रत्नमालावदान · भाग 381400
ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वरावृतौ ।
तथा तां सगणां देवीम् आवाह्यानर्चतुः क्रमात् ॥ र्म्_37.384{34} ॥
ततस् तद् व्रतसंपूर्णं कृत्वा दानं सदक्षिणं ।
प्रदत्वा गुरवे नत्वा तन् मण्डलं व्यसर्जतां ॥ र्म्_37.385{35} ॥
ततस् तद् रजम् आदाय भंडागारे यथोदितं ।
निधाय तत् स निर्माल्यं शेषं नद्यां यथाविधिं ॥ र्म्_37.386{36} ॥
गुरुर् नागान् समभ्यर्च्य समर्प्य प्राक्षिपज् जले ।
ततस् तज् जलम् आदाय महोत्साहैर् गृहं ययौ ॥ र्म्_37.387{37} ॥
तत गृहे तद् अम्भोभिर् अभिषिंच्य समन्ततः ।
कुमारीं विधिनाराध्य गणचक्रं समर्चयत् ॥ र्म्_37.388{38} ॥
ततस् तौ दंपती नत्वा सांजलि सादरं मुदा ।
संपत्तिप्रार्थनां कृत्वा क्षमाप्य तद् व्यसर्जतां ॥ र्म्_37.389{39} ॥
ततस् तस्या गृहे देवी वसुन्धारा स्वयं स्थिता ।
सर्वद्रव्यसमापूर्णं कृत्वा तस्थौ प्रसादिता ॥ र्म्_37.390{40} ॥
सर्वद्रव्याभिसंपूर्णं दृष्ट्वा तौ दंपती गृहं ।
विस्मयानंदसंपन्नौ मिथ एवं समूचतुः ॥ र्म्_37.391{41} ॥
अहो सत्यं जगच्छास्तुर् यथादिष्टं तथा खलु ।
तथावां शरणं गत्वा देव्या व्रतं चरेवहि ॥ र्म्_37.392{42} ॥
इत्य् उक्त्वा तौ प्रसीदंतौ शरणं गत्वा समाहितौ ।
तस्याः श्रीमहादेव्याः सदा व्रतं प्रचेरतुः ॥ र्म्_37.393{43} ॥
तदारभ्यः सदार्थिभ्यो दत्वा दानं यथार्थितं ।
त्रिरत्नभजनं कृत्वा प्रचेरतुः शुभे सदा ॥ र्म्_37.394{44} ॥
ततो ऽसौ यतिर् आनंदस् तौ समामंत्र्य दंपती ।
पक्षिवत् सहसाकाशात् कौशांव्यां समुपाचरत् ॥ र्म्_37.395{45} ॥
तत्र स तं जगन्नाथं प्रणत्वा सांजलिः पुनः ।
एतत् सर्वं प्रवृत्तांतं निवेद्यैकान्तम् आश्रयत् ॥ र्म्_37.396{46} ॥
ततः स भगवान् दृष्ट्वा तम् आनंदं सभां च तां ।
धीमत्याः शांतमत्याश् च प्रसादित्वैवम् आदिशत् ॥ र्म्_37.397{47} ॥
धन्या सा धीमती शान्तमती चापि सुभाविनी ।
यत् ते श्रीवसुधाराया भवेतां व्रतधारिणी ॥ र्म्_37.398{48} ॥
तन् मे उभे महत्पुण्यलाभिन्यौ श्रीसमन्विते ।
सर्वसत्वहिताधानबोधिचर्यासमुद्यते ॥ र्म्_37.399{49} ॥
क्रमाद् बोधिं समासाद्य बुद्धपदम् अवाप्स्यत ॥ र्म्_37.400{50!} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
तां श्रीवसुंधरां देवीं स्मृत्वा नित्यं प्रभेजिरे ॥ र्म्_37.401{51} ॥
तदा तस्याः पिता विप्रा धीमत्या दुहितुर् गृहे ।
समुद्भूता महासंपद् इत्य् अश्रोषीज् जनोदितं ॥ र्म्_37.402{52} ॥
ततः स ब्राह्मणो भार्यां धीमत्या मातरं मुदा ।
सहसा समुपामंत्र्य पुर एवम् अभाषत ॥ र्म्_37.403{53} ॥
किं त्वयानुश्रुतं भार्ये धीमत्या यद् गृहे ऽधुना ।
महासंपत् समुद्भूता मयेति श्रूयते खलु ॥ र्म्_37.404{54} ॥
इति भर्त्रा समाख्यातं श्रुत्वा सा विस्मयान्विता ।
कथम् एतद् भवेत् सत्यम् इति तं पतिम् अब्रवीत् ॥ र्म्_37.405{55} ॥
इति भार्योदितं श्रुत्वा हरिशर्मापि स द्विजः ।
सविस्मयेनाख्यातं श्रुत्वा चैवम् अभाषत ॥ र्म्_37.406{56} ॥
प्रिये श्रुतं मया सत्यं धीमत्या यद् गृहे ऽधुना ।
महासंपत्समुद्भूता वसुन्धाराप्रसादतः ॥ र्म्_37.407{57} ॥
यदि नैतत् प्रतीतो ऽपि जनैः सा धीमती सुता ।
स्वगृहे ऽत्र समाहूय त्वम् एवं परिपृछ्यतां ॥ र्म्_37.408{58} ॥
कथं संजायते संपन् महती ते गृहे ऽधुना ।
एतत् सत्यं त्वया पुत्री पुरो मे कथ्यताम् इति ॥ र्म्_37.409{59} ॥
एवं भर्त्रा समाख्यातं श्रुत्व सा धीमतीप्रसूः ।
तथेति प्रतिविज्ञाय स्वसखीम् एवम् अब्रवीत् ॥ र्म्_37.410{60} ॥
शृणु सखि सुताया मे धीमत्या यद् गृहे ऽधुना ।
संभूता महती संपद् वसुंधारा प्रसादतः ॥ र्म्_37.411{61} ॥
इति श्रुतं मया सत्यं द्रष्टुम् इछामि तत् खलु ।
तत् तां सुतां समाहूय समादराद् इहानय ॥ र्म्_37.412{62} ॥
इति तया समाख्यातं श्रुत्वा सा सुप्रिया सखी ।
तथेति प्रतिविज्ञप्य धीमत्या भवने ययौ ॥ र्म्_37.413{63} ॥
तत्र सा समुपासृत्य धीमतीं तां सुभद्रिकां ।
दृष्ट्वा सविस्मयानंदयुक्ता नत्वैवम् अब्रवीत् ॥ र्म्_37.414{64} ॥
भद्रे ऽहं प्रेषिता मात्रा त्वदाह्वानं प्रतीह तत् ।
सहसा त्वं समागंतुम् अर्हसि स्वात्मजान्विता ॥ र्म्_37.415{65} ॥
इति तया समाख्यातं श्रुत्वा सा धीमती मुदा ।
हसन्ती तां सखीं मातुः समालोक्यैवम् अब्रवीत् ॥ र्म्_37.416{66} ॥
अयि मां स्मरते माता किम् अर्थं सांप्रतं कथं ।
तदाहं न स्मृता मात्रा दारिद्रियदुःखिनी यदा ॥ र्म्_37.417{67} ॥
तथाप्य् अहं मुखं मातुर् द्रष्टुम् इछामि सांप्रतं ।
तथाहम् आगमिष्यामि यथा मातुः समीहितं ॥ र्म्_37.418{68} ॥
इत्य् उक्त्वा धीमती साथ पुत्रं च भूषणं ।
भूषयित्वा सुवस्त्रैश् च प्रावार्य सममण्डयत् ॥ र्म्_37.419{69} ॥
स्वयं च सा प्रसाधित्वा दुष्यपट्टाम्वरावृता ।
श्रीमद् रत्नाम्वलंकारैर् मण्डितांगाभिशोभिता ॥ र्म्_37.420{70} ॥
ततः सख्या तया सार्द्धं पुत्रपुत्रीसमन्विता ।
संप्रस्थिता जनैश् चापि सह मातुर् गृहे ययौ ॥ र्म्_37.421{71} ॥
तत्र सा जननी दृष्ट्वा धीमतीं तां समागतां ।
तं सुपुत्रं सुपुत्रीं च पश्यन्ती समुपाचरन् ॥ र्म्_37.422{72} ॥
तत्र तां जननीं दृष्ट्वा धीमती सात्मजान्विता ।
सहसा समुपागत्य नत्वापृछत् सुकौशलं ॥ र्म्_37.423{73} ॥
जननी सापि तां पुत्रीं पुत्रपुत्रीसमन्वितां ।
धीमतीं सहसालिंग्य पप्रछ कौशलं मुदा ॥ र्म्_37.424{74} ॥
ततः सा धीमती पुत्री पुत्रपुत्रीसमन्विता ।
मात्रा सहाभिगछंती पितुर् गेहम् उपासरत् ॥ र्म्_37.425{75} ॥
तत्र साधीमतीं पुत्रीं पुत्रपुत्रीसहागतां ।
दृष्ट्वा स जनको ऽप्य् एवं पश्यन् प्रत्युद्ययौ मुदा ॥ र्म्_37.426{76} ॥
जनकं तं समालोक्य धीमती सात्मजान्विता ।
संस्मिता समुपासृत्य नत्वापृछत् सुकौशलं ॥ र्म्_37.427{77} ॥
पितापि स समालोक्य धीमतीं तां शुभांशिकां ।
पुत्रपुत्र्यौ च संभाष्य पप्रछ कौशलं मुदा ॥ र्म्_37.428{78} ॥
पिता स जननी सापि धीमतीं तां सुभाविनीं ।
पौत्रं पौत्रीं च संधृत्वा स्वगृहे जग्मतुर् मुदा ॥ र्म्_37.429{79} ॥
तत्र सा जननी तस्याः पौत्र्याः पौत्रस्य चादरात् ।
पादान् प्रक्षालयित्वाशु स्वकम् आनयत् ॥ र्म्_37.430{80} ॥
तद् आसनं समास्तीर्य तां पुत्रीं स्वयम् आदरात् ।
पौत्रं पौत्रीं च तान् सर्वान् संधृत्वा संन्यवेशयत् ॥ र्म्_37.431{81} ॥
तत्रासने समाश्रित्य पार्श्वयोर् वामदक्षयोः ।
पुत्रीं पुत्रम् उपस्थाप्य तस्थौ सा धीमती स्मिता ॥ र्म्_37.432{82} ॥
ताम् आगतां समाकर्ण्य सर्वे ऽपि जातयो मुदा ।
सहसा द्रष्टुम् आगत्य सा दरं समुपाययुः ॥ र्म्_37.433{83} ॥
तथा ते वांधवाः सर्वे सुहृत्मिन्रजना अपि ।
तां तथा स्वगृहायातां कुशलं प्रष्टुम् आययुः ॥ र्म्_37.434{84} ॥
तथा ताश् च भगिन्यो ऽपि तासां सर्वे ऽपि चात्मजाः ।
तां धीमतीं तथायातां श्रुत्वा द्रष्टु समा ययुः ॥ र्म्_37.435{85} ॥
एवम् अन्ये ऽपि लोकाश् च धीमतीं तां सुभूषणां ।
स्वमातुर् गृहमायातां श्रुत्वा द्रष्टुम् उपाययुः ॥ र्म्_37.436{86} ॥
तत्रेतं धीमतीं कांतां सुवस्त्रभूषणावृतां ।
ते सज्ञात्यादयः सर्वे दृष्ट्वा विस्मयम् आययुः ॥ र्म्_37.437{87} ॥
ततो ऽनुजा भगिन्यादि ज्ञातिवंधुसुहृज्जनाः ।
सर्वे तां सादरं नत्वा पप्रछुः कुशलं मुदा ॥ र्म्_37.438{88} ॥
तथा सा धीमती चापि ज्ञातिवंधुसुहृज्जनान् ।
वन्दनीयान्स् तान् नत्वापृछत् सुकौशलं ॥ र्म्_37.439{89} ॥
ततः सा जननी तस्यै धीमत्यै सादरान् मुदा ।
वर्णगंधरसोपेतं भोजनं समुपाहरत् ॥ र्म्_37.440{90} ॥
तथा सौताय सौतायै भोजनं सुरसान्वितं ।
सादरम् उपढोकित्वा पुर एवम् अभाषत ॥ र्म्_37.441{91} ॥
गृह्णाण सुरसं भोग्यं भुक्ष्व हृद् धीमति प्रिये ।
यो सौत सौते च सौदार्द्द प्रोच्युतं यदभीप्सितं ॥ र्म्_37.442{92} ॥
जनको वितथ्य सर्वो भगिन्यो भ्रातरो ऽपि च ।
भातृजायां सुखाश् चापि तस्याश् चक्रुः समादरं ॥ र्म्_37.443{93} ॥
तथादरां कृतं सर्वे श्रुत्वा सा धीमती तदा ।
पूर्ववृत्तिम् अनुस्मृत्वा मनसैवं व्यचिंतयत् ॥ र्म्_37.444{94} ॥
नैवाहं मानिता ह्य् एभिर् नायं पुत्रो ऽपि मानितः ।
न च यं मानिता पुत्रि धनम् एवात्र मन्यते ॥ र्म्_37.445{95} ॥
यदा न मे गृहे संपद् दरिद्रो ऽहं च दुःखिनी ।
तदेमे सर्व एते ऽपि नापि ऽपश्यन् मुखं मम ॥ र्म्_37.446{96} ॥
इदानीं मे गृहे संपज् जाता तत् सुखान्वितां ।
एवं मते ऽपि सर्वे मां मानयंति समादरात् ॥ र्म्_37.447{97} ॥
यद् अहं मानिता नैव धनम् एवाभिमान्यते ।
तद् यस्य तैः क्रियते मान्यं स भुंज्याद् इदम् आदरं ॥ र्म्_37.448{98} ॥
इति सा मनसा ध्यात्वा सर्वाणि भूषणान्य् अपि ।
स्वानि पुत्रस्य पुत्र्याश् च संनिरीक्ष्य समाददे ॥ र्म्_37.449{99} ॥
ततः सा धीमती कांशस्थाल्यां सर्वाणि तान्य् अपि ।
भूषणानि प्रसार्यैवं सादरं प्रत्यभाषत ॥ र्म्_37.450{100} ॥
भो भो भवन्ति सर्वाणि भूषणानि प्रियाणि मे ।
इदं सौरसिकं भोज्यं प्राश्नुत स्वेछया सुखं ॥ र्म्_37.451{1} ॥
संसारे माननीयं हि धनम् एव सदादरात् ।
धनानुरूपेण यल् लोके मान्यते निंद्यते नरः ॥ र्म्_37.452{2} ॥
धनवान् पुरुषो लोके नीचो ऽपि मान्यते ऽगुणः ।
निर्धना गुणवांश् चापि सुजातो ऽपि न मान्यते ॥ र्म्_37.453{3} ॥
धनानुरूपेण सर्वत्र विचारमान्यभोजनं ।
धनप्रसंगतो मूर्खो नीचो ऽपि धन्यतो भवेत् ॥ र्म्_37.454{4} ॥
यावत् संपद् गृहे तावल् लोके समाद्रितो नरः ।
यदा संपद् विहीने तु तदा स भूतवच् चरेत् ॥ र्म्_37.455{5} ॥
इति साभिलपन्त्य् एव सर्वाणि भूषणान्य् अपि ।
तानि पुनः समादाय यथा स्थानं न्ययोजयत् ॥ र्म्_37.456{6} ॥
ततस् तद्भोजनं किंचिद् भक्त्वा सा स्वात्मजान्विता ।
नत्वैव पितरौ भर्त्तुर् गृहे ययौ प्रसादिता ॥ र्म्_37.457{7} ॥
तत्र सा धीमती भर्त्तुर् विष्णुदासस्य पादयोः ।
नत्वा सर्वप्रवृत्तांतं न्यवेदयत् पुरः स्थिता ॥ र्म्_37.458{8} ॥
एतद् भार्यासमाख्यातं श्रुत्वा स ब्राह्मणः पतिः ।
मुदितस् तां सुकल्याणीं भार्यं दृष्ट्वैवम् अब्रवीत् ॥ र्म्_37.459{9} ॥
धन्यो ऽसि त्वं सुकल्याणी यत् ते समुपादेशतः ।
श्रीदेवीव्रतम् आधाय समाप्नोमि सुसंपदं ॥ र्म्_37.460{10} ॥
प्रिये त्वाम् अत्र तद्रत्नसंभवकुलसंभवां ।
श्रीवसुधामहादेवीसमां मन्ये ऽहम् आत्मना ॥ र्म्_37.461{11} ॥
इत्य् उक्त्वा ब्राह्मणो भर्त्ता विष्णुदासः कृतांजलिः ।
धीमतीं तं सुकल्याणीं नत्वैवं पुनर् अब्रवीत् ॥ र्म्_37.462{12} ॥
प्रिये तव प्रसादेन साफल्यं जन्म मे ऽधुना ।
यच् छ्रीवसुंधरादेव्या उपासको व्रती भवे ॥ र्म्_37.463{13} ॥
तन् मया प्रकृतं पापं तत् सर्वं क्षीयते ऽधुना ।
संपत्तिः संप्रजाता च नैव क्षीणा भवे धि नः ॥ र्म्_37.464{14} ॥
तथा वयं सदाप्य् अस्याः श्रीदेव्याः शरणं गताः ।
यथाविधि व्रतं धृत्वा चरेमहि शुभे ऽधुना ॥ र्म्_37.465{15} ॥
त्रिरत्नभजनं कृत्वा दत्वार्थिभ्यो यथेप्सितं ।
यावज्जीवं शुभं कृत्वा भुक्त्वा सौख्यं चरेमहि ॥ र्म्_37.466{16} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतीं गताः ।
क्रमात् संबोधिम् आसाद्य बुद्धपदं लभेमहि ॥ र्म्_37.467{17} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता ।
तथा सदा वसुंधाराव्रतं धृत्वा शुभे ऽचरत् ॥ र्म्_37.468{18} ॥
ततः सा धीमती तस्याः शांतमतेः पुरोगता ।
सर्वम् एतत् प्रवृत्तांतं निवेद्यैवम् अभाषत ॥ र्म्_37.469{19} ॥
प्रिये सखि महाभागे भवत्कृपाप्रसादतः ।
पापं मे क्षीयते सर्वं तज् जन्म सफलं भवे ॥ र्म्_37.470{20} ॥
संपत्तिः संप्रजाता मे नैव क्षीणा भवेद् अपि ।
तद् यावज्जीवितं देव्याः शरणस्थो भजानि हि ॥ र्म्_37.471{21} ॥
त्वम् एव शास्ता न चान्या हि सद्धर्मोपदेशिनी ।
तन् मे पुण्यानुभावेन संबुद्धपदम् आप्नुहि ॥ र्म्_37.472{22} ॥
इत्य् उदिते तम् आश्रुत्वा शांतमतिश् च सा मुदा ।
धीमतीं तां समालोक्य पुनर् एवम् अभाषात ॥ र्म्_37.473{23} ॥
भद्रे धीमति संबुद्धशरणस्था सदादरात् ।
श्रीदेव्याव्रतम् आधाय शुभे चर समाहिता ॥ र्म्_37.474{24} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतीं गता ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_37.475{25} ॥
इति मत्वात्र संसारे शुभं धर्मार्थसाधनं ।
धर्मो लोकहितार्थाय तल् लोकार्थे धर्मम् आचरेः ॥ र्म्_37.476{26} ॥
इति तयोदितं श्रुत्वा धीमती सा प्रबोधिता ।
तथेति प्रतिनंदित्वा मुदिता स्वगृहे ययौ ॥ र्म्_37.477{27} ॥
ततः प्रभृति सा साध्वी धीमती सर्वदा गृहे ।
श्रीदेव्या भजनं कृत्वा दत्वा दानं शुभे ऽचरत् ॥ र्म्_37.478{28} ॥
तथा तस्या गृहे संपद् दिने दिने प्रवर्द्धिता ।
सर्वसत्वोपभोग्यार्थं बभूव धर्मसाधिनी ॥ र्म्_37.479{29} ॥
तथा सा धीमती दृष्ट्वा सर्वसंपत्प्रवर्द्धितां ।
मुदा लोकहितं कृत्वा प्रचचार शुभे सदा ॥ र्म्_37.480{30} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
तथा त्वम् अपि राजेन्द्र वसुधाराव्रतं चर ॥ र्म्_37.481{31} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
श्रीदेव्याः शरणे स्थाप्य व्रतं चारय सर्वदा ॥ र्म्_37.482{32} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_37.483{33} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_37.484{34} ॥
धीमत्या ये ऽवदानं शुभफलदम् इदं सुप्रसन्नाः शृण्वन्ति ।
श्रावयन्ति प्रमुदितमनसा बोधिचर्यानुरागाः ।
सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्समृद्धाः ।
श्रीमन्तो लोकश्रेष्ठा जिननिलयगताः संवसंति सुखाढ्याः ॥ र्म्_37.485{35} ॥
++ इति श्रीरत्नावदानतत्वे धीमत्यावदानं समाप्तम् ++
xxxविइइ वसुन्धरावदान
अथाशोको महराजः कृताञ्जलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_38.1{1} ॥
भदन्त श्रोतुम् इछामि वसुधाराव्रतं कदा ।
केन कुह कथं मर्त्यलोके प्रचारितं पुरा ॥ र्म्_38.2{2} ॥
तद् अत्र नो भवाञ् च्छास्तर् यथा प्रवर्त्तितं पुरा ।
तथा सर्वं समाख्यातुं विस्तरेण समर्हति ॥ र्म्_38.3{3} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ।
अशोकं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.4{4} ॥
शृणु राजन् यथाख्यातं गुरुणा मे स्रुतं मया ।
तथाहं ते प्रवक्ष्यामि वसुधाराव्रतोद्भवं ॥ र्म्_38.5{5} ॥
तद्यथा भगवान् बुद्धः शाक्यमुनिस् तथागतः ।
सर्वज्ञो ऽर्हं जगच्छास्ता धर्मराजो विनायकः ॥ र्म्_38.6{6} ॥
स एकसमये तत्र कौशान्व्या उपकण्ठिके ।म्स्: एकः समये
विहारे घोषिरारामे विजहार ससांघिकः ॥ र्म्_38.7{7} ॥
तदा शक्रादयो देवा ब्रह्मादि ब्राह्मणा अपि ।
दैत्येन्द्रा लोकपालाश् च सद्धर्मश्रवणोत्सुकाः ॥ र्म्_38.8{8} ॥
राक्षसा गरुडा नागा यक्षगंधर्वकिन्नराः ।
सिद्धा विद्याधराश् चापि तथा चाप्य् अप्सरोगणाः ॥ र्म्_38.9{9} ॥
योगिनो यतयस् तीर्था ऋषयो ब्रह्मचारिणः ।
राजानो राजपुत्राश् च वैश्याश् च मंत्रिणो जनाः ॥ र्म्_38.10{10} ॥
अमात्याः सैनिकाश् चापि गृहस्थाश् च महाजनाः ।
वणिजः सार्थवाहाश् च शिल्पिनः पौरिका अपि ॥ र्म्_38.11{11} ॥
ग्राम्या जानपदाश् चापि तथान्यदेशवासिनः ।
एवम् अन्ये ऽपि लोकाश् च सद्धर्मामृतवांछिनः ॥ र्म्_38.12{12} ॥
सर्वे ते तत्र कौशांव्या घोषिलाराम आगताः ।
सभासनसमासीनं प्राद्राक्षुस् तं मुनीश्वरं ॥ र्म्_38.13{13} ॥
दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपासृताः ।
यथाक्रमं समभ्यर्च्य कृत्वा त्रित्वः प्रदक्षिणं ॥ र्म्_38.14{14} ॥
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_38.15{15} ॥
तत्र ते तत्सभासीना भिक्षवः श्रावका अपि ।
भिक्षुण्यश् चैलकाश् चैवम् उपासका उपासिकाः ॥ र्म्_38.16{16} ॥
बोधिसत्वा महासत्वाः संबोधिव्रतचारिणः ।
वसुंधराव्रतोत्पत्तिं श्रोतुं सर्वे समीछिरे ॥ र्म्_38.17{17} ॥
तत्रानंदः परिज्ञाय तेषां मनःसमीहितं ।
सांजलिः पुरतः स्थित्वा नत्वैवं प्रार्थयन् मुनिं ॥ र्म्_38.18{18} ॥
भगवन् सर्वविच् छास्तान् इमे सर्वे सभाजनाः ।
वसुलक्ष्मीव्रतोत्पत्तिं श्रोतुम् इछन्ति आसृताः ॥ र्म्_38.19{19} ॥
तद् भवांस् त्रिजगच्छास्ता सर्वसत्वाभिबोधने ।
वसुलक्ष्मीव्रतोत्पत्तिं समुपादेष्टुम् अर्हति ॥ र्म्_38.20{20} ॥
इत्य् आनंदेन भद्रेण प्रार्थिते स मुनीश्वरः ।
तान् सभासंस्थितान् सर्वान् समालोक्यैवम् आदिशत् ॥ र्म्_38.21{21} ॥
शृण्व् आनन्द प्रवक्ष्यामि मुनीन्द्रेण यथोदितं ।
वज्रधराब्धिगम्भीरनिर्घोषेण श्रुतं मया ॥ र्म्_38.22{22} ॥
तद्यथाभूत् पुरा राजा सूर्योदयाभिधो नृपः ।
श्रीपुरे नगरे रम्ये चक्रवर्त्ती नृपाधिपः ॥ र्म्_38.23{23} ॥
दशाकुशलसंरक्तः प्रमदाजनवश्यगः ।
तदा तत्र नराः सर्वे ऽप्य् असन्मित्रोपदेशतः ।
दशाकुसलमूलेषु कर्मसु संप्रचेरिरे ॥ र्म्_38.24{24} ॥
तदा तत्पापदोषेण महेतयः प्रवर्त्तिताः ।
तद् ईतिसमुपाक्रान्ता संक्षोभिताभवन् मही ॥ र्म्_38.25{25} ॥
ततः सर्वत्र देशेषु दुर्भिक्षम् अभवद् भुवि ।
तदा ते मनुजाः सर्वे दरिद्रा अभवन् क्रमात् ॥ र्म्_38.26{26} ॥
ततस् ते निर्धनाः सर्वे क्षुत्पिपासाहतातुराः ।
लोभिता निर्दयाः क्रूराः प्रदुष्टा दुरितारताः ।
स्वकुलधर्ममर्यादं विलंघ्याप्य् अशुभे ऽचरन् ॥ र्म्_38.27{27} ॥
ततः सर्वे ऽपि ते लोका अन्धा इव कुमार्गगाः ।
असत्संगानुसंरक्ताः प्रचेरुर् नरकामुखाः ॥ र्म्_38.28{28} ॥
तदा तत्पापसंघृष्टदुःखाग्निपरितापिता ।
शोषितेवाभवद् भूमी निर्गुणा नीरसा खरा ॥ र्म्_38.29{29} ॥
तदा सर्वे ऽपि सत्वाश् च क्षुत्तृष्णाग्न्यहिदाहिताः ।
निराशा मृत्युम् इछन्तो निषेदुः परिमोहिताः ॥ र्म्_38.30{30} ॥
तदैकस्मिन् दिने तत्र तुषितभुवने स्थिताः ।
श्रीदेवीप्रमुखा देव्यो वसुन्धर्य्याः सहायिकाः ॥ र्म्_38.31{31} ॥
सर्वास् ता मिलिता मर्त्यलोके गंतुं समिप्सवः ।
किम् इदानीं मनुष्याणाम् अवस्थेति समीक्षिरे ॥ र्म्_38.32{32} ॥
ततस् तान् मनुजान् सर्वान् दरिद्रान् पापचारिणः ।
दृष्ट्वा ताः सकला देव्या दयार्त्ता एवम् अब्रुवन् ॥ र्म्_38.33{33} ॥
अहो दुःखं मनुष्याणां यत् पापे निरता नराः ।
दरिद्रा निर्दयाः क्रूरा भवन्ति नरकामुखाः ॥ र्म्_38.34{34} ॥
तत् तत्र मर्त्यलोके ऽपि दरिद्र्यदुःखशान्तये ।
यत्नाच् छ्रीवसुधाराया व्रतं चारयेमहि ॥ र्म्_38.35{35} ॥
ततस् ते मनुजाः सर्वे श्रुत्वा दृष्ट्वानुमोदिताः ।
श्रीदेव्याः शरणं गत्वा चरेयुर् व्रतम् आदरात् ॥ र्म्_38.36{36} ॥
तदा तत्पुण्यसंपूताः सर्वे ते मानवा अपि ।
श्रीमन्तः सुखिनो भद्रे चरेयुः सर्वदादरात् ॥ र्म्_38.37{37} ॥
ततस् ते मनुजाः सर्वे दशकुशलसंरताः ।
परस्परहितं कृत्वा चरेयुर् बोधिसंवरं ॥ र्म्_38.38{38} ॥
ततस् ते भद्रितात्मानः सर्वसत्वहितोद्यताः ।
बोधिसत्वा महासत्वा भवेयुर् बोधिचारिणः ॥ र्म्_38.39{39} ॥
ततस् ते सद्गुणाधानास् त्रिरत्नभजनारताः ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_38.40{40} ॥
इति हेतोर् वयं सर्वाः श्रीदेव्याः पुरतो गताः ।
एतत् सर्वप्रवृत्तांतं विज्ञापयेम सांप्रतं ॥ र्म्_38.41{41} ॥
इत्य् एवं संमतं कृत्वा सर्वा देव्व्यो ऽपि तास् ततः ।
श्रीवसुधामहादेव्या आलये समुपाचरन् ॥ र्म्_38.42{42} ॥
तत्र ताः सकला देव्यः सांजलय उपासृताः ।
तां श्रीवसुंधरां देवीं प्रणत्वैवं न्यवेदयन् ॥ र्म्_38.43{43} ॥
भगवति महादेवि विजानीयाद् भवंत्य् अपि ।
यन् मनुष्या दरिद्रास् ते भवन्ति पापचारिणः ॥ र्म्_38.44{44} ॥
तद् भवती प्रयत्नेन मनुजान्स् तान् सुदुःखितान् ।
कृपया सहसालोक्य सर्वान्न् उद्धर्त्तुम् अर्हति ॥ र्म्_38.45{45} ॥
इति संप्रार्थिते ताभिर् देवीभिः सा वसुन्धरा ।
ता देवी सकला दृष्ट्वा प्रसन्नास्यैवम् अब्रवीत् ॥ र्म्_38.46{46} ॥
अहो दुःखं मनुष्याणां यत्र शास्ता न सद्गुरुः ।
तेन ते ऽकुशलाचाराः सर्वे नरा दरिद्रताः ॥ र्म्_38.47{47} ॥
पापाभिस् संरता दुष्टा क्षुत्तृष्णाग्न्यभिदाहिताः ।
दुर्भगा निर्दयाः क्रूराः पतेयुर् नरके ध्रुवं ॥ र्म्_38.48{48} ॥
इति हेतोर् अहं तेसां मर्त्यानां दुःखशांतये ।
संवरे तान्न् उपस्थाप्य बोधौ नियोजयेमहि ॥ र्म्_38.49{49} ॥
इति निश्चित्य सा देवी वसुलक्ष्मी कृपार्दिता ।
तत्र समाधिम् आधाय त्रिमुर्त्तिं सा समादधौ ॥ र्म्_38.50{50} ॥
तद्यथैका वसुंधर्य्या महालक्ष्मी द्वितीयका ।
तृतीयिका कुमार्य्याश् च त्रिमूर्त्तिर् इति सा दधे ॥ र्म्_38.51{51} ॥
ततः सा श्रीमहादेवी गंतुं मर्त्यालये स्वयं ।
नंदीमुखाश्वघोषौ द्वौ समामंत्र्यैवम् आदिशत् ॥ र्म्_38.52{52} ॥
नंदीमुखाश्वघोषौ यन् मया संप्रार्थितं यथा ।
तथा तन् मे महत्कार्यं हर्त्तुम् अर्हथ सर्वथा ॥ र्म्_38.53{53} ॥
इत्य् आदिष्टं तया देव्या निशम्य तौ कृतांजलिः ।
नन्दिमुखाश्वघोषौ तां देवीं नत्वैवम् ऊचतुः ॥ र्म्_38.54{54} ॥
देवि किं ते महत् कार्यं तदा ज्ञापयतु ध्रुवं ।
यथादिष्टं भवत्य् आशु करिष्यावस् तथा खलु ॥ र्म्_38.55{55} ॥
इति ताभ्यां समाख्यातं श्रुत्वा सा श्रीवसुंधरा ।
महादेवी प्रसन्नास्या तौ दृष्ट्वैवम् अभाषत ॥ र्म्_38.56{56} ॥
शृणुत भद्रमुखौ यन् मे कार्यं वां तन् मयोच्यते ।
तथा युवां समाधाय कर्त्तुम् अर्हथ सांप्रतं ॥ र्म्_38.57{57} ॥
यन् नरा भूतले सर्वे दरिद्रा अतिदुःखिता ।
पापाभिनिरता दुष्टा भवन्ति नरकामुखाः ॥ र्म्_38.58{58} ॥
तत् तान् सर्वान् समुद्धर्त्तुम् इछामि सर्वथा ऽधुना ।
त्रिधा मूर्त्तिम् अहं धृत्वा गछेयं तन् महीतले ॥ र्म्_38.59{59} ॥
तयो राजा महीपालः सर्वलोकाधिपः प्रभुः ।
तं एवं प्रथमं धर्मे विनीय योजयेमहि ॥ र्म्_38.60{60} ॥
यत्र राजा स्वयं धर्मे स्थित्वा चरेत् समाहितः ।
तत्र सर्वे ऽनुगा राज्ञो धर्मे चरेयुर् आदरात् ॥ र्म्_38.61{61} ॥
यत्राभिनिरतो राजा चरते ऽप्य् अशुभे शुभे ।
तत्र सर्वे ऽपि लोकास् ते प्रचरेयुर् हि सादरं ॥ र्म्_38.62{62} ॥
इत्य् आदौ नृपति धर्मे योजनीयः प्रयत्नतः ।
ततः स नृपतिः सार्वाल् लोकान् धर्मे नियोजयेत् ॥ र्म्_38.63{63} ॥
ततः सर्वे ऽपि लोकास् ते दशाकुशलवैमुखाः ।
सद्धर्मे हि रता भद्रे प्रचरेयुः समाहिताः ॥ र्म्_38.64{64} ॥
ततः सर्वे ऽपि ते लोकाः परस्परहितोन्मुखाः ।
त्रिरत्नभजनं कृत्वा चरेयुः संवरे सदा ॥ र्म्_38.65{65} ॥
ततस् ते सर्वदा श्रेयः कृत्वा यायुः सुखावतीं ।
तत्रापि संवरं धृत्वा प्रचरेयुः सुखान्विताः ॥ र्म्_38.66{66} ॥
ततः क्रमात् समाधाय सर्वपारमितास्व् अपि ।
चरन्तः सर्वसत्वानां हितं कुर्युः सदादरात् ॥ र्म्_38.67{67} ॥
ततस् ते बोधिसत्वाः स्युः सद्धर्मगुणरत्निनः ।
शुद्धात्मानो महासत्वा भविष्यन्ति जिनात्मजाः ॥ र्म्_38.68{68} ॥
ततः सर्वे ऽपि ते धीराः परिशुद्ध त्रिमण्डलाः ।
त्रियानबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_38.69{69} ॥
इति हेतोर् अहं तेषां सत्वानां विनयार्थतः ।
त्रिमूर्त्तिरूपम् आधाय गछामि भूतले ऽधुना ॥ र्म्_38.70{70} ॥
तद् युवां मे वचो धृत्वा गन्तुम् अर्हथ भूतले ।
तत्र गत्वा प्रयत्नेन सर्वथाहर तं नृपं ॥ र्म्_38.71{71} ॥
ततो ऽहं तं वशीकृत्य बोधयित्वा प्रयत्नतः ।
सद्धर्मचारिणं कृत्वा चारयिष्यामि मे व्रतं ॥ र्म्_38.72{72} ॥
इति तया महादेव्या समादिष्टं निशम्य तौ ।
नन्दिमुखाश्वघोषौ तां देवीं नत्वैवम् ऊचतुः ॥ र्म्_38.73{73} ॥
भद्रे देवि तवादेशं धृत्वावां शिरसा तथा ।
गत्वा नृपं समाहृत्य प्राणयिष्यावहे पुरः ॥ र्म्_38.74{74} ॥
इत्य् उक्त्वा तौ प्रसन्नास्यौ कृतांजलिपुटो मुदा ।
पादौ देव्याः प्रणत्वैवं प्रजग्मतुस् ततो भुवि ॥ र्म्_38.75{75} ॥
त्रिमूर्त्तिरूपम् आधाय वसुलक्ष्मीर् अपि स्वयं ।
श्रीदेव्यादिसखीयुक्ता गंगातीरम् उपागताः ॥ र्म्_38.76{76} ॥
तत्र तौ भूतले गत्वा प्रापश्यतं समंततः ।
रमणीयं महोद्याने पुष्करिणीप्रशोभितं ॥ र्म्_38.77{77} ॥
दृष्ट्वा ताव् उभौ तत्र क्षणं विश्रम्य संस्थितौ ।
ततो मिथसमासीनौ दृष्ट्वैवं समभाषतां ॥ र्म्_38.78{78} ॥
अहो रम्यं महीलोकं तडागोद्यानमण्डितं ।
तत् कथम् इह राजानम् अपहर्त्तुं चरेवहि ॥ र्म्_38.79{79} ॥
तत्र नन्दीमुखः प्राह दिव्यस्त्रीसुंदरं वपुः ।
धृत्वावां सुरसंगीतं गायन्तौ प्राचरेवहि ॥ र्म्_38.80{80} ॥
नूनं स नृपती राजा दृष्ट्वा नौ दिव्यसुंदरं ।
वपुः कामाग्निसंतप्तः समाहर्त्तुम् उपाचरेत् ॥ र्म्_38.81{81} ॥
तदावां सहसाहृत्य नृपतिं तं प्रयत्नतः ।
मोहयित्वा वशीकृत्य देव्या उपानयेवहि ॥ र्म्_38.82{82} ॥
इति संभाषणं कृत्वा विधाय च सुसंमतं ।
नन्दिमुखाश्वघोषौ तौ स्त्रीरूपं दधतुस् तथा ॥ र्म्_38.83{83} ॥
ततस् ते दिव्यरामांशे मनाभिरामनिःस्वनैः ।
गायंत्यौ सुरसंगीतं दुर्गास्थने निषेदतुः ॥ र्म्_38.84{84} ॥
तयोस् तत् सुरसंगीतं श्रुत्वा तत्पुरवासिनः ।
जनाः कौतूहलाक्रान्तचित्ता द्रष्टुम् उपासरन् ॥ र्म्_38.85{85} ॥
दृष्ट्वा ते दिव्यरूपांशे सर्वे ते विस्मयान्विताः ।
देवकन्ये इमे नूनम् इति प्रोक्त्वा समीक्षिरे ॥ र्म्_38.86{86} ॥
दिव्यांशे ते समालोक्य सर्वे ते विस्मयोद्धताः ।
अहो चित्रम् इति प्रोक्त्वा प्रत्याययुश् चिरात् पुरं ॥ र्म्_38.87{87} ॥
तत्र ते सुरकन्यांशे नैकस्थाने निषेदतुः ।
प्रतिदिनं चतुर्द्दिक्षु प्रगायंत्यौ प्रचेरतुः ॥ र्म्_38.88{88} ॥
तथा ते चरितं दृष्ट्वा सर्वे ते पौरिका अपि ।
अत्यद्भुतसमाक्रांतचित्ता चेरुः प्रशंकिताः ॥ र्म्_38.89{89} ॥
ततस् ते पौरिका लोकाः साद्भुतशंकिताशयाः ।
नृपतेः पुरतो गत्वा प्रणत्वैवं न्यवेदयेत् ॥ र्म्_38.90{90} ॥
जय देव महाराज विजानीया भवान्न् अपि ।
तथाप्य् अत्र महच् चित्रं विज्ञप्तुं वयम् आगताः ॥ र्म्_38.91{91} ॥
तद् अत्र सुररामांशे उभे स्त्रियौ सुलक्षणौ ।
गायन्त्यौ सुरसंगीतं दुर्गास्थाने समाश्रिते ॥ र्म्_38.92{92} ॥
प्रतिदिनं चतुर्दिक्षु तथा ते देवकन्यके ।
गायंत्यो सुरसंगीतं भ्रमित्वा चरतो मुदा ॥ र्म्_38.93{93} ॥
तन् निमित्तं कथं राजं च्छुभं वा स्याद् अथाशुभं ।
इति प्रष्टुं समायामो वयं सर्वे ऽपि नान्यथा ॥ र्म्_38.94{94} ॥
इति तैः पौरिकैः सर्वैर् निवेदितं निशम्य सः ।
महीपतिः क्षणं ध्यात्वा ततो दृष्ट्वैवम् अब्रवीत् ॥ र्म्_38.95{95} ॥
स्त्रीभिर् आलापितं गीतं शुभाय न भवेत् क्वचित् ।
इत्य् उक्त्वा स विषण्णात्मा मनसैवं व्यचिन्तयत् ॥ र्म्_38.96{96} ॥
क्षेमं नेमे भवेन् नूनं यत् ते स्त्रियौ न मानवे ।
स्त्रीरूपा वहिनिर्माय प्रेषिते केन मायया ॥ र्म्_38.97{97} ॥
तद् अत्र किं भवेन् नूनं तन् निमित्तं शुभं न हि ।
किम् उपायं करिष्यामि न मन्ये को हितं दिशेत् ॥ र्म्_38.98{98} ॥
इति चिंत्ता विषण्णात्मा नृपतिः स विनिश्वसन् ।
शोकालये समासीनो वहि नैवाचरेत् क्वचित् ॥ र्म्_38.99{99} ॥
तथा स्थितं नरेन्द्रं तं मत्वा वहिर् अनिर्गतं ।
नन्दीमुखो ऽस्वघोषं तं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.100{100} ॥
अश्वघोष नरेन्द्रो ऽसौ तथापि न वहिश् चरेत् ।
तद् अत्र किं करिष्यावो यन् नृपो न वहिश् चरेत् ॥ र्म्_38.101{1} ॥
इति तेनोदितं श्रुत्व सो ऽश्वघोषो विचिन्तयन् ।
तं नन्दिमुखम् आलोक्य बोधयन्न् एवम् अब्रवीत् ॥ र्म्_38.102{2} ॥
शृणु नंदिमुखोपायं येन नृपः स निचरेत् ।
तद् अहं संप्रवक्ष्यामि तन् नृपाहरणं प्रति ॥ र्म्_38.103{3} ॥
यत् तत्र नृपतेर् गेहे मायाग्निनाभिधक्ष्यते ।
तदा स नृपतिस् त्रस्तः कोपितो निःसरेद् वहि ॥ र्म्_38.104{4} ॥
तदा तं नृपतिं दूरात् समाहृत्य प्रयत्नतः ।
सहसा पुरतो देव्या उपनेष्यावहे द्रुतं ॥ र्म्_38.105{5} ॥
इति तेनोदितं श्रुत्वा नन्दीमुखः स बोधितः ।
तथा हीति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ र्म्_38.106{6} ॥
ततस् तौ संमतं कृत्वा ततो ऽप्य् अन्तर्हितौ द्रुतं ।
गत्वा मायाग्निना ताभ्यां प्रदाहितं नृपालयं ॥ र्म्_38.107{7} ॥
तद् दृष्ट्वा नृपतिस् त्रस्तः सहसा निश्चरन्स् ततः ।
उपायैस् तज् ज्वलद्वह्निं शमयाम् आस सत्वरं ॥ र्म्_38.108{8} ॥
ततः स भूपती राजा तच्चिन्तापरिखेटितः ।
शोकागरे विषण्णात्मा स्थितश् चैव व्यचिन्तयत् ॥ र्म्_38.109{9} ॥
अहो सद्यफलं ह्य् एतद् यत् स्त्रीगीतनिमित्तजं ।
तद् अत्र किं करिष्यामि येनैतच् छाम्यते ऽशुभं ॥ र्म्_38.110{10} ॥
भूयो ऽप्य् अत्र भवेद् अन्यन् महोत्पातम् अमंगलं ।
कथम् अत्र प्रतीकारं करिष्यामि न मन्यते ॥ र्म्_38.111{11} ॥
इति चिंताविषण्णात्मा नृपतिः स विमोहितः ।
शोकागारे समासीनो नैव वहिर् विनिर्ययौ ॥ र्म्_38.112{12} ॥
तथापि स्वालयासीनं दृष्ट्वा वहिर् अयायिनं ।
नन्दीमुखाश्वघोषौ तौ पुनर् एवं समूचतुः ॥ र्म्_38.113{13} ॥
तथापि स नृपो राजा नैव वहिर् विनिःसरेत् ।
तद् अत्र किं करिष्यावो येनाशु निश्चरेन् नृपः ॥ र्म्_38.114{14} ॥
ततश् चापि समालोक्य सो ऽश्वघोषो विचिन्तयन् ।
नंदीमुखं सहायं तं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.115{15} ॥
भो सखे स महाराजस् तथापि नात्र निश्चरेत् ।
तद् अत्र किं विलम्बेन यत्नेन तं हरेवहि ॥ र्म्_38.116{16} ॥
वराहरूपम् आधाय तस्योद्याने मनोरमे ।
सर्वत्रोत्पातनं कस्तुं प्रचारेवो ऽधुना द्रुतं ॥ र्म्_38.117{17} ॥
इति तेनोदितं श्रुत्वा नंदीमुखस् तथेति सा ।
प्रतिश्रुत्य सखायं तं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.118{18} ॥
एवम् अपि करिष्यावो देवीकार्याभिसिद्धये ।
इति तौ संमतं कृत्वा तत्रोद्याने प्रजग्मतुः ॥ र्म्_38.119{19} ॥
तत्र तौ समुपालोक्य पुष्करिणीं मनोरमां ।
नानापुष्पसमाकीर्णां पश्यंतौ तस्थतुश् चिरं ॥ र्म्_38.120{20} ॥
ततो नन्दीमुखो दृष्ट्वा तम् उद्यानं मनोरमं ।
पुस्करिणीं च प्रामोद्य गंधाढ्याम् एवम् अब्रवीत् ॥ र्म्_38.121{21} ॥
अहोद्यानं मनोरम्यं सुरम्यं च सरो वरं ।
नेदं विध्वंसनीयं हि कथं विध्वंसयेवहि ॥ र्म्_38.122{21!} ॥
इति तेनोदितं श्रुत्वा सो ऽश्वघोषो विचिंतयन् ।
उद्यानं तत् सरो दृष्ट्वाचिराद् एवम् अभाषत ॥ र्म्_38.123{22} ॥
यथाभिलषितं देव्याः साधयेव तथा द्रुतं ।
तन् नृपतिम् अपाहर्त्तुं तद् इदं ध्वंसयावहे ॥ र्म्_38.124{23} ॥
इत्य् उक्त्वा सौमतं कृत्वा ताव् उभौ महदाश्रयं ।
वराहरूपम् आस्थाय प्रजग्मतुस् सरस्तटे ॥ र्म्_38.125{24} ॥
रक्ताक्षौ हृष्टरोमाणौ नादापुरितदिङ्मुखौ ।
सिंहशार्दूलसदृशौ दम्ष्ट्रविभीषणाननौ ॥ र्म्_38.126{25} ॥
तत्र तौ प्रसरन्तौ तद् उद्यानं तत् सरो ऽपि च ।
विन्ध्वंसितुम् उपाक्रम्य प्रचेरतुः समंततः ॥ र्म्_38.127{26} ॥
तौ वराहौ समालोक्य त्रस्ते उद्यानपालकः ।
सहसा स विनिर्गत्य ततो राजकुले ययौ ॥ र्म्_38.128{27} ॥
तत्र स समुपासृत्य राज्ञः पादौ कृतांजलिः ।
नत्वा त्रासविभिन्नास्यः पुर एवं न्यवेदयत् ॥ र्म्_38.129{28} ॥
जय देव विजानीया यद् उद्याने सरोवरं ।
द्वौ वराहाव् उपाक्रम्य ध्वंसितुं चरता ऽधुना ॥ र्म्_38.130{29} ॥
तद् अत्र सहसा देव सर्वसैन्यजनान्न् अपि ।
समुपाहूय तौ हंतुं प्रेषयस्व द्रुतं वने ॥ र्म्_38.131{30} ॥
इति तेनोदितं श्रुत्वा स राजा परिकोपितः ।
सहसा सैन्यम् आहूय स्वयं तौ हन्तुम् उद्ययौ ॥ र्म्_38.132{31} ॥
ततः स नृपती राजा समंत्रीसैन्यपौरिकाः ।
सहसा नादयन् वाद्यान्स् तत्रोद्याने उपाचरत् ॥ र्म्_38.133{32} ॥
तत्र स नृपतिर् दृष्ट्वा समंत्रिसैन्यपौरिकान् ।
तान् सर्वान् समुपामंत्र्य पुनर् एवम् उपादिशत् ॥ र्म्_38.134{33} ॥
भो भवन्तो जनाः सर्वे सज्जीकृत्य समाहिताः ।
अत्र दृष्ट्वोपतिष्ठन्तु परिवृत्य समंततः ॥ र्म्_38.135{34} ॥
अहं प्राग्दिशि तिष्ठामि याम्ये ऽमात्याः समंत्रिणः ।
पश्चिमादिशि सैनान्यः पौरास् तिष्ठन्तु चोत्तरे ॥ र्म्_38.136{35} ॥
एवं सर्वे ऽप्य् अमात्याद्याः सर्वदिक्षु समाहिताः ।
सज्जीकृत्याभितिष्ठन्तु परिवृत्य समंततः ॥ र्म्_38.137{36} ॥
यत्र स्थाने वराहौ तौ बोद्धुं नैवाभिशक्नुथ ।
यतश् चासौ परायेतां तद्दिक्स्थान् दण्डयेय हि ॥ र्म्_38.138{37} ॥
इति मे वचनं श्रुत्वा सर्वे यूयं समाहिताः ।
सज्जीकृत्य समालोक्य परिवृत्यानुतिष्ठत ॥ र्म्_38.139{38} ॥
इति राज्ञा समादिष्टं श्रुत्वा सर्वे ऽपि ते जनाः ।
तथेति प्रतिविज्ञप्य तथा स्थातुं प्रचेरिरे ॥ र्म्_38.140{39} ॥
तथा राजा स्थितः प्राच्यां याम्ये ऽमात्यगणास् तथा ।
सेनान्यो पश्चिमायां च पौरास् तस्थुस् तथोत्तरे ॥ र्म्_38.141{40} ॥
एवं ते सनृपा लोकाः सामात्यसैन्यपौरिकाः ।
सज्जीकृत्य समालोक्य सर्वे तस्थुः समाहिताः ॥ र्म्_38.142{41} ॥
एवं ते सर्वतो दिक्षु निरुध्य समवस्थिताः ।
सर्ववाद्याभिनिर्घोषं महारावैर् अखेटयन् ॥ र्म्_38.143{42} ॥
तत् सवाद्यमहारावं श्रुत्वा तौ तान् उपस्थितान् ।
समंततः समालोक्य महाशब्दं व्यमुंचतां ॥ र्म्_38.144{43} ॥
ततस् तौ सहसोत्पातमहावाते प्रवर्त्ततैः ।
कृत्वान्धकारणैर् लोक्य राजानम् अध्यधावतां ॥ र्म्_38.145{44} ॥
तत्र स नृपतिस् ताभ्यां स्पृश्यमानो विमूर्छितः ।
संत्रासपरिभूयात्मा कंपितो न्यपतद् भुवि ॥ र्म्_38.146{45} ॥
ततश् चिरात् समुत्थाय कुत्रेमाव् इति लोक्य सः ।
सहसाश्वं समारुह्य तद् अनुप्रासरन् ययौ ॥ र्म्_38.147{46} ॥
तथा ते मंत्रिणो ऽमात्याः सैन्यलोकाश् च पौरिकाः ।
सर्वे ते ऽप्य् अनुधावन्तः प्रदुद्रुवुर् नृपानुगाः ॥ र्म्_38.148{47} ॥
स नृपाश्वसमारूढस् तद्वराहानुगः शरं ।
मौर्वीयुक्तैः समाधाय वेगाद् वनम् उपाविशत् ॥ र्म्_38.149{48} ॥
तत्र तौ मायिकौ त्यक्त्वा वाराहदेहम् आशु तौ ।
निविश्याश्वं समाहृत्य प्रेरयतां वनांतरे ॥ र्म्_38.150{49} ॥
तत्र सो ऽश्वो महावेगाद् वायुना रिव महाजवि ।
विलंघ्य निम्नगां छैलां प्रदुद्राव महावने ॥ र्म्_38.151{50} ॥
ततस् ते मंत्रिणो ऽमात्याः सैनान्यः सैनिकाः प्रजाः ।
नृपं दूरवनाविष्टं दृष्ट्वा प्रत्याययुः श्रमात् ॥ र्म्_38.152{51} ॥
सेन एको महावीरः स्वाम्यमार्गानुसंचरन् ।
असक्तेः असहस् तूर्णं कमण्डलुकरस् तदा ॥ र्म्_38.153{52} ॥
छायेव सहगो वेगाद् वनांतरे तथान्वगात् ॥ र्म्_38.154{53} ॥
तत्रातिवेगतो राजा वायुहतो समाहितः ।
अश्ववृक्षतले सो ऽश्वाद् धावता न्यपतद् भुवि ॥ र्म्_38.155{54} ॥
तत्र स मूर्छितो राजा क्षणं तस्थाव् अचेतनः ।
ततः सेनः प्रयत्नेन निःश्वसन्रुदतिष्ठत ॥ र्म्_38.156{55} ॥
ततः सेन समाश्वास्य धृत्वा तं नृपम् आत्मना ।
सह तत्रासने स्थाप्य व्यश्रामयेच् छ्रमान्वितं ॥ र्म्_38.157{56} ॥
ततः स नृप आलोक्य तम् अश्वं समुपस्थितं ।
तृषार्त्तो निःश्वसन् सेनं मुहुर् दृष्ट्वैवम् अब्रवीत् ॥ र्म्_38.158{57} ॥
अहो सेन महत् कष्टं जायते नाव् इहा ऽधुना ।
यत् सुदूरे महारण्ये मज्जावहे सुदुस्तरे ॥ र्म्_38.159{58} ॥
तद् अत्र किं करिष्यावो यत् सर्वे निर्वृतो जनाः ।
सुदूरे निर्जने ऽरण्ये को ऽत्र मार्गं हि निर्दिशेत् ॥ र्म्_38.160{59} ॥
यद् अत्रातितृषार्त्तो ऽहं तापवाताहतातुरः ।
श्रमक्लेशाग्निसंदग्धो धैर्येणापि विमोचितः ॥ र्म्_38.161{60} ॥
तद् अत्र सहसा सेन मम जीवितरक्षणं ।
यतस् ततो ऽपि वान्विष्य शीतलामृतम् आनय ॥ र्म्_38.162{61} ॥
इति राज्ञोदितं श्रुत्वा स सेनेः सहसोत्थितः ।
स्वामिनं तं समाश्वास्य पश्यन्न् एवम् अभाषत ॥ र्म्_38.163{62} ॥
मा विषीदात राजेन्द्र यत् क्षत्रियो ऽसि धीरवान् ।
तद् भवान् धैर्यम् आलम्ब्य मुहुर्त्तं स्थातुम् अर्हति ॥ र्म्_38.164{63} ॥
यतस् ततो ऽपि वान्विष्य पाणीयम् अमृतोपमं ।
सहसा समुपानीय दास्यामि ते नराधिप ॥ र्म्_38.165{64} ॥
तद् यावन्नात्र पाणीयं धृत्वागछामि सर्वथा ।
तावद् धैर्यं समालम्ब्य तिष्ठाश्वेन सह प्रभो ॥ र्म्_38.166{65} ॥
इति विज्ञप्य सेनो ऽसौ स्वामिनं तं नराधिपं ।
समाश्वास्य सुपाणीयम् अन्वेषितुं द्रुतं ययौ ॥ र्म्_38.167{66} ॥
तत्र स समुपालोक्य सर्वत्राप्य् अभिलोकयन् ।
सुपाणीयम् अनसाद्य पश्यन् दूरतरे ययान् ॥ र्म्_38.168{67} ॥
तत्र सुरनदीशब्दं श्रुत्वा सेनः स सत्वरः ।
तच् छब्दं समनुश्रुत्वा तत्राभ्यनुसरन् ययौ ॥ र्म्_38.169{68} ॥
तत्र तीरं समासाद्य सुरनद्याः समादितः ।
सहसा समुपाश्रित्य पानीयं सुरसं पपौ ॥ र्म्_38.170{69} ॥
तत्र स परितुष्टात्मा समंततो विलोकयन् ।
तत्पारे शुद्धिते द्वीपे प्राद्राक्षीद् अप्सरोगणान् ॥ र्म्_38.171{70} ॥
तान् अप्सरोगणान् दृष्ट्वा स सेनो विस्मयान्वितः ।
मुदा विलोकयन्न् एव तस्थौ चित्रार्प्पिता यथा ॥ र्म्_38.172{71} ॥
तत्रस्थंतं समालोक्य सर्वा अप्सरसो ऽपि ताः ।
कथम् अत्रागतः कस् त्वं प्रेहीति समकन्दयन् ॥ र्म्_38.173{72} ॥
इति ताभिः समाहूतं श्रुत्वा स सेन आत्मना ।
सुरनदीं विलंघ्याशु तत्प्रभावाद् उपासरत् ॥ र्म्_38.174{73} ॥
तत्र स समुपाश्रित्य सर्वान्स् तान् अप्सरोगणान् ।
सांजलिः सुप्रसन्नास्यः प्रणत्वैवं न्यवेदयत् ॥ र्म्_38.175{74} ॥
महादेव्या विजानीध्वं यत् त्रैलोक्येषु विश्रुतः ।
सूर्योदयो महाराजस् तस्याहं सेवको ऽनुगः ॥ र्म्_38.176{75} ॥
यन् नृपस्य वराहाभ्यां उद्यानं ध्वंसितं ततः ।
तौ वराहौ निहंतुं स नृपो ऽनुधावति द्रुतं ॥ र्म्_38.177{76} ॥
अश्वेनापहृतो राजा स मयैकेन नौज्झितः ।
अत्यभिधावतो ऽरण्ये पतितो ऽश्वाद् इहा ऽधुना ॥ र्म्_38.178{77} ॥
अशोकवृक्ष आश्रित्य घर्मवाता हतो ऽतुरः ।
श्रमतृसार्दितस् तत्र स्थितो ऽम्बु पातुम् इछति ॥ र्म्_38.179{78} ॥
तद् अम्बु सर्वतो ऽन्विष्य कुत्रापि लभ्यते न हि ।
नदीशब्दम् इहाकर्ण्य सहसाहम् उपासरे ॥ र्म्_38.180{79} ॥
अत्र मे भाग्ययोगेन प्रेषितो ऽहम् इहागतः ।
लभामि दर्शनं देव्यो भवांतीनम् अहो ऽधुना ॥ र्म्_38.181{80} ॥
इत्य् उक्त्वा सेन आलोक्य सांजलिः पुरतो गतः ।
ताः सर्वा अप्सरा देवीनत्वैतं समपृछत ॥ र्म्_38.182{81} ॥
भो देव्यो भवन्त्यो ऽपि किम् अर्थम् इह तिष्ठथ ।
वक्तव्यं चेत् तद् अर्थं मे समुपादेष्टुम् अर्हथ ॥ र्म्_38.183{82} ॥
इति संप्रार्थितं तेन निशम्यायाप्सरो ऽधिपाः ।
सा तं सेनं समामंत्र्य पुरर् एवम् उपादिशत् ॥ र्म्_38.184{83} ॥
मानव त्वं न जानासि यद् इदं व्रतम् उत्तमं ।
श्रीवसुधामहादेव्या वयं सर्वाश् चरामहे ॥ र्म्_38.185{84} ॥
इति देव्या तयाख्यातं श्रुत्वा सेनः स मोदितः ।
तद् व्रतं धर्त्तुम् इछंस् तां देवीं नत्वैवम् अब्रवीत् ॥ र्म्_38.186{85} ॥
प्रसीद मे महादेवि यच् छ्रीदेव्या इदं व्रतं ।
अहम् अपि समिछामि धर्तुं तन् मे उपादिश ॥ र्म्_38.187{86} ॥
इति तेनार्थितं श्रुत्वा सा देवी परितोषिता ।
तं सेनं सुधियं धीरं मत्वैवम् अब्रवीत् पुनः ॥ र्म्_38.188{87} ॥
मानव वदि ते वांछाप्य् अस्ति श्रीवसुधाव्रते ।
तत् तावद् इह संपश्य समाप्येता ऽधुना व्रतं ॥ र्म्_38.189{88} ॥
पश्चात् ते ऽहं समाख्याय श्रीदेव्या व्रतसाधनं ।
विधिं समुपदेक्ष्यामि संबुद्धेन यथोदितं ॥ र्म्_38.190{89} ॥
इत्य् उक्त्वा साप्सरो देवी सर्वास् ता अप्सरोगणाः ।
प्राहूय तन् नदीतीरे व्रतारम्भं तथाकरोत् ॥ र्म्_38.191{90} ॥
तत्र ताः समुपाश्रित्य सर्वा देव्या यथाक्रमं ।
यथाविधि समारभ्य व्रतं पूर्णं प्रचक्रिरे ॥ र्म्_38.192{91} ॥
तद् व्रतं समुपालोक्य स सेनो ऽभ्यनुमोदितः ।
अष्टांगप्रणतिं कृत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_38.193{92} ॥
अहो भाग्येन संप्राप्तं श्रिदेवीव्रतदर्शनं ।
तन् मेतिः क्षीयते पापम् आत्मारि शुद्ध्यते ऽधुना ॥ र्म्_38.194{93} ॥
प्रसीदत महादेव्यः सर्वा मे कृपया दृशा ।
पश्यन्त्यो ऽनुग्रहं कृत्वा व्रते प्रदातुम् अर्हतं ॥ र्म्_38.195{94} ॥
सर्वदाहं चरिष्यामि श्रीदेव्याः शरणं गताः ।
तद् व्रतविधि संपूर्णं समुपादेष्टुम् अर्हथ ॥ र्म्_38.196{95} ॥
इति संप्रार्थितं तेन श्रुत्वा देवी प्रधानिका ।
सा तं सेनं विशुद्धांशं दृष्ट्वैवं समुपादिशत् ॥ र्म्_38.197{96} ॥
शृणु साधो समाधाय व्रतविधिं समुच्यते ।
वज्रधराब्धिगंभीरनिर्घोषेण यथोदितं ॥ र्म्_38.198{97} ॥
भाद्रपदे ऽसिते पक्षे शुक्लपक्षे ऽपि वा तथा ।
माघे मासे च तद्वच् च सर्वेष्व् अपि च मासु वा ॥ र्म्_38.199{98} ॥
द्वितीयायाम् उपातीर्थे स्नात्वा शुद्धाम्वरावृतः ।
शुद्धभूमी प्रदेशेषु संशोधयेत् समंततः ॥ र्म्_38.200{99} ॥
मृद्गोमयशुभाम्भोभिः प्रलिप्य परिशोधयन् ।
तत्र रत्नमयरङ्गै धातुचूर्णैश् च पंचभिः ॥ र्म्_38.201{100} ॥
पौष्पिकैर् व्रीहिचूर्णैर् वा तथा पाषाणचूर्णकैः ।
यथाविधि समारभ्य सूत्रयित्वा यथाक्रमं ॥ र्म्_38.202{1} ॥
गुरुः शिष्यैः सहालक्ष्य वर्त्तयेन् मण्डलं क्रमात् ।
तत्र देव्यादि चिह्नानि लिखेद् यथाविधि क्रमात् ॥ र्म्_38.203{2} ॥
सप्तव्रीह्यावलीभिश् च संवेष्टयेत् समंततः ।
ततस् तीर्थाम्बुसंपूर्णान् पीतवस्त्रावृतान् घटान् ।
षोडशदेवताचिह्न लक्षितान् परिशुद्धितान् ॥ र्म्_38.204{3} ॥
पंचरत्नामृतौषध्यपल्लवप्रतिसंयुतान् ।
सुवर्णतिलकछत्रध्वजपताकिकान्वितान् ॥ र्म्_38.205{4} ॥
बहिः पीताम्बुजावल्यां संस्थाप्य वेष्टयेत् क्रमात् ।
ध्वजचामरसंयुक्तवितानैः परिमंडयेत् ॥ र्म्_38.206{5} ॥
विचित्रपुष्पमालाभिः सुगंधिभिः समंततः ।
सौरभ्यधूपनै दीपै पंक्तिभिश् चाभिशोभयेत् ॥ र्म्_38.207{6} ॥
ततस् तन्मण्डले देवीं सगणां श्रीवसुंधरां ।
ध्यात्वावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ र्म्_38.208{7} ॥
ततो रात्रौ त्रिसंध्यं च समभ्यर्च्य यथाविधिः ।
बलिं पंचामृतैर् युक्तं दत्वा देवीं स्मरंश् चरेत् ॥ र्म्_38.209{8} ॥
ततः प्रातस् तृतीयायां तीर्थे द्रव्यैः सुगंधिभिः ।
सह शुद्धाम्बुभिः स्नात्वा शुद्धपीताम्वरावृतः ॥ र्म्_38.210{9} ॥
पंचगव्यैः स्वम् आत्मानं परिषिंच्य विशोधयेत् ।
मण्डले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ र्म्_38.211{10} ॥
व्रतीनापि तथा स्नात्वा शुद्धपीताम्वरावृताः ।
पंचगव्यैस् तथा सर्वार् अभिसिंच्य विशोधयेत् ॥ र्म्_38.212{11} ॥
ततस् ते व्रतिनः सर्वे आचार्य्यप्रमुखाः क्रमात् ।
मध्याह्ने यक्षराजस्य दिग्मुखाः स्वासनाः श्रिताः ॥ र्म्_38.213{12} ॥
यथाचार्यसमादिष्टं तथाधार्य समाहिताः ।
आदौ वज्रधरं नत्वा त्रिरत्नं शरणं गताः ॥ र्म्_38.214{13} ॥
मंत्रले सगणां देवीं ध्यात्वार्चये यथाक्रमं ॥ र्म्_38.215{14!} ॥
तद्यथा गुरुर् आचार्यः शून्ये द्रीकारसंभवं ।
पीतवर्णं महापद् मं तत्रस्थं चन्द्रमण्डलं ।
तदुत्थं श्रीभवं रत्नपर्वतं तस्य चोपरि ।
त्वंज भद्रघटासीनां भावयेच् छ्रीवसुंधरां ॥ र्म्_38.216{15} ॥
पीताम् एकमुखां कांताम् षड्भुजां ललितासनां ।
सव्ये वरदसंबुद्धं प्रणामरत्नमंजलीं ॥ र्म्_38.217{16} ॥
वामे भद्रघटप्रज्ञा पुस्तकधान्यमंजलिं ।
दधानं रत्नसंबुद्धमकुटिनीं सुसुंदरीं ॥ र्म्_38.218{17} ॥
पीतपट्टावृतां दिव्यरत्नालंकारभूषितं ।
तद् द्वितीयपुटे पृष्ठे पीतो वज्रासनो जिनाः ॥ र्म्_38.219{18} ॥
वज्रधराब्धिनिर्घोषो वराभयप्रदानभृत् ॥ र्म्_38.220{19} ॥
दक्षिणे द्विभुजारक्तो वरदवज्रहस्तकः ।
लोकेश्वरो राजल्लीलावज्रपर्यंकसंस्थितः ॥ र्म्_38.221{20} ॥
वज्रपाणिस् तथा वामे वरदवज्रभृत्करः ।
हरिता राजसंलीला वज्रपर्यंकसंस्थितः ॥ र्म्_38.222{21} ॥
लीला देवी पुरः पीता सत्वपर्यंकसंस्थिता ।
भुजद्वयेन सर्वोपकरणाधिकृतिं तदा ॥ र्म्_38.223{22} ॥
तद् वामे वरुणः श्वेतः सत्वपर्यंकसंस्थितः ।
वीजपूरकम् उत्सङ्गस्थितिं करद्वयेन भृत् ॥ र्म्_38.224{23} ॥
नीलोभे दक्षिणे भद्रः सत्वपर्यंकसंस्थितः ।
बीजपूरकम् एकेन विभ्रत् क्रोडं तथापरं ॥ र्म्_38.225{24} ॥
चिविकुण्डलिर् आग्नेये इषद्रक्तस् तथास्थितः ।
बीजपूरकम् उत्सङ्गे स्थितिं दोर्भ्यां समा तथा ॥ र्म्_38.226{25} ॥
नैरृत्ये केलिमाली च श्यामवर्णस् तथा स्थितः ।
बीजपूरकम् उत्संगस्थितं दधत् करद्वयः ॥ र्म्_38.227{26} ॥
वायव्ये च मुखेन्द्राख्यः पीतवर्णस् तथा स्थितः ।
बीजपूरकम् उत्संगस्थितिं दधत् करद्वयं ॥ र्म्_38.228{27} ॥
चरेन्द्रो गौरर् इशाने सत्वपर्यंकसंस्थितः ।
बीजपूरकम् उत्संगस्थितिं दधद् भुजद्वयः ॥ र्म्_38.229{28} ॥
तत् तृतीयपुटे पूर्वे गुप्ता देवी तथा स्थिता ।
हरिद्वर्णा भुजाभ्यां स चामरं विभ्रती धरा ॥ र्म्_38.230{29} ॥
नैरृते वसुगुप्ताख्या देवी रक्तास् तथा स्थिता ।
भुजाभ्यां विभ्रती छत्रं सर्वरत्नसमुज्वलं ॥ र्म्_38.231{30} ॥
सरस्वती च वायव्ये देवी पीता तथा स्थिता ।
ध्वजहस्ता सुभद्रांगी सर्वविद्यार्थदायिनी ॥ र्म्_38.232{31} ॥
इशाने चंद्रकांताख्या देवी श्वेता तथा स्थिता ।
पताका विभ्रती सर्वरत्नालंकारभूषिता ॥ र्म्_38.233{32} ॥
पूर्वद्वारे महायक्षो माणिभद्रस् तथा स्थितः ।
कुंकुमाभा दधद् दोर्भ्यां नकुलीबीजपूरकौ ॥ र्म्_38.234{33} ॥
दक्षिणे पूर्णभद्राख्यो नीलवर्णस् तथास्थितः ।
कराभ्यां विदधद् रत्नस्तवकं बीजपूरकं ॥ र्म्_38.235{34} ॥
पश्चिमे धनदो रक्तः सत्वपर्यंकसंस्थितः ।
भुजद्वयेन विभ्राणः सुघटबीजपूरकौ ॥ र्म्_38.236{35} ॥
उत्तरे पीतवर्णश् च वैश्रवणस् तथा स्थितः ।
भुजाभ्यां संदधद् रत्नप्रसवबीजपूरकौः ॥ र्म्_38.237{36} ॥
इत्य् एता देवता सर्वाः श्रीदेवीप्रमुखान् क्रमात् ।
ध्यात्वावाह्य ततो दत्वा पाद्याचमनप्रोक्षणं ॥ र्म्_38.238{37} ॥
ततस् ता मण्डले सर्वाः प्रतिष्ठाप्य यथा क्रमं ।
षोडशविधिपूजांगैः समर्चयेद् यथा विधि ॥ र्म्_38.239{38} ॥
गंधं पुष्पं तथा धूपं दीपं नैवेद्यम् एव च ।
एते पंचोपचारास् तु कैवल्यफलदायिनः ॥ र्म्_38.240{39} ॥
इति पंचोपचाराः
पाद्यम् अर्घ्यं तथा स्नानं मधुपर्काचनं तथा ।
गंधं पुष्पं च धूपं च दीपं नैवेद्यम् एव च ।
पूतनाचमनीयं च दशैतान् संप्रचक्ष्यते ॥ र्म्_38.241{40} ॥
इति दशोपचारा
आसनं स्वागतं पाद्यम् अर्घ्यम् आचमनीयकं ।
मधुपर्काचमनस्नानं वसनाभरणानि च ॥ र्म्_38.242{41} ॥
सुगंधसुमनो धूपदीपनैवेद्यचंदनं ।
प्रयोजयेद् अर्चनायाम् उपचारास् तु षोडशः ॥ र्म्_38.243{42} ॥
ततो देव्याः स्वहृत्मंत्रं तथा उपहृदयं जपेत् ।
सर्वासाम् अपि मंत्राणि यावच् छतसहस्रधा ॥ र्म्_38.244{43} ॥
ततः स्तोत्रादिभि स्तुत्वा कृतांजलिपुटो मुदा ।
कृत्वा प्रदक्षिणान्य् एवं अष्टांगैः प्रणयेत् पुनः ॥ र्म्_38.245{44} ॥
ततश् च सांजलिः स्थित्वा प्रकुर्यात् पापदेशनां ।
पुण्यानुमोदनां चपि संस्थितियाचनाम् अपि ॥ र्म्_38.246{45} ॥
ततः क्षीरोदनैः शुद्धरसैः पंचामृतैर् युतं ।
बलिं गाथाः पठन् दद्यात् सर्वभूता हि तुष्टये ॥ र्म्_38.247{46} ॥
तथा ते व्रतिनः सर्वे सर्वं धृत्वा समाहिताः ।
यथा शास्त्रा समादिष्टम् अनुकुर्यु व्रतं क्रमात् ॥ र्म्_38.248{47} ॥
ततस् ते व्रतिनः सर्वे दानं दद्युः स दक्षिणं ।
गुरवे देवताभ्यो ऽपि प्रणमेयुश् च सादरं ॥ र्म्_38.249{48} ॥
ततः क्षमार्थनं कृत्वा सूत्रं षोडशभेदितं ।
षोडशग्रंथितं पीतं व्रतिभ्यो गुरुर् अर्पयेत् ॥ र्म्_38.250{49} ॥
तत् सूत्रं ते समादाय सर्वे ऽपि व्रतिनो मुदा ।
रक्षार्थं स्वकरे वध्वा दध्युर् व्रतसमाप्तितः ॥ र्म्_38.251{50} ॥
ततस् ते व्रतिनः सर्वे धृत्वा संपत्तिप्रार्थनां ।
नत्वा क्षमार्थनां चापि कृत्वा चरेयुर् उत्थिताः ॥ र्म्_38.252{51} ॥
ततो दिनत्रियामाग्रे यवगोधूमपिष्टकं ।
सह पंचामृतैः सर्वैः कुर्युस् तद्व्रतपालनां ॥ र्म्_38.253{52} ॥
ततस् तेव्रतिनः सर्वे स्नात्वा चापि समाहिताः ।
दीपमालाः समुज्वाल्य तिष्ठेयु निशि जाग्रिताः ॥ र्म्_38.254{53} ॥
तां देवीं सगणां स्मृत्वा पठन्तो धारणीम् अपि ।
जपस्तोत्रादिकं कृत्वा तोषयेयुर् उपस्थिताः ॥ र्म्_38.255{54} ॥
एवं ते तन् निशां सर्वे व्यतिलंघ्य पुनस् तथा ।
प्रातः सुगंधिभिस् तीर्थे स्नात्व शुद्धाम्वरावृताः ॥ र्म्_38.256{55} ॥
तां देवीं सगणां ध्यात्वा समावाह्य यथाक्रमं ।
सर्वपूजोपहारैश् च प्रार्चयेयुस् तथादरात् ॥ र्म्_38.257{56} ॥
जपस्तोत्रादिकं कृत्वा रत्वा सांजलयो मुदा ।
कृत्वा प्रदक्षिणां चापि कुर्युर् अष्टाङ्गप्राणतिं ॥ र्म्_38.258{57} ॥
ततश् च पुरतः स्थित्वा प्रकुर्युः पापदेशनां ।
पुण्यानुमोदनां चापि प्रार्थयेयुः सुसंस्थितिं ॥ र्म्_38.259{58} ॥
ततः संबोधिचर्यार्थं सर्वसत्वहितार्थतः ।
सर्वद्रव्यसुसंपत्तिः प्रार्थयेयुर् यथेछया ॥ र्म्_38.260{59} ॥
ततो गुरुं समभ्यर्च्य दत्वा दानं सदक्षिणं ।
श्रद्धया प्रणतिं कृत्वा तोषयेयुः समादरात् ॥ र्म्_38.261{60} ॥
ततो भूतवलिं दत्वा प्रार्थयित्वा यथेप्सितं ।
कृत्वा क्षमार्थनां चापि विसर्जयेद् यथाविधि ॥ र्म्_38.262{61} ॥
ततः शास्ता स आचार्यः कृत्वा चापि क्षमार्थनां ।
संपूर्णं तद् व्रतं कृत्वा व्रतसूत्रं समाहरेत् ॥ र्म्_38.263{62} ॥
ततो ऽभिषेकम् आदाय व्रतिनाप्य् अभिषिंचयेत् ।
शुभाशिषं प्रदत्वा च तन् मण्डलं विसर्जयेत् ॥ र्म्_38.264{63} ॥
ततस् तद् रजम् आदाय कोष्ठागारे सुगुप्तिते ।
निक्षिप्य प्रतिसंस्थाप्य नित्यं नमेत् सदादरात् ॥ र्म्_38.265{64} ॥
अपरं पुष्पादिकं सर्वं निर्माल्यं सविद् अम्भसि ।
नागान् अभ्यर्च्य तत् सर्वं समर्प्पित्वा प्रवाहयेत् ॥ र्म्_38.266{65} ॥
तन् नदीजलम् आदाय गृहे ततः समाचरेत् ।
तत्र सर्वत्र गेहेषु तज्जलैर् अभिषिंचयेत् ॥ र्म्_38.267{66} ॥
ततस् तन् मण्डले स्थाने समावाह्य यथाविधि ।
श्रीकुमारीं महादेवीं समभ्यर्च्य हि तोषयेत् ॥ र्म्_38.268{67} ॥
तत्प्रसादं समादाय गणचक्रं यथाविधि ।
समभ्यर्च्य यथार्हेण भोजनेनपि तोषयेत् ॥ र्म्_38.269{68} ॥
एवं तद् व्रतसंपूर्णं कृत्वा सर्वे प्रमोदिताः ।
श्रिवसुधां महादेवीं स्मृत्वा चरेयुर् आभवं ॥ र्म्_38.270{69} ॥
एवम् एतद् विधानेन श्रीदेव्याः शरणं गतः ।
यथाविधि समाधाय व्रतं चरेत् समादरात् ॥ र्म्_38.271{70} ॥
तस्य गृहे तद् आरभ्य श्रीदेवी श्रीवसुन्धरा ।
स्वयम् आगत्य सर्वत्र क्षेमं कृत्वा वसेत् सदा ॥ र्म्_38.272{71} ॥
तद् आराभ्य सदा तस्य गृहे सर्वत्र मंगलं ।
निरुपद्रवम् आनंदं सर्वदापि भवेद् ध्रुवं ॥ र्म्_38.273{72} ॥
ततस् तस्य गृहे संपद् दिने दिने प्रवर्द्धिता ।
सर्वद्रव्याभिसंपूर्णा श्रीदस्येव समुद्भवेत् ॥ र्म्_38.274{73} ॥
अथ चापि तथा शक्तौ यः श्राद्धः पुरुषः सुधीः ।
स्नात्वा शुद्धाम्वरो गेहे शोधयित्वा समंततः ॥ र्म्_38.275{74} ॥
श्रीदेव्याः प्रतिमायैवं पटं वापि प्रसार्य च ।
यथाशक्ति समभ्यर्च्य धारणीं सर्वदा पठेत् ॥ र्म्_38.276{75} ॥
तस्यापि च गृहे तिष्ठेच् छ्रीदेवी सगणान्विता ।
तथा तत्र भवेद् एवं मंगलं निरुपद्रवं ॥ र्म्_38.277{76} ॥
तदा तस्य गृहे संपद् दिने दिने हि वर्द्धते ।
सर्वद्रव्याभिसंपूर्णा भवेन् न क्षिणुयात् क्वचित् ॥ र्म्_38.278{77} ॥
अथ वा प्राक्तने पीतरजसा मंडलं तथा ।
वर्त्तयित्वात्र तद् रात्रीं नियमेनातिनामयेत् ॥ र्म्_38.279{78} ॥
प्रातः स्नात्वा सुगंधेन शुद्धपीताम्वरावृतः ।
ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ र्म्_38.280{79} ॥
तां श्रीवसुंधरां देवीं ध्यात्वाह्य समाहितः ।
यथाशक्ति समभ्यर्च्य धारणीं श्रद्धया पठेत् ॥ र्म्_38.281{80} ॥
तस्यापि च गृहे भद्रं कृत्वा देवी वसेत् सदा ।
ततस् तथा क्रमात् संपत् परिवृद्धा भवेद् ध्रुवं ॥ र्म्_38.282{81} ॥
अथ प्रातस् तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः ।
ब्रह्मचारी समाधाय त्रिरत्नशरणं गतः ॥ र्म्_38.283{82} ॥
शुभे स्थाने पटं चापि देव्या मूर्त्तिं प्रसार्य च ।
याथाशक्ति समभ्यर्च्य त्रिवारान् धारणीं पठेत् ॥ र्म्_38.284{83} ॥
तस्यापि च गृहे भद्रं कृत्वा देवी सदा वसेत् ।
तथा तत्र महासंपद् अभिवृद्धा भवेद् ध्रुवं ॥ र्म्_38.285{84} ॥
अथ वा च तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः ।
ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ र्म्_38.286{85} ॥
शुभे स्थाने गृहे देव्याश् चन्दनेनापि मंडलं ।
वर्त्तयित्वा तथा देवीं ध्यत्वावाह्य समर्चयेत् ॥ र्म्_38.287{86} ॥
संपठेद् धारणीं चैवं कुर्याज् जपस्तवादिकं ।
कृत्वा प्रदक्षिणान्य् एवं नत्वा संप्रार्थयेन् निधिं ॥ र्म्_38.288{87} ॥
तस्यापि च गृहे देवी मंगलं निरुपद्रवं ।
कृत्वा स्वयं समाश्रित्य निवसेत् सर्वदा ध्रुवं ॥ र्म्_38.289{88} ॥
ततस् तत्र गृहे संपत्सर्वद्रव्यसमन्विता ।
अभिवृद्ध्य भवेन् नूनं निधिश् चापि समुद्भवेत् ॥ र्म्_38.290{89} ॥
अथ वा स्वगृहे शुद्धे कोशकोष्ठालये ऽपि च ।
तथा परगृहे वापि मनोरम्ये ऽभिशोधिते ॥ र्म्_38.291{90} ॥
अथ तथागतस्यापि लोकेशस्यापि चाग्रतः ।
तथान्यबोधिसत्वानां देवतानां तथाग्रतः ॥ र्म्_38.292{91} ॥
चन्दनेनापि कृत्वैवं श्रीदेव्या मण्डलं तथा ।
विधिवन् मनसा ध्यात्वा समावाह्य समर्चयेत् ॥ र्म्_38.293{92} ॥
तथा तथागतानं च त्रैलोकाधिपतेर् अपि ।
तथान्यबोधिसत्वानां यथाशक्ति समर्चयेत् ॥ र्म्_38.294{93} ॥
ततस् तां सगणां देवीं ध्यात्वा जपेत् समाहितः ।
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0