥
केषां चित् सिद्ध्यते यत्नं केषां चिद् वा न सिद्ध्यति ।
केषां चिद् विघ्नतां याति तत् सर्वं दैवयोगतः ॥ र्म्_12.104{3} ॥
तथा च रोगिणां रोगा वैद्योपचारणैर् अपि ।
वर्द्ध्यन्ते नैव शाम्यन्ते तद् अपि दैवयोगतः ॥ र्म्_12.105{4} ॥
केषां चिद् रोगिणां रोगा विना वैद्योपचारणे ।
शाम्यंते यत्नतो चापि तद् अपि दैवयोगतः ॥ र्म्_12.106{5} ॥
तथा चल्द् मंत्रिणां मंत्राः सिद्ध्यन्ते यत्नतो लघुः ।
केषां चिद् विघ्नतां यान्ति तद् अपि दैवकारणात् ॥ र्म्_12.107{6} ॥
तथैवं वणिजां लाभोः सिद्ध्यन्ते यत्नतो ऽपि च ।
केषां चिन् नैव यत्नेन तद् अपि दैवयोगतः ॥ र्म्_12.108{7} ॥
तथा वीरा रणे शत्रुं विना यत्नं जयंत्य् अपि ।
केचित् तु रिपुना युद्धे हन्यमाना मृताः परे ॥ र्म्_12.109{8} ॥
केचित् कृत्वा महायुद्धं हन्यमानाः परस्परं ।
त्यक्त्वा देहं गताः स्वर्गं तद् अपि दैवयोगतः ॥ र्म्_12.110{9} ॥
एवं सांयात्रिका रत्नं प्राप्तुं रत्नाकरं गताः ।
केचिद् रत्नानि संगृह्य स्वस्ति प्रत्यागता गृहं ॥ र्म्_12.111{10} ॥
केचिद् रत्नम् अलब्धं वै शून्यहस्ता गृहागताः ।
केचिच् च निधनं यातास् तत्रैव मकरालये ॥ र्म्_12.112{11} ॥
केचिद् यत्नात् समुत्तीर्य जीवन्तो गृहम् आगताः ।
केचिच् च जांगले चौरैर् निहता मरणं गताः ॥ र्म्_12.113{12} ॥
केचिच् च जंतुभिर् मार्गे हिंस्यमाने मृता वने ।
केषां चित् सिद्ध्यते यात्रा महल्लाभसमन्विताः ॥ र्म्_12.114{13} ॥
केषां चिद् विघ्नतां यान्ति तथापि दैवयोगतः ।
कैश् चिद् गृहे निधिः प्राप्तः कैश् चिद् देशान्तरे वने ॥ र्म्_12.115{14} ॥
कैश् चिद् दूरे भ्रमद्भिश् च नैव किं चित् क्व चिद् धनं ।
केषां चिद् वर्द्धते संपद् यत्नायासं विना लघु ॥ र्म्_12.116{15} ॥
केषां चिद् धीयते संपद् रक्षितापि प्रयत्नतः ।
केषां चित् सुस्थिरा संपत् केषां चिद् वल अस्थिरा ॥ र्म्_12.117{16} ॥
केषां चिज् जायते नैव नानोपायार्जनैर् अपि ।
एवं नानाप्रकारैश् च सत्वास् त्रैधातुकोद्भवाः ॥ र्म्_12.118{17} ॥
भुंजते सुखदुःखानि स्वस्वदैवानुसारिणाः ।
सुखस्यान्ते हि दुःखानि दुःखस्यान्ते सुखानि च ॥ र्म्_12.119{18} ॥
भुंजन्ते जंतवः सर्वे भ्रमन्ते षड्गतिष्व् अपि ।
तथा भवन्ति मित्राणि द्विषो ऽपि हितकारिणः ॥ र्म्_12.120{19} ॥
मित्राण्य् अपि द्विषो दुष्टा भवंति दैवयोगतः ।
तथामृतं विषीभूतं विषं चाप्य् अमृती भवेत् ॥ र्म्_12.121{20} ॥
तद् अपि दैवयोगेन तस्माद् दैवं महद् वरं ॥ र्म्_12.122{21} ॥
तथा च ब्रह्मणः शीर्षं निकृत्तं शूलपाणिना ।
तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ र्म्_12.123{22} ॥
तथा चक्री सुवीरो ऽपि व्याधेषु निहतो मृतः ।
तद् अपि दैवयोगेन तस्माद् दैवं महद् वलं ॥ र्म्_12.124{23} ॥
यश् च भूताधिपश् चेशः सो ऽप्य् उमत्तो दिगंवरः ।
तद् अपि दैवयोगेन तस्माद् दैवं महेश्वरः ॥ र्म्_12.125{24} ॥
चंद्रो ऽपि च कलंकाङ्को मासे मासे ऽपि हीयते ।
तद् अपि दैवयोगेन तस्माद् दैवं महद्वलं ॥ र्म्_12.126{25} ॥
एवं चन्द्रदिनेशौ च ग्रहेणापि निपीडितौ ।
तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ र्म्_12.127{26} ॥
रामो रक्षोविजेतापि पुत्रेण निहतो रणे ।
तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ र्म्_12.128{27} ॥
तथार्ज्जुनः सुधीरो ऽपि पुत्रेणापि हतो रणे ।
तद् अपि दैवयोगेन तस्माद् दैवं महावलं ॥ र्म्_12.129{28} ॥
तथा च पर्शुरामेण मातापि निहता क्रुधा ।
तद् अपि दैवयोगेन तस्माद् दैवं महावलः ॥ र्म्_12.130{29} ॥
बिंबिसारो नृपेन्द्रो ऽपि पुत्रेणाजातशत्रुणा ।
वंधने मारितं चैवं तद् अपि दैवयोगतः ॥ र्म्_12.131{30} ॥
तस्माच् च ब्रह्मदत्तेन धर्मपालो स नन्दनः ।
मारितः प्रमदातुष्ट्यै तद् अपि दैवयोगतः ॥ र्म्_12.132{31} ॥
राज्ञी च दुर्पती माता स्वात्मजस्यापि रोहितं ।
पीत्वैव निर्दया तुष्टा तद् अपि दैवयोगतः ॥ र्म्_12.133{32} ॥
क्षान्तिवादी मुनिश् चापि राज्ञा निर्दयचेतसा ।
असिना घातितो ऽरण्ये तद् अपि दैवयोगतः ॥ र्म्_12.134{33} ॥
प्रसेनजिन् नृपेशो ऽपि पुत्रेणापि स्वराज्यतः ।
निर्वासितो वने भ्रान्तस् तद् अपि दैवयोगतः ॥ र्म्_12.135{34} ॥
एवम् अन्ये ऽपि राजानो हत्वा ज्ञाती स्ववांधवान् ।
भुंजते प्राप्य राज्यानि तद् अपि दैवयोगतः ॥ र्म्_12.136{35} ॥
एवं पित्रा सुतास् त्यक्त्वा मात्रा च स्वात्मजा अपि ।
वंधुमित्रादिभिस् त्यक्त्वा केचिद् दैवानुयोगतः ॥ र्म्_12.137{36} ॥
भार्यापि स्वामिना त्यक्त्वा भर्त्तापि भार्य्यया तथा ।
तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ र्म्_12.138{37} ॥
पुत्रेणापि पिता त्यक्तं मातापि जननी तथा ।
धात्री चापि परित्यक्तास् तथा पौत्रपितामहः ॥ र्म्_12.139{38} ॥
तथा पितामहस् त्यक्तः पुत्रैश् चाप्य् अतिनिर्दयैः ।
तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ र्म्_12.140{39} ॥
तथा राज्ञा स्वभृत्याश् च सेवका अपि सज्जनाः ।
अपराधं विना त्यक्तास् तद् अपि दैवयोगतः ॥ र्म्_12.141{40} ॥
तथा सखिसहायां च वंधुमित्रसुहृज्जनान् ।
परित्यक्त्वा निहंत्य् अन्ते तद् अपि दैवयोगतः ॥ र्म्_12.142{40*} ॥
तथा शिष्यान् गुरुर् हन्ति शिष्यो हन्ति गुरुम् अपि ।
तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ र्म्_12.143{41} ॥
तथापि घ्नन्ति भर्त्तारं स्वामिनं सेवकान्न् अपि ।
तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ र्म्_12.144{42} ॥
तथा च स्वयम् आत्मानं घ्नन्ति केचिद् रुषान्विताः ।
तद् अपि दैवयोगेन तस्माद् दैवं महत्तमः ॥ र्म्_12.145{43} ॥
केचिच् छस्त्रैः स्वयं हत्वा केचिद् भुक्त्वा विषादिकं ।
केचिद् अग्नौ जले स्वभ्रे प्रपातात् पतिता मृताः ॥ र्म्_12.146{44} ॥
केचित् पाशैः स्वयं बध्य मृताः केचिच् च वंधने ।
केचित् पानाशनादींश् च त्यक्त्वा यांति यमालयं ॥ र्म्_12.147{45} ॥
एवं कृत्वापि यान्त्य् एव केचिद् वापि सुरालयं ।
केचिच् च नरके यान्ति तत् सर्वं दैवयोगतः ॥ र्म्_12.148{46} ॥
तथा मृद्दारुपाषाणे नानाधातुप्रतिष्ठिताः ।
देवताश् च ददन्त्य् एवं फलं दैवनियोगतः ॥ र्म्_12.149{47} ॥
परे ऽपि स्वजना इष्टाः सहजा अपि च द्विषः ।
भवन्ति तत् क्षणाद् एव तद् अपि दैवयोगतः ॥ र्म्_12.150{48} ॥
एवं त्रैधातुकोत्पन्नाः सर्वे सत्वाश् च जंतवः ।
षड्गतिषु भ्रमन्तस् ते चरन्ति दैवयोगतः ॥ र्म्_12.151{49} ॥
केचिद् वीरा गुणाढ्याश् च सुंदरा भाग्यमानिनः ।
सर्वसंपत्समृद्धाश् च चक्रवर्त्तिनृपादयः ॥ र्म्_12.152{50} ॥
केचिच् च निर्गुणाः प्राढ्याः केचिन् निर्गुणिनः शठाः ।
केचिच् च विकलांगाश् च गुणसंपत्तिभागिनः ॥ र्म्_12.153{51} ॥
केचिच् च सुंदरा मूर्खा निर्धना निर्गुणाः शठाः ।
केचिच् च गुणिनः प्राढ्या नीचकर्मानुचारिणः ॥ र्म्_12.154{52} ॥
केचिन् नीचकुलोत्पन्नाः गुणाढ्याः साधुवृत्तयः ।
दातारो धनिनो वीराः सर्वसत्वानुपालकाः ॥ र्म्_12.155{53} ॥
केचिद् उच्चकुलोत्पन्ना निर्गुणा दुष्टवृत्तयः ।
कृपणा विकलांगाश् च निर्दयाश् च दुराशयाः ॥ र्म्_12.156{54} ॥
केचिद् वीरा ह्य् अलाभिज्ञाः कुलीनाः साधवो ऽपि ये ।
ते ऽपि जातिनिहीने ऽपि भजंति शरणं गताः ॥ र्म्_12.157{55} ॥
केचिच् च गुणवन्तो ऽपि कुचेलाः कृशगात्रिकाः ।
प्रेतवद् भुज्यमानाश् च चरंति भिक्षुका भुवि ॥ र्म्_12.158{56} ॥
केचिच् च निर्गुणा वापि वंचका दुष्टमानसाः ।
मान्यन्ते साधुवल् लोके तद् अपि दैवयोगतः ॥ र्म्_12.159{57} ॥
एवं नानाविधा लोकाः षड्गतिषु समुद्भवाः ।
सुखदुःखानि भुंजन्ते भ्रमंति दैवयोगतः ॥ र्म्_12.160{58} ॥
तस्माद् दैवं महावीरं सर्वत्रैधातुकेष्व् अपि ।
केनापि शक्यते नैव वशे नेतुं कथं चन ॥ र्म्_12.161{59} ॥
तेन दैवं महानाथः सर्वकर्माधिपः प्रभुः ।
स्रष्टा भर्त्ता च हर्त्ता च त्रैधातुवासिनाम् अपि ॥ र्म्_12.162{60} ॥
तस्याप्य् अधिपतिब्रह्मा सर्वलोकेश्वरो विधिः ।
तत् तस्य शरणं गत्वा भक्त्या नित्यं समर्चय ॥ र्म्_12.163{61} ॥
तस्मिं तुष्टे विधौ देवैः परितुष्टं भवेद् ध्रुवं ।
ततो दैवप्रसादेन सर्वत्र मंगलं भवेत् ॥ र्म्_12.164{62} ॥
दैवे तुष्टे सुसिद्ध्यन्ते सर्वकर्माणि यत्नतः ।
विरुद्धे तु न सिद्ध्यन्ते यत्नैः संसाधितान्य् अपि ॥ र्म्_12.165{63} ॥
तस्माद् दैवाधिपं देवं ब्रह्माणं चतुराननं ।
भज दैवप्रसन्नाय सर्वकार्यप्रसिद्धये ॥ र्म्_12.166{64} ॥
दैवं ब्रह्मप्रसादेन शुभदं संमुखी भवेत् ।
ततस् ते मंगलं नित्यं सर्वकार्य्येषु संभवेत् ॥ र्म्_12.167{65} ॥
एवं सार्थपते नत्वा विधानं कार्य्यसाधनं ।
विधिनाराध्य सद्भक्त्या कुरुष्व कर्मसाधनं ॥ र्म्_12.168{66} ॥
तथा चेत् सर्वथा नित्यं यात्रायं मंगलं भवेत् ।
अन्यद् वा चिन्तितं कार्यं सर्वाप्य् एवं प्रसत्स्यते ॥ र्म्_12.169{67} ॥
यदि वांछास्ति ते भूयो गन्तुं रत्नाकरं प्रति ।
तथाभ्यर्च्य विधातारं गछेत् स्वस्ति भवेत् खलु ॥ र्म्_12.170{68} ॥
इति तेनोदितं श्रुत्वा सार्थवाहस् तथेति सः ।
प्रतिज्ञाय समभ्यर्च्य ब्रह्माणं प्रार्थयत् तदा ॥ र्म्_12.171{69} ॥
नमस् ते भगवन् ब्रह्मं यात्रासिद्धिं कुरुष्व मे ।
एवं विधिं समाराध्य स सार्थाधिपतिस् ततः ॥ र्म्_12.172{70} ॥
रत्नं प्राप्त्यै पुनः सार्थान् समाहूयाब्रवीत् तथा ।
भवन्तः श्रूयतां वाक्यं यन् मया समुदीरितं ॥ र्म्_12.173{71} ॥
अत्रास्ति यदि वो वांछा तथा कर्तुं समुद्यतां ।
अहं रत्नाकरं भूयो गन्तुं इछामि सांप्रतं ॥ र्म्_12.174{72} ॥
तद् यदीछथ रत्नानि तथा यात मया सह ।
किं चाप्य् अत्र वयं सर्वे सार्थवाहकुलोद्भवाः ॥ र्म्_12.175{73} ॥
तद् गृहे पशुवद् भुक्त्वा कथं शोभी व्रजेमहि ।
संसारे सर्वजंतूनां एकधा मरणं ध्रुवं ॥ र्म्_12.176{74} ॥
तत् किं नो मरणे भीत्या मृत्युं केन निवार्य्यते ।
यदि दैवाद् विपत्तिः स्याद् अस्माकं कर्म्मदोषतः ॥ र्म्_12.177{75} ॥
सर्वतीर्थजलाधारे मृताः स्वर्गं व्रजेमहि ।
यदि भाग्याच् च नो यात्रा सिद्धा स्वस्तिमती भवेत् ।
तदा जीवं सुखं दानं कृत्वा स्वर्गं व्रजेमहि ।
तद् विषादं परित्यज्य यशोधर्म्मसुखाप्तये ॥ र्म्_12.178{76} ॥
वीर्योत्साहं समाधाय समायात मया सह ।
इति तस्य वचः श्रुत्वा सर्वे ते वणिजो मुदा ॥ र्म्_12.179{77} ॥
तथेति च समुत्साहं कृत्वा गंतुं समुद्यताः ।
ततः सर्वे ऽपि ते सार्था धृत्वा स्वस्त्ययनं विधिं ॥ र्म्_12.180{78} ॥
पण्यम् आदाय तेनैव सह सार्थभृता ययुः ।
ततस् ते प्रस्थिताः सर्वे ग्रामारण्यवनस्थलीः ॥ र्म्_12.181{79} ॥
समुत्तीर्य्य क्रमाद् यातास् तीरं प्रापुर् महोदधेः ।
तत्र नावि समारूढा कर्णधारप्रयत्नतः ॥ र्म्_12.182{80} ॥
मरुतांते ऽनुकूलेन जगाहिरे महोदधिं ।
ततस् तेषां च सर्वेषां दैवयोगानुयोगतः ॥ र्म्_12.183{81} ॥
सा नौका कालिकावातसंक्षुब्धाभूद् विभेदिता ।
तदा सर्वे ऽपि ते सार्था दृष्ट्वा नौकां विभेदितां ॥ र्म्_12.184{82} ॥
त्रसिताः सहसा तस्मात् प्रत्याययुः प्रयत्नतः ।
ततस् ते वणिजः सर्वे विपंनाशा विषादिताः ॥ र्म्_12.185{83} ॥
रात्रौ स्वस्वगृहे गत्वा विभग्नासा विषेदिरे ।
तथासौ सार्थवाहो ऽपि लज्जितः खण्डिताशयः ॥ र्म्_12.186{84} ॥
खेदितात्मा गृहे तस्थौ मूकवद् धि नतोत्सवः ।
ततो भार्य्या सती भद्रा पतिखेदविभेदितं ।
दृष्ट्वा तं विकलीभूतं समुपेत्याब्रवीत् पुनः ॥ र्म्_12.187{85} ॥
मा विषादं कृथाः स्वामिन्न् अत्र धैर्य्यं समाश्रयः ।
धर्मिष्ठे शरणं गत्वा कुरुष्व धर्मसाधनं ॥ र्म्_12.188{86} ॥
धर्म्मेण जीयते पापं निष्पापो निर्मलाशयः ।
शुद्धचित्तो विशुद्धात्मा पुण्यात्मा भाग्यम् आप्नुयात् ॥ र्म्_12.189{87} ॥
ततो भाग्यवतः पुंसो यद् यत् कर्मणि साधितं ।
तत् तत् सर्वं प्रसिद्ध्येत तस्माद् धर्मं चरोत्तमं ॥ र्म्_12.190{88} ॥
धर्मम् एव सुहृद् मित्रम् इहामुत्र सहानुगः ।
धर्म्मेण पाल्यते सर्वं तस्माद् धर्मो जगत्सुहृत् ॥ र्म्_12.191{89} ॥
धर्मा नानाविधा लोके कुलचर्य्यानुसरतः ।
सर्वेषाम् अपि धर्माणां दया धर्मे विशिष्यते ॥ र्म्_12.192{90} ॥
दयालुः सुगतो बुद्धो धर्मराजस् तथागतः ।
समन्तभद्र आत्मज्ञः सर्वसत्वहितंकरः ॥ र्म्_12.193{91} ॥
सर्वज्ञो मारजिच् छास्ता जगन्नाथः शुभार्थदः ।
षडभिज्ञो जगद्भर्त्ता सर्वलोकाधिपेश्वरः ॥ र्म्_12.194{92} ॥
तस्मात् तस्य मुनीन्द्रस्य सद्भक्त्या शरणं व्रजन् ।
सद्धर्मशरणं कृत्वा भज नित्यम् उपासकः ॥ र्म्_12.195{93} ॥
ततस् ते नश्यते पापं मंगलं च भवेद् ध्रुवं ।
तदैव सर्वकार्याणि समेत्स्यंते न संशयः ॥ र्म्_12.196{94} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा ।
तथेति संप्रतिज्ञाय संबुद्धशरणं ययौ ॥ र्म्_12.197{95} ॥
नमस् ते भगवन् नाथ पापिस्थो ऽहं सुदुर्भगः ।
भवतां शरणं गछे तन् मां दृष्ट्वाशु रक्षतां ॥ र्म्_12.198{96} ॥
यन् मया प्रकृतं पापं कारितं वानुमोदितः ।
तत् सर्वं देशयिष्यामि तन् मे देहि शुभां गतिं ॥ र्म्_12.199{97} ॥
भवतां सर्वदा नाथ शरणं याम्य् उपासकः ।
अन्यो मे शरणं नास्ति तन् मां रक्ष सदा भजे ॥ र्म्_12.200{98} ॥
त्रिधापि मे जगन्नाथ यात्रा भग्ना स्वदैवतः ।
गृहस्थः सार्थवाहो ऽहं तन् मे देहि सुसंपदः ॥ र्म्_12.201{99} ॥
यन्व् अहं सांप्रतं नाथ भवतं शरणं व्रजन् ।
भूयो रत्नाकरं गन्तुं इछामि रत्नलब्धये ॥ र्म्_12.202{100} ॥
यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते ।
तदुपायेन संबुद्धं पूजयेयं ससांघिकं ॥ र्म्_12.203{1} ॥
इत्य् एवं निश्चयं कृत्वा संबुद्धं संस्मरन् मुहुः ।
तां भार्य्यां भद्रिकां दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_12.204{2} ॥
भद्रे त्वया यद् आदिष्टं तथा कर्तुं समुत्सहे ।
अद्याग्रेण जगन्नाथं शरणं यास्याम्य् उपासकः ॥ र्म्_12.205{3} ॥
भद्रे नाम्ना जिनेन्द्रस्य यास्ये रत्नाकरे पुनः ।
यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते ॥ र्म्_12.206{4} ॥
तदुपार्द्धेन रत्नेन ससंघं सुगतं तदा ।
यथार्हं पूजयिष्ये ऽहम् इति संकल्पितं मया ॥ र्म्_12.207{5} ॥
यदि दैवाद् विपत्तिः स्यात् संबुद्धनाम संस्मरन् ।
सर्वतीर्थजलाधाने मृतो यायां सुखावतीं ॥ र्म्_12.208{6} ॥
तद् अत्र यदि मे कार्य्यं शुभं कर्तुं समिछसि ।
तद् विषादं परित्यज्य धैर्य्यं कृत्वा सुखं वस ॥ र्म्_12.209{7} ॥
इति भर्त्त्रोदितं श्रुत्वा सा भार्य्या भद्रिका सती ।
तथेति प्रतिसंमोद्य स्वामिनं तं समब्रवीत् ॥ र्म्_12.210{8} ॥
यद्य् एवं ते समीहास्ति कृत्व् एतं निश्चयं प्रभो ।
संबुद्धस्मरणं धृत्वा गछ स्वस्तिं समाचर ॥ र्म्_12.211{9} ॥
यदि बुद्धकृपादृष्टिः सत्वेषु विद्यते किल ।
तथावश्यं स संबुद्धः पश्यन् त्वां चाप्य् अचेत् खलु ॥ र्म्_12.212{10} ॥
तदा ते मङ्गलं नित्यं यात्रा स्वस्तिमती भवेत् ।
ततस् ते जन्म संसारे साफल्यं च भवेत् खलु ॥ र्म्_12.213{11} ॥
तेन स्वामिं जिनेंद्रस्य नामस्वस्त्ययनं दधत् ।
गछ यात्रा सुसिद्धास्तु स्वस्ति प्रत्यागताशु च ॥ र्म्_12.214{12} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा ।
भूयः सार्थगणान् सर्वान् समाहूयाब्रवीत् तथा ॥ र्म्_12.215{13} ॥
भवन्त श्रूयतां वाक्यं यन् मयात्र समीहितं ।
अहं रत्नाकरं भूयो गन्तुम् इछामि सांप्रतं ॥ र्म्_12.216{14} ॥
तद् अस्ति यदि वो वांछा यशःसंपत्सुखाप्तये ।
समायात मया सार्द्धं रत्नाकरं व्रजेमहि ॥ र्म्_12.217{15} ॥
यदि भाग्याद् धि नो यात्रा सिद्धा स्वस्तिमतिर् भवेत् ।
यावजीवं सुखं धर्मं कृत्वा स्वर्गं व्रजेमहि ।
अथ वा स्याद् विपत्तिर् नः सर्वतीर्थजलाश्रये ।
मृताः स्वर्गं गमिष्यामो ह्य् अवश्यं मरणे सति ॥ र्म्_12.218{16} ॥
पशुवत् किं गृहे स्थित्वा सुखं वा किं यशो विना ।
यशोन्विता मृता ये हि तत्पुमांसो नरोत्तमाः ॥ र्म्_12.219{17} ॥
यद् अर्थम् एव जीवामस् तद् अर्थं यन् न विद्यते ।
किं तेन जीवितेनापि केवलं दुःखभागिनः ॥ र्म्_12.220{18} ॥
वरम् एवाद्य मे मृत्युर् न व्यर्थं चिरजीवितं ।
यस्माच् चिरम् अपि स्थित्वा मृत्युर् केन निवार्य्यते ॥ र्म्_12.221{19} ॥
इति मृत्युभयं दृष्ट्वा सर्वत्राप्य् अनिवारणं ।
त्यक्त्वा विषादकौशीद्यं प्रोद्यमह्यं यशोर्जने ॥ र्म्_12.222{20} ॥
एवं नानाप्रकारेण तेन सार्थभृतापि ते ।
बोध्यमाना वणिक्संघाः किं चिन् नैव समूचिरे ॥ र्म्_12.223{21} ॥
अभद्रो ऽयं पुमां चापि यतो यात्रा न सिद्ध्यति ।
इति तेन महांभोधौ नैको ऽपि गन्तुम् ऐछत ॥ र्म्_12.224{22} ॥
अथ सार्थपतिर् दृष्ट्वा तान् सर्वान् विरतोत्सवान् ।
एको ऽपि वा स्वयं गन्तुम् ऐछद् रत्नाकरं प्रति ॥ र्म्_12.225{23} ॥
ततो भार्यां समामंत्र्य परिबोध्य प्रसन्नधीः ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे भारकैः सह ॥ र्म्_12.226{24} ॥
ततः पण्यं समादाय भारवाहजनैः सह ।
पुराद् वहि विनिर्गत्य क्रमाद् देशांतरं ययौ ॥ र्म्_12.227{25} ॥
क्रमाच् चंचूर्य्यमानो ऽसौ ग्रामारण्यवनस्थलीः ।
परिक्रमन् समुल्लंघ्य प्रापुस् तीरं महोदधेः ॥ र्म्_12.228{26} ॥
तत्रासौ सार्थभृद् दृष्ट्वा तं समुद्रं महाम्बुधिं ।
कृतांजलिपुटो नत्वा प्रार्थयच् छरणं गतः ॥ र्म्_12.229{27} ॥
नमस् ते जीवम् आधार सर्वसत्वार्थसंपदे ।
त्वदासया समायामि तद् आशां मे प्रपूरय ॥ र्म्_12.230{28} ॥
ततो ऽसौ कर्णधारं च तोषयित्वा प्रबोधयन् ।
कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ र्म्_12.231{29} ॥
कर्णधार महावाहो तवाहं शरणं व्रजे ।
तत् स्वस्ति चारयन् नौकां यात्रासिद्धिं प्रसाधय ॥ र्म्_12.232{30} ॥
तथासौ वहनं कृत्वा दृढीतं गाढवंधितं ।
कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ र्म्_12.233{31} ॥
यथा माता च गर्भस्थं वालकं संप्ररक्षते ।
तथा माम् एव गर्भस्थे नौके मातः प्ररक्षतां ॥ र्म्_12.234{32} ॥
ततश् च सुगतं स्मृत्वा त्रिरत्नशरणं गतः ।
कृतांजलिपुटो भूत्वा प्रणम्यैवम् अयाचत ॥ र्म्_12.235{33} ॥
नमस् ते भगवन् नाथ यथा त्रासि जगत्त्रयं ।
तथा मां कृपया दृष्ट्वा पाहि व्रजे रत्नाकरे ॥ र्म्_12.236{34} ॥
इत्य् एवं सार्थवाहो ऽसौ प्रणत्वा सुगतं स्मरन् ।
भाण्डान्य् आरोप्य नौकायं समारोहज् जनं सह ॥ र्म्_12.237{35} ॥
ततो ऽसौ नौक्रमेणैव कर्णधारप्रयत्नतः ।
मरुतां चानुकूलेन संजगाह महाम्बुधौ ॥ र्म्_12.238{36} ॥
यत् तत्र सार्थवाहो ऽसौ संस्मरन् सुगतं मुहुः ।
तेन पुण्यबलेनैव सा नौका स्वस्तिम् आचरन् ॥ र्म्_12.239{37} ॥
तथा क्रमाच् चरन्त्य् एवं द्वीपलोकान्तराणि च ।
व्यतिक्रम्य सुशिघ्रेण रत्नाकरं समाययौ ॥ र्म्_12.240{38} ॥
तत्र रत्नाकरे प्राप्य रत्नानि समसाधयन् ।
ततो रत्नानि संगृह्य प्रतस्थे वहनास्थितः ॥ र्म्_12.241{39} ॥
ततः क्रमाद् व्यतिक्रम्य द्वीपलोकान्तराणि च ।
तीरं प्रापुः सुशीघ्रेण बुद्धदृष्टिप्रसादतः ॥ र्म्_12.242{40} ॥
ततः स्थलं समासाद्य शैलारण्यवनस्थलीः ।
ग्रामां देशां परिक्रम्य श्रावस्त्यां पुरम् आययौ ॥ र्म्_12.243{41} ॥
ततो गृहे प्रविष्टो ऽसौ भर्य्यया सह मोदितः ।
सुहृन्मित्रजनैश् चापि कृत्वालापं न्यषीदत ॥ र्म्_12.244{42} ॥
ततः सद्यर् गृहस्थो ऽसौ भार्य्यया सह नंदितः ।
भाण्डम् उद्घाट्य रत्नानि प्रत्यवेक्षितुम् आरभत् ॥ र्म्_12.245{43} ॥
तत्र दिव्यविचित्राणि रत्नानि विविधानि च ।
दृष्ट्वा हर्षं समासाद्य पुनर् एवं वभाषते ॥ र्म्_12.246{44} ॥
ममैतानि सुरत्नानि दिव्यान्य् एतादृशानि हि ।
तत्र दिव्यविचित्राणि नानारत्नकुलानि च ॥ र्म्_12.247{45} ॥
लब्धानि तज् जिनेन्द्रस्य कृपादृष्टिप्रसादतः ।
तस्माद् यथाप्रतिज्ञातं श्रद्धया सांप्रतं मया ॥ र्म्_12.248{46} ॥
यद् उपार्द्धं प्रदातव्यैः श्रवणायार्हते ऽपि नः ।
तद् उपार्द्धं कथं चानुदातव्यं मुनये ऽर्हते ॥ र्म्_12.249{47} ॥
यदि राजा विजानीयाद् एतद् अर्द्धं हरे मम ।
रत्नलुब्धो नरेशो यं दण्डं वा प्रणयं मयि ॥ र्म्_12.250{48} ॥
तदा मे स्याद् विपत्तिश् च तत् कथं क्रियते मया ।
अहो दैवाद् विपत्तिर् माम् अद्यापि च न मुंचति ।
तत् कथं वा प्रतिज्ञातं पूरयितुं न मन्यते ।
नमस् ते भगवन् नाथ सर्वज्ञो ऽसि मुनीश्वरः ॥ र्म्_12.251{49} ॥
रक्ष मां पापिनं मूढनिमग्नं दुःखसागरे ।
इत्य् असौ सुगतं स्मृत्वा तच्चिन्ताव्यथिताशयः ॥ र्म्_12.252{50} ॥
कपोलं स्वकरे धृत्वा तस्थौ कोष्ठे निरुत्सवः ।
तथैवं स्थितम् आलोक्य स्वामि नं तं विषादितं ॥ र्म्_12.253{51} ॥
सा भार्या भद्रिकोपेत्य पुरः स्थित्वाब्रवीत् तथा ।
स्वामिं भर्त्तः किम् एव त्वं स्थितो ऽसि दुःखितो यथा ॥ र्म्_12.254{52} ॥
किं वा ते जायते दुःखं तद् वच चेत् प्रियास्मि ते ॥ र्म्_12.255{53} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिः पुनः ।
तां भार्य्यां समुपामंत्र्य पुनश् चैवम् अभाषत ॥ र्म्_12.256{54} ॥
भद्रे यज् जायते दुःखं तत् प्रवक्ष्ये शृणु प्रिये ।
यथा मया प्रतिज्ञातं पूरयितुं कथं तथा ॥ र्म्_12.257{55} ॥
यद्य् उपार्द्धं प्रदास्यामि श्रवणायार्हते ऽपि नु ।
एतद् अर्द्धं हरेद् राजा लोभान् मे दण्डयेद् अपि ॥ र्म्_12.258{56} ॥
इत्य् एवं तद्विषादेन व्यथितो ऽहं निरुत्सवः ।
तन् मे नात्र प्रतीकारो कथं कर्तुं न मन्यते ॥ र्म्_12.259{57} ॥
इति भर्त्त्रोदितं श्रुत्वा सा भार्या पुनर् अब्रवीत् ।
विषादं मा कृथाः स्वामिं शृणु यन् मे समीहितैः ॥ र्म्_12.260{58} ॥
तावद् इमानि संकल्पः पश्चात् तत् समयागते ।
पूजया सह भोजैश् च ससंघायार्हते ऽर्चयेत् ॥ र्म्_12.261{59} ॥
एवं कृते तथा स्वामिन् प्रतिज्ञा तेन सेत्स्यते ।
भीतिश् चापि न विद्येत तस्माद् एवं कुरु प्रभो ॥ र्म्_12.262{60} ॥
इति भार्यावचः श्रुत्वा स सार्थाधिपतिर् मुदा ।
तथेति प्रतिसंश्रुत्य पुनर् एवम् अभाषत ॥ र्म्_12.263{61} ॥
तावद् इमानि सर्वाणि रत्नानि ते समर्प्पये ।
पश्चात् काले ससंघं तं पूजयिष्ये मुनीश्वरं ॥ र्म्_12.264{62} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0