रत्नमालावदान · भाग 6180
इति तेन सुरेन्द्रेण समादिष्टं हितार्थिना ।
श्रुत्वा सर्वे ऽपि ते देवास् तथेत्य् उक्त्वा ननन्दिरे ॥ र्म्_6.110{10} ॥
तदा सर्वे ऽपि देवाश् च त्रिरत्नं शरणं गताः ।
सर्वदानुस्मरन्तश् च सत्कृत्यैवं प्रभेजिरे ॥ र्म्_6.111{11} ॥
एवं देवास् तदा ये ये त्रिरत्नशरणं गताः ।
ते ते स्वर्गाद् अपि च्युत्वा नैवागछन्न् अधोगतिं ॥ र्म्_6.112{12} ॥
तत ऊर्द्ध्वं समुद्गम्य प्रागछंस् तुषितालये ।
त्रिरत्नशरणं याता मैत्रेयं समुपाश्रयन् ॥ र्म्_6.113{13} ॥
तथा शक्रश् च तान् सर्वान् मैत्रेयसमुपाश्रितान् ।
दृष्ट्वानुमोदनां कुर्वन् प्राभ्यनन्दत् सुरैः सह ॥ र्म्_6.114{14} ॥
इति मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ।
एवं मत्वा महाराज त्रिरत्नशरणं व्रज ॥ र्म्_6.115{15} ॥
ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिचरीः प्राप्य संबोधिपदम् आप्नुयाः ॥ र्म्_6.116{16} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
त्रिरत्नशरणे स्थाप्य त्वया धर्मप्रवृद्धये ॥ र्म्_6.117{17} ॥
इत्य् एवम् उपगुप्तेन समादिष्टं सुभाषितं ।
श्रुत्वा राजा तथेत्य् एवं प्रान्वमोदत् सपार्षदः ॥ र्म्_6.118{18} ॥
ये पुण्यप्राप्तुकामास् तद् इदम् अविरतं सूकरीकावदानं ।
शृण्वन्ति श्रवयन्ति प्रमुदितमनसा दुर्गतिं ते न यान्ति ।
निर्जित्य क्लेशसंघांस् त्रिगुणहितकरा बोधिचर्य्यानुरक्ता ।
मैत्रेयं बोधिसत्वं तुषितभुवनागाः संभजन्ति प्रकामं ॥ र्म्_6.119{19} ॥
++ इति रत्नावदानमालायां सूकर्य्यवदानं समाप्तं ++
विइ वपुष्मत्कुमारावदान
अथशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_7.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
सर्वसत्वहितार्थाय तत् समादेष्टुम् अर्हसि ॥ र्म्_7.2{2} ॥
इति संप्रार्थिते तेन राज्ञाशोकेन भूभुजा ।
उपगुप्तो यतिश् चासौ दृष्ट्वा तं नृपम् अब्रवीत् ॥ र्म्_7.3{3} ॥
साधु राजन् समाधाय श्रूयतां पुण्यवृद्धये ।
यथा मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ॥ र्म्_7.4{4} ॥
पुरासीद् भगवान् बुद्धः श्रीघनः शक्यकेशरी ।
सर्वविद्यागुणाचार्य्यस् त्रैधातुकविनायकः ॥ र्म्_7.5{5} ॥
सुगतो ऽर्हन् महाभिज्ञो धर्मराजस् तथागतः ।
जिनः समन्तभद्रांशश् चतुर्ब्रह्मविहारकः ॥ र्म्_7.6{6} ॥
स एकसमये तत्र कपिलाख्ये पुरोत्तमे ।
न्यग्रोधारमके रम्ये व्यहरच् छ्रावकैः सह ॥ र्म्_7.7{7} ॥
तस्मिंश् च समये तत्र धर्म्मं श्रोतुं समागताः ।
देवासुरमहाराजा यक्षगंधर्वकिन्नराः ॥ र्म्_7.8{8} ॥
गरुडा नागराजाश् च सिद्धविद्याधरा ग्रहाः ।
योगिनो यतयश् चापि मुनयो ब्रह्मचारिणः ॥ र्म्_7.9{9} ॥
राजानः क्षत्रियाश् चापि वैश्यामात्याश् च मंत्रिणः ।
श्रेष्ठिनः सार्थवाहाश् च पौरा जानपदा अपि ॥ र्म्_7.10{10} ॥
एवम् अन्ये ऽपि सत्वाश् च ये सद्धर्मगुणवांछिनः ।
ते सर्वे समुपागत्य वंदित्वा तं मुनीश्वरं ॥ र्म्_7.11{11} ॥
पूजयित्वा पुरस्कृत्य परिवृत्य समन्ततः ।
कृतांजलिपुटो धर्मं श्रोतुं समुपतस्थिरे ॥ र्म्_7.12{12} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मकांक्षिणः ।
आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_7.13{13} ॥
तं च धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः ।
सत्कृत्य श्रद्धया नित्यं भजन्त उपतस्थिरे ॥ र्म्_7.14{14} ॥
भगवांश् च तथा नित्यं सर्वसत्वहितार्थतः ।
सद्धर्मदेशनां कृत्वा व्यहरत् सांघिकैः सह ॥ र्म्_7.15{15} ॥
तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि ।
आसीच् छाक्यो महासाधुर् महाभोगो महाधनः ॥ र्म्_7.16{16} ॥
तेन कलत्रम् आनीतं स्वकुलसदृशात् कुलात् ।
तया स कान्तया सार्द्धं रराम परिचारयन् ॥ र्म्_7.17{17} ॥
तस्यैवं रममाणस्य सा भार्यासीत् सुगर्भिणी ।
ततो ऽसौ समये ऽसूत दारकं दिव्यसुंदरं ॥ र्म्_7.18{18} ॥
मर्त्यातिक्रान्तवर्णाभं दिव्यकल्पसुवर्णितं ।
सूक्ष्मछविं सुभद्रांगं गौरवर्णं मनोहरं ॥ र्म्_7.19{19} ॥
महेशाख्यं मनापं च दर्शनीयं प्रसादिकं ।
अभिरूपं सुपुष्टांगं सर्वलक्षणमण्डितं ॥ र्म्_7.20{20} ॥
तत्रासौ जनको दृष्ट्वा दारकं तं सुभद्रिकं ।
मोदितः सहसा ज्ञातिं समाहूयाब्रवीत् तथा ॥ र्म्_7.21{21} ॥
भवन्तः पश्यतां पुत्रो ममायं दिव्यसुंदरः ।
अस्य जातिमहं कृत्वा नामधेयं प्रचक्ष्यतां ॥ र्म्_7.22{22} ॥
इति तेनोदितं श्रुत्वा ज्ञातयस् ते ससंमताः ।
दृष्ट्वा तं वालकं दिव्यं कल्यवर्णं सुसुंदरं ॥ र्म्_7.23{23} ॥
संमील्य संमतं कृत्वा दृष्ट्वा तस्याङ्गलक्षणं ।
कृत्वा जातिमहं नाम स्थापितुं संवभाषिरे ।
यद् अयं दारको दिव्यवपुः कल्यातिसुंदरः ।
तस्माद् भवतु नाम्नायं वपुस्मान् इति विश्रुतः ।
इति संभाषणां कृत्वा सर्वे ते ज्ञातिवर्गिकाः ॥ र्म्_7.24{24} ॥
पुरस्तात् तस्य शाक्यस्य गत्वा चैवं वभाषिरे ।
यद् अयं भवतः पुत्रो दिव्यवपुर् गुणान्वितः ॥ र्म्_7.25{25} ॥
तस्माद् भवतु नाम्नायं वपुष्मान् इति विश्रुतः ।
तथेति समभिख्याय पित्रा स सुत आत्मजः ॥ र्म्_7.26{26} ॥
अष्टाभ्य उपमातृभ्य उपन्यस्तो ऽभिपालने ।
ततो ऽसौ दारकस् ताभिर् धात्रीभिर् उपचारणैः ॥ र्म्_7.27{27} ॥
पालितो वर्द्धितः पुष्ट आसीत् पद्मं यथा ह्रदे ।
क्रमात् प्रवर्द्धितश् चासौ कुमारो ऽभूद् यदा ततः ॥ र्म्_7.28{28} ॥
तदा सुहृत्सहायैश् च सार्द्धं क्रीडितुम् आचरत् ।
यत्र यत्र वपुष्मान् स चक्राम भुवि संचरं ॥ र्म्_7.29{29} ॥
तत्र तत्राभवन् मेध्या भूप्रदेशाः समंततः ।
एवंविधमहापुण्यमहेशाख्यः शिवाशयः ॥ र्म्_7.30{30} ॥
कारुणिको महाश्राद्धः स्वपरात्महितार्थभृत् ।
धर्मकामः सुभद्रात्मा पूज्यो मान्यो जितेन्द्रियः ॥ र्म्_7.31{31} ॥
अभिवाद्यः कुमारो ऽपि वपुष्मान् स व्यराजत ।
ततः कर्मविपाकेन प्रेर्य्यमानः कुमारकः ॥ र्म्_7.32{32} ॥
स वपुष्मान् सुहृत्संघैः सार्द्धं पुरो विनिर्ययौ ।
ततो ऽसौ जेतकारण्यं दूराद् दृष्ट्वा प्रमोदितः ॥ र्म्_7.33{33} ॥
रमितुं तत्र महोद्याने सहसा समुपाचरत् ।
ततः समुपविष्टो ऽसौ दृष्ट्वोद्यानं प्रमोदितः ॥ र्म्_7.34{34} ॥
शान्तरूपान् यतीन् पश्यन् विहारे हर्षितो ऽविशत् ।
तत्रासौ भगवन्तं तं ददर्श समितिस्थितं ॥ र्म्_7.35{35} ॥
द्वात्रिंशल्लक्षणाशीतिव्यञ्जनपरिमण्डितं ।
व्यामाभालंकृतं काम्यं शतसूर्य्याधिकप्रभं ॥ र्म्_7.36{36} ॥
समंतभद्ररूपं च रत्नांगम् इव जंगमं ।
दृष्ट्वासौ सुप्रसन्नात्मा समुपेत्य पुरोगतः ॥ र्म्_7.37{37} ॥
पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुम् उपाविशत् ।
अथासौ भगवान् दृष्ट्वा तस्य चित्तं विशोधितं ॥ र्म्_7.38{38} ॥
अर्य्यसत्यानि मार्गं च दिदेश बोधिसाधनं ।
तच् छ्रुत्वा सुगतोदितं वपुष्मान् स प्रहर्षितः ॥ र्म्_7.39{39} ॥
भवाभिसरणोद्विग्नः सद्धर्मगुणम् ऐछत ।
भित्वा स ज्ञानवज्रेण सत्कायदृष्टिपर्वतं ॥ र्म्_7.40{40} ॥
श्रोतापत्तिफलं लब्ध्वा दृष्टसत्यो ऽभवत् सुधीः ।
संसारं चास्थिरं मत्वा भवभोग्यसुनिस्पृहः ॥ र्म्_7.41{41} ॥
प्रव्रज्यां चरितुम् ऐछत् स्वाख्याते सुगताश्रमे ।
ततो ऽसौ पुरतो गत्वा मुनीन्द्रस्य कृतांजलिः ॥ र्म्_7.42{42} ॥
पादौ नत्वा प्रसन्नास्यः प्रव्रज्यां समयाचत ॥ र्म्_7.43{43} ॥
नमस् ते भगवञ् छास्तः शरणं भवतां व्रजे ।
तत् प्रव्रज्याव्रतं देहि चरिष्ये ब्रह्मचारिकां ॥ र्म्_7.44{44} ॥
इति तेनार्थितं दृष्ट्वा भगवांस् तं कुमारकं ।
प्रव्रज्याचरणारक्तं मत्वा चैवं समब्रवीत् ॥ र्म्_7.45{45} ॥
कुमार यदि ते वांछा प्रव्रज्याचरणे ऽस्ति हि ।
पित्रोर् आदेशम् आसाद्य प्रागछ दास्यते तदा ॥ र्म्_7.46{46} ॥
इति श्रुत्वा मुनीन्द्रस्य निर्देशं तत् तथेति सः ।
नंदितश् चरणौ नत्वा स्वगृहं सहसागतः ॥ र्म्_7.47{47} ॥
ततो गृहे समासाद्य पित्रोश् च पुरतः स्थितः ।
कृतांजलिपुटो नत्वा वृत्तांतं समभाषत ॥ र्म्_7.48{48} ॥
अद्याम्ब तात संबुद्धो दृश्यते ऽपूर्वदर्शनः ।
सर्वलक्षणसंपूर्णो दिव्यातिकान्तसुंदरः ॥ र्म्_7.49{49} ॥
संस्थितः पर्षदां मध्ये भाषति धर्मम् उत्तमं ।
अपूर्वं श्रूयते तस्य सुभाषितवचोऽमृतं ॥ र्म्_7.50{50} ॥
तत्सुभाषितसुधां पीत्वा चित्तं मे तृप्यते न हि ।
भूयस् तद् अमृतं पातुं व्रतम् इछामि सांप्रतं ॥ र्म्_7.51{51} ॥
अन्ये ऽपि बहवो दृष्ट्वा भिक्षवो ब्रह्मचारिणः ॥ र्म्_7.52{52} ॥
शान्तशीलाः शुभात्मानो दयाकारुण्यमानसाः ।
तत् सभागव्रतं चर्तुम् इछामि खलु सांप्रतं ॥ र्म्_7.53{53} ॥
तद् अनुज्ञां प्रदत्तं मे कृपास्ति यदि वां मयि ।
एवं तस्य स्वपुत्रस्य वचनं वज्रसन्निभं ॥ र्म्_7.54{54} ॥
तौ मातापितरौ श्रुत्वा मूर्छितौ पेततुर् भुवि ।
ततः पुत्रप्रयत्नेन चेतनां प्राप्य तौ पुनः ॥ र्म्_7.55{55} ॥
परिष्वज्य स्वकं पुत्रं तम् एवं पर्य्यदेवतां ।
हा पुत्र कथम् अज्ञो ऽसि हात्मज वल्लभो ऽसि नः ॥ र्म्_7.56{56} ॥
हा सुत वंच्यसे केन हा तात किं नु वांछसि ।
हा जीव कथम् एकान्ते त्यक्त्वास्मान् क्व नु यास्यसे ॥ र्म्_7.57{57} ॥
नन्दनः सुप्रियाश् चासि केन दुःखेन यास्यसे ।
किंचिद् दुःखं न ते दत्तं अस्माभिर् वा कदा चन ॥ र्म्_7.58{58} ॥
कुतः किं जायते दुःखं तद् वदस्व यदीहसि ।
इत्य् एवं परिदेवित्वा पितासौ चेतसात्मजं ॥ र्म्_7.59{59} ॥
निवारयन् प्रवंधेन बोधयितुं समब्रवीत् ।
त्वं कुमार वयस्थो ऽसि सुकोमलः सुखैधितः ॥ र्म्_7.60{60} ॥
शीततापासहिष्णुश् च यथेछाभोग्यसंरतः ।
किंचिद् दुःखानभिज्ञस् त्वं तत् कथं प्रव्रजेः सुत ॥ र्म्_7.61{61} ॥
प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे वसेस् सदा ।
चीवरप्रावृतः पिण्डं याचित्वा स्वयम् आहरेः ॥ र्म्_7.62{62} ॥
अनेकजन्तुसंचारे वने ऽरण्ये कथं वसेः ।
जंगले दुर्गमे नैकचौराकीर्णे कथं चरेः ॥ र्म्_7.63{63} ॥
एकाकी च कथं तिष्ठेर् वृक्षमूले च निर्जने ।
श्मशाने संस्थितः पश्यन् मृतकान्तो त्रसेः कथं ॥ र्म्_7.64{64} ॥
शयिथाश् च कथं शून्ये गृहे भूतनिवासिते ।
एवं सुदुष्करीं चर्य्यां चरितुं कथम् इछसि ॥ र्म्_7.65{65} ॥
तत् प्रव्रज्याव्रते चित्तं मा कृथास् त्वं निवर्त्तय ।
इति मद्वचनं श्रुत्वा गृहे स्थित्वा सुखं रम ॥ र्म्_7.66{66} ॥
नित्यं प्रव्रजतां दुःखं किं सिद्धं दुःखचर्य्यया ।
धर्मे वंछास्ति चेत् पुत्र गृहे स्थित्वा चर व्रतं ॥ र्म्_7.67{67} ॥
शृण्वंश् च धर्मशास्त्राणि श्रावयंश् च बहूञ् जनान् ।
दानं कृत्वा विशुद्धात्मा त्रिरत्नं सततं भज ॥ र्म्_7.68{68} ॥
यस्य किंचिद् गृहे नास्ति ज्ञातिर् वंधुश् च कश्चन ।
नापि मित्रगतिश् चापि प्रव्रज्या तस्य युज्यते ।
किं तव सेत्स्यते पुत्र प्रव्रज्यां पाकुनिष्ठया ।
सर्वथा त्यज तद्वांछा गृहे धर्मं सुखं चर ।
इति पित्रोदितं श्रुत्वा वपुष्मान् स विशंकितः ॥ र्म्_7.69{69} ॥
पित्रोः पादान् पुनर् नत्वा प्रत्युवाच प्रबोधयन् ।
सत्यं तात गृहे सौख्यं धर्माणां चरम् उत्तमं ॥ र्म्_7.70{70} ॥
संपदो ऽपि समृद्धास् ते कामभोग्यं महत्सुखं ।
गृहे परिग्रहाः पोष्यास् तद् अर्थं धनम् अर्जयेत् ॥ र्म्_7.71{71} ॥
अर्जने हि महत्कष्टं रक्षणे ऽपि प्रयत्नता ।
अनेके संपदो ऽपाया राजाग्न्युदकतस्कराः ॥ र्म्_7.72{72} ॥
क्षणाद् धरेयुर् आकृष्य तद् दुःखं सहितुं कथं ।
संपदो ऽन्ते विपत्तिः स्यात् कस्य संपद्विनिश्चला ॥ र्म्_7.73{73} ॥
विपत्तौ हीयते धैर्य्यम् अधैर्य्यात् क्लेशितो भवेत् ।
क्लेशितो दोषम् आप्नोति तदा पुण्ये मतिः कुतः ॥ र्म्_7.74{74} ॥
अपुण्ये कुपिता लक्ष्मिर् नैवाश्रये गमिष्यति ।
लक्ष्मीविरहिते गेहे कुतो धर्मस्य गोचरं ॥ र्म्_7.75{75} ॥
संपत्तौ तु लभेन् मानं मानाद् धि जायते मदः ।
मदाद् प्रमादितो धर्मे तदा धर्मो गृहे कुतः ॥ र्म्_7.76{76} ॥
अधर्मात् कामभोग्यं तु केवलं पापसाधनं ।
कामार्थे क्लेशिता लोकाः कामार्थे दुःखभागिनः ॥ र्म्_7.77{77} ॥
कामार्थे प्रतिहन्यन्ते तेन कामे सुखं कथं ।
संत्य् एवं तात सर्वत्र भयानि विविधानि हि ॥ र्म्_7.78{78} ॥
त्रैधातुकभवस्थानां कस्य नास्ति भयं कुह ।
दैवात् सर्वत्र जायन्ते दुःखानि च सुखानि च ॥ र्म्_7.79{79} ॥
क्लेशचित्तसमुत्थानि दुःखानि च भयानि च ।
यत्र यत्रापि संयाति क्लेशितात्मा सुखेछया ॥ र्म्_7.80{80} ॥
तत्र तत्रापि कर्मोत्थैर् दुःखैर् भयैश् च हन्यते ।
यत्र यत्रापि संयाति धर्मचित्तो हितेछया ।
तत्र तत्रापि सर्वत्र निर्भयश् चरते सुखं ।
यल् लोकानां भयस्थानं तत्रैव रमते यतिः ।
विविक्ते निर्जने ऽरण्ये वृक्षमूले गुहासु च ॥ र्म्_7.81{81} ॥
शून्यगेहे श्मशाने ऽपि सुखं ध्यात्वा यतिर् वसेत् ।
स्वधर्मै रक्षितो योगी संयतात्मा कुतो भयः ॥ र्म्_7.82{82} ॥
किम् एव वहुवादेन निर्वाणार्थिमनो मम ।
तन् निर्वातुं स्वदेहे ऽपि निरपेक्षः परिव्रजे ॥ र्म्_7.83{83} ॥
तद् अनुज्ञां प्रदत्तं मे प्रव्रज्याव्रतसाधने ।
यदि न दीयते ऽनुज्ञा मरिष्ये ऽहं न संशयः ॥ र्म्_7.84{84} ॥
इति तस्यात्मजस्यैवं निर्वन्धवचनं पिता ।
श्रुत्वा वियोगदुःखार्त्तः पुनस् तं सुतम् अब्रवीत् ॥ र्म्_7.85{85} ॥
मा पुत्र सहसा कार्षी मरणाभिलाषितं मनः ।
सर्वथाप्य् अनिवर्त्ती त्वम् अवश्यं चेद् गमिष्यसि ॥ र्म्_7.86{86} ॥
यद् इछसि व्रतं कर्तुं सद्धर्मार्थिमनस् तव ।
प्रव्रज श्रद्धया पुत्र स्वाख्याते बुद्धशासने ॥ र्म्_7.87{87} ॥
एवं भर्त्त्रोदितं श्रुत्वा तन् माता मूर्छितापतत् ।
चिरात् सा चेतनां प्राप्ता रुदन्ती चावदत् सुतं ॥ र्म्_7.88{88} ॥
हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसि ।
हा मे जीवो ऽसि किं पश्यं प्रव्रजितुं समीहसि ॥ र्म्_7.89{89} ॥
किंचिद् दुःखं न ते दत्तं मयाम्वाया कदा चन ।
केन दुःखेन ते चित्तं प्रव्रजितुं समिछति ॥ र्म्_7.90{90} ॥
प्रव्रज्या शोभते पुत्र वृद्धत्वे वा दरिद्रिते ।
त्वं तु दहर इत्यश् च तत् प्रव्रज्यां चरेः कथं ॥ र्म्_7.91{91} ॥
यावच् च जिवितं मे ऽस्ति तावन् मा गाः सुत क्वचित् ।
यावच् चास्ति गृहे संपत् तावद् भुक्त्वा सुखं वस ॥ र्म्_7.92{92} ॥
यदाहं मरणं याता यदा चापत्तिता गृहे ।
ज्ञातिमित्रपरित्यक्तस् तदा व्रजस्व वांछया ॥ र्म्_7.93{93} ॥
इत्य् उक्ते ऽपि तयोः पित्रोर् उदतोर् विघ्नशंकितः ।
पादां नत्वा वपुष्मान् स सहसा निर्ययौ गृहात् ॥ र्म्_7.94{94} ॥
ततो वेणुवनं गत्वा प्रणम्य मुनिम् आदरात् ।
कृतांजलिपुटो भूत्वा प्रव्रज्यां समयाचत ॥ र्म्_7.95{95} ॥
पितृप्राप्ताभ्यनुज्ञो ऽहं नाथ सांप्रतम् आगतः ।
तत् प्रव्रज्यां व्रतं देहि पंचशिक्षापदानि च ॥ र्म्_7.96{96} ॥
उपसम्पच्छुभाचारम् अनुशिक्षापदं च मे ।
ब्रह्मचर्य्यं चरिष्यामि संबोधौ कृतनिश्चयः ॥ र्म्_7.97{97} ॥
अद्याग्रेण महाबुद्ध भवतां शरणं व्रजे ।
सधर्मसांघिकानां च्ं कायवाक्चित्तभक्तितः ॥ र्म्_7.98{98} ॥
इत्य् उक्ते भगवान् दृष्ट्वा पृष्ट्वा हस्तेन तच् छिरः ।
एहि भिक्षो कुमारेति संवदंस् तं समग्रहीत् ॥ र्म्_7.99{99} ॥
एहीति प्रोक्ते सुगतेन मुण्डः पात्री वपुष्मान् सकषायवासाः ।
सद्यप्रशान्तेन्द्रिय एव तस्थौ स्वर्ण्णप्रभो बुद्धमनोरथेन ॥ र्म्_7.100{100} ॥
सच्चित्तलब्धः स मुनेः प्रसादात् प्रयुज्यमानो व्यहरत् समाधौ ।
व्यायछमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एवं ॥ र्म्_7.101{1} ॥
सर्वं च संसारम् अनित्यताहतं मत्वा च त्रैधातुगतिं विघातिनीं ।
क्लेशांश् च सर्वान् प्रविहाय संयतः साक्षाद् वरो ऽर्हं स बभूव सांघिकः ॥ र्म्_7.102{2} ॥
सुवीतरागः समलोष्टहेम आकाशचित्तशुभगंधिवासी ।
भिन्दन्न् अविद्यांगम् इवाण्डकोशं प्राप्ताद् अभिज्ञाः प्रतिसंविदश् च ॥ र्म्_7.103{3} ॥
सत्कारलोभेषु परांमुखत्वात् स शक्रदेवासुरमानुषाणां ।
पूज्यश् च मान्यो ऽप्य् अभिवन्दनीयो बभूव स ब्रह्मविहारचारी ॥ र्म्_7.104{4} ॥
अथ ते भिक्षवः सर्वे तं दृष्ट्वा विस्मयान्विताः ।
भगवन्तं प्रणम्यैवं पप्रछुस् तस्य कर्मतां ॥ र्म्_7.105{5} ॥
केनायं कर्मणा नाथ वपुष्मान् अतिसुंदरः ।
प्रव्रज्य सहसार्हत्वं प्राप्तो भवति चात्मवित् ॥ र्म्_7.106{6} ॥
इति पृष्टे च तैर् नाथो भगवांस् तान् समब्रवीत् ।
भिक्षवः श्रूयतां वक्ष्ये तस्य च कर्म यत् कृतं ॥ र्म्_7.107{7} ॥
एतेन यत् कृतं कर्म तत् केनान्येन भोक्ष्यते ।
येनैव यत् कृतं कर्म तेनैव तद् धि भुज्यते ॥ र्म्_7.108{8} ॥
पुरैकनवते कल्पे विपश्वी नाम सर्ववित् ।
समुदपादि लोके ऽर्हन् धर्मराजस् तथागतः ॥ र्म्_7.109{9} ॥
विद्याचरणसंपन्नः सुगतो भद्रकृज् जिनः ।
सर्वज्ञो ऽनुत्तरो नाथः पुरुषदम्यसारथिः ॥ र्म्_7.110{10} ॥
शास्ता त्रैधातुकस्थानां विनायको गुणाकरः ।
सद्धर्मरत्नदात स भगवान् पुण्यभास्करः ॥ र्म्_7.111{11} ॥
पुरीं वंधुमतो राज्ञो राजधानीम् उपाश्रयन् ।
सार्द्धं भिक्षुगणैः शिष्यै बोधिसत्वगणैर् अपि ॥ र्म्_7.112{12} ॥
हिताय सर्वसत्वानां दिदेश धर्मम् उत्तमं ।
आदिमध्यांतकल्याणं बोधिचर्य्यानुसारिकं ॥ र्म्_7.113{13} ॥
ततः स बुद्धकार्य्याणि कृत्वा सर्वाण्य् अशेषतः ।
निर्वाणम् आययौ शान्तो वह्निर् इवेन्धनक्षयात् ॥ र्म्_7.114{14} ॥
ततो वन्धुमता राज्ञा तत् तनुः संस्कृतो ऽग्निना ।
तद्धातूश् च समारोप्य स्तूप उच्चैर् महान् कृतः ॥ र्म्_7.115{15} ॥
तत्र रत्नमये स्तूपे सद्विधाने प्रतिष्ठिते ।
नित्यसत्कारपूजाभिः कारितं च महोत्सवं ॥ र्म्_7.116{16} ॥
संगीतिवाद्यनृत्यैश् च महानंदप्रचारिभिः ।
कारयित्वा महोत्साहं स्थापितं सुमहन्महः ॥ र्म्_7.117{17} ॥
एकस्मिन् दिवसे तत्र पुमान् एको दरिद्रितः ।
तन्महांते दिने ऽन्यस्मिं स्तापांगणम् उपाविशत् ॥ र्म्_7.118{18} ॥
तत्र स्तूपाङ्गणे चासौ प्रविष्टः समलोकयत् ।
म्लानीभूतानि पुष्पाणि प्रकीर्ण्णानि समंततः ॥ र्म्_7.119{19} ॥
तानि निर्माल्यपुष्पाणि विकीर्ण्णानि समंततः ।
ग्लानीभूतान्य् अशुद्धानि दृष्ट्वा चैवं व्यचिन्तयत् ।
अयं चैत्यो मुनीन्द्रस्य विपश्चिनो गुणांबुधेः ॥ र्म्_7.120{20} ॥
धातुरत्नमयस्तूपः सर्वलोकाभिः पूजितः ।
एतन् निर्माल्यपुष्पैस् तु म्लानितैः पवनेरितैः ॥ र्म्_7.121{21} ॥
आकीर्णो मलिनीभूतो ह्य् अशुद्धेः स्याद् अशोभितः ।
तस्माद् एतानि पुष्पाणि निर्माल्यानि समंततः ॥ र्म्_7.122{22} ॥
अपनीय विशुद्धाय मार्जयेयम् इह द्रुतं ॥ र्म्_7.123{23} ॥
इति ध्यात्वा दरिद्रो ऽसौ निर्माल्यान्य् अपनीय वै ॥ र्म्_7.124{25} ॥
संमार्ज न्यासममार्क्षी स्तूपांगणं समंततः ।
ततः स्तूपांगणं सर्वं विरजं परिशोधितं ।
दृष्ट्वा प्रसन्नचित्तो ऽसौ नत्वैवं प्रणिधिं दधे ।
यन् मयात्र जिनस्तूपे निर्माल्यान्य् अपनीय वै ।
संमृज्य शोभनं कृत्वा कुशलं समुपार्जितं ।
अनेन कुशलेनाहं सदा दुर्गतिमोचितः ॥ र्म्_7.125{26} ॥
एवंविधगुणज्ञानलाभि भूयासम् आत्मवित् ।
एवंविधं च शास्तारं संबुद्धं ज्ञानभास्करं ॥ र्म्_7.126{27} ॥
आरागयं समाश्रित्य लभेयं सौगतिं गतिं ।
प्रणिधानं तथा धृत्वा नित्यम् एवम् उपाश्रयन् ॥ र्म्_7.127{28} ॥
तत्स्तूपे शरणं गत्वा भजे रत्नत्रयं सदा ।
भिक्षवः किं नु मन्यध्वे यो पुरुषः दरिद्रिकः ॥ र्म्_7.128{29} ॥
अयम् एव वपुष्मान् स ज्ञेयो हि नान्यथा खलु ।
यत् स्तूपांगणं तेन संबुद्धगुणभाविना ॥ र्म्_7.129{30} ॥
समन्ततः सुसंमृज्य परिशुद्धीकृतं तदा ।
तेन पुण्यविपाकेन जात आढ्यकुले ऽधुना ॥ र्म्_7.130{31} ॥
दिव्याभिसुन्दरः कान्तः स वपुष्मान् भवत्य् अयं ।
यत् प्रणिधिः कृतः स्तूपे नत्वा तेन सुचेतसा ॥ र्म्_7.131{32} ॥
तेन मे शासने ऽप्य् अद्य प्रव्रज्यार्हन् भवत्य् अयं ।
आरागितस् तथार्हञ् च संबुद्धः सुगतो जिनः ॥ र्म्_7.132{33} ॥
अनेन भिक्षुणा बोधिप्राप्तेन ब्रह्मचारिणा ।
इत्य् एवं कर्म जानीत सुकृतं दुष्कृतं भवे ॥ र्म्_7.133{34} ॥
येनैव यत् कृतं कर्म तेनैव तत् फलं गतं ।
न नश्यन्ति हि कर्माणि कल्पकोटिशतैर् अपि ॥ र्म्_7.134{35} ॥
सामग्रीं प्राप्य कालं च फलंति खलु देहिनां ।
अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ र्म्_7.135{36} ॥
नाग्निभिर् दह्यते कर्म वायुभिश् च न शुष्यते ।
जलैश् च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ र्म्_7.136{37} ॥
अन्यथापि भवेन् नैव कर्मणां गतिर् आभवं ।
शुक्लानां शुभतैव स्यात् कृष्णानां दुर्गतिस् सदा ॥ र्म्_7.137{38} ॥
मिश्रिता मिश्रितानं तु भुज्यंते सर्वजन्तुभिः ।
तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ र्म्_7.138{39} ॥
चरणीयां शुभेष्व् एव कर्मसु सुखवांछिभिः ।
तथेति भिक्षवः सर्वे ते च लोकाः सभाश्रिताः ॥ र्म्_7.139{40} ॥
बुद्धवाचो ऽमृतं पीत्वा ननन्दुः शुभकामिनः ।
एवम् एतन् महाराज श्रुतं मे गुरुभाषितं ॥ र्म्_7.140{41} ॥
एवं श्रुत्वा त्वयाप्य् एवं कर्त्तव्यं पुण्यम् एव हि ।
पुण्यम् एव भवेत् त्राता सुहृन् मित्रं हितंकरः ॥ र्म्_7.141{42} ॥
नान्यः कश्चिद् इहामुत्र विद्यते भवचारिणां ।
तस्मात् पुण्यं स्वयं श्रुत्वा कर्त्तव्यम् आदरात् सदा ॥ र्म्_7.142{43} ॥
प्रजाश् च श्रावयित्वैवं पुण्ये संस्थापय सदा ।
इत्य् एवं गुरुणादिष्टं उपगुप्तेन भिक्षुणा ॥ र्म्_7.143{44} ॥
श्रुत्वा राजा जनैः सार्द्धं तथेति प्राभ्यनंदत ।
शृण्वन्ति ये श्रावयन्तीह यश् च वपुष्मतो ऽदः प्रथितावदानं ।
ते क्लेशनिर्मुक्तविशुद्धचित्ताः प्रयान्ति नूनं सुगतालयेषु ॥ र्म्_7.144{45} ॥
++ इति रत्नावदानमालायां वपुष्मतावदानं नाम समाप्तम् ++
विइइ प्रश्नोत्तरावदान
अथाशोको महीपालः संबुद्धगुणलालसः ।
उपगुप्तं गुरुं नत्वा प्रांजलिश् चैवम् अब्रवीत् ॥ र्म्_8.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणादिष्टं तथा मे ख्यातुम् अर्हसि ॥ र्म्_8.2{12} ॥
इति तेन नरेन्द्रेण पृष्टे ऽसौ च जिनांशजः ।
उपगुप्तो यतिर् भूयस् तं नृपेशम् अभाषत ॥ र्म्_8.3{31} ॥
शृणु राजंस् तथा वक्ष्ये यथा मे गुरुणोदितं ।
श्रुत्वा च भवताप्य् एवं कर्त्तव्यं धर्मसाधनं ॥ र्म्_8.4{41} ॥
पुरैकसमये चासौ शाक्यसिंहोस् दयाकरः ।
सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ र्म्_8.5{5} ॥
सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः ।
मारजिष्णुर् विनेतार्हं धर्मराजस् तथागतः ॥ र्म्_8.6{6} ॥
सर्वसत्वहितार्थाय श्रावस्त्यां वहिर् आश्रमे ।
जेतवने विहारस्थे व्यहरच् छ्रावकैः सह ॥ र्म्_8.7{7} ॥
बोधिसत्वगणैश् चापि सूपासकैश् च चैलकैः ।
देवासुरगणैश् चापि चतुर्वर्ण्णादिमानवैः ॥ र्म्_8.8{8} ॥
चतुर्भिश् च महाराजैः ससैन्यपरिवारकैः ।
सर्वसत्वैश् च पौरैश् च सद्धर्मगुणवांछिभिः ॥ र्म्_8.9{9} ॥
सत्कृत्य पूजयित्वा च परिवृत्य पुरस्कृतः ।
स भगवान् सभामध्ये सिंहासने स्थितो वभौ ॥ र्म्_8.10{10} ॥
तदा स भगवान् दृष्ट्वा तां सभां समुपस्थितां ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_8.11{11} ॥
ते तद् धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
भगवन्तं पुनर् नत्वा स्वस्वस्थानं प्रतीयिरे ॥ र्म्_8.12{12} ॥
ततो ऽसौ भगवान् रात्रौ ध्यानागारे समाविशन् ।
पर्य्यङ्कं समुपाश्रित्य तस्थौ ध्यानसमाहितः ॥ र्म्_8.13{13} ॥
तदैका देवता तस्यां रात्रौ स्वर्गात् समागता ।
स्वकान्त्या भासयंत्य् एवं जेतवनम् उपाविशत् ॥ र्म्_8.14{14} ॥
ततस् तां भगवान् दृष्ट्वा देवतां समुपागतां ।
संनिरीक्ष्य समामंत्र्य तथैनां समबोधयत् ॥ र्म्_8.15{15} ॥
देवते स्वागतं कच्चि कुशलं ते समेहि भो ।
प्रायातासि यद् अर्थेन तद् वदस्व प्रपूरये ॥ र्म्_8.16{16} ॥
इत्य् आदिष्टे मुनीन्द्रेण तेनासौ देवता मुदा ।
संपृछावसरं लब्ध्वा हर्षिता समुपाक्रमत् ॥ र्म्_8.17{17} ॥
तत्रासौ पुरतो गत्वा नत्वा पादौ कृतांजलिः ।
प्रदक्षिणत्रयं कृत्वा तस्थाव् एकान्तिके मुनेः ॥ र्म्_8.18{18} ॥
सर्वजेतवनं तस्या देवतायाः प्रभावतः ।
उदारेणावभासेन प्रविस्फुटं वभौ तदा ॥ र्म्_8.19{19} ॥
तथावभाषितं दृष्ट्वा सर्वे ते भिक्षुसांघिकाः ।
विस्मिताः सहसोत्थाय दृष्ट्वा तम् उपतस्थिरे ॥ र्म्_8.20{20} ॥
अथ सा देवतोत्थाय कृतांजलिपुटो ऽग्रगा ।
भगवन्तं मुनीन्द्रं तं प्रणत्वैवम् अपृछत ॥ र्म्_8.21{21} ॥
सर्वज्ञ भगवं छास्तः येनाहं समुपागता ।
तदर्थं त्वं समादिश्य चित्तं मे परिबोधय ॥ र्म्_8.22{22} ॥
के नराः सुगतिं यान्ति के नराः स्वर्गगामिनः ।
केषां चापि दिवारात्रौ सदा पुण्यं प्रवर्द्धते ॥ र्म्_8.23{23} ॥
के चापि दुर्गतिं यांति के चाधः पतिता नराः ।
केषां चापि दिवारात्रौ सदा पापं प्रवर्द्धते ॥ र्म्_8.24{24} ॥
किंददो वलवां स्याच् च किंददश् च प्रशोभितः ।
किंददः सुखितो लोकः चक्षुष्मान् अपि किंप्रदः ॥ र्म्_8.25{25} ॥
किं नु वा निशितं शस्त्रं किं वा हालाहलं विषं ।
किं च प्रज्वलितो वह्निः किं महद् दारुणं तमः ॥ र्म्_8.26{26} ॥
गृहीतं किं नु मर्त्येन किन् तेनेह समुज्झितं ।
अभेद्यं कवचं किं च किं वा तीक्ष्णम् इहायुधं ॥ र्म्_8.27{27} ॥
को न्व् असौ प्रोच्यते चौरो धनं किं वा सतां मतं ।
के वा त्रैधातुके लोके प्रोच्यन्ते मुषितैति ॥ र्म्_8.28{28} ॥
कश् चेह सत्सुखी लोके को वा च परमेश्वरः ।
को विभूषितो नित्यं कश् चाप्य् अत्र विदंवितः ॥ र्म्_8.29{29} ॥
वत्सलो वांधवो को नु को वा दुष्टाशयो रिपुः ।
किं महद् दारुणं दुःखं किं महत् परमं सुखं ॥ र्म्_8.30{30} ॥
किं च लोके प्रियो पथ्यः किं वापथ्यं न चाप्रियं ।
को नु पीडाकरो व्याधिः को नु वै को भिषग्वरः ॥ र्म्_8.31{31} ॥
केनायम् आवृतो लोकः केन लोको वशीकृतः ।
केन त्यजति मित्राणि केन स्वर्गं न गछति ॥ र्म्_8.32{32} ॥
केन मित्राणि वर्द्ध्यंते केन शाम्यंति शत्रवः ।
केन स्वर्गम् अवाप्नोति केन मोक्षं च गछति ॥ र्म्_8.33{33} ॥
केनायं बध्यते लोकः केन लोको विमुच्यते ।
कस्येह विप्रहाणेन निर्वाणम् इति कथ्यते ॥ र्म्_8.34{34} ॥
किं नु राजा च चौराश् च स्यंदमानाः समुद्यताः ।
नो शक्नुवन्त्य् अपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ र्म्_8.35{35} ॥
किं न दहति सप्तार्चिः किं न भिनत्ति मारुतः ।
किं वा न क्लेदयंत्य् आपः किं न क्षीणं च भूमिषु ॥ र्म्_8.36{36} ॥
इमं संशयम् अद्यापि मम तच् छेतुम् अर्हसि ।
अस्माल् लोकात् परं लोकं को गतो ऽत्यंतवंचितः ॥ र्म्_8.37{37} ॥
किं नु हत्वा सुखं शेते किं च हत्वा न शोचति ।
कस्य चैकस्य धर्मस्य वधं संशसि गौतम ॥ र्म्_8.38{38} ॥
मयैतद् भगवन् पृष्टः सर्वज्ञो ऽसि यतो सुधीः ।
तन् मम संशयं छेतुं सम्यग् आदेष्टुम् अर्हसि ॥ र्म्_8.39{39} ॥
तयैवं पृछ्यमानो ऽसौ भगवान् सर्वविज् जिनः ।
देवतां तां समालोक्य तत् प्रश्नोत्तरम् अब्रवीत् ॥ र्म्_8.40{40} ॥
शृणु त्वं देवते सम्यक् कृत्वा चित्तं समाहितं ।
तवैतत् परिपृछायाः प्रत्युत्तरम् उदाहरे ॥ र्म्_8.41{41} ॥
आरामारोपका ये ऽत्र ये च वा सेतुकारकाः ।
प्रपातोदकयानं च प्रददन्ति प्रतिश्रयं ॥ र्म्_8.42{42} ॥
श्रद्धाशीलेन सत्येन क्षमया वीतमत्सराः ।
ते नराः सुगतिं यान्ति ते नराः स्वर्गगामिनः ॥ र्म्_8.43{43} ॥
तेषाम् एव हि मर्त्यानां दिवारात्रौ निरंतरं ।
अविछिन्नाः पुण्यधाराः प्रवर्द्ध्यन्ते सदा खलु ॥ र्म्_8.44{44} ॥
दशाकुशलकर्त्तारो येन सद्धर्मनिंदकाः ।
ते नरा दुर्गतिं यान्ति भ्रमन्ति पापचारिणः ॥ र्म्_8.45{45} ॥
ये चाततायिनो मर्त्याः स्वकुलधर्मनष्टकाः ।
ते नराः पतिता यन्ति नरके दुःखभागिनः ॥ र्म्_8.46{46} ॥
तेषां पापिष्ठसत्वानां दिवारात्रौ निरंतरं ।
अविछिन्नाः पापधाराः प्रवहन्ते सदा खलु ॥ र्म्_8.47{47} ॥
अन्नदो वलवान् भोगी वस्त्रदः शोभितो भवेत् ।
पानदः सुखितः तृप्तश् चक्षुष्मान् भवति दीपदः ॥ र्म्_8.48{48} ॥
दुष्टवाग् निशितं शस्त्रं रागो हालहलं विषं ।
द्वेषः प्रज्वलितो वह्निर् अविद्या दारुणं तमः ॥ र्म्_8.49{49} ॥
गृहीतं यत् स्वयं दत्तं यद् गृहे तद् इहोज्झितं ।
अभेद्यं कवचं क्षान्तिः प्रज्ञा तीक्ष्णं महायुधं ॥ र्म्_8.50{50} ॥
वितर्को ऽकुशलश् चौरः शिलं धनं सतां मतं ।
ते एव मुषिता लोके यैः शीलं विनिपातितं ॥ र्म्_8.51{51} ॥
अल्पेछः सत्सुखी लोके संतुष्टः परमेश्वरः ।
शीलवान् भूषितो नित्यं नष्टशीलो विदंवितः ॥ र्म्_8.52{52} ॥
वत्सलो वान्धवः पुण्यं पापं दुष्टाशयो रिपुः ।
नारकं दारुणं दुःखं स्कंधाभावपरं सुखं ॥ र्म्_8.53{53} ॥
कामाः प्रिया अपथ्या हि मोक्षः पथ्यो प्रियः सतां ।
द्वेषः पीडाकरो व्याधिः बुद्ध एको भिषग्वरः ॥ र्म्_8.54{54} ॥
अज्ञानेनावृतो लोको मोहनः प्रवशीकृतः ।
लोभात् त्यजति मित्राणि संगात् स्वर्गं न गछति ॥ र्म्_8.55{55} ॥
त्यागान् मित्राणि वर्द्धन्ते मैत्र्या शाम्यन्ति शत्रवः ।
शीलात् स्वर्गम् अवाप्नोति ज्ञानान् मोक्षं सु गछति ॥ र्म्_8.56{56} ॥
इछया बध्यते लोको नीछया च विमुच्यते ।
तृष्णाया विप्रहाणेन निर्वाणम् इति कथ्यते ॥ र्म्_8.57{57} ॥
पुण्यं राजा च चौराश् च स्यंदमानाः समुद्यताः ।
न शक्नुवंत्य् अपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ र्म्_8.58{58} ॥
पुण्यं न दहते वह्निर् भिनत्ति च न मारुतः ।
पुण्यं न क्लेदयंत्य् आपो नैव क्षीण्वंति भूमयः ॥ र्म्_8.59{59} ॥
विद्यमानेषु भोग्येषु पुण्यं येन न संचितं ।
अस्माल् लोकात् परं लोकं स गतो ऽत्यंतवंचितः ॥ र्म्_8.60{60} ॥
क्रोधं हत्वा सुखं शेते क्रोधं हत्वा न शोचति ।
क्रोधस्यैकस्य धर्मस्य वधं संशामि सर्वदा ॥ र्म्_8.61{61} ॥
एतत् प्रश्नोत्तरं श्रुत्वा देवतासौ प्रमोदिता ।
भगवंतं पुनर् नत्वा प्रसंश्यैवम् अवोचत ॥ र्म्_8.62{62} ॥
धन्यो ऽसि भगवन् बुद्ध सर्वप्रश्नोत्तरप्रदः ।
सर्वज्ञो जगतां शास्ता षडभिज्ञो मुनीश्वरः ॥ र्म्_8.63{63} ॥
वीरस्य च न पश्यामि ब्राह्मण्यं परिनिर्वृतिं ।
सर्ववीरो भयातीतस् त्रातुं लोके ऽभिशक्तिभाग् ॥ र्म्_8.64{64} ॥
इत्य् उक्त्वा देवता भूयः कृत्वा प्रदक्षिणत्रयं ।
नत्वा पादौ मुनीन्द्रस्य तत एव दिवं ययौ ॥ र्म्_8.65{6} ॥
अथ ते भिक्षवः सर्वे श्रुत्वा शास्त्रानुदेशितं ।
सत्यम् एवं परिज्ञाय सम्यक् कर्मसु चेरिरे ॥ र्म्_8.66{66} ॥
एवम् एतन् महाराज गुरुणा मे प्रभाषितं ।
श्रुत्वा चैवं परिज्ञाय सद्धर्मे निरतो भव ॥ र्म्_8.67{67} ॥
धर्मेण सुगतिं यायात् पापेन दुर्गतिं व्रजेत् ।
तस्माद् धर्मं पुरस्कृत्य प्रजाः सम्यक् प्रपालय ॥ र्म्_8.68{68} ॥
दशाकुशलकर्माणि त्यक्त्वा संवृतिम् आचर ।
सर्वोपकरणं दानं दातव्यं स्वर्गवांछिना ॥ र्म्_8.69{69} ॥
दुष्टसंगं परित्यज्य हत्वा रागविषं मुहुः ।
द्वेषाग्निशमनं कृत्वा ह्य् अविद्या संप्रघात्यतां ॥ र्म्_8.70{70} ॥
कामवितर्कतां त्यक्त्वा बोधिप्रणिधिचेतसा ।
त्रिकायशोधनं कृत्वा शीलधनम् उपार्ज्यतां ॥ र्म्_8.71{71} ॥
स्कंधाभावं परिज्ञाय मत्वा दुष्टाशयं रिपुं ।
क्षमास्व् आवरणं धृत्वा दुष्टसंघान् विजीयतां ॥ र्म्_8.72{72} ॥
मारधर्मान् विनिर्जित्य संबोधिधर्मसाधने ।
धैर्यवीर्यमहोत्साहैर् उद्यमं क्रियतां सदा ॥ र्म्_8.73{(73)} ॥
क्लेशमानमदाञ् जित्वा कृत्वा चित्तं समाहितं ।
सर्वसत्वहितार्थेषु ध्यातां बोधिसाधनं ॥ र्म्_8.74{(74)} ॥
लोकं मायासमुद्भूतम् अज्ञानतमसावृतं ।
दृष्ट्वा प्रज्ञाप्रदीपेन प्रेर्यतां सुगतेः पथि ॥ र्म्_8.75{(75)} ॥
एवं राजन् भवान् मत्वा दुष्टसंगान् विवर्जयेत् ।
सत्संगं निरतो नित्यं त्रिरत्नसेवको भव ॥ र्म्_8.76{(76)} ॥
सर्वा अपि प्रजाश् चैवं परिबोध्य प्रयत्नतः ।
प्रेरणीया त्वया राजन् संवृत्तिचरणे सदा ॥ र्म्_8.77{(77)} ॥
एवं मत्वा भवां राजा संसारसारम् आप्नुवन् ।
क्रमाद् बोधिचरी पूर्य संबुद्धपदम् आप्नुयात् ॥ र्म्_8.78{(78)} ॥
इत्य् एतद् गुरुणादिष्टम् उपगुप्तेन भिक्षुणा ।
श्रुत्वा तथेति राजासाव् अभ्यनंदत् सपर्षिकाः ॥ र्म्_8.79{(79)} ॥
देवतापरिपृछाख्यसूत्रं शृण्वंति ये मुदा ।
श्रावयंति च ते सौख्यं भुक्त्वा यांति सुखावतीं ॥ र्म्_8.80{(80)} ॥
++ इति देवतापरिपृछासूत्रं समाप्तं ++
इx शुक्लावदान
अथाशोको नरेंद्रश् च कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनः श्रोतुं समर्थयत् ॥ र्म्_9.1{(1)} ॥
भदंत श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणादिष्टं तन् ममाख्यातुम् अर्हसि ॥ र्म्_9.2{(2)} ॥
इति पृष्टे नृपेणासौव् उपगुप्तो जिनांशजः ।
तम् अशोकं महीनाथं संनिरीक्ष्य समब्रवीत् ॥ र्म्_9.3{(3)} ॥
शृणु वक्ष्यामि ते राजं यथा मे गुरुणोदितं ।
श्रुत्वैतद् भवताप्य् एवं कर्त्तव्यं धर्मम् आदरात् ॥ र्म्_9.4{(4)} ॥
पुरैकसमये राजं शाक्यसिंहो दयांबुधिः ।
सर्वज्ञो धर्मराण् नाथः शास्ता त्रैधातुकाधिपः ॥ र्म्_9.5{(5)} ॥
सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः ।
जिनो ऽर्हन् सुगतो बुद्धस् तथागतो विनायकः ॥ र्म्_9.6{(6)} ॥
भगवान् सत्वहितार्थेन पुरे कपिलवस्तुनि ।
न्यग्रोधमण्डितोद्याने करण्डकनिवापके ॥ र्म्_9.7{(7)} ॥
श्रावकभिक्षुसंघैश् च बोधिसत्वगणैः सह ।
सद्धर्मदेशनां कर्तुं विजहार जिनाश्रमे ॥ र्म्_9.8{(8)} ॥
तद् धर्मं श्रोतुम् आयातैर् उपासकैश् च चैलकैः ।
देवासुरगणैश् चापि चतुर्भि लोकपालकैः ॥ र्म्_9.9{(9)} ॥
चातुर्वर्ण्ण्यैर् मनुष्यैश् च पौरजानपदादिभिः ।
संबोधिचरणोत्साहैः सद्धर्मगुणलालसैः ॥ र्म्_9.10{(10)} ॥
सत्कृतो पूजितश् चैवं परिवृत्य पुरस्कृतः ।
भगवान् स सभामध्ये सिंहासनस्थितो वभौ ॥ र्म्_9.11{(11)} ॥
तत्र स भगवान् दृष्ट्वा सभां तां समुपस्थितां ।
आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_9.12{(12)} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाश् च मोदिताः ।
तथैनं श्रीघनं नित्यं भेजिरे धर्मलालसाः ॥ र्म्_9.13{(13)} ॥
तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि ।
रोहिणाख्यो महाछाक्यो धनाढ्यो धनदोपमः ॥ र्म्_9.14{(14)} ॥
महाभोगो महाश्राद्धः सुविशालपरिग्रहः ।
दाता साधुर् महा धीरः प्रत्युवास सुखान्वितः ॥ र्म्_9.15{15} ॥
समये तेन शाक्येन स्वकुलसदृशात् कुलात् ।
भार्या नीता सुभद्राङ्गी स्वकुलधर्मचारिणी ॥ र्म्_9.16{16} ॥
ततो ऽसौ रोहिणः शाक्यस् तयैव कान्तया सह ।
महारगानुरागेण रराम परिचारयन् ॥ र्म्_9.17{17} ॥
तस्यैवं रममाणस्य कृईडतो ऽप्य् अनुरागतः ।
न पुत्रो न सुता वापि सुचिरेणाप्य् अजायत ॥ र्म्_9.18{18} ॥
ततो ऽसौ रोहिणः पुत्रीपुत्रलाभे समुत्सुकः ।
पुत्रचिन्तापरः कोष्ठे स्थित्वैवं च व्यचिन्तयत् ॥ र्म्_9.19{19} ॥
ईयत्संपद् गृहे मे ऽस्ति न च पुत्रसुतापि न ।
एता मे संपदो राजा ममात्ययाद् ग्रहीष्यति ॥ र्म्_9.20{20} ॥
हा मे संपद् विनष्टा स्यात् परत्रापि गतिर् न हि ।
व्यर्थस् मज्जन्म संसारे यतो मे सन्ततिर् न हि ॥ र्म्_9.21{21} ॥
को मे कुर्याच् च संस्कारं कश् च पिण्डं प्रदास्यति ।
कुत्राहं शरणं यायां हा दैवनिहतो ऽस्म्य् अहं ॥ र्म्_9.22{22} ॥
इति चिन्ताविषण्णो ऽसौ शोकागारे व्यवस्थितः ॥ र्म्_9.23{23} ॥
कपोलं स्वकरे धृत्वा तस्थौ भोग्यनिरुत्सुकः ।
एवं चिन्तासमाक्रान्तं रोहिणं तं निरुत्सुकं ॥ र्म्_9.24{24} ॥
दृष्ट्वा सर्वे सुहृन्मित्रा वान्धवाश् च व्यबोधयन् ।
किम् एवं तिष्ठसे भद्र किं च दुःखं प्रजायते ॥ र्म्_9.25{25} ॥
वक्तव्यं चेत् तथास्माकं वक्तुम् अर्हसि सर्वथा ।
इति पृष्टे च तैः सर्वैर् वन्धुमित्रसुहृज्जनैः ॥ र्म्_9.26{26} ॥
रोहिणो ऽसौ पुरस् तेषां सर्वम् एवम् अभाषत ।
भवन्तः शृणुत सर्वे कथ्यते दुःखता मया ॥ र्म्_9.27{27} ॥
महती मे गृहे संपद् अस्या भोक्ता न विद्यते ।
कथं मे विद्यते वंशस् तत् प्रकारं न मन्यते ॥ र्म्_9.28{28} ॥
यदि वो ऽस्ति मयि स्नेहस् तद् उपायं प्रचक्ष्यतां ।
एवं तेनार्थितं श्रुत्वा सर्वे ते स्नेहवंधिताः ॥ र्म्_9.29{29} ॥
तस्य वंशसमुत्पत्तेर् उपायं समुपादिशन् ।
मा कार्षीः शोकतां भद्र तद् उपायं नु विद्यते ॥ र्म्_9.30{30} ॥
देवताराधनां कृत्वा याचस्व पुत्रम् आत्मना ।
अवश्यं देवतानां ते प्रसन्नानां प्रसादतः ॥ र्म्_9.31{31} ॥
पुत्रो वा दुहिता वापि भविष्यति न संशयः ।
इत्य् एतत् तैः समादिष्टं श्रुत्वासौ रोहिणो मुदा ॥ र्म्_9.32{32} ॥
देवताराधनां कर्तुं प्रयतात्मा समारभत् ।
पूजाङ्गैः पूजायित्वा च ब्राह्मणं हरिम् ईश्वरं ॥ र्म्_9.33{33} ॥
इंद्रादिलोकपालाञ् च संततिं समयाचत ।
एवं पुत्राभिनन्दी स सदारः वंशकाम्यया ॥ र्म्_9.34{34} ॥
देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ।
तथापि तस्य शाक्यस्य स्वदैवपरिमाणतः ॥ र्म्_9.35{35} ॥
न पुत्रो न च पुत्री वा सुचिरम् अप्य् अजायत ।
ततो ऽसौ रोहिणः शाक्यो देवतासु निराशया ॥ र्म्_9.36{36} ॥
पुत्रवांछाविरक्तात्मा तस्थौ गेहे निरुत्सवः ।
अस्ति चैष महाराज प्रवादो लौकिकोद्भवः ॥ र्म्_9.37{37} ॥
यद् देवताप्रसादेन जायते संततिः खलु ।
एवं चेद् वा तथा राजन्न् एकैकस्य भवेत् खलु ॥ र्म्_9.38{38} ॥
यथा पुत्रसहस्रं वा नृपस्य चक्रवर्त्तिनः ।
अपि तु संमुखीभावात् त्रिस्थानानां नृपेश्वर ॥ र्म्_9.39{39} ॥
पुत्रा वापि सुताश् चापि जायंते प्राणिनां खलु ।
तद्यथा पितरौ रक्तौ कल्या चर्तुमती प्रसूः ।
गंधर्वः प्रस्थितः काले तदा गर्भे समुद्भवेत् ॥ र्म्_9.40{40} ॥
ततश् च समये तस्य रोहिणस्यानुरागिणः ।
भार्य्या कल्यावतीभूता स्नात्वा रतिं समारभत् ॥ र्म्_9.41{41} ॥
तदैका देवता स्वर्गाच् च्युत्वा कर्मानुभोगिनी ।
तस्य शाक्यस्य भार्य्याया गर्भे सा समुपाविशत् ॥ र्म्_9.42{42} ॥
ततः स्वापन्नसत्वा सा मत्वा गर्भसमुद्भवं ।
स्वामिनो ऽग्रे रहः स्थित्वा हर्षितैवं न्यवेदयत् ॥ र्म्_9.43{43} ॥
स्वामिन्न् आपन्नसत्वास्मि वंश आवां समुद्भवेत् ।
तद् भवान् सर्वकृयानि कारयत्व् अनुमोदितः ॥ र्म्_9.44{44} ॥
इति भार्योदितं श्रुत्वा रोहिणो ऽसौ प्रमोदितः ।
भार्यां तां गर्भिणीं दृष्ट्वा संस्मितः प्रत्यभाषत ॥ र्म्_9.45{45} ॥
सत्यं मे भाषितं भद्रे मत्वा भव समाहिता ॥ र्म्_9.46{45!} ॥
प्रमादम् अत्र मा कार्षी यदि स्नेहास्ति ते मयि ।
एवं ते कुशलं भद्रे यदि पुत्रं जनिष्यसि ॥ र्म्_9.47{46} ॥
तदा निष्काशयामि त्वां यदि पुत्रीं जनिष्यसि ।
इति भर्तुर् वचः श्रुत्वा सा स्त्री विवृद्धदोहदा ।
भर्तुर् वियोगशंकार्त्ता बभूव परिखेटिता ॥ र्म्_9.48{47} ॥
यावत् सा समये सूत दारिकां दिव्यसुंदरीं ।
शुक्लवस्त्रपरीताङ्गां गर्भमलाविलिप्तितां ॥ र्म्_9.49{48} ॥
ततस् तां दारिकां जातां श्रुत्वासौ रोहिणो रुषा ।
प्रत्याख्यातुं स्वयं भार्यां विवेश सूतिकागृहे ॥ र्म्_9.50{49} ॥
प्रजापत्या तया भर्तुर् उपनीता पुरः सुता ।
शुक्लवस्त्रपरीताङ्गा भद्राङ्गी दिव्यसुंदरी ॥ र्म्_9.51{50} ॥
ततः स रोहिणो दृष्ट्वा तां सुतां दिव्यसुंदरीं ।
शुक्लवस्त्रपरीताङ्गां परविस्मयम् आययौ ॥ र्म्_9.52{51} ॥
अहो भाग्यान् मया लब्धा सुतेयं भद्ररूपिणी ।
यद् एषा सहजैः शुक्लवस्त्रैः प्रावृत्य जायते ॥ र्म्_9.53{52} ॥
तस्मान् नूनं इयं साक्षाद् देवकन्यावतारिता ।
सद्धर्मचारिणी भद्रा भविष्यति न संशयः ॥ र्म्_9.54{53} ॥
इत्य् उक्त्वासौ पिता शाक्यः पश्यंस् तां दारिकां चिरात् ।
अतृप्तो निश्चलाक्षश् च तस्थौ संमूर्छितो यथा ॥ र्म्_9.55{54} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा ।
तन् नामकरणं तस्यास् तान् पुनः स समब्रवीत् ॥ र्म्_9.56{55} ॥
भवन्तो ऽस्याः सुताया मे भद्राङ्ग्या अनुरूपतः ।
नामधेयं प्रसिद्धेन कर्त्तव्यं क्रियतां शुभं ॥ र्म्_9.57{56} ॥
इति तेनार्थिते तस्याः सर्वे ते जातयस् तथा ।
सहजशुक्लवस्त्राङ्गं दृष्ट्वैवं संवभाषिरे ॥ र्म्_9.58{57} ॥
यद् इयं दारिका सौम्या भद्रांगी दिव्यसुंदरी ।
शुक्लवस्त्रावृता जाता तच् छुक्लेति प्रसिध्यतु ॥ र्म्_9.59{58} ॥
इति संभाषणां कृत्वा सर्वे ते ज्ञातयस् तथा ।
रोहिणं तं समामंत्र्य तथैवं समुदाहरत् ॥ र्म्_9.60{59} ॥
यद् इयं ते सुता भद्र भद्राङ्गी दिव्यसुंदरी ।
शुक्लवस्त्रावृता जाता तच् छुक्लेति प्रचक्ष्यतां ॥ र्म्_9.61{60} ॥
तथेत्य् अनुमतं कृत्वा तेन पित्रा प्रसादिता ।
शुक्ला सा दुहिताष्टासु धात्रीषु समुपार्पिता ॥ र्म्_9.62{61} ॥
ततस् तासां च धात्रीणाम् उपचारप्रचारतः ।
वर्द्धिताभूत् सुरम्याङ्गी ह्रदस्थम् इव पंकजं ॥ र्म्_9.63{62} ॥
यथा यथा च सा शुक्ला परिवृद्धाभवत् क्रमात् ।
तथा तथा च तद् वस्त्रं ववृद्धे निर्मली ऽभवत् ॥ र्म्_9.64{63} ॥
न च कायो ऽप्य् अभूत् तस्मात् मलाभिलिप्तदुर्भगः ।
वभौ तु निर्मलः शुद्धः सुगंधिपरिवाहकः ॥ र्म्_9.65{64} ॥
यदा सा दारिका शुक्ला परिवृद्धा क्रमाद् अभूत् ।
कुमारी सर्वलोकानां मनोनेत्राभिहारिणी ॥ र्म्_9.66{65} ॥
ततः सा शिक्षितुं विद्या गुरुणां समुपाश्रिता ।
शिक्षित्वा क्रमशो विद्यां पारम् आशु ययौ सुधीः ॥ र्म्_9.67{66} ॥
तदा ये ये च तां शुक्लाम् अपश्यद् दिव्यसुंदरीं ।
ते ते सर्वे ऽपि पश्यन्तो विस्मिता मोहम् आययुः ॥ र्म्_9.68{67} ॥
ततस् ते ब्राह्मणाद्याश् च तद्गुणाकृष्टमानसाः ।
स्वस्वदूतेन तां शुक्लां रोहिणं प्रार्थयन् मुहुः ॥ र्म्_9.69{68} ॥
जातिश्रेष्ठो ह्य् अहं विप्रस् तच् छुक्लां मे दातुम् अर्हसि ।
इति तां ब्राह्मणपुत्रा रोहिणं प्रत्ययाचयन् ॥ र्म्_9.70{[69]} ॥
राजपुत्रो ऽस्म्य् अहं वीरस् तत् सुता मे प्रदीयतां ।
इति राजकुमारास् तं रोहिणं तां समर्थयन् ॥ र्म्_9.71{[70]} ॥
अहं वैश्यः प्रजाभर्ता तच् छुक्लां मे दातुम् अर्हसि ।
इति वैश्यकुमारास् तां रोहिणं प्रार्थयरि मुहुः ॥ र्म्_9.72{[71]} ॥
अहं मंत्रिसुतो विज्ञस् तच् छुक्ला मे प्रदीयतां ।
इति मंत्रिसुताः सर्वे रोहिणं प्रत्ययाचयन् ॥ र्म्_9.73{71!} ॥
महामात्यसुतो ऽहं हि तच् छुक्लां मे प्रयछतां ।
इत्य् आमात्यकुमारास् तां रोहिणं प्रत्ययाचयन् ॥ र्म्_9.74{72} ॥
एवम् अन्ये ऽपि लोकाश् च रूपद्रव्याभिमानिनः ।
स्वस्वदूतेन तां शुक्लां रोहिणं प्रत्ययाचयन् ॥ र्म्_9.75{73} ॥
एवं सर्वैश् च तैर् नित्यैः प्रार्थ्यमानो महाजनैः ।
रोहिणः स विषण्णात्मा स्थित्वैवं च व्यचिन्तयत् ॥ र्म्_9.76{74} ॥
हा मे दुःखानि जातानि कथम् अत्र प्रतिक्रिया ।
सर्वथाहं प्रणष्टः स्यां सुतयाः कारणे ऽधुना ॥ र्म्_9.77{75} ॥
यद्य् एकस्मै प्रदास्यामि सुताम् एतां मनोहरां ।
अन्ये सर्वे ऽपि मे वैरा भविष्यंति तदा खलु ॥ र्म्_9.78{76} ॥
अवश्यं मे सुता हीयं वैरिणी मां हनिष्यति ।
एवं दुःखानुदायिन्या पुत्र्यापि किं ममैतया ॥ र्म्_9.79{77} ॥
इति चिन्ताविषण्णो ऽसौ तच् चिन्ताकुलमानसः ।
कपोलं स्वकरे स्थाप्य तस्थौ कोष्ठे निरुत्सवः ॥ र्म्_9.80{78} ॥
एवं चिन्ताविभिन्नास्यं पितरं तं विषादिनं ।
सा शुक्ला दुहिता दृष्ट्वा प्रणत्वैवम् अभाषत ॥ र्म्_9.81{79} ॥
किम् एवं तिष्ठसे तात किं ते दुःखं नु जायते ।
कथ्यतां तद् यदि स्नेहो मयि ते वर्त्तते पितः ॥ र्म्_9.82{80} ॥
इति पुत्र्या वचः श्रुत्वा पिता स रुषिताशयः ।
निःस्नेहस् तां सुतां शुक्लां दृष्ट्वैवं पर्य्यभाषत ॥ र्म्_9.83{81} ॥
त्वन् निमित्ते महद् दुःखं जायते मे कुपुत्रिके ।
किं तवाग्रे कथित्वैतं यतो नैव प्रतिक्रिया ॥ र्म्_9.84{82} ॥
अवश्यं त्वं सुता शत्रुः सर्वथा मां हनिष्यसि ।
एवं दुःखाभिदायिन्या पुत्र्यापि किं मम त्वया ॥ र्म्_9.85{83} ॥
इति पित्रोदितं श्रुत्वा सा शुक्ला प्रहताशया ।
सहसा पितरं नत्वा रुदंत्यैवं अभाषत ।
तात किं मे निमित्तेन दुःखं ते जायते कथं ।
सर्वथैतत् प्रवक्तव्यं यदि ते ऽहं सुतात्मजा ।
तद् उपायं करिष्यामि येन दुःखं निहन्यते ॥ र्म्_9.86{84} ॥
तद् एतत् सर्वथा तात ममाग्रे वक्तुम् अर्हसि ।
इति पुत्र्योदिते भूयः पितासौ रोहिणो ऽवदत् ॥ र्म्_9.87{85} ॥
तत् किन् ते कथ्यते पुत्रि यतो नास्ति प्रतिक्रिया ।
बहवः प्रार्थयितारस् तव राजसुतादयः ॥ र्म्_9.88{86} ॥
कुमारा ब्राह्मणा वैश्याः शूद्राश् च मंत्रिनंदनाः ।
अमात्यनंदनाश् चापि सार्थवाहसुतादयः ॥ र्म्_9.89{87} ॥
एवम् अन्ये ऽपि ये चान्या गुणद्रव्याभिमानिताः ।
पौरिका ग्रामिकाश् चापि कुलरूपाभिमानिकाः ॥ र्म्_9.90{88} ॥
एतैः सर्वैर् अहं नित्यं सुमुद्रितस् त्वदर्थिभिः ।
कथम् अत्र करिष्यामि चेतना मे न विद्यते ॥ र्म्_9.91{89} ॥
त्वम् एवैका हि मे पुत्री बहवो याचकाश् च ते ।
एकस्मै यदि दास्यामि सर्वे ऽन्ये स्युर् ममाहिताः ॥ र्म्_9.92{90} ॥
अतस् त्वां खण्डशः कृत्वा सर्वेभ्यो ऽप्य् अर्पये च वै ।
एवं तु क्रियमाणे मे कुशलत्वं भविष्यति ॥ र्म्_9.93{91} ॥
अन्यथा चेद् भवेन् नैव कुशलं मे सदापि हि ।
इति पित्रोदितं श्रुत्वा शुक्ला सा मृत्युशंकित ॥ र्म्_9.94{92} ॥
मोदितेव पितुः पादौ प्रणत्वैवम् अभाषत ।
प्रसीद मा कृथाः खेदं ममैतत् कारणे पितः ॥ र्म्_9.95{93} ॥
तथाहं ते करिष्यामि यथा दोषो न विद्यते ।
नाहं कामार्थिनी तात तद् अनुज्ञां प्रदेहि मे ॥ र्म्_9.96{94} ॥
प्रव्रजित्वा चरिष्यामि भगवच्छासने व्रतं ।
इत्य् एतद् भाषितं पुत्र्या श्रुत्वासौ रोहिणः पिता ॥ र्म्_9.97{95} ॥
पुत्रीवियोगम् आशंक्य पुनर् एवम् अभाषत ।
मा कृथाः सर्वथा पुत्रि प्रव्रज्याचरणे मनः ॥ र्म्_9.98{96} ॥
त्वं स्त्री वाला न शक्नुयाः प्रव्रज्यां चरितुं सुते ।
प्रव्रज्यायां व्रतं कष्टं पुरुषैर् अपि दुष्करं ॥ र्म्_9.99{97} ॥
त्वं तु वाला सुभद्रांगी कोमला दिव्यसुंदरी ।
कथं तद् दुष्करस्थाने व्रतं कर्तुं सहेः सुते ॥ र्म्_9.100{98} ॥
तन् मा कृथास् तथा वाले प्रव्रज्यायां मनस् त्यज ।
यदि कामार्थिनी नासि कस्मै चिद् दास्यते न हि ॥ र्म्_9.101{99} ॥
तत् पुत्रि स्वगृहे स्थित्वा व्रतं धृत्वा सुखं वस ।
यदि कामार्थिनी वासि पुत्रि तेषां त्वदर्थिनां ॥ र्म्_9.102{100} ॥
स्वयंवरविधिं कृत्वा स्वयं वर यम् इछसि ।
तदा मे दूषणं नास्ति तवापि दूषणं न हि ॥ र्म्_9.103{1} ॥
सर्वत्रापि हि लोकेषु विधिर् एष प्रवर्त्तते ।
तस्मात् तेषां कुमाराणां पतिं भद्रं स्वयं वर ॥ र्म्_9.104{2} ॥
तेनैव पतिना सार्द्धं व्रतं कृत्वा सुखं चर ।
तदा सन्ततिम् उत्पाद्य भुक्त्वा भोग्यं यथा सुखं ॥ र्म्_9.105{3} ॥
संवृत्तिचरणं कृत्वा तथान्ते स्वर्गम् आप्नुयाः ।
तेनैवं मा कृथाः पुत्रि प्रव्रज्याचरणे मनः ॥ र्म्_9.106{4} ॥
किं ते प्रव्रज्यया सिद्ध्येन् महद्दुष्करचर्य्यया ।
इत्य् उक्ते जनकेनासौ शुक्ला कामपराङ्मुखा ॥ र्म्_9.107{5} ॥
सद्धर्मचरणप्रेप्सुः पितरम् एवम् अब्रवीत् ।
नाहं कामार्थिनी तात संबोधिपदवांछिनी ॥ र्म्_9.108{6} ॥
तस्माद् भोग्यान्य् अपि त्यक्त्वा चरितुम् इछामि सद्व्रतं ।
सभयाः सरणाः कामाः सक्लेशाश् च विषोपमाः ॥ र्म्_9.109{7} ॥
तस्मात् कामे न मे वांछा निर्वाणे एव मे मनः ।
सदेवासुरमानुष्या ये सत्वाः कामरागिणः ॥ र्म्_9.110{8} ॥
सर्वे ते क्लेशिताश् चान्धाश् चरन्ति पातकेष्व् अपि ।
कृत्वा ते पातकान्य् एवं गछन्ति दुर्गतिष्व् अपि ॥ र्म्_9.111{9} ॥
विविधानि च दुःखानि भुंजते नरकास्थिताः ।
ब्राह्मणा अपि धीराश् च वैदिका ब्रह्मचारिणः ॥ र्म्_9.112{10} ॥
ते ऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिं ।
तपस्विनो महाभिज्ञाः शुद्धात्माना जितेन्द्रियाः ।
ते ऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिं ।
यतयो योगिनश् चापि निर्ग्रंथाश् च दिगंवराः ॥ र्म्_9.113{11} ॥
ते ऽपि कामानुरागेन भ्रष्टा गच्छन्ति दुर्गतिं ।
राजानः क्षत्रियाश् चापि कृत्वा युद्धं परस्परं ॥ र्म्_9.114{12} ॥
आहवे निधनं यान्ति तद् अपि कामकारणे ।
अमात्या मंत्रिणश् चापि मारयन्ति परार्धिनः ॥ र्म्_9.115{13} ॥
तत्पापैर् दुर्गतिं यान्ति तद् अपि कामहेतुना ।
योधारश् च महावीरा युद्धं कृत्वा परस्परं ॥ र्म्_9.116{14} ॥
संग्रामे निधनं यान्ति तद् अपि कामकारणे ।
वणिजः सार्थवाहाश् च रत्नद्रव्यातिलालसाः ॥ र्म्_9.117{15} ॥
समुद्रे पतिताः केचिन् मृताः केचिच् च जंगले ।
केचिन् मृता महारण्ये चौरैः केचिद् उपद्रुताः ॥ र्म्_9.118{16} ॥
क्षुत्पिपासाहताः केचिन् मृता मार्गे रुजान्विताः ।
शीतवातातपाक्रान्ता मृता केचिच् छ्रमातुराः ॥ र्म्_9.119{17} ॥
केचिद् गृहगता एव मृताः केचिच् च रोगिनः ।
केचिद् भारं वहन्तश् च मृताः केचिद् भयान्विताः ॥ र्म्_9.120{18} ॥
जन्तुभिः खादिताः केचित् तत् सर्वं कामहेतुना ।
कृषिणश् च दिनं यावत् क्षत्रकर्मसमुद्यताः ॥ र्म्_9.121{19} ॥
दिनान्ते गृहम् अगत्य शेरते ते मृता इव ।
एवम् अन्ये ऽपि लोकाश् च शिल्पिप्रेष्यजनादयः ॥ र्म्_9.122{20} ॥
दासदासीजनाश् चापि स्वस्वकर्मसमुद्यताः ।
एवं नित्यम् अविश्रान्तं कुटुंवधनसाधने ॥ र्म्_9.123{21} ॥
वहंति खेदिताः क्लेशं तत् सर्वं कामहेतुना ।
एवं चौरादिदुष्टाश् च परद्रव्यापहारिणः ॥ र्म्_9.124{22} ॥
पातकान्य् अपि कुर्वन्ति तद् अपि कामकारणे ।
केचिच् च परद्रव्याणि हरन्ति हारयन्ति च ॥ र्म्_9.125{23} ॥
केचिद् धत्वापि सर्वं हरन्ति क्रूरमानसाः ।
धनार्थे किं न कुर्वन्ति दुष्टा लुब्धाश् च निर्दयाः ॥ र्म्_9.126{24} ॥
प्रघ्नन्ति पितरौ केचित् ते ऽपि घ्नन्ति गुरून् अपि ।
केचिद् विघ्नन्ति मित्राणि ज्ञातिवन्धुजनान् अपि ॥ र्म्_9.127{[125]} ॥
पत्नीपुत्रदुहितॄश् च भ्रात्रींश् च भागिनीर् अपि ।
केचिद् घ्नन्ति सहायांश् च दासदासीजनान्य् अपि ॥ र्म्_9.128{26} ॥
बालान् वृद्धांश् च नारींश् च तत् सर्वं कामकारणे ।
केचिच् च प्राणिनः पक्षिमृगमत्स्यादिजन्तुकान् ॥ र्म्_9.129{27} ॥
हत्वा खादन्ति पापिष्ठास् तद् अपि कामकारणे ।
एवं तिर्य्यग्गणाश् चापि पक्षिसिंहादिजन्तवः ॥ र्म्_9.130{28} ॥
परस्परं निहत्यैवं खादन्ति कामहेतुना ।
एवं शथावंचयन्तस् त्रासयन्तो ऽपि वालकान् ॥ र्म्_9.131{29} ॥
अदत्तं प्रतिगृह्नन्ति तद् अपि कामकारणात् ।
मिथ्याकामरताः केचित् परदारांश् च कामिनीः ॥ र्म्_9.132{30} ॥
हरन्ति छद्मना चापि तद् अपि कामकारणे ।
यच् च मृषावदंतो ऽपि परकार्य्याभिघाटकाः ॥ र्म्_9.133{31} ॥
साधयन्ति स्वकार्याणि तद् अपि कामहेतुना ।
यच् च पिशुनवादेन सुहृन्मित्रानुचारिणां ।
विरोधं कारयन्त्य् एवं तद् अपि कामहेतुना ॥ र्म्_9.134{[132]} ॥
यच् च पारुष्यवादेन गुरुसाधुजनान् अपि ।
परिभाष्य विनिन्दन्ति तद् अपि कामकारणे ॥ र्म्_9.135{[133]} ॥
यत् संभिन्नप्रलापेन सुहृन्मित्रानुयायिनां ।
चित्तानि भेदयन्त्य् एवं तद् अपि कामकारणे ॥ र्म्_9.136{[134]} ॥
यच् च मायानुरागेण साधूनां धर्मचारिणां ।
प्रभेदयन्ति चित्तानि तद् अपि कामहेतुना ॥ र्म्_9.137{[135]} ॥
यद् ईर्ष्यामत्सरालीढा दृष्ट्वा परगुणर्द्धितां ।
व्यापादं चिन्तयन्त्य् एवं तद् अपि कामकारणे ॥ र्म्_9.138{[136]} ॥
यन् मिथ्यादृष्टिका लोके सर्वधर्मप्रहासिकाः ।
भोग्यानि भुंजते हृत्वा तद् अपि कामकारणे ॥ र्म्_9.139{[137]} ॥
केचिज् जातिपरिभ्रष्टा नीचजातिप्रसंगताः ।
स्वकुलधर्मभ्रष्टाश् च तद् अपि कामकारणे ॥ र्म्_9.140{[138]} ॥
एवं सर्वे ऽपि सत्वाश् च सद्गतिपरिवर्तिनः ।
कामर्थे क्लेशितात्मानो भ्रमन्ति दुर्गतौ सदा ॥ र्म्_9.141{[139]} ॥
एवं यावन्ति दुःखानि संसारे षड्गतिष्व् अपि ।
तानि सर्वाणि सत्वानां जायन्ते कामहेतुना ॥ र्म्_9.142{[130]} ॥
एवं मत्वा तु ये विज्ञाः कामं त्यक्त्वा विरागिणः ।
प्रव्रजित्वा सुनिःक्लेशा ब्रह्मचर्य्यं चरन्ति ते ॥ र्म्_9.143{[131]} ॥
ततो मे सभये कामे सरणे च विषोपमे ।
विद्वद्भिर् गर्हिते तात मनोवांछा न वर्त्तते ॥ र्म्_9.144{32} ॥
तत्प्रव्रज्यां समाश्रित्य भगवच्छरणं गता ।
ब्रह्मचर्य्यं चरित्वाहं प्राप्तुम् इछामि निर्वृतिं ॥ र्म्_9.145{33} ॥
बुद्धो हि जगतां शास्ता धर्मराजो विनायकः ।
तत् तस्य शरणे गत्वा चरितुम् इछामि सच्चरीं ॥ र्म्_9.146{34} ॥
यद्य् अस्ति ते मयि स्नेहः सद्धर्मे चानुरागता ।
तद् अनुमोदनां कृत्वानुज्ञां मे दातुम् अर्हसि ॥ र्म्_9.147{35} ॥
यदि तु सौगते धर्मे ऽप्य् अनुज्ञां मे ददासि न ।
तीर्थयात्रां भ्रमिष्यामि सर्वदाहं विरागिनी ॥ र्म्_9.148{36} ॥
इति पुत्रीवचः श्रुत्य शाक्यो ऽसौ रोहिणः पिता ।
सुताधर्मवियोगत्वं विज्ञायैवम् अचिन्तयत् ॥ र्म्_9.149{37} ॥
यद् इयं मे सुता भद्रा निराश्रवा विरागिनी ।
अवश्यं स्वगृहं त्यक्त्वा प्रव्रजेत् सर्वथा खलु ॥ र्म्_9.150{38} ॥
अवश्यं मे ऽनया पुत्र्या वियोगं सर्वथा भवेत् ।
सर्वथा ह्य् अनिवार्य्येयं व्रजतु सौगताश्रमे ॥ र्म्_9.151{39} ॥
यदायं सौगते धर्मे प्रव्रजित्वा निराश्रवा ।
ब्रह्मचर्य्यं चरत्य् एवं ततो निर्वृतिम् आप्नुयात् ॥ र्म्_9.152{40} ॥
यद् इयं मे सुता कान्ता सुभद्रा दिव्यसुंदरी ।
यदि गेहं परित्यक्त्वा तीर्थयात्रां करिष्यति ॥ र्म्_9.153{41} ॥
तदा नूनम् इयं भ्रांता तीर्थिकधर्मसंरता ।
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0