रत्नमालावदान · भाग 2140
बुद्ध एव जगत्त्राता सर्वसत्वानुकंपकः ॥ र्म्_2.143{43} ॥
बुद्ध एव जगद्भर्ता धर्मार्थसुखसंप्रदः ।
बुद्ध एव जगच्छास्ता सर्वसत्त्वानुबोधकः ।
बुद्ध एव जगन्नाथो बोधिसंभारपूरकः ।
बुद्ध एव जगत्स्वामी संबोधिमार्गदेशकः ।
बुद्ध एव महावीरः सर्वमारप्रभंजकः ॥ र्म्_2.144{44} ॥
बुद्ध एव महासत्वः षडभिज्ञो जगत्प्रभुः ।
बुद्ध एव त्रिलोकेषु धर्मरूजा मुनीश्वरः ।
येनैव त्रिजगल्लोकं पालितं पुत्रवत् सदा ॥ र्म्_2.145{47!} ॥
स एव भगवान् बुद्धः सेवनीयः शुभार्थिभिः ।
येनैवं त्रिषु लोकेषु सर्वलोकाधिपेश्वरः ॥ र्म्_2.146{48} ॥
राजते जयते तेन सिद्धो ऽयं धर्म्मराज् जिनः ।
यथा च त्रिषु लोकेषु बोधिचर्याः प्रकाशयन् ।
करोति भद्रतां नित्यं तथात्रापि करिष्यति ॥ र्म्_2.147{19} ॥
संस्थापयति सद्धर्मे यथा त्रैधातुवासिनः ।
सत्वान् प्रबोधयन्न् अस्मान् निवेशयेत् तथा खलु ॥ र्म्_2.148{20} ॥
ततः सर्वे वयं धृत्वा सद्धर्मं शुभदं शिवं ।
यशोपुण्यसुखं भुक्त्वा यास्यामो ऽन्ते सुखावतीं ॥ र्म्_2.149{21} ॥
इति मत्वा तथास्माभिश् चन्दनो ऽयं जिनेश्वरः ।
महत्सत्कारपूजाभिः सेवितव्यो मुदा सदा ॥ र्म्_2.150{22} ॥
इति संभाष्य तैः सर्वैस् तथेत्य् अभ्यनुमोदितैः ।
मंत्रिभिः सह राजा स प्रययौ तज् जिनाश्रमं ॥ र्म्_2.151{23} ॥
तत्र प्राप्तः प्रविष्टश् च दृष्ट्वा तं चंदनं मुनिं ।
कृतांजलिपुटो नत्वा चकार प्रार्थनाम् इति ॥ र्म्_2.152{24} ॥
नमस् ते भगवच् छास्तः वयं ते शरणं गताः ।
तत् प्रसन्नो भवास्माकं क्षन्तव्या चापराधता ॥ र्म्_2.153{24} ॥
यद् अवृष्टिः प्रवृत्तात्र तद् अस्मत्पापतः खलु ।
तत्पापपरिहाणाय सद्धर्मं देष्टुम् अर्हसि ॥ र्म्_2.154{26} ॥
तद् भवन्तं वयं सर्वे स्नापयित्वा ससांघिकान् ।
यथाशक्त्य् उपचारैश् च समिछामो ऽर्चितुं पुरे ॥ र्म्_2.155{27} ॥
तत् प्रसीद मुनीन्द्रो ऽसि यथास्माकं हितं भवेत् ।
तथास्मत्पुरम् आगत्वा शुभं कर्तुं समर्हसि ॥ र्म्_2.156{28} ॥
इति तेनार्थितं राज्ञा श्रुत्वा स चंदनो मुनिः ।
तूष्णीभूत्वा तथेत्य् एवं अध्युवास स सांघिकः ॥ र्म्_2.157{29} ॥
ततः स नृपतिर् ज्ञात्वा तद् अधिवासितं मुनेः ।
पादौ नत्वा पुनर् दृष्ट्वा सहसा स्वं पुरं ययौ ॥ र्म्_2.158{60!} ॥
ततः पुरे च मार्गेषु शोधयित्वा समंततः ।
सुगंधिजलसंसिक्तम् अकारयन् महीतलं ॥ र्म्_2.159{61} ॥
ततः पुष्पावकीर्ण्णं च कारयित्वा समंततः ।
ध्वजच्छत्रवितानैश् च तत्पुरं पर्य्यभूषयत् ॥ र्म्_2.160{62} ॥
ततस् तन् नगरे मध्ये कारयित्वा सरो वरं ।
तद् गंधोदकसंपूर्णम् अकारयत् प्रशोभितं ॥ र्म्_2.161{63} ॥
तत्र पुष्पाभिः संयुक्तं कृत्वा तीरे समंततः ।
छत्रध्वजपताकानि वितत्य पर्य्यमण्डयत् ॥ र्म्_2.162{64} ॥
आसनानि च प्रज्ञप्य ससंघस्य क्रमान् मुनेः ।
स्वर्णकुंभांश् च संस्थाप्य शुचिगंधाम्बुपूरितान् ॥ र्म्_2.163{65} ॥
ततो पूजोपचारां भोज्योपकरणानि च ।
साधयित्वोपसंस्थाप्य संगीतिसहितानि च ॥ र्म्_2.164{66} ॥
ततो राजा स सामात्यैः पौरिकैश् च समन्वितः ।
तं बुद्धं पुरम् आनेतुं जिनाश्रमम् अगान् मुदा ॥ र्म्_2.165{67} ॥
तत्र स सहसा प्राप्तो दृष्ट्वा तं चन्दनं मुनिं ।
कृतांजलिपुटो नत्वा गमनं प्रार्थयद् इति ॥ र्म्_2.166{68} ॥
सर्वज्ञ भगवं गन्तुं समयो वर्त्तते ऽधुना ।
सर्वं च साधितं सिद्धं तदाश्व् आगन्तुम् अर्हसि ॥ र्म्_2.167{69} ॥
एवं तेनार्थिते राज्ञा स संबुद्धः ससांघिकः ।
पात्रचीवरम् आदाय प्रागात् तत्पुरसंमुखः ॥ र्म्_2.168{70} ॥
यदासौ भगवान् बुद्धाः प्रातिहार्य्यं प्रदर्शयन् ।
लोकान् भासावसंभास्य प्राचरन् प्राप्तगोपुरं ॥ र्म्_2.169{71} ॥
तदाकम्पद् रसा साब्धिर् ववौ वायुः सुमंगलं ।
क्षुत्पिपासा हता ये च ते सर्वे परितृप्तिताः ॥ र्म्_2.170{72} ॥
ये च हीनेन्द्रियाः सत्वास् ते च पूर्णेन्द्रिया बभुः ।
निर्धना धनिनाश् चासन् रोगिनो निरुजो ऽभवन् ॥ र्म्_2.171{73} ॥
बंधनस्था विमुक्ताश् च दुःखिताः सुखिनो ऽभवन् ।
उन्मत्ताः सुस्मृतिं प्राप्ता नग्ना आसन् सुवस्त्रिकाः ॥ र्म्_2.172{74} ॥
गुर्विण्या याश् च ताः सर्वाः प्रमदाः सुखसूतिकाः ।
चिरवैरानुसंबद्धा मैत्रीभूताः समाचरन् ॥ र्म्_2.173{75} ॥
ये च पापरताः सत्वा दशाकुशलचारिकाः ।
ते सर्वे परिसंतृप्ताः पुण्यकामाः प्रचेरिरे ॥ र्म्_2.174{76} ॥
एवम् अन्ये च ये तत्र पापका उपसर्गिकाः ।
ते सर्वे विलयं याताः ते सर्वे संशुभाङ्किताः ॥ र्म्_2.175{77} ॥
एवं सर्वप्रकारेण हत्वा सर्वम् अमङ्गलं ।
कृत्वा भद्रं च सर्वत्र ससंघः स पुरे ऽविशत् ॥ र्म्_2.176{78} ॥
क्रमात् प्रदक्षिणेनैवं प्रचरित्वा महोत्सवैः ॥ र्म्_2.177{79} ॥
वंद्यमानस् तु तैः सर्वैः सदेवासुरमानवैः ॥ र्म्_2.178{80} ॥
तं नृपं पुरतः कृत्वा राजमार्गम् उपासरन् ।
तत् सरोवरसंप्राप्तो दृष्ट्वा तीरे समाश्रयत् ॥ र्म्_2.179{81} ॥
ततः स भगवान् बुद्धो यथा प्रज्ञप्त आसने ।
एकचीवरकस् तस्थौ स्नातुं तत्र सरोवरे ॥ र्म्_2.180{82} ॥
ततो नृपादयः सर्वे लोकास् तं चंदनं मुनिं ।
ससंघं स्नापयाम् आसुः स्वर्णकुम्भाम्बुभिः क्रमात् ॥ र्म्_2.181{83} ॥
कृत्वा स्नानं ततो ऽन्यत्र यथाप्रज्ञप्त आसने ।
ससंघो भगवान् तस्थौ स्वप्रभावं प्रदर्शयन् ॥ र्म्_2.182{84} ॥
अथ राजा स तं बुद्धं समासीनं ससांघिकं ।
चीवरप्रावृतं कृत्वा पूजाङ्गैः समपूजयत् ॥ र्म्_2.183{85} ॥
ततश् च भोजनैः शुद्धैः प्रणीतैर् व्यञ्जनैर् अपि ।
पंचामृतैश् च पानैश् च सुतृप्तिं समतोषयत् ॥ र्म्_2.184{86} ॥
ततश् च भोजनांते संशोधयित्वा मुखादिकं ।
नीचासने समासीनः कृतांजलिपुटो नृपः ॥ र्म्_2.185{87} ॥
सुप्रसन्नमुखाम्भोजः स मंत्रीजनपौरिकैः ।
नत्वा क्षमापयित्वा तं ससंघं प्रार्थयत् तथा ॥ र्म्_2.186{88} ॥
सर्वज्ञ भगवन् नाथ क्षमस्व नो ऽपराधतां ।
प्रसीद सर्वथा रक्ष दृष्ट्वास्मान् पापचारिणः ॥ र्म्_2.187{89} ॥
तद् दुर्भिक्षविनाशाय सुवृष्टिं चारय द्रुतं ।
सर्वसत्वहितार्थाय सद्धर्मं च समादिश ॥ र्म्_2.188{90} ॥
इत्य् एवं प्रार्थिते तेन राज्ञा लोकहितार्थिना ।
संबुद्धो भगवांश् चैवं स्वाशीर्वचनम् अब्रवीत् ॥ र्म्_2.189{91} ॥
आरोग्यम् अस्तु ते राजन् सर्वत्रापि च मंगलं ।
सुभिक्षं सर्वदाप्य् अत्र निर्विघ्नं बोधिम् आप्नुहि ॥ र्म्_2.190{92} ॥
इति स्वाशीर्वचो दत्वा संबुद्धः स ससांघिकः ।
ततश् च स्वाश्रमं प्रागात् स नृपजनम् अन्वितः ॥ र्म्_2.191{93} ॥
एवम् अस्य मुनीन्द्रस्य त्रैमास्यं च निरंतरं ।
तेनाकारि नृपेन्द्रेण सेवा सत्कारपूजनैः ॥ र्म्_2.192{94} ॥
ततः शक्रो महेन्द्रो ऽसौ दृष्ट्वा तत् सुगतार्चितां ।
तद् दुर्भिक्षप्रशांत्यर्थं सुवृष्टिं समचारयत् ॥ र्म्_2.193{95} ॥
ततो जलाश्रयान्य् अम्बुपूरितानि समंततः ।
पद्मोत्पलादिपुष्पैश् च छन्नानि रुरुचुस् तदा ॥ र्म्_2.194{96} ॥
तृणैर् नवाङ्कुरोद्भूतं साद्वलैश् च प्ररूढितैः ।
प्रतिछन्ना हरिद्वस्त्रैः प्रावृतैव रराज भूः ॥ र्म्_2.195{97} ॥
वृक्षाश् चापि हरित्पत्रैः समाछन्नाः प्रशोभिताः ।
पुष्पैः प्रस्फुल्लितैर् अम्यैः फलैश् च संचकासिरे ॥ र्म्_2.196{98} ॥
क्रमाच् चैवं प्ररूढानि शस्यानि वर्द्धितानि च ।
परिनिष्पन्नसिद्धानि प्रविपेचुः समंततः ।
ततः सर्वे जनाश् चैवं संप्रयातां सुभिक्षतां ।
दृष्ट्वानंदं समुच्चार्य्य प्रचेरिरे प्रहर्षिताः ॥ र्म्_2.197{99} ॥
अथ राजा स तान् सर्वान् महाहर्षप्रमोदितान् ।
दृष्ट्वा भूयः समामंत्र्य वभाष संप्रबोधयन् ॥ र्म्_2.198{100} ॥
भवन्तो दृश्यताम् अस्य संबुद्धस्यानुभावता ।
यस्य पुण्यानुभावेन प्रजातैव सुभिक्षता ॥ र्म्_2.199{1} ॥
तस्मान् नित्यं तथैवास्य संबुद्धस्य जगत्प्रभोः ।
महत्सत्कारपूजाभिः कर्त्तव्यं भजनं सदा ॥ र्म्_2.200{2} ॥
एवं यदि सदा चास्य संबुद्धस्य जगत्प्रभोः ।
पूजाभिः सत्करिष्यन्ति सदात्र मंगलं भवेत् ॥ र्म्_2.201{3} ॥
तस्माद् अस्य मुनीन्द्रस्य नखकेशविदर्भितः ।
गन्धस्तूपः प्रतिस्थाप्य सेवितव्यः सदार्चनैः ॥ र्म्_2.202{4} ॥
इति संभाष्य राजासौ तैस् तथेत्य् अनुमोदितैः ।
सह बौद्धाश्रमं गत्वा नत्वा तं प्रार्थयन् मुनिं ॥ र्म्_2.203{5} ॥
नमस् ते भगवं छास्तर् वयं ते शरणस्थिताः ।
सदा चैवं करिष्यामो भवत्सेवाम् उपास्थिताः ॥ र्म्_2.204{6} ॥
तत् प्रसीद सदा पात्र विहृत्य धर्मम् आदिशन् ।
विजयस्व न चान्यत्र मा व्रज नो ऽनुकंपया ॥ र्म्_2.205{7} ॥
तेनैवं प्रार्थिते राज्ञा भगवांश् च स चंदनः ।
तं नृपं सजनं दृष्ट्वा प्रसन्नास्यो ऽब्रवीत् तथा ॥ र्म्_2.206{8} ॥
नैव राजन् मया बोधिर् एकस्यार्थे प्रसाधिता ।
अपि च सर्वसत्वानां हितार्थे ह्य् अनुकंपिना ॥ र्म्_2.207{9} ॥
तस्माद् अत्र सदा नैव स्थास्याम्य् अहं ससांघिकः ।
सर्वत्रापि चरेयाहं सद्धर्मं संप्रकाशितुं ॥ र्म्_2.208{10} ॥
यदि मे श्रद्धया नित्यं सेवां कर्तुं समिछथ ।
केशस्तूपं प्रतिस्थाप्य सेव्यत सर्वदार्चनैः ॥ र्म्_2.209{11} ॥
ततस् ते ऽत्र सदा राज्ये सुभिक्षं मंगलं भवेत् ।
दुर्भिक्षता च कुत्रापि नाक्रमिष्यति कदा चन ॥ र्म्_2.210{12} ॥
इति मत्वा त्वया गत्वा त्रिरत्नशरणं स्वयं ।
सर्वसत्वाश् च सद्धर्मे प्रेरणीयाः प्रयत्नतः ॥ र्म्_2.211{13} ॥
इत्य् आदिश्य मुनींद्रो ऽसौ छित्वा स्वान् नखरांस् तथा ।
केशांश् चाप्य् अवतार्य्यैवं तस्मै राज्ञे स्वयं ददौ ॥ र्म्_2.212{14} ॥
ततो राजा स तं बुद्धं नत्वा केशां नखांश् च तान् ।
समादाय प्रहर्षेण प्रत्याययौ स्वम् आलयं ॥ र्म्_2.213{15} ॥
तत्र प्राप्तः पुरे मध्ये पुष्करिण्यास् तटान्तिके ।
तत् केशनखरान् रोप्य गंधस्तूपम् अकारयत् ॥ र्म्_2.214{16} ॥
तस्मिं सिद्धे प्रतिस्थाप्य विधिना च महोत्सवैः ।
नित्यं सत्कारपूजाभिः सेवां चक्रे प्रसन्नधीः ॥ र्म्_2.215{17} ॥
एतत् पुण्यानुभावेन लोके ऽंधे ऽपरिणायके ।
जगल्लोके हितं कर्तुं भवेयं सुगतस् तथा ॥ र्म्_2.216{18} ॥
इति धृत्वा प्रचित्ते ऽसौ प्रणिधानं नराधिपः ।
गंधजलैश् च तं स्तूपं स्नापयित्वा सदार्चयत् ॥ र्म्_2.217{19} ॥
प्रतिस्थाप्य महं चापि गत्वा च शरणे मुदा ।
अष्टांगैश् च प्रणत्वैवं महोत्साहैर् असेवयत् ॥ र्म्_2.218{20} ॥
तथा सर्वे जनाश् चापि श्रद्धया तं प्रभेजिरे ।
ये गताः शरणं तत्र ते सर्वे निर्वृतिं ययुः ॥ र्म्_2.219{21} ॥
अहम् एवावसिष्टः स तेषां यो ऽभून् नराधिपः ।
संबोधिप्रणिधिं धृत्वा नैवं निर्वाणम् आययौ ॥ र्म्_2.220{22} ॥
एतत् पुण्यानुभावैश् च सुवृष्टिः संप्रचारिता ।
सर्वदाप्य् अभवत् तत्र सुभिक्षं निरुपद्रवं ॥ र्म्_2.221{23} ॥
एतद् धर्मानुभावैश् च सर्वत्र सांप्रतं लभे ।
पूजासत्कारमान्यानि यशोधर्मसुखानि च ॥ र्म्_2.222{24} ॥
यत्र यत्र प्रगछामि तत्र तत्र समंततः ।
इत्थं सत्कारपूजाभिर् मानितो ऽहं ससांघिकः ॥ र्म्_2.223{25} ॥
तच् छास्तारं समाराध्य यशोधर्मसुखेप्सुभिः ।
शुभेषु सर्वदा नित्यं चरितव्यं प्रयत्नतः ॥ र्म्_2.224{26} ॥
शुभेन सुखता नित्यं भवेल् लोके समंततः ।
पापेन दुःखता चैवं मिश्रितेनापि मिश्रिता ॥ र्म्_2.225{27} ॥
तस्मात् पापं विरम्यैवं मिश्रितानि विहाय च ।
शुभेष्व् एव प्रयत्नेन चरितव्यं सुखार्थिभिः ॥ र्म्_2.226{28} ॥
इत्य् आदिष्टं मुनीन्द्रेण सर्वे ते सांघिकास् तथा ।
श्रुत्वा प्रमेनिरे सत्यं कर्मभावं भवालये ॥ र्म्_2.227{29} ॥
पापेभ्यो विरता नित्यं मिश्रितेभ्यो ऽपि ते सदा ।
सदा शुभेषु निरताः सर्वे संचेरिरे समाहिताः ॥ र्म्_2.228{30} ॥
एवं राजंस् त्वया नित्यं पापाच् च मिश्रिताद् अपि ।
विरम्य सर्वथा धर्मे चरितव्यं सुखाप्तये ॥ र्म्_2.229{31} ॥
प्रजाश् चापि विनिर्वार्य्य सर्वथा पापचारणात् ।
श्रावयित्वा च सद्धर्मं योजनीयाः शुभे सदा ॥ र्म्_2.230{32} ॥
तथा ते सर्वदा नित्यं सर्वत्र विषयेष्व् अपि ।
सुवृष्टिः प्रचरेच् चैवं मंगलं निरुपद्रवं ॥ र्म्_2.231{23!} ॥
इति तेन समादिष्टं उपगुप्तेन शासिना ।
श्रुत्वाशोको नृपो ऽस्त्व् एवम् इत्य् अनन्दत् सपार्षदः ॥ र्म्_2.232{24} ॥
स्नातावदानं तद् इदं निशम्य ये श्रावयन्ति प्रतिबोध्य लोकान् ।
ते पापनिर्मुक्तविशुद्धदेहाः प्रयान्ति नूनं सुगतालयेषु ॥ र्म्_2.233{25} ॥
++ इति रत्नावदानमालायां स्नातावदानं समाप्तम् ++
इइइ चक्रावदान
अथाशोको नरेन्द्रो ऽसौ भूयो नत्वा कृतांजलिः ।
उपगुप्तं गुरुं प्राह श्रोतुम् अन्यत् सुभाषितं ॥ र्म्_3.1{1} ॥
भदन्त श्रोतुम् इछामि भूयो ऽप्य् अन्यत् सुभाषितं ।
यथा ते गुरुणा ख्यातं तथा मे वक्तुम् अर्हसि ॥ र्म्_3.2{2} ॥
इति तेनार्थिते राज्ञा भूयो ऽप्य् असौ जिनांशजः ।
उपगुप्तो यतिर् भिक्षुस् तं नृपम् एवं अब्रवीत् ॥ र्म्_3.3{3} ॥
यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते सुभाषितं ।
साधु चित्तं समाधाय शृणु राजन् समाहितः ॥ र्म्_3.4{4} ॥
यः पुरासीन् महाबुद्धः सर्वज्ञः श्रीघनो जिनः ।
सर्वविद्याकलाभिज्ञो धर्मराजस् तथागतः ॥ र्म्_3.5{5} ॥
शास्तार्हन् सुगतो नाथस् त्रैधातुकविनायकः ।
स शाक्याधिपतिर् लोके हिताय च समंततः ॥ र्म्_3.6{6} ॥
सद्धर्मदेशनां कृत्वा बोधिमार्गं प्रकाशयन् ।
भिक्षुश्रावकसंघैश् च बोधिसत्वैश् च सांघिकैः ॥ र्म्_3.7{7} ॥
उपासिकागणैश् चैवम् उपासकगणं सह ।
राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे ॥ र्म्_3.8{8} ॥
कलंदके निवापाख्ये महोद्याने समाश्रितः ।
आदिमध्यांतकत्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_3.9{9} ॥
तद् धर्मदेशनां श्रोतुं देवासुरमनुष्यकाः ।
यक्षकिन्नरगंधर्वाः सिद्धविद्याधरादयः ॥ र्म्_3.10{10} ॥
गरुडा नागराजाश् च महाहर्षसमन्विताः ।
ब्राह्मणा क्षत्रियाश् चैव राजानो राजपुत्रकाः ॥ र्म्_3.11{11} ॥
वैश्याश् च श्रेष्ठिनः शूद्रा मंत्रिणो मातृकाजनाः ।
सार्थवाहाश् च पौराश् च धनिनश् च वणिग्जनाः ॥ र्म्_3.12{12} ॥
एवम् अन्ये ऽपि लोकाश् च सर्वे ते संप्रहर्षिताः ।
महत्सत्कारपूजाभिः सर्वोपकरणैस् तथा ॥ र्म्_3.13{13} ॥
पूजयित्वा प्रवंदित्वा संबुद्धं सुगतं मुनिं ।
परिवृत्य पुरस्कृत्य तस्थौ सर्वान्य तस्थिरे ॥ र्म्_3.14{14} ॥
सद्धर्मवांछिताः सर्वे श्रोतुं तत्र समागताः ॥ र्म्_3.15{15} ॥
तस्मिंश् च समये पूर्य्यां श्रावस्त्यां सुभगो वणिक् ।
अन्यत्तमः सार्थवाह आसीन् महाधनः सुधीः ॥ र्म्_3.16{16} ॥
तेन भार्य्या सुभद्रांगी जातिधर्मसमानिका ।
परिणीता कुलस्थित्यै कुलधर्मानुसारतः ॥ र्म्_3.17{17} ॥
ततस् तौ दंपती रक्तौ स्नेहानुबन्धितौ मुदा ।
यथाकामं प्रभुंजानौ सन्रमाते यथेछया ॥ र्म्_3.18{18} ॥
ततस् तस्य गृहस्थस्य भोग्येष्व् एवाभिरागिणः ।
स्वकुलवृत्तिधर्मेषु प्रमादाद् अनपेक्षिणः ॥ र्म्_3.19{19} ॥
व्यवहारे विरक्तस्य प्रोद्यमरहितस्य च ।
अर्जनोपायमंदस्य केवलं व्ययकुर्वतः ॥ र्म्_3.20{20} ॥
दिने दिने क्रंआन् नित्यं अतिव्ययान् निरागमत् ।
संपदः क्षीणतां याता ग्रिष्मकाल इव ह्रदाः ॥ र्म्_3.21{21} ॥
ततस् तस्य गृहस्थस्य भार्या या कुलधर्मिका ।
संपदः क्षीनतां दृष्ट्वा गृहे चैवं व्यचिन्तयत् ॥ र्म्_3.22{22} ॥
अयं मे पुरुषो भर्त्ता सार्थवाहो वणिक् धनी ।
भाग्यम् एव गृहे भुक्त्वा निवसति निरुद्यमः ॥ र्म्_3.23{23} ॥
अत्यर्थव्ययता यत्र विद्यते न तथागमः ।
सा च संपत् कियत् कालं तिष्ठेत् क्षीणं व्रजेत् क्रमात् ॥ र्म्_3.24{24} ॥
तद् अयं पुरुषश् चापि कथं सुस्थो भविष्यति ।
केन संधार्य्यते लोकैर् विहीने भोग्यसंचये ॥ र्म्_3.25{25} ॥
वृद्धो ऽप्य् अयं भवेन् नूनं दरिद्रो ऽपि भवेत् तथा ।
तदा किं परिभुक्त्वैवं गृहे तिस्थेत् कथं सुखी ॥ र्म्_3.26{26} ॥
यस्य संपद् गृहे नास्ति कथं स पुरुषः सुखी ।
स्वयं भोक्तुं न शक्तः स्यात् किं पुनर् दानम् आचरेत् ॥ र्म्_3.27{27} ॥
दानं विना न संसारे किं सारसुखम् आप्स्यते ।
दानेनैव हि लभ्यन्ते यशोधर्मसुखानि च ॥ र्म्_3.28{28} ॥
दानेन शुद्ध्यते चित्तं शुद्धचित्तो भवेत् सुधिः ।
सुधिया साध्यते शीलं शीलवान् स्याच् छुभंकरी ॥ र्म्_3.29{29} ॥
शुभकर्मा च सद्धर्मं कृत्वा यास्यति सद्गतिं ।
तस्माद् अहम् इमं नाथं भर्त्तारं पुरुषं प्रभुं ॥ र्म्_3.30{30} ॥
सद्धर्मसुखसंप्राप्त्यै प्रेरयेयं धनार्जने ।
धनवान् पुरुषो लोके सर्वार्थसाधने कृती ॥ र्म्_3.31{31} ॥
धर्मार्थकाममोक्षाणां मूलं प्राहुर् धनं बुधाः ।
भर्तुर् हि पुरुषस्यापि त्रिवर्गकार्य्यसाधने ॥ र्म्_3.32{32} ॥
सहायः कथ्यते प्राज्ञैः सती भार्य्यानुचारिणी ।
अस्य भर्तुर् ह्य् अहं भर्य्या सती धर्मार्थसाधने ॥ र्म्_3.33{33} ॥
मनः प्रोत्साहितं कृत्वा प्रेरयेयं धनार्जने ॥ र्म्_3.34{34!} ॥
इति निश्चित्य सा साध्वी दृष्ट्वा भर्त्तारम् आदरात् ।
धर्मार्थसाधने चैवं प्रोत्साहयितुम् अब्रवीत् ॥ र्म्_3.35{34!} ॥
स्वामि भर्त्तासि मे नाथो देवतापि त्वम् एव हि ।
तन् मया वक्ष्यते तथ्यं परत्रेह सुखाय ते ॥ र्म्_3.36{35} ॥
तथ्यं च तच्छृणुष्वैवम् अन्यथा चेत् तु मा कुरु ॥ र्म्_3.37{36} ॥
यद् भवान् पुरुसः प्राढ्यः सार्थवाहो वणिक् प्रभुः ।
सदा भोग्यानि भुक्त्वैव स्थित्वा नैवं प्रशोभति ॥ र्म्_3.38{37} ॥
तत् प्रमादं परित्यक्त्वा यशोधर्मसुखाप्तये ।
सत्यधर्मानुसारेण कुरुष्व धनसाधनं ॥ र्म्_3.39{38} ॥
धनेन साधयेद् भोग्यं भोग्येन पालयेत् तनुं ।
देहेन साधयेद् धर्मं धर्मेण सत्सुखं लभेत् ॥ र्म्_3.40{39} ॥
किं च यत्र गृहे स्वामी व्यवहारनिरुद्यमः ।
तत्र सर्वे जनाश् चापि निषत्स्यंत्य् अवसादिनः ॥ र्म्_3.41{40} ॥
अपि यत्र गृहे स्वामी व्यवहारसमुद्यतः ।
तत्र सर्वे जनाश् चैव प्रचरेयुः समुद्यमाः ॥ र्म्_3.42{41} ॥
यच् च दानमहोत्साहं यत्र गेहे न विद्यते ।
स किं गेहो न रम्यः स्याच् छून्यारण्ये श्मशानवत् ॥ र्म्_3.43{41!} ॥
यस्मिन् गृहे सदा नित्यं दानपुण्यमहोत्सवं ।
स एव मन्दिरो रम्यस्वर्गवत् प्रतिभास्यते ॥ र्म्_3.44{42} ॥
यस्मिंश् चापि गृहस्थो हि दानपुण्यनिरुत्सहः ।
स्वयम् एव प्रभुक्त्वैवं वसते पशुवत् स किं ॥ र्म्_3.45{43} ॥
धन्यास् ते पुरुषा वीरा यशोधर्मसुखान्विताः ।
कृत्वा दानवृषोत्साहं सुखं भुक्त्वा वसंति ये ॥ र्म्_3.46{44} ॥
तेषाम् एव हि संसारे सुसारं जीवितं खलु ।
ये कृत्वा दानपुण्यानि स्वयं सौख्यं च भुंजते ॥ र्म्_3.47{45} ॥
दानेनैव हि लोभ्यंते यशोधर्मसुखानि च ।
अन्यथा नैव लप्स्यन्ते ततः संपन् निरर्थिता ॥ र्म्_3.48{46} ॥
कियत् कालं च जीवेयुर् ये भुक्त्वैव सुखं स्थिताः ।
अवश्यं सर्वशो हित्वा मृता यायुर् यमालयं ॥ र्म्_3.49{47} ॥
तत्र कर्मसहायांस् तान् दृष्ट्वा धर्माधिपो यमः ।
निर्णयित्वा च तत् कर्म प्रेरयेत् कर्मभुक्तये ॥ र्म्_3.50{48} ॥
ये च पापकरा दुष्टा प्रेरयेत् तान् तु दुर्गतौ ।
ये तु पुण्यकरा भद्राः प्रेरयेत् तांश् च सद्गतौ ॥ र्म्_3.51{49} ॥
तत्र कर्मफलान्य् एवं दुःखानि च ।
सुखानि च सर्वथेह परत्रापि भुंजते सर्वजांतवः ॥ र्म्_3.52{50} ॥
शुभेन सद्गतिं ययाद् यशोधर्मसुखान्विताः ।
पापेन दुर्गतिं यायाद् धिक्प्रवादासुखान्विताः ॥ र्म्_3.53{51} ॥
एवं मत्वा प्रभो स्वामिन् यशोधर्मसुखाप्तये ।
स्वकुलवृत्तिम् आधाय प्रोद्यमस्व धनार्जने ॥ र्म्_3.54{52} ॥
सदा दानमहोत्साहं कृत्वा सद्गतिलब्धये ।
यथेछया सुखं भुक्त्वा पालयस्व सदा जनान् ॥ र्म्_3.55{53} ॥
ततस् ते मंगलं नित्यं भवेद् इह परत्र च ।
सफलं मानुषं जन्म नूनं सद्गतिम् आप्नुयात् ॥ र्म्_3.56{54} ॥
इति भार्यावचः श्रुत्वा स गृहस्थो वणिक् सुधीः ।
भार्यां तां वल्लभां कान्तां दृष्ट्वा चैवं समब्रवीत् ॥ र्म्_3.57{55} ॥
अयि प्रिये सुभद्रासि मम भार्यानुचारिणी ।
यत् त्वया भाषितं सत्यं तत् करिष्यामि सर्वथा ॥ र्म्_3.58{56} ॥
किं तु त्वं मे प्रिया भार्या वल्लभातिमनोहरा ।
तत् कथं त्वां प्रियां त्यक्त्वा कुत्र यास्ये धनार्थतः ॥ र्म्_3.59{57} ॥
सार्थवाहो ह्य् अहं चापि तत् कथं नीचवृत्तिभिः ।
रत्नार्जनं करिष्यामि ततो रत्नाकरं व्रजे ॥ र्म्_3.60{58} ॥
तस्मात् प्रिये सुभद्रांगी सति धर्मानुचारिणी ।
गृहकार्य्यं समाधार्य्य वस भुक्त्वा यथासुखं ॥ र्म्_3.61{59} ॥
यावन् नाहं गृहे प्राप्तस् तावद् धैर्य्यं समाश्रय ।
शीघ्रम् एवागमिष्यामि मं स्मृत्वा मान्वतप्यथाः ॥ र्म्_3.62{60} ॥
इति भर्त्तोदितं श्रुत्वा सा च भार्यानुतापिता ।
गलदश्रुमुखी नत्वा स्वामिनं तम् अभाषत ॥ र्म्_3.63{61} ॥
हे नाथ सुप्रिय स्वामिन् मां विहाय कथं व्रजेः ।
त्वया विना कथं गेहे तिष्ठेयाहं यथा वने ॥ र्म्_3.64{62} ॥
दर्शने श्रवणे वापि गंधतैलानुलेपने ।
स्पर्शने भोजने पाने सुवस्त्रपरिभूषणे ॥ र्म्_3.65{63} ॥
सौरभ्या ऽङ्गने चापि भाषने गमने क्वचित् ।
निद्राभोगे तथा नैव विद्येत मे ऽभिलाषता ॥ र्म्_3.66{64} ॥
तवैव स्मरणं कृत्वा निःश्वसन्ती मुहुर् मुहुः ।
विरहानलसंतप्ता व्रजेयं मरणं ध्रुवं ॥ र्म्_3.67{65} ॥
मृतायां मयि ते गेहे को ऽनुरक्षेन् नु संपदः ।
श्रुत्वा मे मरणं नूनं धक्ष्यसे विरहानलैः ॥ र्म्_3.68{66} ॥
तदैताभिश् च संपत्तिरत्नैश् च किं करिष्यसि ।
अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्यति ॥ र्म्_3.69{67} ॥
तदात्मना विखिद्यैवं दूरं मा गा विहायतां ।
गृहे स्थित्वा मया सार्द्धां सुखं भुक्त्वोद्यमं कुरु ॥ र्म्_3.70{68} ॥
अत्रापि बहवः सन्ति वणिक्संघा महाजनाः ।
पण्यं प्रसार्य्य तं सार्द्धं साधयस्व धनं सुखं ॥ र्म्_3.71{69} ॥
कियत् कालं च जीवेव सन्ततिश् च न विद्यते ।
तत् किं नौ बहुभी रत्नैर् मा गा रत्नाकरं ह्य् अतः ॥ र्म्_3.72{70} ॥
यावज्जीवं सुखं भुक्त्वा दानं कृत्वा सदार्थिने ।
संवृत्या प्रार्जय द्रव्यं स्वगेहे संस्थितो रम ॥ र्म्_3.73{71} ॥
मा धाव प्रिय कुत्रापि किं वा रत्नाकरे लभेत् ।
स्वगृहे ऽपि लभेज् जन्तुः स्वकर्मनिर्मितं धनं ॥ र्म्_3.74{72} ॥
स्वकृतं कर्म तद् भावि निर्माणसदृशं फलं ।
सर्वत्रापि लभन्त्य् एव महान्तः क्षुद्रिका अपि ॥ र्म्_3.75{73} ॥
तथा ये सुजना लोके सधना सद्गुणाश्रयाः ।
ते ऽपि क्षणाद् भवन्त्य् एव निर्धना भिक्षुताश्रिताः ॥ र्म्_3.76{74} ॥
ये चापि दुर्जना लोके निर्धना निर्गुणाश् च ये ।
ते ऽपि लभन्ति मान्यार्हं सेव्यन्ते चापि सज्जनैः ॥ र्म्_3.77{75} ॥
तथा ये वणिजो धीराः सार्थवाहा मणीछया ।
रत्नाकरं गतास् तेषां के चित् स्वस्तिसमागताः ॥ र्म्_3.78{76} ॥
के चित् तत्र समुद्रे वा भग्ननौका धनैः सह ।
पतिताः सन्निमज्जन्ता मृताश् च विलयं गताः ॥ र्म्_3.79{77} ॥
के चिद् वीर्यबलेनैवैः समुत्तीर्य प्रयत्नतः ।
अकिंचन्याः परिभ्रष्टा रिक्तहस्ता गृहागताः ।
एवं सर्वे ऽपि सत्वाश् च स्वकृतकर्मनिर्मितं ।
फलं भुक्त्वा भ्रमन्त्य् एवं संसारे षड्गतिष्व् अपि ॥ र्म्_3.80{78} ॥
इति कर्मप्रमाणत्वं ज्ञात्वा संपद्विपत्तिता ।
मा खेदय स्वम् आत्मानं धर्मं कृत्वा सुखं वस ॥ र्म्_3.81{79} ॥
तथा नौ मंगलं नित्यं सर्वत्रापि भवेत् खलु ।
यावज्जीवं सुखं भुक्त्वा सद्गतिं च व्रजेमहि ॥ र्म्_3.82{80} ॥
इति भार्योदितं श्रुत्वा सार्थवाहात्मजः स च ।
तं प्रियां रमणीं भार्य्यां दृष्ट्वैवं समभाषत ॥ र्म्_3.83{81} ॥
भद्रे सत्यं त्वं या प्रोक्तं यत् स्वकर्मप्रमानता ।
इति मत्वाहम् इछामि गन्तुं रत्नाकरे ऽपि हि ॥ र्म्_3.84{82} ॥
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
सर्वत्रापि भवेन् नूनं तेनाब्धिं गन्तुम् ईह्यते ॥ र्म्_3.85{83} ॥
यदि भाग्यं ममास्त्य् एवं स्वस्ति स्याद् गमने खलु ।
रत्नानि बहुशो लब्धा प्रत्यागछेय सिद्धिताः ॥ र्म्_3.86{84} ॥
अथ मे भाग्यता नैव नूनं तत्र विपत्तिता ।
महत्तीर्थे निमग्नो ऽहं मृतो यास्ये सुरालयं ॥ र्म्_3.87{85} ॥
यथा भट्टा महावीरा यशोधर्मसुखाप्तये ।
शत्रुं जेतुं महोत्साहैर् विशन्ति रणमण्डले ॥ र्म्_3.88{86} ॥
तत्र के चिद् धता वीरा यशोधर्मान्विता मृताः ।
सहसा ते प्रयान्त्य् एवं स्वर्गसौख्यानुभोगिनः ॥ र्म्_3.89{87} ॥
अहम् अपि वणिक्पुत्रः सार्थवाहात्मजो ह्य् अहं ।
तत् तथाहं गंइष्यामि रत्नाकरं न चान्यतः ॥ र्म्_3.90{88} ॥
यदि स्वस्ति गृहं प्राप्स्ये यशोरत्नसुखान्वितः ।
मृतो ऽथ निर्मलीभूत्वा स्वर्गे सौख्यम् अवाप्नुयां ॥ र्म्_3.91{89} ॥
इति मत्वा प्रिये भद्रे मा विषीद सुखां वस ।
यावन् नाहं गृहं प्राप्तस् तावद् भजेष्टदेवतां ॥ र्म्_3.92{90} ॥
सर्वथाहं गमिष्यामि स्वकुलकीर्तिलब्धये ।
अनिवर्त्ती ह्य् अहं कार्य्ये तन् मां त्वं मा निवारय ॥ र्म्_3.93{91} ॥
इति भर्त्तुर् वचः श्रुत्वा निर्बन्धं गमनं प्रति ।
सा सती तं स्वभर्त्तारं नत्वा प्राह कृतांजलिः ॥ र्म्_3.94{92} ॥
स्वामिंस् त्वं सर्वथा गन्तुं यदीछसि महाम्बुधिं ।
धैर्य्यम् आलम्व्य संपश्यन् मार्गे व्रज समाहितः ॥ र्म्_3.95{93} ॥
स्वस्ति ते व्रजतो मार्गे सर्वत्रापि दिवानिशं ।
स्वस्ति प्रत्यागते चैवं भूयान् नित्यं शुभं सदा ॥ र्म्_3.96{94} ॥
यात्रासिद्धिमहासंपद्यशोधर्मसुखान्वितः ।
स्वस्ति शीघ्रं समागछ व्रजा ते ऽस्तु सदा शिवं ॥ र्म्_3.97{95} ॥
इति भार्योदितं श्रुत्वा सार्थवाहस् तथेति सः ।
प्रतिज्ञाय वंक्संघान् सर्वान् आहूय चाब्रवीत् ॥ र्म्_3.98{96} ॥
भवन्तो ऽहं समिछामि योशोधर्मसुखाप्तये ।
स्वकुलवृत्तिम् आधाय गन्तुं रत्नाकरांबुधौ ॥ र्म्_3.99{97} ॥
तत्र गन्तुं मया सार्द्धं यदि यूयं समिछथ ।
तत् पण्यं सहसादाय समायात चरेमहि ॥ र्म्_3.100{98} ॥
इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ।
सहसा पण्यम् आदाय तत्र गन्तुम् उपाक्रमन् ॥ र्म्_3.101{99} ॥
अथ सार्थपतिः शीघ्रं तैश् च पंचशतैः सह ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ र्म्_3.102{100} ॥
ततः क्रमाद् अतिक्रम्य ग्रामजनपदानि ते ।
विलंघ्यारण्यदेशांश् च तीरं प्रापुर् महोदधेः ॥ र्म्_3.103{1} ॥
ततो नावं समारुह्य तानि पंचशतानि च ।
प्रवितत्य ध्वजं शुभ्रं जगाहिरे ऽम्बुधौ क्रमात् ॥ र्म्_3.104{2} ॥
तथा ते वहनारूढा वातानुकूलतो ध्रुवं ।
क्रमाद् द्वीपांश् च लंघित्वा रत्नाकरं समाययुः ॥ र्म्_3.105{3} ॥
तत्र रत्नाकरं प्राप्ता देवता सुप्रमोदतः ।
ते मिथः कलहं कृत्वा प्रत्यागंतुं न शेकिरे ॥ र्म्_3.106{4} ॥
चिरम् एवं विरोधित्वाद् रत्नानि च न लेभिरे ।
बांधवांश् च मुहुः स्मृत्वा तस्थुः सर्वे विलंविताः ॥ र्म्_3.107{5} ॥
अत्रांतरे च सा नारी सार्थवाहप्रिया सती ।
भर्त्त्रा विना गृहं शून्यम् अमन्यत निरुत्सवात् ॥ र्म्_3.108{6} ॥
यद् दिने प्रस्थितो भर्ता सार्थवाहः पुराद् वहिः ।
तद् दिनारभ्य सा नारी गणयन्ती दिनं प्रति ॥ र्म्_3.109{7} ॥
भर्त्तुर् एव मुहुः स्मृत्वा विरहवेदनातुरा ।
निःश्वसन्ती मुहुश् चैवम् अधैर्य्या परितापिनी ॥ र्म्_3.110{8} ॥
कृशाङ्गा पाण्डुवर्णा च विरुक्षाकीर्णकेशिनी ।
प्रसाधनानभीछन्ती मलिनवसनावृता ॥ र्म्_3.111{9} ॥
दर्शनश्रवणे चापि गंधान्वाहरणे ऽपि च ।
भोजनेष्व् अपि पाने च स्पर्शने गमनेष्व् अपि ॥ र्म्_3.112{10} ॥
कुतूहरे तथान्यत्र मनोरमे ऽपि चाद्भुते ।
सर्वत्र विषयेष्व् एवं न प्रोत्सहे यथातुरा ॥ र्म्_3.113{11} ॥
भर्त्तुर् वियोगदुःखार्त्ता रोगिनीव विषादिनी ।
असह्यमदनाक्रान्ता धैर्य्योपायविचेतना ॥ र्म्_3.114{12} ॥
भर्तुर् आगतिम् आलम्ब्य क्षणं धैर्य्यसमाश्रिता ।
भर्तारम् एव संस्मृत्वा गृह एव न्यषीदत ॥ र्म्_3.115{13} ॥
न निद्रां शयने भेजे नान्यस्मृतौ मनो ऽनुदत् ।
प्रभुम् एवं समाध्यात्वा तस्थौ ध्यायीव योगवित् ॥ र्म्_3.116{14} ॥
अथैवं विकलीभूतां यौवनीं तां पतिव्रतां ।
काचिद् एका सखी भद्रा संनिरीक्ष्याब्रवीद् रहः ॥ र्म्_3.117{15} ॥
भद्रे किन् ते विषाद त्वं विभासि त्वैः यथातुरा ।
मा विषीद यद् अर्थन् ते तद् वदस्व मयि प्रिये ॥ र्म्_3.118{16} ॥
कथं नोत्सहसे भद्रे स्वकुलधर्मचारिणि ।
कौतुके चाद्भुते चापि सर्वत्र विषयेष्व् अपि ॥ र्म्_3.119{17} ॥
भोजने भूषणे चापि द्रष्टुं श्रोतुं न वांछसि ।
किं विषादेन सिद्धं ते तत् प्रभुक्ष्व यथासुखं ॥ र्म्_3.120{18} ॥
इति तयोदिते सख्या सार्थवाहप्रियापि स ।
तां सखीं प्रमदां कान्तां दृष्ट्वा चैवम् अभाषत ॥ र्म्_3.121{19} ॥
नाहं भोगार्थिनी भद्रे नापि कामातिरागिणी ।
किं तु धर्मानुरक्तास्मि तत् कथं स्वामिनं विना ॥ र्म्_3.122{20} ॥
तेनाहं विषयां त्यक्त्वा स्मृत्वा भर्त्तारम् एव तं ।
स्वागार एव तिष्ठामि भोग्येष्व् अपि च निस्पृहा ॥ र्म्_3.123{21} ॥
कदा स मे प्रियो भर्त्ता गृहे प्रत्यासरिष्यति ।
इति चिंतां समाधाय तिष्ठामि योगिनी यथा ॥ र्म्_3.124{22} ॥
यावच् च स प्रियः स्वामी नायाति स्वगृहं प्रति ।
तावद् एवं न भोक्ष्ये ऽहं भोग्यानि सुरसान्य् अपि ॥ र्म्_3.125{23} ॥
विषयेष्व् अपि सर्वेषु न मे वांछा प्रियं विना ।
नान्यच्चिंता च मे चित्ते तस्माद् एवं स्थिता सदा ॥ र्म्_3.126{24} ॥
यावत् स्वामी न मे दृष्टस् तावत् स्थास्याम्य् अहं तथा ।
अपि मे जिवितं यातु न च यायां गृहाद् बहिः ॥ र्म्_3.127{25} ॥
स्त्रीणां हि देवता स्वामी धर्मो ऽपि भर्तृसेवया ।
तस्मात् स्मृत्वैव भर्त्तारं भाजाम्य् अहं पतिव्रता ॥ र्म्_3.128{26} ॥
कुत्र धर्मं चरिष्यामि यस्या नास्ति गृहे पुमान् ।
तत् मनसैव भर्त्तारं ध्यात्वा भजे दिवानिशं ॥ र्म्_3.129{27} ॥
धिग् मे जन्म निरर्थं स्याद् यस्या न यौवने पतिः ।
वृद्धत्वे किं करिष्यामि स्वामिना च धनैर् अपि ॥ र्म्_3.130{28} ॥
वरम् एवाद्य मे मृत्युर् न मिथ्या चिरजीवितं ।
यस्माच् चिरम् अपि स्थित्वा मृत्युदुःखं तद् एव हि ॥ र्म्_3.131{29} ॥
यम् एवालंव्य जीवामि स यदि नागमिष्यति ।
किम् एव जीवितेनापि केवलदुःखभाविना ॥ र्म्_3.132{30} ॥
धन्यास् ता हि स्त्रियो भद्राः स्वस्वामिसहचारिकाः ।
कृत्वा धर्मं सदा गेहे सौख्यं भुक्त्वा वसन्ति याः ॥ र्म्_3.133{31} ॥
मा भूत् तु मादृशि काचिद् अभद्रा दुःखभागिनी ।
सम्यग्भोग्यैश् च किं तस्या यस्या भर्त्ता न यौवने ॥ र्म्_3.134{32} ॥
तथापि किं करिष्यामि नार्य्य् अहं हि पतिव्रता ।
तस्मात् तम् एव भर्त्तारं स्मृत्वा स्थास्यामि सर्वदा ॥ र्म्_3.135{33} ॥
इति तयोदितं श्रुत्वा सा सखी हितकारिणी ।
तदुपायहितं कर्तुं तां सखीं च समब्रवीत् ॥ र्म्_3.136{34} ॥
भद्रे सत्यं त्वया प्रोक्तं स्त्रीणां हि देवता पतिः ।
तथापि वक्ष्यते भद्रे तव प्रीत्या च तच् छृणु ॥ र्म्_3.137{35} ॥
यावन् निवसते गेहे भर्ता कामरसारतः ।
तावत् स्त्री सेवयेन् नित्यं धर्मं भर्तुर् अनुज्ञया ॥ र्म्_3.138{36} ॥
यदा भर्त्ता गृहे न स्याद् दूरदेशं गतस् तथा ।
यावद् गृहं न चायातस् तावद् देवं भजेत् पतिः ॥ र्म्_3.139{37} ॥
पतेस् ते देवतास्माकं विष्णुर् नारायणो हरिः ।
तस्माद् एनं प्रभोर् नाम्ना स्मृत्वा नित्यं भजार्चय ॥ र्म्_3.140{38} ॥
स एव कामदो देवः कामधात्वीश्वराधिपः ।
संसारस्थितिधर्मस्थो रतिभोग्यसुखप्रदः ॥ र्म्_3.141{39} ॥
तस्यैव ह्य् अनुभावेन प्रेर्य्यमानो मनो भुवाः ।
भर्त्ता ते सहसा प्रायात् स्वस्ति रत्नैश् च संयुतः ॥ र्म्_3.142{40} ॥
ततस् ते सफलं जन्म संसारे प्रभुना सह ।
दानं कृत्वा सुखं भुक्त्वा यावज्जीवं सुखं वस ॥ र्म्_3.143{41} ॥
एवं सख्योदितं श्रुत्वा रमणी सा पतिव्रता ।
तथेति प्रतिसंश्रुत्य पुनस् ताम् अवदत् सखीं ॥ र्म्_3.144{42} ॥
सत्यं भद्रे यथा प्रोक्तं त्वया मे हितकारणं ।
तथाहं संभजिष्यामि स्मृत्वा नाम्ना प्रभोर् हरिं ॥ र्म्_3.145{43} ॥
यथा स्वस्ति समायातः स्वामी रत्नसमृद्धिभृत् ।
तदा ह्य् एकं सुवर्णस्य चक्रं दास्यामि विष्णवे ॥ र्म्_3.146{44} ॥
इत्य् एवं सा प्रतिज्ञाय विष्णुम् एवं समस्मरत् ॥ र्म्_3.147{45} ॥
नमस् ते भगवन् विष्णो हरे नारायण प्रभो ।
प्रसीद पश्य मां नारीं प्रभुं च प्रापयाशु मे ॥ र्म्_3.148{46} ॥
यदा मे पुरुषो भर्त्ता स्वस्ति गेहसमागतः ।
तदोपढौकयिष्यामि स्वर्णचक्रं हरे तव ॥ र्म्_3.149{47} ॥
इति सख्याः पुरः प्रोक्त्वा स्मृत्वा नित्यं हरिं मुदा ।
स्वर्णचक्रं च संकल्प्य तस्थौ भर्तुः स्मरन्ति स ॥ र्म्_3.150{48} ॥
तदैव सार्थवाहो ऽसौ सर्वसार्थगणैः सह ।
बहुरत्नानि संगृह्य प्रतस्थे सहसा ततः ॥ र्म्_3.151{49} ॥
ततः स्वस्ति समुत्तीर्य्य महोदधेस् तदागतः ।
सर्वसार्थगणैः सार्द्धं सहसा गृहम् आययौ ॥ र्म्_3.152{50} ॥
ततस् तं गृहसंप्राप्तं दृष्ट्वा सा नंदिता सती ।
पादौ नत्वा पुरः स्थित्वा स्वं प्रवृत्तम् अभाषत ॥ र्म्_3.153{51} ॥
स्वामिन् यदा भवान् गेहात् प्रस्थितो मां विहाय च ।
तदारभ्य सदा स्मृत्वा त्वाम् एवास्मि स्थिता गृहे ॥ र्म्_3.154{52} ॥
तदाहम् अनया सख्या दृष्ट्वा त्वद्विरहातुरा ।
तद् दुःखं मे विनोदार्थं प्रेरिता स्मरणे हरेः ॥ र्म्_3.155{53} ॥
तदारभ्य सदा नित्यं स्मृत्वा तवेष्टदेवतां ।
भजामि सततं भक्त्या तवाशु गमनार्थिनी ॥ र्म्_3.156{54} ॥
चक्रं एकं सुवर्णस्य संकल्प्य श्रद्धया मया ।
प्रार्थनापि कृता नित्यं तव यात्राप्रसिद्धये ॥ र्म्_3.157{55} ॥
यथा मे प्रार्थितं सर्वं तथा सिद्धं हि सांप्रतं ।
तन् मे संकल्पितं देव पूरयेयं तथा प्रभो ॥ र्म्_3.158{56} ॥
तत् पूजांगं समादाय शक्रं समुपढोकितुं ।
देवकुलं गमिष्यामि तद् अनुज्ञां प्रदेहि मे ॥ र्म्_3.159{57} ॥
इति भार्योदितं श्रुत्वा सार्थवाहो ऽनुमोदितः ।
पूरय त्वं प्रिये सत्यं गच्छेत्य् एवम् अभाषत ॥ र्म्_3.160{58} ॥
ततः सानुज्ञया भर्तुः सती सार्द्धं सखीजनैः ।
पूजांगानि च तं चक्रं धृत्वा देवकुलं ययौ ॥ र्म्_3.161{59} ॥
तस्मिं क्षणे स संबुद्धो भगवान् करुणामयः ।
लोके सत्वान् समुद्धर्तुम् अपश्यद् बुद्धचक्षुषा ॥ र्म्_3.162{60} ॥
ताम् एवं प्रस्थितां दृष्ट्वा भद्रां सद्धर्मचारिणीं ।
प्रैक्षच् च भगवान् एनां प्रत्येकबोधिलाभिनीं ॥ र्म्_3.163{61} ॥
ततो ऽसौ भगवान् बुद्धः संनिरीक्ष्य च तां सतीं ।
सर्वान् भिक्षुगणां छिष्यान् समामंत्र्याब्रवीत् तथा ॥ र्म्_3.164{62} ॥
पश्यध्वं भिक्षवो यूयं दारिकं तां सुभद्रिकां ।
नूनं मद्दर्शनाद् एषा बोधिचित्तम् अवाप्नुयात् ॥ र्म्_3.165{63} ॥
सम्यक्कुशलमूलानि समवरोपयिष्यति ।
ध्रुवं प्रत्येकबोधौ च प्रणिधानं करिष्यति ॥ र्म्_3.166{64} ॥
तस्मात् संदर्शनं दत्वा दारिकां तां सुभाविनीं ।
प्रत्येकबोधिचर्यायां सुप्रतिस्थापयाम्य् अहं ॥ र्म्_3.167{65} ॥
तत्र च गन्तुम् इछन्ति ये मया सह भिक्षवः ।
पात्रचीवरम् आदाय ते प्रायातं चरेमहि ॥ र्म्_3.168{66} ॥
इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः ।
पात्रचीवरसंयुक्तास् तत्र गंतुम् उपाचरन् ॥ र्म्_3.169{67} ॥
ततो ऽसौ भगवान् बुद्धः स्वप्रभावं प्रदर्शयन् ।
सर्वैश् च सांघिकैः सार्द्धं राजगृहम् उपासरत् ॥ र्म्_3.170{68} ॥
तत्र मार्गे समायाता दारिका ससखीवृता ।
तं बुद्धं श्रीघनं दूराद् ददर्श संप्रभास्वरं ॥ र्म्_3.171{69} ॥
द्वात्रिंशल्लक्षणोपेतम् अशीतिव्यंजनान्वितं ।
दिव्यातिक्रान्तसौन्दर्य्यं समन्तभद्ररूपकं ॥ र्म्_3.172{70} ॥
सहस्रेणातिरिक्ताभं सौम्यं कान्तं मनोहरं ।
पुण्डरीकम् इवोद्भासं रत्नाङ्गम् इव जंगमं ॥ र्म्_3.173{71} ॥
साक्षात् पुण्यावतारं च दृष्ट्वा चात्यनुमोदिता ।
सहसोपेत्य तच् चक्रम् उपढौकितुम् ऐछत ॥ र्म्_3.174{72} ॥
एवं तां चक्रम् आदाय संबुद्धम् उपढौकितुं ।
प्रयातं तां सखी दृष्ट्वा निवारयितुम् अब्रवीत् ॥ र्म्_3.175{73} ॥
नायं नारायणो भद्रे सुगतो ऽयं जितेन्द्रियः ।
तद् अस्मै मा प्रदेहीदं चक्रं संकल्पितं हरेः ॥ र्म्_3.176{74} ॥
एवं निवार्य्यमानापि सखीभिः सा च भद्रिका ।
सद्धर्मगुणवांछन्ती ताः सखीः पुनर् अब्रवीत् ॥ र्म्_3.177{175} ॥
सख्यो भाग्यान् मयाप्य् एवं संबुद्धो दृश्यते ऽधुना ।
तद् अद्य सफलं जन्म संसारे जीवितं च मे ॥ र्म्_3.178{76} ॥
यदाभास्पर्शिता चापि सत्वाः क्लेशविमोचिताः ।
संवृत्तिसुखसंप्राप्ता निर्वृत्तिम् अपि चाप्नुयुः ॥ र्म्_3.179{77} ॥
यन्नामोच्चारणाद् वापि संभाव्यस्मरणाद् अपि ।
मारपाशविनिर्मुक्ताः संबोधिपदम् आप्नुयुः ॥ र्म्_3.180{78} ॥
यद्धर्मश्रवणाद् एवं नित्यानुमोदनाद् अपि ।
सर्वपापविनिर्मुक्ताः सद्गतिं समवाप्नुयुः ॥ र्म्_3.181{79} ॥
यत्संघेषु सुपात्रेषु किंचिन्मात्रार्प्पनाद् अपि ।
संसारे ऽनन्तसौख्यानि भुक्त्वा यायुः सुखावतीं ॥ र्म्_3.182{80} ॥
येनैवं पालिताः सत्वाः षड्गतिचरिता अपि ।
बोधयित्वा च सद्धर्मे स्थापिता निर्वृताव् अपि ॥ र्म्_3.183{81} ॥
यस्य धर्मानुभावाच् च मंगलं भुवनत्रये ।
सर्वे सत्वा सुखाढ्याश् च संबोधिपदचारिणः ॥ र्म्_3.184{82} ॥
सो ऽप्य् अयं भगवान् नाथः शास्ता त्रैलोक्याधिपः ।
नूनं मे पुण्यभाग्येन दृश्यते ऽयत्नतो ऽधुना ॥ र्म्_3.185{83} ॥
तद् अहं कुशलिनी स्यां हि संबुद्धेन दर्शिता ।
महाभाग्यवती चास्मि यद् अयं सद्गुरुः सुधीः ॥ र्म्_3.186{84} ॥
अमृग्यमान एवेत्थं लभ्यते पुरतो मया ।
तद् अहं पूजयित्वेमं चक्रं च समुपढौकितुं ॥ र्म्_3.187{85} ॥
इछाम्य् अस्मै मुनींद्राय निर्वृतिपदलब्धये ।
अपि चात्र सदा नैव संबुद्धो लप्स्यते तथा ॥ र्म्_3.188{86} ॥
कदा चिद् धि जिनोत्पत्तिः पुष्पम् औदुन्वरं यथा ।
मानुष्ये ऽपि सदा नैव जन्म भवानुचारिणां ।
पुण्यैर् एव हि मानुष्यं लप्ष्यते जन्म दुल्लभं ॥ र्म्_3.189{87} ॥
मानुष्ये ऽलभ्यमाने तु कथं बुद्धानुसेवना ।
बुद्धसेवां विना केन बोधिचित्तम् अवाप्नुयात् ॥ र्म्_3.190{88} ॥
बोधिचित्तं विना कस्य सद्धर्मेषु मतिश् चरेत् ।
विना धर्ममतिं को हि बोधिचर्य्यां समाचरेत् ॥ र्म्_3.191{89} ॥
बोधिचर्यां विना लोके हितं कर्तुं कथं चरेत् ।
लोके हितम् अकृत्वैव कुतः पुण्यम् अवाप्नुयात् ॥ र्म्_3.192{90} ॥
अपुण्येन कथं क्लेशान् हित्वा निर्वृतिम् आप्नुयात् ।
तस्मात् क्लेशविमुक्त्यर्थं निर्वृत्तिपदलब्धये ॥ र्म्_3.193{91} ॥
इमं बुद्धं जगन्नाथम् इछाम्य् अभ्यर्चितुं मुदा ।
बुद्ध एव जगन्नाथः सर्वसत्वहितार्थदः ॥ र्म्_3.194{92} ॥
सद्धर्मदेशकः शास्ता संबोधिज्ञाननायकः ।
तस्माद् एनं समुत्सृज्य नान्यम् इछामि चार्चितुं ॥ र्म्_3.195{93} ॥
अस्यैव शरणं गत्वा भजिष्यामि सदाप्य् अहं ॥ र्म्_3.196{94} ॥
इति सा दारिका प्रोक्त्वा चक्रम् आदाय मोदिता ।
संबुद्धं चार्प्पितुं तस्मै पूजां कर्तुम् उपाययौ ॥ र्म्_3.197{95} ॥
अथ सा तं मुनिं नत्वा पूजाभिश् च समर्चयत् ।
तं चक्रं समुपस्थाप्य नत्वैवं प्रणिधिं व्यधात् ॥ र्म्_3.198{96} ॥
यथायं सुगतो बुद्धो निःक्लेशो विजितेन्द्रियः ।
तथाहम् अपि शुद्धात्मा निर्वृतिपदम् आप्नुयां ॥ र्म्_3.199{97} ॥
तथासौ भगवान् बुद्धो दृष्ट्वा तत्प्रणिधिं ततः ।
सुप्रसन्नमुखाम्भोजाद् व्यसृजत् संस्मितामृतं ॥ र्म्_3.200{98} ॥
तत्स्मितसहोच्चार्यमाणा पंचविधांशवः ।
के चिद् ऊर्द्ध्वं गताः के चिद् अधो याताश् च ते ऽंशवः ॥ र्म्_3.201{99} ॥
ये च याता अधोलोके ते संजीवनरके गताः ।
कालसूत्रे च संघाते तथा च रौरवे ततः ॥ र्म्_3.202{100} ॥
महारौरवके चापि तपने च प्रतापने ।
अवीचौ चार्बुदे चापि निरर्बुदे तथाटटे ॥ र्म्_3.203{1} ॥
हहवे हुहुवे चैवम् उत्पले पद्मके तथा ।
महापद्मे ऽपि चैतेषु षोडशेषु समंततः ॥ र्म्_3.204{2} ॥
तथोपनारकेष्व् एवं सर्वेष्व् अपि च ते ऽंशवः ।
प्रसृता भासयित्वैवं प्राकाशयन् समंततः ॥ र्म्_3.205{3} ॥
ये शीतनरकास् तेषु तूष्णीभूता निपातिताः ।
ये उष्णनरकास् तेषु शीतीभूता व्यभासयन् ॥ र्म्_3.206{4} ॥
तेषु ये पापिनः सत्वा दुःखातिवेदनातुराः ।
ते सर्वे तद्द्युतिस्पृष्टास् तद्दुःखवेदनोज्झिताः ॥ र्म्_3.207{5} ॥
शांतसौख्यानुभूताश् च विस्मयोद्धतमानसाः ।
दृष्ट्वैव सह संमील्य मिथश् चैवम् अभाषत ॥ र्म्_3.208{6} ॥
अहो चित्रं भवन्तो ऽद्य किं नु वयम् इतश् च्युताः ।
अन्यत्र चरिताः स्मः किं वताहोस्विन् न मन्यते ॥ र्म्_3.209{7} ॥
इति संदिग्धचित्तानां तेषां चित्तप्रबोधने ।
भगवान् निर्मितं तत्र प्रैषयच् च समंततः ॥ र्म्_3.210{8} ॥
अथ तं निर्मितं सौम्यं दृष्ट्वा ते संप्रसादिताः ।
भूयो दृष्ट्वाभिमोदन्तो मिथश् चैवं वभाषिरे ॥ र्म्_3.211{9} ॥
भवन्तो नु वयं सर्वे नान्यत्र चरिता इतः ।
अपि त्व् अयम् इहायातः सत्वो ह्य् अपूर्वदर्शनः ॥ र्म्_3.212{10} ॥
नूनम् अस्यानुभावेन निर्दुःखा सुसुखा वयं ।
इति ते निर्मिते तस्मिन् बौद्धे चित्तं प्रसाद्य च ॥ र्म्_3.213{11} ॥
नमो बुद्धाय ते तायिन्न् इत्य् उक्त्वा शरणं ययुः ।
ततः सर्वे च ते सत्वास् तद्बुद्धस्मृतिधारिणः ॥ र्म्_3.214{12} ॥
निःपापाः कुशलाध्याश् च सद्गतिं सहसा ययुः ।
ये तथोर्द्धं गतास् ते च बुद्धस्मितोत्सृताः कराः ॥ र्म्_3.215{13} ॥
गत्वा चातुर्महाराजभुवनेषु ततो गताः ।
त्रयस्त्रिंशाश् च यामाश् च तथा च तुषितां गताः ॥ र्म्_3.216{14} ॥
निर्माणरतिकां चान्यनिर्मितवशवर्त्तिनः ।
ब्रह्मकायिकलोकं च तथा ब्रह्मप्रोहितं ॥ र्म्_3.217{15} ॥
महाब्राह्मणलोकांश् च परीत्ताभं तथा गताः ।
अप्रमाणं ततो याता आभास्वरां तथा गताः ॥ र्म्_3.218{16} ॥
परीत्तशुभम् एवं च ह्य् अप्रमाणशुभं तथा ।
शुभकृत्स्नम् अनभ्रं च पुण्यप्रसवसंज्ञिकं ॥ र्म्_3.219{17} ॥
बृहत्फलं तथा चैवम् अबृहम् अतपं तथा ।
सुदृशं भुवनं चैव सुदर्शनं तथा गताः ॥ र्म्_3.220{18} ॥
अकनिष्ठं तथा गत्वा प्रोच्चैर् एवम् अघोषयन् ॥ र्म्_3.221{19} ॥
अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं ।
इति मत्वा त्रिरत्नानि संभजध्वं समाहिताः ॥ र्म्_3.222{20} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्याश् च नडागारं यथा करी ॥ र्म्_3.223{21} ॥
यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरिष्यति ।
स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ र्म्_3.224{22} ॥
एवं ता अर्चिषः सर्वांल् लोकधातून् समंततः ।
अवभास्य शुभे सत्वान् विनीय पुनर् आगताः ॥ र्म्_3.225{23} ॥
भगवतो ऽग्रतः स्थित्वा कृत्वा प्रदक्षिणत्रयं ।
ऊर्णायां च मुनीन्द्रस्य सर्वा अन्तर्दधुस् त्विषः ॥ र्म्_3.226{24} ॥
तदानन्दः समुत्थाय कृतांजलिपुटो नतः ।
जानुभ्यां भुवि संस्थित्वा भगवन्तं समब्रवीत् ॥ र्म्_3.227{25} ॥
नानारङ्गकलापस् ते वक्त्रान् निष्कसितो मुनेः ।
येनावभासिताः सर्वा सूर्येणोदयता यथा ॥ र्म्_3.228{26} ॥
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शंखमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ र्म्_3.229{27} ॥
तत्कालं स्वयम् अधिगम्य धीरबुद्ध्या श्रोतॄणां श्रमणजिनेन्द्र कांक्षितानां ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ र्म्_3.230{28} ॥
नाकस्माल् लवणजलाद्रिराजधैर्य्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति जनौघाः ॥ र्म्_3.231{29} ॥
इत्य् आनंदवचः श्रुत्वा संबुद्धो भगवान् असौ ।
तत् स्मितहेतुम् आदेष्टुं तम् आनन्दं समब्रवीत् ॥ र्म्_3.232{30} ॥
एवम् एतत् तथानन्द नाहेत्वप्रत्ययं स्मितं ।
प्राविष्कुर्वन्ति संबुद्धा अर्हन्तः सुगता जिनाः ॥ र्म्_3.233{31} ॥
पश्यानन्दानया नार्य्या चक्रं मे समुपार्प्पितं ।
पूजयित्वा प्रणत्वा च बोधौ च प्रणिधिः कृता ॥ र्म्_3.234{32} ॥
अनेन दानधर्मेण कुशलैश् च समन्विताः ।
दारिकेयं सुभद्रांशा दिव्यभोग्यं समाप्नुयात् ॥ र्म्_3.235{33} ॥
न पंचदशकल्पानि विनिपातं गमिष्यति ।
ततश् चक्रान्तरो नाम प्रत्येकसुगतो सुधीः ॥ र्म्_3.236{34} ॥
अर्हं क्लेशविमुक्तात्मा पंचाभिज्ञो जितेन्द्रियः ।
सर्वसत्वानुकंपी च ब्रह्मचारी भविष्यति ॥ र्म्_3.237{35} ॥
यन् मयि सुगते बुद्धे चित्तम् अस्याः प्रसीदति ।
तेन पुण्यबलेनेयं प्रत्येकबोधिम् आप्स्यति ॥ र्म्_3.238{36} ॥
सुगतेषु कृतं पुण्यं न क्षिणोति कदा चन ।
क्रमात् तेन विशुद्धात्मा संबोधिम् अपि चाप्नुयात् ॥ र्म्_3.239{37} ॥
इति मत्वा त्रिरत्नेषु चित्तम् एवं प्रसाद्य च ।
श्रद्धया संप्रकर्त्तव्यं सत्कारं बोधिवांछिभिः ॥ र्म्_3.240{38} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे जनाश् च ते ।
तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नसेविनो ऽभवन् ॥ र्म्_3.241{39} ॥
ततो बुद्धानुभावेन तच् चक्रं खे समुद्गतं ।
क्षणं बुद्धोपरि स्थित्वा छत्रम् इवोज्ज्वलन् बभौ ॥ र्म्_3.242{40} ॥
ततश् च वियतो गत्वा हरिहर्म्योपरि स्थितं ।
सुदर्शनम् इवोद्दीप्तं बभौ रस्मिसमुत्किरन् ॥ र्म्_3.243{41} ॥
ततो ऽसौ भगवान् बुद्धो दृष्ट्वा तां दारिकां स्वयं ।
शिरसि पाणिना स्पृष्ट्वा स्वाशीर्वचनम् आदिशत् ॥ र्म्_3.244{42} ॥
भद्रे ते मंगलं भूया विनिपातं न चाप्नुहि ।
क्रमात् पारमिताः पूर्य्य प्रत्येकं बोधिं आप्नुहि ॥ र्म्_3.245{43} ॥
इत्य् आशीर्वचनं दत्वा संबुद्धो ऽसौ मुनीश्वरः ।
ततो राजगृहं गंतुं उपाचरत् ससांघिकः ॥ र्म्_3.246{44} ॥
ततो ऽसौ दारिका चापि नत्वा तं सुगतं पुनः ।
दृष्ट्वैवं मुहुः स्मृत्वा स्वगेहं समुपाययौ ॥ र्म्_3.247{45} ॥
तत्र गेहे प्रविष्ट्वासौ दारिका संप्रमोदिता ।
भर्त्तुर् अग्रे च तद्वृत्तम् आचख्ये सर्वम् आदरात् ॥ र्म्_3.248{46} ॥
भर्त्ताप्य् असौ तथा श्रुत्वा बुद्धधर्मानुमोदितः ।
तयैवं भार्यया सार्द्धं भेजे रत्नत्रयं सदा ॥ र्म्_3.249{47} ॥
एवं मे गुरुणा ख्यातं तथा ते कथ्यते मया ।
त्वम् अप्य् एवं महाराज त्रिरत्नानि सदा भज ॥ र्म्_3.250{48} ॥
प्रजाश् चापि त्रिरत्नानां भजने प्रेरय प्रभो ।
तथा ते मंगलं नित्यं बोधिं चापि समाप्नुयाः ॥ र्म्_3.251{49} ॥
इति तेनोपगुप्तेन भाषितं तत् सुभाषितं ।
श्रुत्वाशोको नरेन्द्रो ऽसौ मुमोद सह पार्षदैः ॥ र्म्_3.252{50} ॥
एतच् चक्रावदानं मुनिवरगुणदं यः शृणोति प्रसाद्य ।
श्रुत्वा यश् चानुमोद्य प्रमुदितमनसा श्रावयत्य् एवम् अन्यान् ।
स जित्वा क्लेशसंघान् विगतकलिमलो बुद्धधर्मानुचारी ।
पूतात्मा सद्गुणाढ्यः मुनिवरनिलयैः संप्रयाति प्रमोदात् ॥ र्म्_3.253{51} ॥
++ इति रत्नावदानमालायं चक्रावदानो नाम समाप्तम् ++
इव् प्रेतिकावदान
अथाशोको महीपालः सद्धर्मचरणोत्सवः ।
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत् ॥ र्म्_4.1{1} ॥
भदन्त श्रोतुम् इछामि पुनरन्यत् सुभाषितं ।
यथा मे गुरुणा प्रोक्तं तथा वक्तुं समर्हसि ॥ र्म्_4.2{2} ॥
इति तेन नरेन्द्रेण प्रार्थिते ऽसौ जिनांशजः ।
उपगुप्तो महाभिज्ञस् तं नरेशम् अभाषत ॥ र्म्_4.3{3} ॥
यथा मे गुरुणादिष्टं तथा वक्ष्यामि ते ऽधुना ।
तथापि श्रूयतां राजन् तव धर्मप्रवृद्धये ॥ र्म्_4.4{4} ॥
पुरैकसमये चासौ संबुद्धो भगवाञ् जिनः ।
चैलकैश् च तथान्यैस् तत्सद्धर्मगुणवांछिभिः ॥ र्म्_4.5{5} ॥
राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे ।
करण्डकनिवापाख्ये तस्थौ धर्मं समादिशत् ॥ र्म्_4.6{6} ॥
तद् धर्म्मदेशनां श्रोतुं सदेवासुरमानुषाः ।
सिद्धविद्याधराश् चापि यक्षगंधर्वकिन्नराः ॥ र्म्_4.7{7} ॥
गरुडा नागराजाश् च राक्षसाश् च महोरगाः ।
सर्वे लोकाधिपाश् चापि ससैन्यपरिवारकाः ॥ र्म्_4.8{8} ॥
राजानो राजमात्राश् च ब्राह्मणाश् च महाजनाः ।
मंत्रिणो श्रेष्ठिनश् चापि सार्थवाहाश् च पौरिकाः ॥ र्म्_4.9{9} ॥
ऋषयो योगिनश् चापि यतयो ब्रह्मचारिणः ।
एवम् अन्ये ऽपि लोकाश् च परिवृत्य समंततः ॥ र्म्_4.10{10} ॥
सत्कृत्य स्वर्य्य पूजाङ्गैः सर्वोपकरणैर् अपि ।
मानयित्वा च तं नाथं दृष्ट्वा तस्थुः समाहिताः ॥ र्म्_4.11{11} ॥
तस्मिंश् च समये तत्र मौद्गल्यायन आत्मवित् ।
स प्रेतभुवने गत्वा चरन् प्रेतीम् अपश्यत ॥ र्म्_4.12{12} ॥
स्वकेशरोमसंछन्नां दग्धस्थूनामहाकृतिं ।
सूचीमुखीं महत्कायीं पर्वतसंनिभोदरां ॥ र्म्_4.13{13} ॥
पिङ्गलकेशिनीं रौद्रीं प्रदीप्ताग्निशिखाम् इव ।
तीव्रातिवेदनाक्रान्तां तृषार्त्तं परिमूर्छितां ॥ र्म्_4.14{14} ॥
तत्रायुष्मान् स मौद्गल्यो दृष्ट्वा तां प्रेतिकां चिरं ।
कैषेति सहसोपेत्य पप्रछ समुपागतां ॥ र्म्_4.15{15} ॥
किं त्वया प्रकृतं पापं येनैवं दुःखभागिनी ।
तृषार्त्ता जलमार्गन्ती भ्रमित्वा चरसे ऽधुना ॥ र्म्_4.16{16} ॥
इति तेन यतीशेन पृष्ट्वा सा प्रेतिका ततः ।
तं यतिं सौगतं नत्वा प्ररुदित्वावदत् तथा ॥ र्म्_4.17{17} ॥
भदन्त तद् विजानीयाः पापकारिण्य् अहं यतः ।
एवं तृष्णाप्रतप्ताङ्गा भ्रमामि जललालसा ॥ र्म्_4.18{18} ॥
यत्राहम् उदकं पातुं गछामि तृष्णयान्विता ।
अत्र पश्यामि नद्यादिजलाधारान् विशोषितान् ॥ र्म्_4.19{19} ॥
यदा वर्षति देवे च दृष्ट्वा तदम्बुपातितं ।
पातुम् इछन्त्ल् तृष्णार्त्ता सहसाहं प्रधाविता ॥ र्म्_4.20{20} ॥
तदा पश्यामि तद्विन्दुविस्फुलिङ्गनिभोज्वलान् ।
दृष्ट्वैवं निराशान्धा भ्रमामि दिक्षु सर्वतः ॥ र्म्_4.21{21} ॥
किं मया प्रकृतं पापं येनास्म्य् एवं सुपापिनी ।
तन् मे पापं जगच्छास्ता पृछ्यतां भवतादरात् ॥ र्म्_4.22{22} ॥
नूनं सो भगवाञ् छास्ता यन् मे कर्मपुराकृतं ।
व्याकरिष्यति तत् सर्वं तथा लोकप्रबोधने ॥ र्म्_4.23{23} ॥
यच् छ्रुत्वान्ये ऽपि सत्वाश् च संविग्नमनसो द्रुतं ।
विरम्य पापमार्गेभ्यश् चरिष्यन्ति शुभे सदा ॥ र्म्_4.24{24} ॥
तस्माद् भदन्त सर्वज्ञस् तव शास्ता स पृछ्यतां ।
व्याकुर्यान् मम सर्वत्र यत् कर्म प्रकृतं पुरा ॥ र्म्_4.25{25} ॥
अस्मन्नाम्ना स संबुद्धो वंद्यतां भवता यथा ।
इत्य् उक्त्वा सा तम् आत्मजं नत्वा प्रेता गृहं ययौ ॥ र्म्_4.26{26} ॥
स मौद्गल्यस् तथेत्य् उक्त्वा तत् संदेशम् अनुस्मरन् ।
सहसैतत् परिप्रष्टुं वेणुवनम् उपाययौ ॥ र्म्_4.27{27} ॥
तदादौ भगवान् दृष्ट्वा तन् मौद्गल्यम् उपागतं ।
प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् ।
कंचित् ते कुशलं वत्स कुतो ऽत्रासि समागतः ।
लोकेषु किं प्रवृत्तांतं तत् प्रचक्ष्व महामते ।
इति पृष्टे जिनेन्द्रेण स मौद्गल्यः पुरोगतः ॥ र्म्_4.28{28} ॥
आदौ तस्य मुनेर् नत्वा तत् प्रवृत्तम् उदाहरत् ।
आगतो ऽस्मि भदन्तो ऽहं चरित्वा प्रेतभूमिषु ॥ र्म्_4.29{29} ॥
तत्र स्थितो ऽहम् ईक्षन् तां प्रेतीम् एकां भयानकीं ।
दग्धस्थूणानिभां नग्नां पर्वतसन्निभोदरां ॥ र्म्_4.30{30} ॥
सूचीछिद्रमुखच्छिद्रां कंकारयन्त्रिकाम् इव ।
स्वकेशरोमसंछन्नां ज्वलिताग्निशिखाम् इव ॥ र्म्_4.31{31} ॥
तिव्रातिवेदनाक्रान्ताम् आर्त्तस्वरानुरोदिनां ।
दुर्गन्धाम् अशुचिव्याप्तां स्वकेशपरितापितां ॥ र्म्_4.32{32} ॥
विण्मूत्रानुभोक्तुं च साक्षात् पापावतारिकां ।
भगवन् सा मया दृष्ट्वा तृष्णार्त्ता जललालसा ॥ र्म्_4.33{33} ॥
भ्रमन्ती जलमार्गन्ती जलाश्रयेषु सर्वतः ।
नदीकूपतडागादिन् उदपानजलाश्रयान् ॥ र्म्_4.34{34} ॥
स्वेछाम्बुपूरितान् दृष्ट्वा प्राधावत् सहसा यदा ।
तस्या दर्शणमात्रेण ते सर्वे ऽपि जलाश्रयाः ॥ र्म्_4.35{35} ॥
निर्जलाः पंकशेषेण शुशुषुश् च समंततः ।
तथा विशोषितां दृष्ट्वा नद्यादींस् ताञ् जलाश्रयान् ॥ र्म्_4.36{36} ॥
निराशा परितप्ताङ्गा सा प्रेती पर्यमूर्छत ।
ततश् च पुनर् उत्थाय क्षुत्तृष्णोन्मादचारिणी ॥ र्म्_4.37{37} ॥
जलं चान्नं समन्वेष्टुं बभ्राम दिक्षु सर्वतः ।
तथापि सा जलं नासादयत् कुहापि वा ॥ र्म्_4.38{38} ॥
ततो ऽतितृष्णया तप्ता विण्मूत्रभोक्तुम् ऐछत ।
तद् अपि कृच्छ्रतो ऽन्विष्य भुक्त्वा तृप्तिं न सा ययौ ॥ र्म्_4.39{38} ॥
तथामेध्यानि भुक्त्वापि कदाचिन् नैव तृप्तिता ।
क्षुत्तृष्णाहताक्लान्ता पतिता खेदितावसत् ॥ र्म्_4.40{40} ॥
मां दृष्ट्वा सहसोत्थाय शनैर् मन्दस्वरावदत् ।
स्वागतं भो भवान् ऐतु रक्ष मां पापिनीं लघु ॥ र्म्_4.41{41} ॥
पानीयं देहि मे भद्र पानीयं दातुम् अर्हसि ।
इति प्रोक्ताभिधावन्ति पानीयं माम् अयाचत ॥ र्म्_4.42{42} ॥
ततो ऽहम् अवदं चैनां पानीयं नात्र विद्यते ।
कात्वम् एवं नु दुःखानि भुक्त्वात्र वससे कथं ॥ र्म्_4.43{43} ॥
किं त्वया हि कृतं पापं येनैवं दुःखताधुना ।
वक्तव्यं चेच् च तत् पापं सर्वं मे वक्तुम् अर्हसि ॥ र्म्_4.44{44} ॥
इति मे गदितं श्रुत्वा स प्रेती पुनर् अब्रवीत् ।
किं मया वक्ष्यते पापं यत् पुरा कुधिया कृतं ॥ र्म्_4.45{45} ॥
सर्वज्ञो हि भवच्छास्ता स एवं परिपृछ्यतां ।
तत् सर्वाणि च मे पापं स व्याकुर्यात् स सर्ववित् ॥ र्म्_4.46{46} ॥
अस्मन्नाम्ना च संबुद्धो वंद्यतां भवतादरात् ।
इति तयोदितं श्रुत्वा प्रतिज्ञाय तथेति च ॥ र्म्_4.47{47} ॥
भवन्तं प्रष्टुम् आयामि तत् समादेष्टुम् अर्हसि ।
आर्त्तस्वरा रुदन्ती सा प्रेती विन्दति वेदनां ॥ र्म्_4.48{48} ॥
येन विण्मूत्रधानानि तेन धावति दुःखिता ।
तद् अपि कृच्छ्रतो लब्ध्वा भुंक्ते किं चित् कदा चन ॥ र्म्_4.49{49} ॥
एवं सा पापिनी प्रेती दृष्टातिदुःखिता मया ।
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणं ॥ र्म्_4.50{50} ॥
येनैवंविधदुःखं सा ह्य् अनुभवति सांप्रतं ।
कदा सा पापतो मुक्ता कथं च सुगतिं व्रजेत् ॥ र्म्_4.51{51} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0