रत्नमालावदान · भाग 4160
तत् सर्वं वदतां शास्त सर्वसत्वप्रबोधने ।
इति तेनार्थिते चासौ भगवान् पुनर् अब्रवीत् ॥ र्म्_4.52{52} ॥
मौद्गल्यायन सा प्रेती पापिनी मत्सरी कुधीः ।
तया यत् प्रकृतं पापं येन सा दुःखभागिनी ॥ र्म्_4.53{53} ॥
तत् सर्वं ते प्रवक्ष्यामि शृणु श्रोतुं यदीछसि ॥ र्म्_4.54{54} ॥
पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
सर्वविद्याधिपो नाथो धर्मराजस् तथागतः ॥ र्म्_4.55{55} ॥
समन्तभद्रकृच् छास्ता त्रैधातुकविनायकः ।
जिनो ऽर्हन् सुगतस् त्रायी संबोधिमार्गदेशकः ॥ र्म्_4.56{56} ॥
स सत्वानां हितार्थेन बोधिचर्याः प्रकाशयन् ।
वाराणसीम् उपाश्रित्य मृगदावे जिनाश्रमे ॥ र्म्_4.57{57} ॥
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि ।
तस्मिन्न् एव पर्षत्मध्ये तस्थौ धर्मं समादिशत् ॥ र्म्_4.58{58} ॥
तस्मिंश् च समये तस्य भिक्षुर् अन्यतमो यतिः ।
अन्यत्रनगरे गत्वा प्रत्यागछत् स्वम् आश्रमं ॥ र्म्_4.59{59} ॥
तत्र मार्गे तृषार्त्तो ऽसौ दूरात् कूपं विलोकयन् ।
सहसा समुपागत्य कूपान्तिकम् उपाययौ ॥ र्म्_4.60{60} ॥
तदैका दारिका तत्र पूरयित्वा घटं जलैः ।
सहसा शिरसोहित्वा गृहं गन्तुम् उपाचरत् ॥ र्म्_4.61{61} ॥
स तृषार्त्तो यतिर् दृष्ट्वा ताम् अम्बुघटवाहिकां ।
समुपेत्य जलं पातुं प्रार्थयन् समुपाचरत् ॥ र्म्_4.62{62} ॥
भगिन्यो ऽहं तृषार्त्तो ऽस्मि दूरदेशाद् उपागतः ।
त्वां दृष्ट्वा सहसोपेत्य जलं पातुम् इहागतः ॥ र्म्_4.63{63} ॥
तद् भगिनी जलं देहि जीवय मां तृषातुरं ।
दत्वा मे जीवनं त्वं तच् चिरं जीव्या निरोगिनी ॥ र्म्_4.64{64} ॥
इति तेनार्थितं दृष्ट्वा दारिकासौ दुराशया ।
मात्सर्य्यप्रहतत्वाता तं भिक्षुं पर्य्यभाषत ॥ र्म्_4.65{65} ॥
अरे भिक्षो ऽत्र मायाहि म्रियसे यदि वा खलु ।
न ते ददामि पानीयं घटो पूर्णो भवेन् मम ॥ र्म्_4.66{66} ॥
कूपे यत्नात् समुद्धृत्य पूरयित्वाम्बुना घटे ।
प्रोहित्वायं मयानीतस् त्वदर्थे किं न मन्यते ॥ र्म्_4.67{67} ॥
निर्लज्ज क्व नु ते लज्जा परकीयाम्बुम् इछसि ।
राजा किं त्वं धनी वासि गुरुर् वा किं न मन्यते ॥ र्म्_4.68{68} ॥
इत्य् आक्षेपं प्रतिक्षिप्य तं भिक्षुं सौगतं यतिं ।
अदत्वैवामृतं किं चित् सत्वरा सा गृहं ययौ ॥ र्म्_4.69{69} ॥
ततो भिक्षुस् तृषार्त्तो ऽपि लज्जयासौ न्यवर्त्तते ।
अन्यत्रैवं समायाच्य पीत्वा ययौ स्वम् आश्रमं ॥ र्म्_4.70{70} ॥
तत्राश्रमे तरोर् मूले पर्यण्कम् उपभुज्य सः ।
अनुशोचय तां नारीं मनसैवं व्यचिंतयत् ॥ र्म्_4.71{71} ॥
अहो सा दुर्मती नारी मात्सर्य्यप्रहताशया ।
कथं न मन्यते ह्य् एवं मानुष्यजन्म दुर्ल्लभं ॥ र्म्_4.72{72} ॥
मानुष्यं पुण्यतो लब्ध्वा निस्फलं क्रियते तया ।
धिक् तां दुराशयां मूढां यस्या जन्म निरर्थकं ॥ र्म्_4.73{73} ॥
कदैषा पापतो मुक्त्वा सद्गतिं समवाप्स्यति ।
मा गात् सा नरके दुःखं भूयाद् धर्मानुमोदिनी ॥ र्म्_4.74{74} ॥
शीघ्रं लोकेश्वरस्मार्त्तं लब्ध्वा व्रजतु सन्मतिं ।
इत्य् एवंमनसा भाष्य स भिक्षुर् विजितेन्द्रियः ॥ र्म्_4.75{75} ॥
त्रिरत्नस्मरणं कृत्वा तस्थौ ध्यानसमाहितः ।
ततो ऽसौ दारिका गेहे प्राप्ता भर्तुः पुरोगता ॥ र्म्_4.76{76} ॥
एतत् सर्वं प्रवृत्तांतं विस्तरेणाब्रवीन् मुदा ।
स्वामिन् नद्याम्बुसंपूर्णं घटं धृत्वागता पथि ॥ र्म्_4.77{77} ॥
ततो भिक्षुर् उपागत्य पानीयं मां प्रयाचति ।
अदत्वैवं जलं तस्मै भिक्षवे सत्वरागता ॥ र्म्_4.78{71} ॥
वहुशो याच्यमानापि किं चिन् नैव ददाम्य् अहं ।
इति तयोक्तमात्रे ऽसौ भर्त्ता साधुर् अपि क्रुधा ।
तां भार्यां रुक्षणेत्रेण दृष्ट्वा चैवम् अभाषत ॥ र्म्_4.79{72} ॥
अरे पापिनि दुर्बुद्धे कथं न दीयते त्वया ।
कियद् व्येति जलं दत्वा भिक्षवे तृषिताय ते ॥ र्म्_4.80{71!} ॥
जलमात्रप्रदाने ऽपि यस्याः श्रद्धा न विद्यते ।
सा किम् अन्नं धनं रत्नं कथां दातुं समुत्सहेत् ॥ र्म्_4.81{72} ॥
धिक् त्वां पापिनीं दुष्टां यस्या नास्ति दयार्थिने ।
किं त्वया मम सत्यापि यशोधर्मप्रघातया ॥ र्म्_4.82{73} ॥
यद्य् एवं न प्रदद्यास् त्वं कस्मै चिद् अर्थिने जलं ।
प्रेयसीम् अपि भार्ये त्वां परित्यक्ष्याम्य् अहं खलु ॥ र्म्_4.83{74} ॥
यदि मे प्रियतां कर्तुम् इछसि स्नेहचेतसा ।
अर्थिनो मानयित्वा तद् दानं कर्तुं समुत्सहेः ॥ र्म्_4.84{75} ॥
नो चेद् एवं मया त्यक्ता व्रज मा तिष्ठ मे गृहे ।
अवश्यं नौ वियोगः स्याद् एकान्ते मरणं ध्रुवं ॥ र्म्_4.85{76} ॥
किं त्वादृश्या स्त्रिया पुंसः केवलं धर्महानये ।
धर्मं विना न मे कार्य्यं दाक्षिण्यापि च भार्यया ॥ र्म्_4.86{77} ॥
किं त्वया कांतयाप्य् एवं मात्सर्य्यकुलदुर्धिया ।
धर्म एव विनश्येत तद् व्रज मा गृहे वस ॥ र्म्_4.87{78} ॥
धर्मेण रक्ष्यते लोकः कान्तया किं हि रक्ष्यते ।
तत् कान्तापि परित्याज्या यदि पापनुरगिनी ॥ र्म्_4.88{79} ॥
भार्या हि पालनीया सा यदि धर्मार्थिनी सती ।
किं त्वं पापार्थिनी दुष्टा यशोधर्मविनाशिनी ॥ र्म्_4.89{80} ॥
नैवाहं च त्वया सार्द्धं भोक्तुं रन्तुं समुत्सहे ।
क्रियते चेत् त्वया धर्मस् तथा वस मया सह ॥ र्म्_4.90{81} ॥
नो चेद् एवं मया त्यक्ता त्वं मा तिष्ठ गृहे व्रज ।
एवं भर्त्त्रोच्यमानापि प्रमदा सा न बोधिता ॥ र्म्_4.91{82} ॥
मात्सर्य्यालीढचित्तत्वाद् रोषिता चैवम् अब्रवीत् ।
नैव स्थास्याम्य् अहं यास्ये किं स्थित्वैवं विनिन्दिता ॥ र्म्_4.92{83} ॥
कियत् त्वय्य् अपराधं मे यत् तथाहं विमोचिता ।
किं स भिक्षुर् गुरुर् राजा मित्रं वा ते पिता सुहृत् ॥ र्म्_4.93{84} ॥
ज्ञातिर् वा स सखा वन्धुः किं च भ्राता प्रभुर् धनी ।
प्रदत्तं किं अदत्तं च कियन् नष्टं भवेत् यतः ॥ र्म्_4.94{85} ॥
नैव किंचिच् च दास्यामि कस्मै चिद् भिक्षवे ऽर्थितं ।
अदत्वा मे भवेत् किं हि दास्याम्य् अहं यथेछया ॥ र्म्_4.95{86} ॥
दास्यामि वा न दास्यामि का चर्चात्र तथा तव ।
पापश् चेन् मयि पच्येत धर्मो वापि तथा मम ॥ र्म्_4.96{87} ॥
त्वम् अत्र मा कृथाश् चिन्तां किं त्वयात्र विचार्य्यते ।
शुभं वाप्य् अशुभं वा मे तव किं तद् विचारता ॥ र्म्_4.97{88} ॥
तथापि मम दोषं चेद् यास्यामि न वसाम्य् अहं ।
वरं प्राणपरित्याज्यं न तु दानं ददाम्य् अहं ॥ र्म्_4.98{89} ॥
इत्य् असौ प्रमदाक्रुष्य भर्तुर् आक्षिप्य गर्विता ।
क्वचित् किंचिच् च कस्मैचिद् ददौ नैव कदाचन ॥ र्म्_4.99{90} ॥
गृहे तिथीन् उपायातान् दृष्ट्वैवातिप्ररोषिता ।
वहुधा क्रुष्य तान् गेहान् न्यकासयद् बलादपि ॥ र्म्_4.100{91} ॥
तदाशीर्वचनान्य् एवं श्रुत्वापि परिकोपिता ।
हसति निन्दयित्वैनां परिभाष्य न्यकासयत् ॥ र्म्_4.101{92} ॥
सदा बध्वा गृहद्वारं याचकागतिशंकया ।
कोष्ठ एव समासीना कदाचिन् न विनिर्ययौ ॥ र्म्_4.102{93} ॥
सर्वदा स्वामिना सार्द्धं कृत्वैवं कलहं मुहुः ।
स्वयम् एव प्रभुक्त्वासौ कालम् एवम् अयापयत् ॥ र्म्_4.103{94} ॥
ततः काल उपायाते प्रमदा सा रुजान्विता ।
तदाप्य् एवं न चोत्सेहे किंचिद् दातुं समर्थिने ॥ र्म्_4.104{95} ॥
ततः प्रवृद्धरोगार्त्ता तृष्णार्त्ता परिशोषिता ।
मृता सा नरके याता प्रेती भवति सांप्रतं ॥ र्म्_4.105{96} ॥
या चाभूद् दारिका दुष्टा मात्सर्य्यप्रहताशया ।
सैवैषा हि त्वया दृष्टा प्रेती नरकवासिनी ॥ र्म्_4.106{97} ॥
इति मौद्गल्य दृष्ट्वैवं प्रत्यक्षं पापदुःखिनीं ।
सर्वादा श्रद्धयार्थिभ्यो दातव्यं जलम् आदरात् ॥ र्म्_4.107{98} ॥
सर्ववस्तुप्रदानानां जलदानं महत्तरं ।
सर्वेषां जीवनं यस्माद् अमृतं संवरं जलं ॥ र्म्_4.108{99} ॥
जलपानं विना सर्वे न जीवन्ति हि जन्तवः ।
तद् अमृतं जलं शुद्धं दातव्यम् अर्थिने सदा ॥ र्म्_4.109{100} ॥
जलम् एव हि पीत्वा ते निराहारास् तपस्विनः ।
योगिनो ऽनेकवर्षानि जीवन्ति प्राणिनो यथा ॥ र्म्_4.110{1} ॥
सर्वाहाराभिसंत्यक्ता जिवंति प्राणिनो जलैः ।
सर्वान् न परिभुक्त्वापि न जीवन्ति जलैर् विना ॥ र्म्_4.111{2} ॥
तद् अमृतप्रदानं तज् जीवदानं प्रचक्ष्यते ।
सर्ववस्तुप्रदानेभ्यो जलदानं प्रशस्यते ॥ र्म्_4.112{3} ॥
विशेषाद् ग्रीष्मकाले तु तृषार्त्ताय च रोगिने ।
बालवृद्धातुरेभ्यश् च दातव्यं जलम् आदितः ॥ र्म्_4.113{4} ॥
जलदानं महादानं जलदानसमं न हि ।
येनाभिधार्य्यते प्राणं तत् फलं संप्रशस्यते ॥ र्म्_4.114{5} ॥
सर्वधातुप्रदानेभ्यः सर्वरत्नप्रदानतः ।
सर्वान्नभोग्यदानेभ्यो जलदानं महीयते ॥ र्म्_4.115{6} ॥
कन्याकोटिप्रदानाच् च गजकोटिप्रदानतः ।
गवां कोटिप्रदानाच् च जलदानं महीयते ॥ र्म्_4.116{7} ॥
सप्तरत्नमयीभूमिप्रदानाच् च महीयते ।
एवं सर्वप्रदानेभ्यो जलदानं महत्तरं ॥ र्म्_4.117{8} ॥
तृप्यन्ते देवताः सर्वे पितृलोकास् तथापरे ।
सर्वे भूताश् च सत्वाश् च जलेनैव सदापि हि ॥ र्म्_4.118{9} ॥
तथा द्रव्यानि सर्वाणि भूतानि ह्य् अशुचिन्य् अपि ।
जलाभिषिक्तमात्रेण शुद्ध्यन्ते सर्वदा खलु ॥ र्म्_4.119{10} ॥
जलं विना न तृप्यन्ते भुक्त्वापि दिव्यभोजनं ।
तस्मात् सर्वप्रदानानां जलदानं महीयते ॥ र्म्_4.120{11} ॥
तथा ये च सुधां पीत्वा दिव्यकान्ता समर्पिता ।
रमन्ति त्रिदशाः स्वर्गे ते हि सर्वे जलप्रदाः ॥ र्म्_4.121{12} ॥
चक्रवर्त्ती नृपेन्द्रो यो रमणीभिः सहामृतं ।
भुक्त्वा रमति संमोदी सो ऽपि चाम्बुप्रदानतः ॥ र्म्_4.122{13} ॥
एवं चान्ये ऽपि ये लोका यथेछा सुखभोगिनः ।
निःक्लेशा निरुजा भद्रास् ते हि सर्वे जलप्रदाः ॥ र्म्_4.123{14} ॥
ये तु नीचाशयादीनाः क्षुत्पिपासातुराः कृशाः ।
याचकाः प्रेष्यकाश् चापि सर्वे ते ऽम्भोऽप्रदानिकाः ॥ र्म्_4.124{15} ॥
जलदानोद्भवं पुण्यं संख्यातुं नैव शक्यते ।
सर्वैर् अपि मुनींद्रैश् च किम् अन्यैर् विबुद्धैर् जनैः ॥ र्म्_4.125{16} ॥
मत्वेति श्रद्धया नित्यं दिव्यामृताभिवांछिभिः ।
अर्थिभ्यः सर्वसत्वेभ्यो दातव्यं जलम् आदरात् ॥ र्म्_4.126{17} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च भिक्षवः ।
सर्वेभ्यः सर्वदा कर्तुं जलदानं समैछन् ॥ र्म्_4.127{18} ॥
अथानन्दः समुत्थाय नत्वा तं श्रीघनं गुरुं ।
कृतांजलिपुटो पृछन् तत्पापपरिमोचनं ॥ र्म्_4.128{19} ॥
कदा सा भगवन् प्रेती तत्पापात् परिमोक्ष्यते ।
सर्वसत्वाभिबोधार्थं तत् समादेष्टुम् अर्हसि ॥ र्म्_4.129{20} ॥
इत्य् आनन्देन पृष्टे ऽसौ सर्वज्ञो भगवांस् तदा ।
तम् आनंदं समारभ्य प्राह पापविमोचनं ॥ र्म्_4.130{21} ॥
शृण्व् आनंद समाधाय येन सा परिमोक्ष्यते ।
सर्वसत्वप्रबोधाय तद् उपायैः प्रचक्ष्यते ॥ र्म्_4.131{22} ॥
सा प्रेती नरकेष्व् एवं सर्वेषु भ्रमिता सदा ।
दुःखाभिवेदनाखिन्ना परितप्तानुतापिता ॥ र्म्_4.132{23} ॥
ततः कालान्तरे सैवं स्मृत्वा रत्नत्रयं यदि ।
नमो बुद्धाय धर्माय संघायेति वदेद् यदा ॥ र्म्_4.133{24} ॥
तदा लोकेश्वरो सर्वलोकनाथो जिनात्मजः ।
दृष्ट्वा तां सहसोपेत्य स्वप्रभाभिः परिस्पृशेत् ॥ र्म्_4.134{25} ॥
यदा लोकेश्वराभाभिः स्पर्शिता सा सुधी सती ।
तदातिसौख्यतां लब्ध्वा विस्मितैवं व्यचिन्तयेत् ॥ र्म्_4.135{26} ॥
अहो सौख्यं मया लब्धं कस्यानुभावतो ऽधुना ।
किम् आहोस्विद् इतश् च्युत्वागतो ऽन्यत्र वसाम्य् अहं ॥ र्म्_4.136{27} ॥
इति चिन्तारि तिष्ठन्ती विस्मयोद्धतमानसीं ।
दृष्ट्वा लोकेश्वरश् चैनां बोधयितुम् उपाचरेत् ॥ र्म्_4.137{28} ॥
उपेत्य तर्पयित्वा च स्वतनुनिःसृतैर् जलैः ।
विविधैर् भोजनैश् चापि प्रतर्प्पयेत् स बोधिराट् ॥ र्म्_4.138{29} ॥
ततो ऽसौ पापिनी प्रेती पीत्वा तत् तनुजामृतं ।
परितृप्ता विशुद्धाङ्गा नत्वा तं प्रार्थयेत् तथा ॥ र्म्_4.139{30} ॥
नमस् ते भगवन् नाथ कृपया मां समुद्धर ।
दर्शय धर्ममार्गं मे सदा ते शरणं व्रजे ॥ र्म्_4.140{31} ॥
तयैवं प्रार्थिते चासौ लोकनाथो दयानिधिः ।
दर्शयित्वार्यमार्गं च श्रावयेद् धर्मदेशनां ॥ र्म्_4.141{32} ॥
यां श्रुत्वैव च सा प्रेती सर्वपापविमोचिता ।
ततश् च्युत्वा विशुद्धात्मा जन्म बोधिकुले लभेत् ॥ र्म्_4.142{33} ॥
तत्र बोधिचरीः प्राप्तुं चरेद् व्रतम् उपोषधं ।
तद्व्रतपुण्यभावैश् च बोधिचर्य्याः समाचरेत् ॥ र्म्_4.143{34} ॥
क्रमाद् बोधिचरीः पूर्य्य बोधिप्रणिधिमानसः ।
बोधिसत्वो महासत्वो भविष्यति न संशयः ॥ र्म्_4.144{35} ॥
ततो लोकहितं कृत्वा संबोधिपदम् आश्रयन् ।
सर्वदा च सुखं भुक्त्वा सुखावतीं गमिष्यति ।
तत्रामिताभसंबुद्धं सेवित्वा समुपाश्रयन् ।
संबोधिज्ञानं आसाद्य निर्वृतिं चाप्य् अवाप्स्यति ॥ र्म्_4.145{36} ॥
यद्य् असौ स्मरते प्रेती त्रिरत्नानां समाहिता ।
तदा चैवं ततश् च्युत्वा सौखावतीं गमिष्यति ॥ र्म्_4.146{37} ॥
नो चेद् एवं हि सा प्रेती सदापि नरके वसेत् ।
यावन् न स्मरते बुद्धं तावन् न मोक्ष्यते ततः ॥ र्म्_4.147{38} ॥
एवं सर्वे ऽपि ये सत्वा यावन्तो नरकास्थिताः ।
तावन्तस् ते ऽपि सर्वे च दुष्टाः पापानुचारिकाः ॥ र्म्_4.148{39} ॥
यदैषां ये त्रिरत्नानां स्मरन्त्य् अनुतापिताः ।
नमो बुद्धाय धर्माय संघायेति वदंति च ॥ र्म्_4.149{40} ॥
तदा तत्पापनिर्मुक्ता विशुद्धाङ्गाः शुभाशयाः ।
सद्धर्माचरणं कर्तुम् उत्सहेयुः समाहिताः ॥ र्म्_4.150{41} ॥
ततो लोकेश्वरो दृष्ट्वा तान् सत्वान् धर्मभाजनान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजयेत् ॥ र्म्_4.151{41!} ॥
ततः सर्वे च ते सत्वा बोधिप्रणिधिमानसाः ।
सर्वसत्वहितार्थेन समिछेयुः शिवां चरीं ॥ र्म्_4.152{42} ॥
ततस् ते नरकाच् च्युत्वा संप्रयायुः सुखावतीं ।
तत्रामिताभनाथस्य धर्मं श्रुत्वानुमोदिताः ॥ र्म्_4.153{33!} ॥
बोधिचर्य्याः समाश्रित्य कुर्युर् लोकहितानि ते ।
क्रमाद् बोधिचरीः पूर्य्य सर्वक्लेशविमुक्तिगाः ॥ र्म्_4.154{34} ॥
संबोधिज्ञानम् आसाद्य निर्वृतिं समवाप्नुयुः ।
एवम् अन्ये ऽपि ये सत्वा लोकेशसरणं गताः ॥ र्म्_4.155{35} ॥
ते आशु पापनिर्मुक्ताः सुखावतीं व्रजन्ति हि ।
ये ये लोकेश्वरं स्मृत्वा भजन्ति सततं मुदा ।
ते ते सर्वे च निःपापा भवन्ति बोधिभागिनः ॥ र्म्_4.156{36} ॥
तस्माल् लोकेश्वरं स्मृत्वा गत्वा च शरणं सदा ।
त्रिमण्डलविशुद्धेन चरितव्यं व्रतोत्तमं ॥ र्म्_4.157{37} ॥
व्रतोत्तमं समाख्यातम् आर्याष्टांगिकपोषाधं ।
सर्वेषां अपि पुण्यानां तद्व्रतपुण्यम् उत्तमं ॥ र्म्_4.158{38} ॥
येनैवाशु विशुद्ध्यंते घोरपातकिनापि च ।
तस्माद् एतत् महत्पुण्यं व्रतराजं विदुर् जिनाः ॥ र्म्_4.159{39} ॥
यस्य पुण्यानुभावेन पूर्य्य पारमितागणाः ।
सर्वक्लेशान् विनिर्जित्य शीघ्रं बोधिम् अवाप्नुयुः ॥ र्म्_4.160{40} ॥
ये ऽप्य् अतीताश् च संबुद्धाः सर्वज्ञाः सुगता जिनाः ।
ते ऽपि तद्व्रतपुण्यैस् तु शीघ्रं बोधिम् अवाप्नुवन् ॥ र्म्_4.161{41} ॥
ये ऽप्य् एतर्हि च संबुद्धाः संबोधिधर्मदेशकाः ।
ते ऽप्य् एतद्व्रतपुण्यैश् च भवन्ति बोधिपारगाः ॥ र्म्_4.162{42} ॥
ये चाप्य् अनागता बुद्धा भविष्यन्ति तथागताः ।
ते ऽप्य् एतद्व्रतपुण्यैस् तु लप्स्यन्ते बोधिसंपदं ॥ र्म्_4.163{43} ॥
एवम् अन्ये ऽपि ये प्राज्ञाः संबोधिपदवांछिताः ।
ते ऽप्य् एतद्व्रतम् आधाय लभन्ति बोधिसंपदं ॥ र्म्_4.164{44} ॥
तस्माद् एतद्व्रतं धृत्वा दातव्यं दानम् अदरात् ।
एतत् फलं सदाक्षीणं सूते कल्पतरुर् यथा ॥ र्म्_4.165{45} ॥
एतद्व्रतधराः सत्वाः सद्धर्माचरणोद्यताः ।
सर्वथा न व्रजंत्य् एव दुर्गतिषु कदाचन ॥ र्म्_4.166{46} ॥
सदैव सुगतिं प्राप्ताः सर्वसत्वानुकंपिनः ।
सद्धर्माचरणं धृत्वा बोधिसत्वा भवन्ति ते ॥ र्म्_4.167{47} ॥
ये च लोकेश्वरं स्मृत्वा चरन्त्य् एतद्व्रतं सदा ।
ते पश्यन्ति सदाप्य् एनं लोकनाथं जगत्प्रभुं ॥ र्म्_4.168{48} ॥
तेन लोकेश्वरेणापि दृश्यंते ते ऽपि सर्वदा ।
ये च लोकेशसंदृष्टास् ते सर्वे बोधिभागिनः ॥ र्म्_4.169{49} ॥
बोधिसत्वा महासत्वाः संबोधिं समवाप्नुयुः ।
ये स्मरन्ति सदा नित्यं लोकेशं करुणामयं ।
सहसा दुर्गतिं त्यक्त्वा मुक्त्वा यायुः सुखावतीं ॥ र्म्_4.170{50} ॥
ये च तच्छरणं गत्वा भजंति तं जिनात्मजं ।
सर्वपापविनिर्मुक्तास् ते ऽपि यायुः सुखावतिं ॥ र्म्_4.171{51} ॥
ये सुगन्धैर् जलैः शुद्धैः स्नापयन्ति जगद्गुरुं ।
मन्दाकिन्यां च ते स्नात्वा शुद्धा यांति सुखावतिं ॥ र्म्_4.172{52} ॥
पंचगंधादिसौरभ्यैर् लोकेशं लेपयंति ये ।
चक्रवर्त्तिपदं भुक्त्वा ते ऽपि यांति सुखावतीं ॥ र्म्_4.173{53} ॥
चीवरं ये ददंत्य् अस्मै ते दिव्यवस्त्रसंयुताः ।
सर्वधर्माधिनाथाश् च यांति चांते सुखावतीं ॥ र्म्_4.174{53*} ॥
सत्कृत्य श्रद्धया ये ऽपि पुष्पैस् तम् अर्चयन्ति ये ।
ते सुरेन्द्रपदं प्राप्य यान्ति चान्ते सुखावतीं ॥ र्म्_4.175{54} ॥
सौरभ्ययोजितैर् धूपैर् ये भजन्ति तम् ईश्वरं ।
ते नरेन्द्रपदं भुक्त्वा यांति चान्ते सुखावतिं ॥ र्म्_4.176{55} ॥
ये ददन्ति च भैषज्यं तस्मै लोकाधिपाय च ।
चक्रवर्त्तिपदं प्राप्य यांति ते च सुखावतीं ॥ र्म्_4.177{56} ॥
ये ददन्ति प्रदीपानि तस्मै लोकेश्वराय च ।
ते महेन्द्रपदं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ र्म्_4.178{57} ॥
नैवेद्यं ये ददन्त्य् अस्मै ते भवन्ति नरेश्वराः ।
दिव्यभोग्यानि भुक्त्वा च यान्ति चान्ते सुखावतीं ॥ र्म्_4.179{58} ॥
ये च पानं ददन्त्य् अस्मै ते पीत्वा सततं सुधां ।
स्वर्गे रमन्ति देवेन्द्रा यान्ति चान्ते सुखावतीं ॥ र्म्_4.180{59} ॥
फलमूलादिकं दत्तं यैश् च तस्मै सुतायिने ।
यथेप्सितसुखं भुक्त्वांते ऽपि यांति सुखावतीं ॥ र्म्_4.181{60} ॥
ताम्बूलं पूगसंयुक्तं लोकेशाय ददन्ति ये ।
सुरूपाः सत्सुखं भुक्त्वांते ऽपि यान्ति सुखावतीं ॥ र्म्_4.182{61} ॥
शय्यासनं प्रदत्तं यैस् तस्मै सत्वानुकंपिने ।
ते क्षितीशश्रियं भुक्त्वा यान्त्य् अंते च सुखावतीं ॥ र्म्_4.183{62} ॥
सिंहासनं प्रदत्तं यैस् तस्मै धर्मानुशासिने ।
ते वंद्याः सर्वलोकैश् च यान्त्य् अन्ते च सुखावतीं ॥ र्म्_4.184{63} ॥
छत्रं तस्मै प्रदत्तं यैस् ते नृपाश् चक्रवर्त्तिनः ।
यशोधर्मसुखं भुक्त्वा संप्रयान्ति सुखावतीं ॥ र्म्_4.185{64} ॥
पताकां ये प्रयछन्ति तस्मै लोकाधिपाय चा ।
ते ऽपि सर्वां महीं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ र्म्_4.186{65} ॥
तस्मै ये च प्रयछन्ति धातुरत्नगणानि च ।
ते नरेन्द्राश् चतुर्द्वीपां भुक्त्वा यान्ति सुखावतीं ॥ र्म्_4.187{66} ॥
ये वितानं वितन्वंति गेहे तस्य कृपानिधेः ।
ते नरेन्द्राः सुरेन्द्राश् च भूत्वा यांति सुखावतीं ॥ र्म्_4.188{67} ॥
त्रैलोक्याधिपतेस् तस्य ये कुर्वन्ति प्रदक्षिणां ।
ते नरेन्द्रश्रियं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ र्म्_4.189{68} ॥
संगीतैर् ये प्रकुर्वन्ति पूजां तस्य जगत् प्रभोः ।
सदा सुभाषितान्य् एव शृण्वन्ति ते गुणाकराः ॥ र्म्_4.190{69} ॥
चामरैर् व्यजनैर् वापि तं नाथं वीजयन्ति ये ।
ते नृपाः सुरलक्ष्मीं च भुक्त्वा यांति जिनालये ॥ र्म्_4.191{70} ॥
शोधयन्ति च ये नित्यं विहारे कारुणानिधेः ।
दिव्यनेत्राश् च ते सौख्यं भुक्त्वा यांति सुरालयं ॥ र्म्_4.192{71} ॥
कृत्वा रम्यं विहारं च लोकेशाय ददन्ति ये ।
ते महेन्द्रश्रियं भुक्त्वा संप्रयान्ति सुखावतीं ॥ र्म्_4.193{72} ॥
विहारे तत्र संसिद्धे यष्टिम् आरोप्य ये नराः ।
सुवर्णकलशांश् छत्रध्वजघण्टावलीयुतान् ॥ र्म्_4.194{73} ॥
पंचवर्णपताकाभिः पुष्पस्रग्भिश् च संयुतान् ।
संप्रतिस्थां प्रकुर्वति महोत्साहैर् विधानतः ॥ र्म्_4.195{74} ॥
ते नरेन्द्राः सुरेन्द्राश् च यशोधर्मसुखान्विताः ।
माहेश्वर्य्यश्रियं भुक्त्व यान्ति चान्ते सुखावतीं ॥ र्म्_4.196{75} ॥
पद्यगद्यमयैः स्तोत्रैर् ये स्तुवंति तं ईश्वरं ।
निःपापाः सुखिनः प्राज्ञास् ते प्रयान्ति सुखावतीं ॥ र्म्_4.197{76} ॥
ये चाष्टांगप्रणामानि अस्मै शास्त्रे प्रकुर्वंते ।
चक्रवर्तीपदं भुक्त्वा ते प्रयान्ति जिनालयं ॥ र्म्_4.198{77} ॥
ये स्मरन्ति सदा नित्यं तम् ईशं सुगतात्मजं ।
ते सद्यः पापनिर्मुक्ता अन्ते यान्ति सुखावतीं ॥ र्म्_4.199{78} ॥
ये ये सत्वाश् च तं नाथं स्मृत्वा भजन्ति सर्वदा ।
ते ते सर्वे न यान्त्य् एव दुर्गतिषु कदाचन ॥ र्म्_4.200{80} ॥
सदापि सद्गतिष्व् एव याताः सौख्यसमन्विताः ।
सद्धर्माचरणं कृत्वा संप्रयान्ति सुखावतीं ॥ र्म्_4.201{81} ॥
एवं ये पापिनश् चापि लोकेशं शरणं गताः ।
ते ऽपि पापविनिर्मुक्ताः शुद्धा यांति जिनालयं ॥ र्म्_4.202{82} ॥
एवं लोकेश्वरो नाथः पुण्यक्षेत्रं शुभप्रदः ।
चिंतामणिः कल्पवृक्षो यथेप्सितफलप्रदः ॥ र्म्_4.203{83} ॥
न हि तेन समः कश्चिन् महत्पुण्यफलप्रदः ।
कुतो ऽधिकस् तु विद्येत त्रैधातुभुवनेष्व् अपि ॥ र्म्_4.204{84} ॥
तेनैव सकलाः सत्वा बोधयित्वा प्रयत्नतः ।
आर्य्यमार्गे प्रतिष्ठाप्य प्रेरिता निर्वृताव् अपि ॥ र्म्_4.205{85} ॥
पापिष्ठो अपि सत्वाश् च तेनोपेत्य स्वयं तथा ।
नरकेभ्यः समुद्धृत्य संप्रेरिताः सुखावतीं ॥ र्म्_4.206{86} ॥
एवं सर्वे ऽपि सत्वाश् च नानोपायविधानतः ।
दर्शयित्वार्य्यमार्गाणि तेन बोधौ निवेशिताः ॥ र्म्_4.207{87} ॥
तस्मात् सर्वाधिकेशः स लोकेश्वरो महेश्वरः ।
सर्वधर्मानुभर्ता स लोकनाथः प्रतीयते ।
केनापि गंतुं तस्य पुण्यस्कंधं न शक्यते ।
मयापि शक्यते नैवं सर्वैश् चापि मुनीश्वरैः ।
एवं मत्वा त्वम् आनंदः लोकनथं दयोदधिं ॥ र्म्_4.208{88} ॥
सर्वदेवाधिदेवेशं स्मृत्वैव सततं भज ।
ततस् ते मंगलं नित्यं सर्वदापि समंततः ॥ र्म्_4.209{89} ॥
कुतश् चिन् नैव विद्येरन् भयानि विविधान्य् अपि ।
यत्र लोकेश्वरस्मृतिस् तत्रोत्पातभयं न हि ॥ र्म्_4.210{90} ॥
अग्नेर् अपि भयं नैव नाप्य् उत्पातमरुद्भयं ।
न चोदकभयं तत्र न च भूमिभयं खलु ॥ र्म्_4.211{91} ॥
विद्युत्पातभयं नापि न चाशनिभयं सदा ।
न च शत्रुभयं क्वापि नापि राजभयं तथा ॥ र्म्_4.212{92} ॥
न च चौरभयान्य् एवं न च रोगभयानि च ।
सर्वभयः प्रशाम्यन्ते लोकेशस्मृतिभावतः ॥ र्म्_4.213{93} ॥
सर्वे ऽप्य् उपद्रवाश् चैवं प्रयांति विलयं ततः ।
एवं लोकेश्वरो नाथो महत्पुण्यानुभाववान् ॥ र्म्_4.214{94} ॥
येनैवं त्रिजगल्लोकं पालितं पुत्रवत् सदा ।
तस्माल् लोकेश्वरो नित्यं सेवितव्यः शुभार्थिभिः ॥ र्म्_4.215{95} ॥
यस्य धर्मानुभावेन सर्वत्रापि शिवं सदा ।
इति मत्वा त्वयानंद तद् धर्माञ् छ्रावयन् सदा ॥ र्म्_4.216{97} ॥
प्रेरयित्वा च तद्भक्तौ संबोधौ संप्रवेशय ।
एतत्पुण्यानुभावैस् त्वम् अप्य् एवं कुशली भवन् ॥ र्म्_4.217{98} ॥
बोधिसत्वो महासत्वो भवेन् नूनं जिनात्मजः ॥ र्म्_4.218{99} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
तथेति प्रतिमोदित्वा सदा लोकेशम् अस्मरत् ॥ र्म्_4.219{100} ॥
एवं राजंस् त्वया चापि स्मृत्वा लोकेश्वरः सदा ।
सेवितव्यः प्रयत्नेन बोधिप्रणिधिचेतसा ॥ र्म्_4.220{1} ॥
ततस् त्वं सहसा सर्वपापेभ्यः परिमोचितः ।
बोधिसत्वो विशुद्धात्मा प्रयास्यसि सुखावतीं ॥ र्म्_4.221{2} ॥
इत्य् एवं गुरुणादिष्टं उपगुप्तेन धीमता ।
श्रुत्वा राजानुमोदित्वा सो ऽभ्यनन्दत् सपार्षदः ॥ र्म्_4.222{3} ॥
इदं श्रुत्वावदानं ये श्रावयित्वा परान् अपि ।
भजंति लोकनाथं ते संप्रयायुः सुखावतीं ॥ र्म्_4.223{4} ॥
++ इति रत्नावदानमालायं प्रेतिकावदानं समाप्तम् ++
व् शालपुष्पावदान
अथाशोको महीपालो भूयः श्रोतुं सुभासितैः ।
उपगुप्तं गुरुं नत्वा कृतांजलिर् अवोचत् ॥ र्म्_5.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद् अर्हसि समादेष्टुं लोकानां पुण्यवृद्धये ॥ र्म्_5.2{2} ॥
इति विज्ञापिते तेन नृपेन्द्रेण प्रसादिना ।
उपगुप्तो यतिश् चापि तं नृपं प्रत्यभाषत ॥ र्म्_5.3{3} ॥
शृणु राजन् महाभाग सर्वलोकहितार्थभृत् ।
यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते तथा खलु ॥ र्म्_5.4{4} ॥
पुरैकसमये बुद्धो भगवाञ् छ्रीघनो जिनः ।
श्रावस्त्यां जेतकारण्ये विहारे मणिमण्डिते ॥ र्म्_5.5{5} ॥
श्रावकैर् भिक्षुभिः संघैर् बोधिसत्वगणैः सह ।
सद्धर्मदेशनां कर्तुं व्यहरल् लोकशासितुं ॥ र्म्_5.6{6} ॥
तद्धर्मदेशनां श्रोतुं सर्वे सत्वाः समागताः ।
ब्राह्मणाः क्षत्रियाश् चापि राजानो राजमात्रिकाः ॥ र्म्_5.7{7} ॥
वैश्याः शूद्रा अमात्याश् च मंत्रिणः साधवो जनाः ।
श्रेष्ठिनः सार्थवाहाश् च धनिनश् च वणिग्गणाः ॥ र्म्_5.8{8} ॥
पौराजानपदाश् चापि नानादेशसमागताः ।
देवा दैत्याश् च गन्धर्वा यक्षकिन्नरराक्षसाः ॥ र्म्_5.9{9} ॥
सिद्धाविद्याधराः साध्या वसवश् च ग्रहाधिपाः ।
नागेंद्रा गरुडाश् चैवम् ऋषयो ब्रह्मचारिणाः ॥ र्म्_5.10{10} ॥
योगिनो यतयश् चापि लोकपालाः ससैन्यकाः ।
सर्वे तं सुगतं नत्वा धर्मं श्रोतुम् उपागताः ॥ र्म्_5.11{11} ॥
सत्कृत्य पूजयित्वा च कृतांजलिपुटो मुदा ।
परिवृत्य पुरस्कृत्य दृष्ट्वा तस्थुः समाहिताः ॥ र्म्_5.12{12} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मवांछिनः ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_5.13{13} ॥
तत्र देवादयः सर्वे तत् सद्धर्मामृतं मुदा ।
पीत्वा चाभ्यनुमोदन्तः प्रापुर् ज्ञानविशेषतां ॥ र्म्_5.14{14} ॥
श्रावस्तेयात् तदानेके दारिका दारकाश् च ते ।
कुसुमान् याचितं शालभंजिकाख्यं गिरिं ययुः ॥ र्म्_5.15{15} ॥
तत्र ते सहसा गत्वा दृष्ट्वा पुष्पाण्य् अनेकशः ।
प्रादाय समुपागत्वा श्रावस्त्याम् अचरन् मुदा ॥ र्म्_5.16{16} ॥
तत्रैका दारिका वाला श्रेष्ठिपुत्री प्रमोदिता ।
शनैः सा शालपुष्पाणि प्रादाय पृष्ठतो ऽचरत् ॥ र्म्_5.17{17} ॥
तदा च भगावान् बुद्धो भिक्षुसंघसमन्वितः ।
श्रावस्त्यां भोजनं भुक्त्वा ततो बहिर् विनिर्ययौ ॥ र्म्_5.18{18} ॥
तत्र सा दारिकाद्राक्षीद् भगवन्तं तम् आगतं ।
द्वात्रिंशल् लक्षणाशीतिव्यंजनं समलंकृतं ॥ र्म्_5.19{19} ॥
व्यामप्रभाविराजन्तं सहस्रेणाधिकप्रभं ।
जंगमम् इव रत्नाङ्गं समन्तभद्ररूपिकं ॥ र्म्_5.20{20} ॥
दृष्ट्वैवं श्रीघनं नाथं दारिका सा प्रमोदिता ।
श्रद्धयार्चयितुं पुष्पैर् मनसैवं व्यचिंतयत् ॥ र्म्_5.21{21} ॥
अहो पुण्यं मया लब्धं यत् संबुद्धो दृश्यते ऽधुना ।
एवं कदा कथं कुत्र द्रक्ष्यते ऽयं मुनीश्वरः ॥ र्म्_5.22{22} ॥
भाग्येनैवं मया लब्धं संबुद्धदर्शनं तथा ।
नूनं भाग्यवती चास्मि यत् पुण्यनिधिर् आप्यते ॥ र्म्_5.23{23} ॥
तस्मात् पुण्यं महारत्नं प्राप्तुम् उपेत्य सादरं ।
एतैश् च कुसुमैः सर्वैर् अर्हाम्य् एतं समर्चितुं ॥ र्म्_5.24{24} ॥
कदायं लप्स्यते भूयः परवश्या स्त्रिया मया ।
तद् अहं सहसोपेत्य पुष्पाण्य् अस्माय् उपाकिरे ॥ र्म्_5.25{25} ॥
सदा नोत्पद्यते नात्र संबुद्धो हि कदा चन ।
अतिसुदुर्ल्लभं ह्य् अस्य दर्शनं च सदा न हि ॥ र्म्_5.26{26} ॥
मानुष्यं दुर्ल्लभं जन्म विना पुण्यैर् न लभ्यते ।
मानुष्ये ऽलभ्यमाने ऽपि संबुद्धे सेव्यते कथं ॥ र्म्_5.27{27} ॥
मानुष्ये लभ्यमाने ऽपि क्षणं संपत् सुदुर्ल्लभा ।
नरैर् अप्य् अक्षणप्राप्तैः कथं बुद्धे ऽनुसेव्यते ॥ र्म्_5.28{28} ॥
तद् अद्य मानुषी भूत्वा प्राप्यैवं सुकृतौ क्षणं ।
यद्य् अत्र कुसुमैर् एभिः संबुद्धं नार्चयाम्य् अहं ॥ र्म्_5.29{29} ॥
ततो मे निष्फलं जन्म मानुष्ये व्यर्थम् एव हि ।
किं ममानेन देहेन सर्वथैकान्तनाशिना ॥ र्म्_5.30{30} ॥
किम् अनेनापि जीवेन मृत्यौ नित्यं पुरःस्थिते ।
कियत् कालं च जीवेयं गछेयं मरणं ध्रुवं ॥ र्म्_5.31{31} ॥
चिरं स्थित्वापि किं सारं संबुद्धभजनं विना ।
वरं प्राणपरित्यागं कृत्वा संबुद्धदर्शनं ॥ र्म्_5.32{32} ॥
अनित्यं खलु संसारं सर्वदेहादिकं धनं ।
एतद् एव तु सत्सारं यद् बुद्धे भजनं सदा ॥ र्म्_5.33{33} ॥
तदैतैः कुसुमैः सर्वैः पूजयामि मुनीश्वरं ।
कथं न पूजयिस्यामि संबुद्धं त्रिजगद्गुरुं ॥ र्म्_5.34{34} ॥
इति निश्चित्य सा वाला दृष्ट्वा तं सुगतं मुदा ।
सहसोपेत्य तैः सर्वैः सालपुष्पैर् अवाकिरन् ॥ र्म्_5.35{35} ॥
ततः प्रदक्षिणीकृत्य प्रणम्य तं प्रहर्षिता ।
किं चिद् दूरे परावृत्य तस्थौ दृष्ट्वा मुनिं मुदा ॥ र्म्_5.36{36} ॥
ततो ऽसौ भगवान् बुद्धस् तस्या आयुर्विहीनतां ।
मत्वा तां संन्रीक्स्यैवं स्वं विहारं समाययौ ॥ र्म्_5.37{37} ॥
अथ सा दारिका भूयस् तथान्यत्कुसुमानि च ।
गृहस्यार्थे समादातुं ततः शालवनं ययौ ॥ र्म्_5.38{38} ॥
तत्र शालतरुं दृष्ट्वा प्रफुल्लकुसुमान्वितं ।
तत्पुष्पाणि समाचेतुं सहसा सा रुरोह तं ॥ र्म्_5.39{39} ॥
तत्रावरुह्य पुष्पाणि चिन्वन्ती सा प्रमोदतः ।
अग्रशाखासमारूढा पपात सहसा ततः ॥ र्म्_5.40{40} ॥
पतिता सा विरुग्नाङ्गा तीव्रातिवेदनातुरा ।
हा हतास्मीति निश्चित्य संबुद्धस्मरणं व्यधात् ॥ र्म्_5.41{41} ॥
नमो बुद्धाय धर्माय संघाय सुगताय च ।
इति प्रोक्त्वैव संबुद्धं स्मरन्ति मरणं ययौ ॥ र्म्_5.42{42} ॥
ततः स्वर्गोपपन्ना सा विस्मितैवं व्यचिन्तयत् ।
कुतश् च्युत्वा कुहोत्पन्ना केन वा कुशलेन च ॥ र्म्_5.43{43} ॥
इति चिन्तापरीता सा सहसैवं व्यबुद्ध्यत ।
मर्त्याच् च्युत्वागता स्वर्गे बुद्धे पुष्पप्रदानतः ॥ र्म्_5.44{44} ॥
इति बुद्ध्वा च सा भद्रा सुप्रसादितमानसी ।
तम् एव सुगतं नाथं स्मृत्वा नत्वाभ्यनन्दत ॥ र्म्_5.45{45} ॥
ततो देवैर् उपनीतं दिव्यपुष्पस्वलंकृतं ।
विमानं सा समारुह्य देवसभाम् उपाययौ ॥ र्म्_5.46{46} ॥
तस्मिंश् च समये शक्रः सुधर्मायां सुरैः सह ।
संबुद्धवर्णनां कृत्वा तस्थौ देवान् प्रमोदयन् ॥ र्म्_5.47{47} ॥
तथा तां समुपायातां शालपुष्पाभ्यलंकृतां ।
दृष्ट्वा दिव्यातिवर्णाभां पप्रछ विस्मितो हरिः ॥ र्म्_5.48{48} ॥
गात्रं केन विमृष्टकांचननिभं पद्मोत्पलाभं तव ।
दिव्यश्रीर् अतुलाकृतेयम् इह ते केन प्रभा निःसृता ।
वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ।
कस्य त्वं वरदेवते फलम् इदं यत् कर्मजं भुज्यते ॥ र्म्_5.49{49} ॥
इति प्रोक्ते सुरेन्द्रेण सा भद्रा देवकन्यका ।
तं देवाधिपतिं नत्वा कृतांजलिपुटो ऽब्रवीत् ॥ र्म्_5.50{50} ॥
सश्रावका नरादित्य आकीर्णशालपुष्पकैः ।
तत्कर्मकुशलं कृत्वा राजते मे ऽधिकं तनुः ॥ र्म्_5.51{51} ॥
जलजेन्दुविशुद्धाभं वदनं मे ऽभिरोचते ।
एतत्कर्मानुभावेन विजानीयाः सुरेश्वर ॥ र्म्_5.52{52} ॥
तयेति प्रोदितं श्रुत्वा देवेन्द्रो ऽसौ सुविस्मितः ।
दृष्ट्वा चैनां सुभद्राङ्गीं प्रहर्षयन्न् अभाषत ॥ र्म्_5.53{53} ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितं ।
यत्र न्यस्तं त्वया वीजम् इत्थं स्वर्गोपपत्तये ॥ र्म्_5.54{54} ॥
को नार्चयेत् प्रवरकांचनराशिगौरं बुद्धं विबुद्धकमलायतपत्रनेत्रं ।
यत्राधिकारजनितानि विशोभितानि कांतामुखानि कमलायतलोचनानि ॥ र्म्_5.55{55} ॥
धन्यो ऽसि त्वं सुभद्रांगि संबुद्धगुणभाविनि ।
सर्वथा हि स संबुद्धः सेवितव्यः सदापि च ॥ र्म्_5.56{56} ॥
यस्य पुण्यप्रसादात् त्वं सद्यः स्वर्गे समागता ।
स एव भगवान् नाथः संस्मृत्वा सेव्यतां सदा ॥ र्म्_5.57{57} ॥
ततस् ते सर्वदा नित्यं मंगलं स्यात् समंततः ।
चिरं दिव्यसुखं भुक्त्वा यायाश् चान्ते सुखावतीं ॥ र्म्_5.58{158} ॥
इत्य् आदिष्टं सुरेन्द्रेण सा देवकन्यका सुधीः ।
अनुमोद्य च तं शक्रं नत्वा स्वम् आलयं ययौ ॥ र्म्_5.59{59} ॥
ततः सा संस्थिता देवीप्रासादे दिव्यमण्डिते ।
दिव्यभोग्यसुखप्राप्ता मोदित्वैवं व्यचिन्तयेत् ॥ र्म्_5.60{60} ॥
यच् च्युत्वाहं मनुष्येभ्यो ऽधुना स्वर्गसमागता ।
तत् संबुद्धप्रसादेन जानामि नान्यथा खलु ॥ र्म्_5.61{61} ॥
यन् मया पूजितो बुद्धः शालपुष्पैर् वनोद्भावैः ।
तत्पुण्यफलभोग्यार्थे आगताहं सुरालयं ॥ र्म्_5.62{62} ॥
यद् दिव्यसुखसंप्राप्तं तत् संबुद्धप्रसादतः ।
तेन तम् एवं संबुद्धं पुनर् गछेय वंदितुं ॥ र्म्_5.63{63} ॥
न युक्तं सौगते गन्तुं पर्य्युषितेन वाससा ।
युक्तं तु सौगते गंतुम् अपर्युषितवाससा ॥ र्म्_5.64{64} ॥
इति सा मनसा मत्वा देवकन्या सुभद्रिका ।
स्नात्वा सौरभ्यलिप्तांगा दिव्यशुद्धाम्वरावृता ॥ र्म्_5.65{65} ॥
दिव्यालंकारमालादिमौलीकुण्डलमंडिता ।
अनेकदेवकन्याभिर् अप्सरोभिः समन्विता ॥ र्म्_5.66{66} ॥
दिव्यपूजोपचाराणि गृहीत्वा सहसा ययौ ।
तस्याम् एव निशि स्वर्द्ध्या भासयन्ती समंततः ॥ र्म्_5.67{67} ॥
जेतवनम् उपेत्यासौ प्रविवेश जिनालयं ।
ततः प्रदक्षिणं कृत्वा प्रणम्य चरणौ मुनेः ॥ र्म्_5.68{68} ॥
पंचोपहारपूजाभिः पूजयित्वा कृतांजलिः ।
नत्वा च पुरतः तस्थौ सद्धर्मश्रवणोत्सुका ॥ र्म्_5.69{69} ॥
अथासौ भगवांस् तस्या ज्ञात्वाशयविशुद्धतां ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_5.70{70} ॥
चत्वारि चार्य्यसत्यानि निःक्लेशपुण्यलब्धये ।
दशकुशलमूलानि सम्यक्सत्वविशुद्धये ॥ र्म्_5.71{71} ॥
आर्य्याष्टाङ्गिकमार्गांश् च संबोधिमार्गलब्धये ।
बोधिपाक्षिकधर्मांश् च संबुद्धगुणलब्धये ॥ र्म्_5.72{72} ॥
अथासौ देवकन्या तां सद्धर्मदेशणं मुनेः ।
श्रुत्वानुमोदिता चापि प्राप्य धर्मविशेषतां ॥ र्म्_5.73{73} ॥
ज्ञानवज्रेण सत्कायदृष्टिशैलं विभेद सा ।
श्रोतापत्तिफलं प्राप्ता दृष्टसत्याभवत् तदा ॥ र्म्_5.74{74} ॥
ततो भूयः प्रणम्यैवं भगवन्तं कृतांजलिः ।
सुप्रसन्नमुखाम्भोजो त्रिर् उदानम् उदाहरत् ॥ र्म्_5.75{75} ॥
भगवन्न् इदम् अस्माकं महापुण्यसुखोदयं ।
जनन्यापि कृतं नापि न पित्रा न च वंधुभिः ॥ र्म्_5.76{76} ॥
न ज्ञातिभिर् न मित्रैश् च न सहायसुहृज्जनैः ।
नापि सालोहितैश् चापि पितृलोकैर् न चापरैः ॥ र्म्_5.77{77} ॥
न राज्ञा न चामात्यैर् न मंत्रिभिर् न च पौरिकैः ।
न गुरुभिर् न विप्रैश् च न यतिभिर् न तापसैः ॥ र्म्_5.78{78} ॥
न देवैर् नापि दैत्यैश् च नापि लोकाधिपैर् अपि ।
तथान्यैश् च कृतं नैव यद् इदं भवता कृतं ॥ र्म्_5.79{79} ॥
उछोषितो यद् अस्माकं रुधिराश्रुसरित्पतिः ।
अस्थिमयो महाछैलो यद् अस्माभिश् च लंघितः ॥ र्म्_5.80{80} ॥
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ र्म्_5.81{81} ॥
भवत्प्रसादान् निरुपेतदोषं मयाद्य लब्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्य्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ र्म्_5.82{82} ॥
नरवरेन्द्रसुरासुरपूजिते विगतजन्मजरामरणादयः ।
भवसहस्रसुदुल्लभदर्शने सफलम् अद्य मुने तव दर्शनं ॥ र्म्_5.83{83} ॥
ततः प्रणत्वा चरणारविंदौ मुनेः प्रकृत्वा तृप्रदक्षिणां च ।
प्रजातहर्षा सुगतं जिनेंद्रं स्मृत्वा च भूयो दिवम् आययौ सा ॥ र्म्_5.84{84} ॥
तथा स्वर्गसमायाता देवकन्या मुमोद सा ।
यथा वणिग् लब्धलाभो रोगमुक्तो यथातुरः ॥ र्म्_5.85{85} ॥
सम्यग्निष्पन्नशस्याप्तो यथा च कृषिकार्मिकः ।
सिद्धयात्राप्रलब्धार्थः सार्थवाहो वणिग् यथा ॥ र्म्_5.86{86} ॥
अथ ते भिक्षवः सर्वे दृष्ट्वैवम् अवभासितं ।
संदिग्धविस्मिताश् चैवं पप्रछुस् तं मुनीश्वरां ॥ र्म्_5.87{87} ॥
भगवन्न् अद्य रात्रौ को भवतो ऽन्तिकम् आगतः ।
ब्रह्मा वा सुरराजो वा लोकपालगणा अपि ॥ र्म्_5.88{88} ॥
अस्माभिर् ज्ञायते नायं यो ऽद्य रात्राव् इहागतः ।
तद् अस्मान् विस्मितान् सर्वान् बोधयितुं समर्हसि ॥ र्म्_5.89{89} ॥
इति तैर् भिक्षुभिः पृष्टो भगवान् स मुनीश्वरः ।
तांश् च भिक्षुगणान् सर्वान् समामंत्र्याब्रवीत् तथा ॥ र्म्_5.90{90} ॥
न हि स भिक्षवो ब्रह्मा नापि वासौ सुराधिपः ।
नैव लोकाधिपालाश् च याद्य रात्राव् इहागता ॥ र्म्_5.91{91} ॥
अपि तु दारिका दृष्टा युष्माभिः सगता पथि ।
ययाहं सालपुष्पैश् च प्रावकीर्य्याभितोषितः ॥ र्म्_5.92{92} ॥
सा मां पुष्पैर् अवाकीर्य्य गृहस्यार्थे पुनर् वनं ।
गता पुष्पाण्य् उपाहर्तुं वृक्षारूढापतत् तरोः ॥ र्म्_5.93{93} ॥
ततो ऽसौ पतनोद्विग्ना वेदनाक्रांतचेतसा ।
त्रिरत्नानि स्मरन्त्य् एव देहं त्यक्त्वा दिवं ययौ ॥ र्म्_5.94{94} ॥
तत्र स्वर्गे समासाद्य स्मृत्व मां सुगतं पुनः ।
द्रष्टुं धर्मं च मे श्रोतुम् इहासौ समुपागता ॥ र्म्_5.95{95} ॥
तन् मया देशितं तस्यै संबोधिधर्मम् उत्तमं ।
श्रुत्वा सा चानुमोद्यैवं संहर्षिता दिवं ययौ ॥ र्म्_5.96{96} ॥
इत्य् एवं भिक्षवो मत्वा त्रिरत्नानि शुभार्थिभिः ।
सेवितव्यानि संस्मृत्वा गत्वा च शरणं सदा ॥ र्म्_5.97{97} ॥
ये भजन्ति त्रिरत्नानि संस्मृत्वा शरणं गताः ।
दुर्गतिं ते न गछंति व्रजन्ति सद्गतिं सदा ॥ र्म्_5.98{98} ॥
ये निन्दन्ति त्रिरत्नानि प्रतिक्षिप्य प्रमादतः ।
सद्गतिं ते न गछन्ति वसन्ति नरके सदा ॥ र्म्_5.99{99} ॥
तस्मान् नित्यां त्रिरत्नानि संस्मृत्वा शरणं गताः ।
सत्कृत्य भावयित्वा च भजध्वं बोधिवांछया ॥ र्म्_5.100{100} ॥
तथा वो मङ्गलं नित्यं सर्वत्र सर्वदा भवेत् ।
क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि लप्स्यथ ॥ र्म्_5.101{1} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नानि सदाभजन् ॥ र्म्_5.102{2} ॥
इत्य् एवं गुरुणादिष्टं मयैवं ते प्रचक्ष्यते ।
श्रुत्वैतच् छ्रावयित्वा च त्रिरत्नानि सदा भज ॥ र्म्_5.103{3} ॥
ततस् त्वं क्रमशश् चैव बोधिचर्यां समाचरन् ।
सर्वपापविनिर्मुक्तः सुखावतीं समाव्रजेः ॥ र्म्_5.104{3*} ॥
इत्य् एतद् गुरुणादिष्टं उपगुप्तेन भिक्षुणा ।
श्रुत्वा राजा तथेत्य् एवम् अभ्यनन्दत् सपार्षदः ॥ र्म्_5.105{4} ॥
तत् संबुद्धानुभावं मुनिवरकथितं शालपुष्पावदानं ।
ये श्रुत्वा श्रावयन्ति प्रमुदितमनसः श्रद्धया बोधिकामाः ।
ते सर्वक्लेशमुक्ताः सकलगुणधरा बोधिचर्य्यानुरक्ताः ।
कृत्वा लोके हितार्थं जिनवरवसतिं संप्रयंति प्रहर्षैः ॥ र्म्_5.106{5} ॥
++ इति शालपुष्पावदानं समाप्तं ++
वि सूकर्यवदान
पुनर् एवं यतीशो ऽसाव् उपगुप्तो जिनांशजः ।
त्रिरत्नस्मृतिजं पुण्यं ख्यातुं नृपम् अब्रवीत् ॥ र्म्_6.1{1} ॥
महत्पुण्यानुभावत्वं त्रिरत्नस्मृतिसंभवं ।
तद् अहं ते प्रवक्ष्यामि शृणु राजन् समाहितः ॥ र्म्_6.2{2} ॥
धर्मता खलु देवानां स्वर्गच्यवनधर्म्मिणां ।
पंचपूर्वनिमित्तानि प्रादुर्भवेयुर् आत्मनि ॥ र्म्_6.3{3} ॥
अक्लिष्टानि हि वासांसि क्लिश्येयुश् च्यवनान्तिके ।
अम्लानानि च माल्यानि म्लायेरन् सहसा खलु ॥ र्म्_6.4{4} ॥
दौर्गन्धं निःसरेद् देहात् कक्षाभ्यां स्वेद उद्भवेत् ।
प्रच्युतिसमये प्राप्ते स्वासने न धृतिं लभेत् ॥ र्म्_6.5{5} ॥
एतत्पंचनिमित्तानि स्वर्गाच् च्यवनधर्मिणां ।
सर्वेषां प्रोद्भवेयुश् च प्रच्युतिसमयागमे ॥ र्म्_6.6{6} ॥
पुरैकदेवपुत्रस्य तथा च्यवनधर्मिणः ।
एतत्पंचनिमित्तानि प्रादुर् आसंश् च्युतेः पुरः ॥ र्म्_6.7{7} ॥
अथ च्यवनधर्मासौ देवपुत्रो विषादितः ।
अवश्यं च्यवनं स्वर्गान् मत्वा रौत्सीद् अधीरितः ॥ र्म्_6.8{8} ॥
आवर्त्य स्वविमानस्थः परिवर्त्त्य विमूर्छितः ।
पुनश् चैतन्यम् आसाद्य विलपं पर्य्यदेवतः ॥ र्म्_6.9{9} ॥
हा मन्दाकिनि हेमाव्जव्याप्ते पुण्याम्बुवाहिनि ।
त्वयि स्नात्वप्य् अहं च्युत्वा यास्यामि दुर्गतिं कथं ॥ र्म्_6.10{10} ॥
हा चैत्ररथम् उत्सृज्य क्व क्रीडेयं यथेछया ।
हा नन्दनवनं रम्यं त्यक्त्वाहं क्व रमेय च ॥ र्म्_6.11{11} ॥
हा मिश्रिकावनं दिव्यं त्यक्त्वा रम्ये कुहाधुना ।
हा पारुष्यवनं त्यक्त्वा क्व रम्याम्य् अप्सरोगणैः ॥ र्म्_6.12{12} ॥
क्व सुखं लप्स्यते पाण्डुकंवलकशिलां विना ।
हा देवसमितिं त्यक्त्वा क्व श्रोष्यामि सुभाषितां ॥ र्म्_6.13{13} ॥
हा हा सुदर्शनं रम्यं पुरं त्यक्त्वा व्रजे च्युतः ।
प्रासादं वैजयंतञ् च कदा द्रक्ष्याम्य् अहं पुनः ॥ र्म्_6.14{14} ॥
हा शक्रप्रमुखैर् देवैः सार्द्धं कृदाप्रमोदितः ।
अधुना मे क्व तत् सौख्यं श्रोतुं चापि न लप्स्यते ॥ र्म्_6.15{15} ॥
हा देव्यम् अमृतं त्यक्त्वा किं प्रभोक्ष्यामि सांप्रतं ।
दिव्यकामसुखं भुक्त्वा पुनर् दुर्गतिम् आश्रयन् ॥ र्म्_6.16{16} ॥
कियद् दुःखं च संभोक्तुं यास्यामि नरकेष्व् अहं ।
एतद् दिव्यमहोत्साहाद् भ्रष्टो ऽहं नरके गतः ॥ र्म्_6.17{17} ॥
महद्दुःखाभिसंतप्तः सहिष्यामि कथं तदा ।
हा हतो ऽस्मि स्वपापेन किं पापं प्रकृतं मया ॥ र्म्_6.18{18} ॥
येनेतः स्वर्गतश् च्युत्वा पुनर् यास्यामि नारकान् किं ।
उपायं करिष्यामि न यायां येन दुर्गतिं ॥ र्म्_6.19{19} ॥
को मे शास्तात्र विद्येत यो मां धर्मे नियोजयेत् ।
धर्मेण रक्ष्यते प्राणी नरके संस्थितो ऽपि च ॥ र्म्_6.20{20} ॥
धर्मं विनात्र देवो ऽपि स्वर्गात् प्रभ्रन्स्यते पुनः ।
किं करोमि क्व यास्यामि नात्रोपायं तु मन्यते ॥ र्म्_6.21{21} ॥
सर्वथाहम् इतश् च्युत्वा गछेयं दुर्गतिं खलु ।
इतश् च्युतस्य मे जन्म लब्धव्यं भुवने कुह ॥ र्म्_6.22{22} ॥
इति धैर्यं समाधाय मनसैवं व्यलोकयत् ।
च्युत्वेतः सौकरं जन्म प्राप्तव्यं सप्तमे दिने ॥ र्म्_6.23{23} ॥
एवं स्वाप्तगतिं दृष्ट्वा पपात सविमूर्छितः ।
अथाद्राक्षीन् महेन्द्रस् तं पतितं भुवि मूर्छितं ॥ र्म्_6.24{24} ॥
दृष्ट्वा च सहसोपेत्य सुधासेकैर् असिंचयत् ।
ततो ऽसौ चेतनां लब्ध्वा शनैर् उत्थाय तं प्रभुं ॥ र्म्_6.25{25} ॥
दृष्ट्वा पादौ परिष्वज्य नत्वैवं प्रार्थयद् रुदन् ।
हा हा नाथ महेन्द्रो ऽसि सर्वलोकाधिपः प्रभुः ॥ र्म्_6.26{26} ॥
माम् अधः पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हसि ।
भवान् हि जगतां राजा स्वामी भर्त्ता पतिः प्रभुः ॥ र्म्_6.27{27} ॥
नाथो धर्मानुशास्ता च तन् मां रक्षतुम् अर्हसि ।
त्वदृते ऽन्यो न मे कश्चिद् रक्षको विद्यते ऽत्र हि ॥ र्म्_6.28{28} ॥
तद् अनुकंपया दृष्ट्या धृत्वा माम् उद्धर प्रभो ।
यदि मां रक्षितुं नाथ न शक्नोति भवान् अपि ॥ र्म्_6.29{29} ॥
को मां समुद्धरेद् अन्यो हा हतो नरके व्रजे ।
मंडाकिन्यां त्वया सार्द्धं स्नात्वा पूतात्मको ऽप्य् अहं ॥ र्म्_6.30{30} ॥
कथं च नरके गत्वा वसेयम् अशुचिं चरन् ।
सहाप्सरोगणैर् नित्यं चरित्वा नंदने वने ॥ र्म्_6.31{31} ॥
दिव्यसंगीतिवाद्यैश् च रमामि संप्रमोदितः ।
अद्येतः पतितो पृथ्व्यां राजगृहोपजांगले ॥ र्म्_6.32{32} ॥
सौकरं जन्म लप्स्यामि सप्तमे दिवसे खलु ।
तत्र मूत्रपुरिषादीन् अमेध्यान् अपि कृच्छ्रतः ॥ र्म्_6.33{33} ॥
लब्ध्वा भुक्त्वा चरिष्यामि व्याधसंघैर् उपद्रुतः ।
बहुवर्षसहस्राणि भूत्वैवं सूकरात्मजः ॥ र्म्_6.34{34} ॥
अमेध्यकर्दमे नित्यं वत्स्याम्य् आवर्त्य संचरन् ।
एवं दिव्यामृतं भुक्त्वा रमित्वा भवता सह ॥ र्म्_6.35{35} ॥
कथं हि नारके गत्वा भोक्ष्ये ऽमेध्यानि संचरः ।
इमं कल्पतरुं त्यक्त्वा यथेप्सितफलप्रदं ॥ र्म्_6.36{36} ॥
जांगलं वृक्षम् आश्रित्य स्थितो भोक्ष्यामि किं तदा ।
सर्वथाहं च्युतो ऽस्मीतः प्रेरितो हि स्वकर्मणा ॥ र्म्_6.37{37} ॥
विविधानि च दुःखानि भोक्तुं यास्यामि नारके ।
तद् उपायं प्रदातव्यं भवता मे ऽनुकंपिना ॥ र्म्_6.38{38} ॥
येनाशु दुर्गतेर् मुक्तः प्रागछेयं च स्वर्गतिं ।
सर्वथा रक्ष मां नाथ यद्य् अस्ति ते कृपा मयि ॥ र्म्_6.39{39} ॥
भवान् मां पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हति ।
भवान् एव जगच्छास्ता सर्वलोकाधिपः प्रभुः ॥ र्म्_6.40{40} ॥
तद् आशु मां प्रयत्नेन समुद्धर्तुं समर्हति ।
इदं ते दर्शनं नाथ पश्चिमं मे भवेत् खलु ॥ र्म्_6.41{41} ॥
जन्मशतसहस्रैश् च दुर्लभं स्याद् धि संगमं ।
इत्य् एवं विलपं देवपुत्रस् स तं सुराधिपं ॥ र्म्_6.42{42} ॥
नत्वा पादौ निरीक्ष्यैव तस्थाव् अश्रुगलन्मुखः ।
अथ शक्रः सुरेन्द्रो ऽसौ दृष्ट्वैवं प्रविलापितं ॥ र्म्_6.43{43} ॥
कारुण्या क्रान्तचित्तस् तम् आश्वासयन्न् अभाषत ।
मा कृथा रोदनं भद्र समाश्वसि हि धीरय ॥ र्म्_6.44{44} ॥
क्रियन्ते किं प्रयत्नानि सर्वथा मरणं ध्रुवं ।
मृत्युर् महावलिष्ठो हि सर्वसत्वान्तकारकः ॥ र्म्_6.45{45} ॥
ह्रीयन्ते मृत्युना सर्वे मृत्युः केन निहन्यते ।
अनिर्वायो हि सर्वत्र सर्वत्रैधातुकेष्व् अपि ॥ र्म्_6.46{46} ॥
सर्वेषाम् अपि जन्तूनाम् एकान्ते मरणं ध्रुवं ।
तस्मान् मा भेस् तथा मृत्योः किं विषादेन सिध्यते ॥ र्म्_6.47{47} ॥
तद् धैर्य्यतैः समालंव्य त्रिरत्नं शरणं व्रज ।
गत्वा च शरणं तेषां स्मर नित्यं समाहितः ॥ र्म्_6.48{48} ॥
ततस् त्वं दुर्गतिं मुक्त्वा सद्गतिं समवाप्नुयाः ।
एतद् एव हि संसारे महोपायं शुभाप्तये ॥ र्म्_6.49{49} ॥
नान्यद् धि विद्यते किंचिन् मृत्यौ साधारणे ध्रुवे ।
तद् अन्यच्चेतनां हित्वा त्रिरत्नान्य् अभिसंस्मरन् ॥ र्म्_6.50{50} ॥
नमो बुद्धाय धर्माय संघायेति वदन् भज ।
ये त्रिरत्नस्मृतिं धृत्वा मृतास् ते पुण्यभागिनः ॥ र्म्_6.51{51} ॥
क्रमाद् बोधिचरीं प्राप्य यायुश् चान्ते सुखवतीं ।
त्वं चापि त्रिरत्नानं स्मृत्वा मृतः सुपुण्यधृक् ॥ र्म्_6.52{52} ॥
क्रमाद् बोधिचरीं प्राप्य संप्रयायाः सुखावतीं ।
इतीन्द्रेण समादिष्टं श्रुत्वा देवसुतो ऽथ सः ॥ र्म्_6.53{53} ॥
तथेत्य् अनुसंमोद्य पुनर् नत्वैवम् अब्रवीत् ।
अद्यारभ्य महेन्द्राहं त्रिरत्नानं सदा स्मरन् ॥ र्म्_6.54{54} ॥
गत्वा च शरणं तेषां उपासको भवे खलु ।
इत्य् उक्त्वा स महेन्द्रस्य पुरः स्थित्वा कृताञ्जलिः ॥ र्म्_6.55{55} ॥
अनुस्मृत्य त्रिरत्नानां नमस्कृतिम् उदाहरत् ।
नमो बुद्धाय भद्राय नमो धर्माय तायिने ॥ र्म्_6.56{56} ॥
नमः संघाय नाथाय सर्वदापि नमे भजे ।
अद्यारभ्य त्रिरत्नानां सदाहं शरणं व्रजे ॥ र्म्_6.57{57} ॥
उपासको भवेन् नित्यं नमामि सततं स्मरेत् ।
इत्य् उक्त्वा देवपुत्रो ऽसौ कालधर्मयुतश् च्युतः ॥ र्म्_6.58{58} ॥
तुषिते देवलोके ऽभूद् उपपन्नः सुपुण्यतः ।
धर्मता खलु देवानां ये देवाः स्वर्गतश् च्युताः ॥ र्म्_6.59{59} ॥
ते ऽधोलोकेषु गछेयुर् न तूर्द्ध्वभुवनेषु हि ।
अथ शक्रो नरेन्द्रो ऽसौ दृष्ट्वा तं स्वर्गतश् च्युतं ॥ र्म्_6.60{60} ॥
कुत्रासौ लभते जन्म इत्य् अधस्ताद् व्यलोकयत् ।
किम् असौ सूकरीगर्भ उत्पन्नो वा न वेति च ॥ र्म्_6.61{61} ॥
अपश्यत् सर्वतश् चैनं न ददर्श कुहापि स ।
ततो ऽसौ विस्मितः शक्रो दिव्येन चक्षुषा पुनः ॥ र्म्_6.62{62} ॥
कुत्रासौ लभते जन्म इत्य् एवं समलोकयत् ।
वत तिर्य्यक्षु जातो ऽसौ प्रेतेषु च प्रजायते ॥ र्म्_6.63{63} ॥
अथ नरकेषु वा जात इत्य् एवं समलोकयत् ।
तेषु त्रिष्व् अप्य् अपायेषु नाद्राक्षीत् तं समंततः ॥ र्म्_6.64{64} ॥
ततो मनुष्यलोकेषु जातो वेति ददर्श च ।
तत्रापि च स सर्वत्र नाद्राक्षीत् तं सुरेश्वरः ॥ र्म्_6.65{65} ॥
ततश् चतुर्महाराजभुवनेषु प्रजायते ।
इति तेषु च सर्वत्र विलोकयन् ददर्श न ॥ र्म्_6.66{66} ॥
ततश् च विस्मितः शक्रस् त्रयस्त्रिंशे व्यलोकयन् ।
तत्रापि तं न चाद्राक्षीत् कुत्रापि च समंततः ।
एवं सर्वत्र लोकेषु विलोकयंस् तदुद्भवं ।
अदृष्ट्वा विस्मितः शक्रः पुनर् एवं व्यचिंतयत् ।
अहो वत महाश्चर्य्यं यन् मयापि न दृश्यते ॥ र्म्_6.67{67} ॥
कुत्रासौ जायते नूनं न मन्ये तत् प्रवृत्तितां ।
को नु ज्ञास्यति तद्वृत्तिं बुद्धाद् अन्यो न कश्चन ॥ र्म्_6.68{68} ॥
बुद्ध एव जगद्दर्शी षडभिज्ञस् त्रिकालवित् ।
तस्माद् अहम् इतो गत्वा संबुद्धे समुपाचरन् ॥ र्म्_6.69{69} ॥
विज्ञप्यैवं च तद्वृत्तिं प्रष्टुम् अर्हामि सांप्रातं ।
इत्य् एवं मनसा ध्यात्वा देवेन्द्रो ऽसौ सविस्मयः ॥ र्म्_6.70{70} ॥
सहसा जेतकारण्ये जिनाश्रमम् अवातरत् ।
तत्रासौ सुगतं दृष्ट्वा सहर्षविस्मयान्वितः ॥ र्म्_6.71{71} ॥
प्रणम्य पुरतः स्थित्वा कृतांजलिपुटो ऽवदत् ।
भगवंस् तद् विजानीया यद् इहाहम् उपागतः ॥ र्म्_6.72{72} ॥
तथापि प्रष्टुम् इछामि तत् समादेष्टुम् अर्हसि ।
एकः कालगतो देवपुत्रः स्वर्गाच् च्युतो गतः ॥ र्म्_6.73{73} ॥
षट्सु लोकेषु सर्वत्र दृश्यते न मया ह्य् असौ ।
कुत्रासौ जायते शास्तर् मया न दृश्यते क्वचित् ॥ र्म्_6.74{74} ॥
तस्योत्पत्तिः कुह स्थाने तत् समादेष्टुम् अर्हसि ।
इतीन्द्रवचनैः श्रुत्वा स संबुद्धो मुनीश्वरः ॥ र्म्_6.75{75} ॥
तस्य पुण्यात्मनः स्थानं इंद्राय समचक्षतच् ।
कौशिक तुषितो नाम लोकधातुः प्रसिद्धितः ॥ र्म्_6.76{76} ॥
तत्रासौ मोदते देवो गत्वा त्रिशरणं च्युतः ।
इत्यादिष्टंअ मुनीन्द्रेण श्रुत्वा स त्रिदशाधिपः ॥ र्म्_6.77{77} ॥
विस्मितः सुप्रसन्नात्मा प्रणत्वैवंम् उदानयत् ।
अहो बुद्धम् अहो धर्मम् अहो संघं शुभंकरं ॥ र्म्_6.78{78} ॥
यत् संशरणमात्रे ऽपि सत्वा यान्ति शुभालयं ।
ये बुद्धं शरणं यान्ति न ते गछंति दुर्गतिं ॥ र्म्_6.79{79} ॥
प्रहाय पातकान् सर्वान् दिव्यलोकम् उपासते ।
ये धर्मं शरणं यान्ति न ते गछंति दुर्गतिं ।
प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते ॥ र्म्_6.80{80} ॥
ये संघं शरणं यान्ति न ते गछन्ति दुर्गतिं ।
प्रहाय सर्वदुःखानि दिव्यसौख्यान्य् उपासते ॥ र्म्_6.81{81} ॥
धन्यास् ते पुरुषा भद्राः संबोधिपदगामिनः ।
ये संस्मृत्वा त्रिरत्नानि व्रजन्ति मरणं ध्रुवं ॥ र्म्_6.82{82} ॥
अथासौ भगवाञ् छ्रुत्वा शक्रेणैवं सुभाषितं ।
तथानुवर्णयन् प्राह कौशिकं तं सुराधिपं ॥ र्म्_6.83{83} ॥
एवम् एतद् धि देवेन्द्र यथैवं त्वं प्रभाषसे ।
धन्यास् ते पुरुषा भद्रा त्रिरत्नं भजंति ये ॥ र्म्_6.84{84} ॥
ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं ।
क्लेशवैरीं विनिर्जित्य संबोधिं समवाप्नुयुः ॥ र्म्_6.85{85} ॥
ये धर्मं शरणं यान्ति न ते गछन्ति दुर्गतिं ।
मारधर्मविनिर्मुक्ता बोधिधर्मान् अवाप्नुयुः ।
ये संघं शरणं यांति न ते गछंति दुर्गतिं ।
पातकेभ्यो विनिर्मुक्ताः संप्रयान्ति सुखावतीं ॥ र्म्_6.86{86} ॥
न भजन्ति मुनीन्द्रं ये ते भ्रमंति भवार्णवे ।
संबोधिमार्गतो भ्रष्टा नष्टा गछन्ति दुर्गतिं ॥ र्म्_6.87{87} ॥
ये शृण्वंति न सद्धर्मं ते क्लेशपरिदाहिताः ।
मारधर्मरता दुष्टाः प्रणष्टा यांति दुर्गतिं ।
न मानयंति ये संघं न ते जानंति सद्गतिं ।
सदा दुःखाभिसंतप्ता भ्रष्टा गछंति दुर्गतिं ।
निन्दन्ति ये त्रिरत्नानि ते दुष्टा मारपाक्षिकाः ।
नैव चरंति सन्मार्गे विनष्टा यंति दुर्गतिं ।
तस्माद् ये मानवाः सन्तो वांछन्ति सद्गतिं सदा ।
तैः संस्मृत्वा त्रिरत्नानां कर्त्तव्यं शरणं मुदा ॥ र्म्_6.88{88} ॥
ये स्मरन्ति त्रिरत्नानां न ते गछंति दुर्गतिं ।
प्रहाय पातकान् सर्वाञ् शीघ्रं यान्ति सुखावतीं ॥ र्म्_6.89{89} ॥
सुखावत्यां जिनेन्द्रस्य धर्मं श्रुत्वानुमोदिताः ।
बोधिचित्तं समासाद्य चरन्ति बोधिचारिकां ॥ र्म्_6.90{90} ॥
ततस् ताः क्रमतः पूर्य्य संवृत्तिपारम् आगताः ।
परमार्थचरीं प्राप्य निर्वृत्तिं समवाप्नुयुः ॥ र्म्_6.91{91} ॥
इदं हि बोधिमार्गानां वीजं विज्ञाय कौशिक ।
त्रिरत्नस्मरणं नित्यं कर्त्तव्यं बोधिवांछिभिः ॥ र्म्_6.92{92} ॥
कदापि नैव मोक्तव्यं त्रिरत्नस्मरणं सदा ।
गत्वा च शरणं तेषां त्रिरत्नानां समाचर ॥ र्म्_6.93{93} ॥
एवं तेन मुनीन्द्रेण समादिष्टं स कौशिकः ।
श्रुत्वैवम् इत्य् अनुज्ञाय प्राभ्यनन्दत् प्रसादितः ॥ र्म्_6.94{94} ॥
ततो ऽसौ भगवन्तं तं नत्वा स रचितांजलिः ।
त्रिधा प्रदक्षिणीकृत्य पुनर् नत्वा दिवं ययौ ॥ र्म्_6.95{95} ॥
ततो देवपुरे गत्वा सुधर्ममंदिरे स्थितः ।
देवलोकान् समामंत्र्य तत् प्रवृत्तं समब्रवीत् ॥ र्म्_6.96{96} ॥
भो भो देवगणाः सर्वे शृणुध्वं तत् समाहितः ।
यद् अद्भुतं महापुण्यं संबोधिहेतुम् उच्यते ॥ र्म्_6.97{97} ॥
धर्मता खलु देवानां ये ये देवा हि नाकतः ।
च्युतास् ते ते प्रयान्त्य् अधो न तूर्द्ध्वं यान्ति के चन ॥ र्म्_6.98{98} ॥
इदानीं तु व्रजेयुस् ते ये देवाः स्वर्गतश् च्युताः ।
त्रिरत्नशरणं कृत्वोर्द्ध्वगतिं न त्व् अधोगतिं ॥ र्म्_6.99{99} ॥
दृश्यताम् अमुको देवपुत्रस् त्रिशरणं गतः ।
स्वर्गाच् च्युत्वा समुत्पन्नस् तुषिते ऽसौ प्रमोदते ॥ र्म्_6.100{100} ॥
यूयम् अपि च तद् दृष्ट्वा त्रिरत्नानां समाहिताः ।
गत्वा च शरणं नित्यं स्मृत्वा भजध्वम् आदरात् ॥ र्म्_6.101{1} ॥
ततो यूयं न यायात दुर्गतिषु कदा चन ।
सदा दिव्यसुखं भुक्त्वा प्रयास्यथ सुखावतीं ॥ र्म्_6.102{2} ॥
ये बुद्धे शरणं यांति न ते गछन्ति दुर्गतिं ।
क्लेशवैरान् विनिर्जित्य संबोधिपदम् आप्नुयुः ॥ र्म्_6.103{3} ॥
ये धर्मे शरणं यान्ति न ते गछन्ति दुर्गतिं ।
मारधर्मविनिर्मुक्ता बुद्धधर्माण्य् अवाप्नुइयुः ॥ र्म्_6.104{4} ॥
ये संघे शरणं गत्वा न ते गछन्ति दुर्गतिं ।
सर्वपातकनिर्मुक्ता प्रयास्यंति सुखावतीं ॥ र्म्_6.105{5} ॥
न भजन्ति त्रिरत्नं ये ते भ्रमन्ति भवार्णवे ।
सद्धर्मनिन्दका भ्रष्टा नष्टा गछन्ति दुर्गतिं ॥ र्म्_6.106{6} ॥
दुर्गतिषु भ्रमंतस् ते दुःखानि विविधानि च ।
भुक्त्वा चरन्ति दुष्टांशा नैव गछंति सद्गतिं ॥ र्म्_6.107{7} ॥
तद् दुःखं हातुम् इछंति सुखं प्राप्तुं च ये सदा ।
ते त्रिरत्नं सदा स्मृत्वा भजंतां शरणं गताः ॥ र्म्_6.108{8} ॥
ततो वो मंगलं नित्यं नैव यायात दुर्गतिं ।
सद्गतिम् एव यायात संबोधिम् अपि लप्स्यथ ॥ र्म्_6.109{9} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0