रत्नमालावदान · भाग 361380
आराग्येदृग्गुणानां च लाभी स्यां सर्वथा भवे ॥ र्म्_36.231{29} ॥
एवं सा भाविनी कांता तस्य शास्तु जगद्गुरोः ।
प्रणिधानं सदा कृत्वा प्रभेजे संप्रसादिता ॥ र्म्_36.232{30} ॥
यो ऽसौ सार्थपतेर् भार्या मुक्तेयं सा सुभाविनी ।
मन्यताम् इति युष्माभिर् नान्यथा तु हि भिक्षवः ॥ र्म्_36.233{31} ॥
यद् अनया तदा तस्य काश्यपस्य जगद्गुरोः ।
पूजाङ्गैः श्रद्धयाभ्यर्च्य मुक्ताहारः प्रढोकितः ॥ र्म्_36.234{32} ॥
एतत्पुण्यविपाकेन जातेयं सुकुले ऽधुना ।
शिरस्य् अस्याश् च संरूढो मुक्तामाला सहोद्भवा ॥ र्म्_36.235{33} ॥
यथानया कृतं तत्र प्रणिधानं तथा ऽधुना ।
मां शास्तारम् आगम्य साक्षाद् अर्हत्वम् आप्यते ॥ र्म्_36.236{34} ॥
एवं हि यत् कृतं येन तेनैव भुज्यते फलं ।
अभुक्तं क्षीयते नैव कर्म न चान्यथा क्वचित् ॥ र्म्_36.237{35} ॥
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ।
सद्धर्मं समुपाश्रित्य चरितव्यं शुभे सदा ॥ र्म्_36.238{36} ॥
शुभे चरन्ति ये नित्यं न ते गछंति दुर्गतीं ।
सद्गतिम् एव संयान्ति बोधिं च समवाप्नुयुः ॥ र्म्_36.239{37} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका अपि ।
सर्वे तथेति विज्ञप्य प्राभ्यनंदन् प्रबोधिताः ॥ र्म्_36.240{38} ॥
इत्य् आदिष्टं हि मे शास्त्रा श्रुतं मया तथोच्यते ।
श्रुत्वाप्य् एवं तथा राजं चरितव्यं शुभे सदा ॥ र्म्_36.241{39} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ र्म्_36.242{40} ॥
तथा हि ते सदा भद्रं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं च संप्राप्य संबुद्धपदम् आप्नुयाः ॥ र्म्_36.243{41} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनंदत् सपार्षदः ॥ र्म्_36.244{42} ॥
मुक्तावदानं मनुजा इदं ये शृण्वंति ये चापि निशामयन्ति ।
ते सर्व एवं सुखिता शुभानि कृत्वा प्रयान्ति सुगतालयन् ते ॥ र्म्_36.245{43} ॥
++ इति रत्नावदानतत्वे मुक्तावदानं समाप्तम् ++
xxxविइ धीमत्यावदान
अथाशोको महीन्द्रो ऽसौ कृतांजलिः प्रमोदितः ।
उपगुप्तं तम् अर्हन्तं नत्वैवं पुनर् अब्रवीत् ॥ र्म्_37.1{1} ॥
भदन्त ये महासत्वा बोधिसत्वा यथेप्सितं ।
सर्वार्थिभ्यः प्रदत्वैवं दानं कुर्वन्ति सर्वदा ॥ र्म्_37.2{2} ॥
तेषाम् एवं प्रदत्ते ऽपि तद् द्रव्यं क्षीयते न हि ।
पुनर्वृद्धितमं याति तत् कथं मे समादिश ॥ र्म्_37.3{3} ॥
कतमद्व्रतपुण्यस्य प्रभावाच् छ्रीः प्रवर्द्धते ।
तद् व्रतं मे भवाञ् छास्ता सम्यग् आदेष्टुम् अर्हति ॥ र्म्_37.4{4} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ र्म्_37.5{5} ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि लोके धर्माभिवृद्धये ॥ र्म्_37.6{6} ॥
ये सत्यसमाधानाः शुद्धशीलाः शुभार्थिनः ।
वसुधारामहादेव्याश् चरन्ति व्रतम् उत्तमं ॥ र्म्_37.7{7} ॥
तेषां न क्षीयते द्रव्यं प्रदत्ते ऽपि सदा गृहे ।
प्रवृद्धितरम् एव स्याद् वसुधारानुभावतः ॥ र्म्_37.8{8} ॥
तद्यथासीत् पुरा बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजस् तथागतः ॥ र्म्_37.9{9} ॥
भगवान्न् एकदा तत्र वाराणस्याः पुरान्तिके ।
मृगदवे जिनावासे विजहार ससांघिकः ॥ र्म्_37.10{10} ॥
तदा तद् धर्मपीयूषं पातुं शक्रादयो ऽमराः ।
ब्रह्मादि ब्राह्मणाश् चापि सर्वे लोकाधिपा अपि ॥ र्म्_37.11{11} ॥
सिद्धा विद्याधरा दैत्या यक्षगंधर्वकिन्नराः ।
राक्षसा गरुडा नागास् तथान्ये ऽपि समागताः ॥ र्म्_37.12{12} ॥
यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः ।
निर्ग्रन्था वीतरागाश् च मुनयो ब्रह्मचारिणः ॥ र्म्_37.13{13} ॥
एवम् अन्ये ऽपि लोकाः संबुद्धधर्मवांछिनः ।
तत् सद्धर्मामृतं पातुं मुदा तत्र समागताः ॥ र्म्_37.14{14} ॥
तत्पुराधिपती राजा विश्वभद्राभिधो महान् ।
तस्य भार्या प्रियादेवी रत्नमालाभिधा सती ॥ र्म्_37.15{15} ॥
तदात्मजकुमारांशः सूर्यप्रभाभिधः कृती ।
तदात्मजा रमाकारा कुमारी विमलाभिधा ॥ र्म्_37.16{16} ॥
अन्ये ऽप्य् अन्तर्जनाश् चापि स ज्ञातिमित्रवांधवाः ।
पुरोहितादयश् चापि वेदविज्ञा द्विजातयः ॥ र्म्_37.17{17} ॥
वैश्याश् च मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः ।
वणिजः सार्थवाहाश् च शिल्पिनश् चापि पौरिकाः ॥ र्म्_37.18{18} ॥
ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ।
एवम् अन्ये ऽपि लोकाश् च सर्वे ते समुपागताः ॥ र्म्_37.19{19} ॥
तत्रेत्य तं सभासीनं सर्वसंघपुरस्कृतं ।
संबुद्धं श्रीघनं दृष्ट्वा मुदिताः समुपाचरन् ॥ र्म्_37.20{20} ॥
तत्र सर्वे ऽपि ते लोकाः समभ्यर्च्य यथाक्रमं ।
त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा तं मुनीश्वरं ॥ र्म्_37.21{21} ॥
तत् सद्धर्मामृतं पातुं परिवृत्य समंततः ।
पुरस्कृत्य समाधाय समुपतस्थुर् आद्रिता ॥ र्म्_37.22{22} ॥
अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
बोधिचर्यां समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_37.23{23} ॥
तत् सद्धर्मं समाकर्ण्य सर्वलोकाः प्रबोधिताः ।
बोधिचित्तं समासाद्य भवंति बोधिचारिणः ॥ र्म्_37.24{24} ॥
आसीत् तत् समये तत्र वाराणस्यां गृहाधिपः ।
धर्मध्वजाभिधः श्रेष्ठी दाता साधुर् महाजनः ॥ र्म्_37.25{25} ॥
तस्य भार्या प्रिया कान्ता शान्तमतीति विश्रुता ।
पुत्राश् च बहवस् तस्य सुताश् चाप्य् अभवंस् तथा ॥ र्म्_37.26{26} ॥
पौत्राः कर्मकराः प्रेश्या दासी दासजना अपि ।
अनेके परिवाराश् च वंधुमित्रसुहृज्जनाः ॥ र्म्_37.27{27} ॥
सर्वे ते पोषितास् तेन संभृत्य परिपालिताः ।
पोषणीया गृहस्थस्य सर्वे हि समुपाश्रिताः ॥ र्म्_37.28{28} ॥
अर्थिनो ऽपि सदा तस्य गृहे ऽनेकसमागता ।
शुभाशीर्वचनैर् नित्यं महोत्साहं प्रचक्रिरे ॥ र्म्_37.29{29} ॥
सो ऽपि धर्मध्वजो दाता तान् सर्वान् अर्थिनो जनान् ।
यथाभिलषितैर् द्रव्यैस् तोषयित्वाभ्यमोदयत् ॥ र्म्_37.30{30} ॥
एवं प्रददतस् तस्य क्रमात् संपत् क्षयं गता ।
तद् दृष्ट्वा स गृही दानविघ्नशंकार्दितो ऽभवत् ॥ र्म्_37.31{31} ॥
ततः शोकालये स्थित्वा तत् संपत्क्षीयचिंतया ।
विनिश्वसन् विषण्णात्मा तस्थौ भोग्यनिरुत्सहः ॥ र्म्_37.32{32} ॥
ततस् तस्य प्रिया भार्या शान्तमती विचक्षणा ।
भर्त्तारं तं विषण्णास्यं दृष्ट्वैवं पर्यपृछत ॥ र्म्_37.33{33} ॥
स्वामिन्न् एवं किम् आलोक्य तिष्ठसे दुःखचिंतया ।
यत् ते ऽत्र जायते दुःखं तद् वदस्व मनोगतं ॥ र्म्_37.34{34} ॥
इटि भार्योदितं श्रुत्वा स भर्त्ताभिविनिश्वसन् ।
तां भार्यां सुप्रियां कांतां समालोक्यैवम् अब्रवीत् ॥ र्म्_37.35{35} ॥
अयि प्रिये महद् दुःखं हृदि मे जायते ऽधुना ।
यत् संपदः परिक्षीणा आया मे ऽत्र न विद्यते ॥ र्म्_37.36{36} ॥
पुत्रपौत्रादयो ऽनेके बहयो मे कुटुम्बिनः ।
कर्मकरादयो भृत्या दासीदासादयो जनाः ॥ र्म्_37.37{37} ॥
अन्ये ऽपि बहवः प्रेष्याः पालनीया दिवानिशं ।
अर्थिनो याचकाश् च बहवो नित्यम् आगताः ।
कथं तान्स् तोषयिष्यामि क्रमात् क्षीणा हि संपदः ॥ र्म्_37.38{38} ॥
नूनं मे याचकाः सर्वे शून्यहस्ता गृहाद् अतः ।
परिखिन्नविभिन्नास्या व्रजिष्यन्ति निराशयाः ॥ र्म्_37.39{39} ॥
इति चिन्ताविषण्णे मे हृदि दुःखं प्रजायते ।
तद् दुःखानलसंतप्तस् तिष्ठाम्य् एवं विमोहितः ॥ र्म्_37.40{40} ॥
किं हि दानमहोत्साहं विना गेहे सुखं भवेत् ।
पशुवत् केवलं भुक्त्वा किं सारं सत्सुखं विना ॥ र्म्_37.41{41} ॥
इति भर्त्रोदितं श्रुत्वा साथ शान्तमती सती ।
भर्त्तारं तं समाश्वास्य बोधयन्त्य् एवम् अब्रवीत् ॥ र्म्_37.42{42} ॥
आर्यपुत्र किम् अत्रापि जाता ते हृदि दुःखता ।
किं विषादेना सिद्ध्येत केवलं दह्यते मनः ॥ र्म्_37.43{43} ॥
अवश्यं भाविनो भावा भवन्ति महताम् अपि ।
तद् विषादं परित्यज्य चर शुभे समाहितः ॥ र्म्_37.44{44} ॥
इति भार्योदितं श्रुत्वा स भर्त्ताभिविनिःश्वसन् ।
तां भार्यां सुप्रियां कांतां समालोक्यैवम् अब्रवीत् ॥ र्म्_37.45{45} ॥
अयि प्रिये शुभं कार्य्यं नाभिजानामि सन्मते ।
तद् उपायं समाख्याय मां बोधयितुम् अर्हति ॥ र्म्_37.46{46} ॥
इति भर्त्त्रोदितम् श्रुत्वा सा च शांतमती सती ।
भर्त्तारं तं समाश्वास्य प्रबोधयितुम् अब्रवीत् ॥ र्म्_37.47{47} ॥
आर्यपुत्र महासाधो तद् उपायं प्रकथ्यते ।
कौशांव्यां घोषिरारामे शाक्यसिंहो मुनीश्वरः ॥ र्म्_37.48{48} ॥
सर्वज्ञः सुगतो बुद्धो हीनदीनानुकंपकः ।
सर्वविद्याकलाभिज्ञः षडभिज्ञो विचक्षणः ॥ र्म्_37.49{49} ॥
मारजिल् लोकविन् नाथो विनायकस् तथागतः ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितः ॥ र्म्_37.50{50} ॥
व्याम प्रभाभिभास्वंतं शतसूर्याधिकप्रभं ।
जंगमम् इव रत्नाभं सौम्यं समंतभद्रकं ॥ र्म्_37.51{51} ॥
सर्वसत्वहितार्थेन विजहार ससांघिकः ।
तत्र गत्वा प्रणत्वा तत् तं बुद्धं शृणुतादरात् ॥ र्म्_37.52{52} ॥
तदा स भगवान् बुद्धस् तद् उपायं समादिशेत् ॥ र्म्_37.53{53!} ॥
इति भार्यासमादिष्टं श्रुत्वा धर्मध्वजो ऽपि सः ।
तथेति परिभाषित्वा स भर्त्ता संप्रमोदितः ॥ र्म्_37.54{54} ॥
तदा स धर्मध्वजो भार्यं वेलाम् आदाय प्राचरत् ।
ततो विहारे गत्वा स भगवंतं ससांघिकं ।
दूरतः प्रणतिं कृत्वा एकस्थाने समाश्रयत् ॥ र्म्_37.55{55} ॥
तदा स भगवान् दृष्ट्वा तं धर्मध्वजदुःखितं ।
जानन्न् अप्य् आगतं कामं धर्मध्वजे समब्रवीत् ॥ र्म्_37.56{56} ॥
साधो कस्माद् इहागत्य तिष्ठसे तत् समादिश ।
इति शास्त्रा समादिष्टं श्रुत्वा धर्मध्वजो ऽपि सः ॥ र्म्_37.57{57} ॥
कृतांजलिपुटो नत्वा भगवंतम् एवम् अब्रवीत् ।
भगवन् यद् विजानीया नान्य गच्छामि मे विभो ।
त्वयि मम कार्य्यम् एक पृछामीति व्यचिन्तयत् ॥ र्म्_37.58{58} ॥
तद्यथा मे महासंपत् क्षीणं याति दरिद्रतां ।
पुनर् वृद्धिगतं द्रव्यं तत् कथं मे समादिश ॥ र्म्_37.59{59} ॥
कतमद् व्रतपुण्यस्य प्रभावाच् छ्री प्रवर्द्धते ।
तद् व्रतं मे भवाञ् छास्ता सम्यग् आदेष्टुम् अर्हति ॥ र्म्_37.60{60} ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुदा ।
धर्मध्वजं तम् आमंत्र्य संपश्यन्न् एवम् अब्रवीत् ॥ र्म्_37.61{61} ॥
साधु शृणु समाधाय तद् विधिं संप्रवक्ष्यते ।
तच् छ्रुत्वा ते प्रबोधित्वा समाचर विधानतः ॥ र्म्_37.62{62} ॥
वसुधाराव्रतं सम्यक् यथा श्रुतं मया पुरा ।
वज्रधराब्धिगंभीरनिर्घोषेणोपदेशितं ॥ र्म्_37.63{63} ॥
तथाथा प्रथमं तावच् छुद्धभूमौ परिग्रहं ।
कृत्वा मृद्गोमयाम्भोभिः संलिप्य पर्यशोभयेत् ॥ र्म्_37.64{64} ॥
ततः सद्गुरुम् आराध्य नत्वा कृतांजलिर् मुदा ।
सत्कृत्य प्रार्थयेद् एवं वसुधाराव्रतं वरं ॥ र्म्_37.65{65} ॥
ततः स गुरुणा सार्द्धं स्नात्वा तीर्थे विशुद्धधीः ।
शुद्धवस्त्रावृताः शुद्धचित्तो ब्रह्मविहारिकः ॥ र्म्_37.66{66} ॥
मासे भाद्रपदे कृष्णपक्षे माघे ऽपि वा पुनः ।
तृतीयायां तिथौ देवीं समावाह्य व्रतं चरेत् ॥ र्म्_37.67{67} ॥
पूर्वस्मिन् दिवसे विघ्नान् कीलयेत् सर्वदिक्स्थितान् ।
तत्र सुभूतले सूत्रं पातयित्वा यथाविधि ॥ र्म्_37.68{68} ॥
वर्त्तयेन् मंडलं देव्याः सगणप्रतिमण्डितं ॥ र्म्_37.69{69!} ॥
एवं तन् मंडलं कृत्वा सप्तव्रीहिसुवेष्टितं ।
ततो ऽष्टयक्षणीचिह्नं शोभितैः कलशैर् वृतं ॥ र्म्_37.70{70} ॥
सपताकध्वजछत्रवितानैः परिमण्डितं ।
कृत्वा तन् मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ॥ र्म्_37.71{71} ॥
विचित्रपुष्पमालाभिः प्रदीपैः संप्रभोज्वलैः ।
सौरभ्यधूपनैश् चापि समभ्यर्च्याभिशोभयेत् ॥ र्म्_37.72{72} ॥
ततस् तन् मण्डले देवी सगणां परिसंस्मरन् ।
ध्यात्वा जागरणं कृत्वा तद् रात्रीं व्यतिलंघयेत् ॥ र्म्_37.73{73} ॥
ततः प्रातः समुत्थाय तीर्थे स्नात्वा सुशुद्धधीः ।
शुचिवस्त्रावृते पंचगव्यैः स्वांगं व्यशोधयेत् ॥ र्म्_37.74{74} ॥
ततः स सद्गुरुं नत्वा तदाज्ञां शिरसावहन् ।
उत्तराभिमुखः शुद्ध आसने समुपाश्रयेत् ॥ र्म्_37.75{75} ॥
ततस् तावद् गुरुं नत्वा त्रिरत्नशरणं गतः ।
मंडले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ र्म्_37.76{76} ॥
ततो ऽरहं संप्रदत्वाग्रे प्रणत्वा सांजलिर् मुदा ।
जपस्तोत्रादिकं कृत्वा कुर्याच् च पापदेशनां ॥ र्म्_37.77{77} ॥
पुण्यानुमोदनां कृत्वा प्रार्थयेद् बोधिसंवरं ॥ र्म्_37.78{78!} ॥
ततः प्रदक्षिणां कृत्वा नत्वास्तांगैश् च सांजलिः ।
ततः पीतमयं सूत्रम् षोडशभेदवर्त्तितं ।
शुद्धं गुरुर् मंत्रेण शोधयेत् ॥ र्म्_37.79{79} ॥
ततस् तद् व्रतसूत्रं स सगुरुर् धारणीं पथन् ।
तस्मै शिष्याय रक्ष्यार्थं दत्वाभिषेकम् अर्प्पयेत् ॥ र्म्_37.80{80} ॥
तद् व्रतं सूत्रम् आदाय वंधित्वा स्वकरे व्रती ।
यावद् व्रतसमाप्तं न तावत् तत् सूत्रम् आधरेत् ॥ र्म्_37.81{81} ॥
ततः व्रती यथाशक्ति गुरवे दानदक्षिणं ।
दत्वाष्टाङ्गप्रणामेण नत्वा समभितोषयेत् ॥ र्म्_37.82{82} ॥
ततः पंचामृतैर् युक्तं बलिं क्षीरोदनाभरं ।
स यक्षयक्षणीलोकपालेभ्यः संप्रदापयेत् ॥ र्म्_37.83{83} ॥
ततः क्षमार्थनं कृत्वा गुरुणा सह पालनं ।
तृतीयप्रहराग्रे ऽह्नेः कुर्यात् स यवपूरकैः ॥ र्म्_37.84{84} ॥
पालनांते पुनः स्नात्वा तां देवीं सगणां स्मरन् ।
पठञ् छ्रीधारणीम् रात्री पूजयेच् च यथाविधि ॥ र्म्_37.85{85} ॥
एवं नित्यं चतुःसंध्यं पूजयेच् छ्रीवसुंधरां ।
यावज्जीवं यथासक्तौ वर्षैकं वा तथा चरेत् ॥ र्म्_37.86{86} ॥
षण्मासं मासम् एकं च यथाशक्ति व्रतं चरेत् ।
नवसप्तदिनान्य् एवं पंचत्रीणि दिनान्य् अपि ॥ र्म्_37.87{87} ॥
अहो रात्रं तथैकं वा वारम् एकं व्रतं चरेत् ।
तत्परे द्युर् दिने प्रातः स्नात्वा शुद्धाशयो व्रती ।
तथा तां सगणां देवीं समर्चयेद् यथाविधि ॥ र्म्_37.88{88} ॥
ततश् च गुरुवे ऽभ्यर्च्य वस्त्रालंकारभूगृहं ।
सदक्षिणां प्रदत्वैवं स्वात्मानं च समर्प्पयेत् ॥ र्म्_37.89{89} ॥
ततः स गुरुर् आदाय तस्मै शिष्याय साशिषं ।
दत्वा क्षमार्थनां कृत्वा तन् मण्डलं विसर्जयेत् ॥ र्म्_37.90{90} ॥
ततस् तद् रज आदाय भण्डागारे ऽभिगोपितं ।
संनिधाय सदा नित्यम् अभ्यर्च्य सादरं भजेत् ॥ र्म्_37.91{91} ॥
तद् रजःशेषनिर्माल्यं नद्यां नागान् यथाविधि ।
समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ र्म्_37.92{92} ॥
ततस् तज् जलम् आदाय गृहे गत्वा महोत्सवैः ।
तज् जलैर् मण्डलागारकोष्ठे सर्वत्र सिंचयेत् ॥ र्म्_37.93{93} ॥
ततस् तद् व्रतपूर्णार्थं रात्रौ देवीं कुमारिकां ।
यथाविधि समावाह्य समभ्यर्च्याभ्यतोषयेत् ॥ र्म्_37.94{94} ॥
सत्गुरुप्रमुखान् सर्वान् योगिनो योगिनीर् अपि ।
समभ्यर्च्य यथाकामं भोजनैः संप्रतोषयेत् ॥ र्म्_37.95{95} ॥
ततस् तं सगणं चक्रं नत्वा व्रती स सांजलिः ।
क्षमाप्य विनयं कृत्वा प्रार्थयेच् छ्रीसमृद्धितां ॥ र्म्_37.96{96} ॥
ततस् तत् सगणं चक्रं तद्भक्त्या संप्रतोषितं ।
तस्मै व्रतिने दद्यात् सुसंपत्तिसुभाषितं ॥ र्म्_37.97{97} ॥
ततस् तस्य गृहे देवी वसुधारा समाश्रिता ।
सर्वद्रव्याभिसंपूर्णं कृत्वा तिष्ठेत् सदा स्थिरा ॥ र्म्_37.98{98} ॥
ततस् तद् द्रव्यम् आदाय सर्वार्थिभ्यो यथेप्सितं ।
संप्रदत्वा यथाकामं भुक्त्वा भवं सुखं चरेत् ॥ र्म्_37.99{99} ॥
एवं गृहपते मत्वा वसुधाराव्रतं महत् ।
यथाविधि समादाय गृहे चर समादरात् ॥ र्म्_37.100{100} ॥
ततस् ते सर्वदा गेहे मंगलं निरुपद्रवं ।
भवेत् सापि महादेवी सगणा निवसेत् स्थिरा ॥ र्म्_37.101{1} ॥
ततस् ते सर्वसंपत्तिः प्रवर्द्धिता शुभान्विता ।
भवने संभवन्त्य् एव न कदाचित् क्षयं व्रजेत् ॥ र्म्_37.102{2} ॥
ततस् त्वं सर्वदा सौख्यं भुक्त्वा दत्वा यथेप्सितं ।
त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ र्म्_37.103{3} ॥
एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः ।
बोधिचर्यां चरन् बोधिं प्राप्य बुद्धपदं लभेः ॥ र्म्_37.104{4} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा धर्मध्वजो गृही ।
स मुदा सुप्रसन्नात्मा व्रतं चरितुम् ऐछत ॥ र्म्_37.105{5} ॥
ततः स मुदितो नत्वा सांजलिस् तं जगद्गुरुं ।
भगवन्तं जगन्नाथं प्रार्थयद् एवम् आदरात् ॥ र्म्_37.106{6} ॥
भगवन् सर्वविच् छास्तर् भवतां शरणं गतः ।
भवदाज्ञां शिरो धृत्वा चरिष्ये ऽहम् इदं व्रतं ॥ र्म्_37.107{7} ॥
तद् भवां कृपया शास्तस् तद् अनुज्ञां ददातु मे ।
भवतात्र यथादिष्टं चरिष्ये तत् तथा खलु ॥ र्म्_37.108{8} ॥
इति संप्रार्थिते तेन भगवान् स जगद्गुरुः ।
तस्मै देव्या महाविद्यां धारणीं संपठन् ददौ ॥ र्म्_37.109{10} ॥
सो ऽपि धर्मध्वजो नत्वा साञ्जलिस् तं मुनीश्वरं ।
धारणीं तां समादाय संपपाठ प्रमोदितः ॥ र्म्_37.110{10} ॥
ततः स सुप्रसन्नात्मा धर्मध्वजः कृतांजलिः ।
तं मुनीन्द्रं जगन्नाथं प्रणत्वा स्वगृहं ययौ ॥ र्म्_37.111{11} ॥
ततः स स्वगृहप्राप्तः सुप्रसन्नमुखाम्बुजः ।
तां शांतमतां भार्यां समामंत्र्यैवम् अब्रवीत् ॥ र्म्_37.112{12} ॥
प्रिये धन्यासि कल्याणी यत् त्वयाहं प्रबोधितः ।
संबुद्धशासनं रत्नम् आप्तवान् अहम् आगतः ॥ र्म्_37.113{13} ॥
तद्यथा समुपादिष्टं मुनीन्द्रेणानुशासिना ।
तथावां तद् व्रतं देव्याश् चरेवहि समादरात् ॥ र्म्_37.114{14} ॥
इति भर्त्रा समुद्दिष्टे सापि शान्तमती मुदा ।
भर्त्तारं तं समालोक्य सुदृष्ट्यैवम् अभाषत ॥ र्म्_37.115{15} ॥
अयि स्वामिन् कथं शास्त्र समादिष्टं वदस्व मे ।
यथादिष्टं मुनीन्द्रेण तथ चरेवहि ध्रुवं ॥ र्म्_37.116{16} ॥
इति भार्योदितं श्रुत्वा भर्त्ता धर्मध्वजो ऽथ सः ।
मुदा शांतमतीं भार्यां तां समीक्ष्यैवम् अब्रवीत् ॥ र्म्_37.117{17} ॥
शृणु भद्रे यथादिष्टं मुनीन्द्रेण तथा खलु ।
यद् व्रतं वसुधारायास् तद् विधिं ते प्रवक्ष्यते ॥ र्म्_37.118{18} ॥
इत्य् उक्ते स्वामिना तेन सा च शान्तमती प्रिया ।
भर्त्तारं तं समालोक्य मुदितैवम् अभाषत ॥ र्म्_37.119{19} ॥
स्वामिन्स् तेन मुनीन्द्रेण यथादिष्टं तथा भवान् ।
सुविस्तरं समाख्याय मनो मे संविनोदत ॥ र्म्_37.120{20} ॥
इत्य् उक्ते भार्यया साथ धर्मध्वजः सुविस्तरं ।
यथादिष्टं मुनीन्द्रेण तथा सर्वं न्यवेदयत् ॥ र्म्_37.121{21} ॥
तच् छ्रुत्वा सा प्रबोधन्ती शांतमत्य् अनुमोदिता ।
तथा तस्या महादेव्या व्रतं चरितुम् ऐछत ॥ र्म्_37.122{22} ॥
ततस् तं स्वामिनं नत्वा सा च शान्तमती सती ।
तद्व्रतारम्भसामग्रीं साधितुम् एवम् अब्रवीत् ॥ र्म्_37.123{23} ॥
स्वामिन् व्रतं चरिष्यावो वसुलक्ष्म्या यथाविधि ।
सामग्रीं साधयेयास्य तद् अनुज्ञां प्रदेहि मे ॥ र्म्_37.124{24} ॥
इति भार्योदितं श्रुत्वा धर्मध्वजः स मोदितः ।
साध्यतां सर्वसामाग्रीम् इति तां सांव्यनोदयत् ॥ र्म्_37.125{25} ॥
ततः सा मुदिताः सर्वे सामग्रीं साधयन्त्य् अपि ।
भर्त्तारं तम् उपामंत्र्य दर्शयन्त्य् एवम् अब्रवीत् ॥ र्म्_37.126{26} ॥
सर्वं मे साधितं सिद्धं स्वामिन्न् अत्र प्रसीदतु ।
तत् सद्गुरुं समामंत्र्य व्रतम् आलब्धुम् अर्हति ॥ र्म्_37.127{27} ॥
इति भार्योदितं श्रुत्वा स धर्मध्वज आदरात् ।
सद्गुरुं समुपाराध्य नत्वेवं प्रार्थयन् मुदा ॥ र्म्_37.128{28} ॥
भदन्त श्रीवसुधारादेव्या व्रतं चरेवहि ।
तस्मात् देवीं समाराध्य व्रतोपदेशम् आदिश ॥ र्म्_37.129{29} ॥
इति संप्रार्थिते तेन तथेति हि स सद्गुरुः ।
प्रतिश्रुत्य यथादिष्टं मुनीन्द्रेण तथाचरत् ॥ र्म्_37.130{30} ॥
तथा भाद्रपदे मासे कृष्णपक्षे स सद्गुरुः ।
द्वितीयायं तिथौ तीर्थे स्नात्वा सुवाससा सुधीः ॥ र्म्_37.131{31} ॥
यथाविधिं समारभ्य मंडलं समवर्त्तयत् ।
तत्र तां सगणां देवीं प्रतिष्ठाप्य समर्चयत् ॥ र्म्_37.132{32} ॥
तत् परेद्युस् त्रितीयायां सुस्नातं शुभाम्बरं ।
धर्मध्वजं सदारं तं पंचगव्यैर् व्यशोधयत् ॥ र्म्_37.133{33} ॥
ततस् तौ दंपती शास्त्रा यथादिष्टं समाहितौ ।
श्रुत्वा तथा समाधाय प्रचरतु व्रतं मुदा ॥ र्म्_37.134{34} ॥
यथा शास्त्रा समादिष्टं तथा कृत्वा व्रतं मुदा ।
गणचक्रादिकं सर्वं समाप्य तौ ननन्दतुः ॥ र्म्_37.135{35} ॥
ततस् तस्य गृहे देवीं वसुधारा समाश्रिता ।
सर्वद्रव्यं समापूर्य्य तस्थौ सदा प्रसादिता ॥ र्म्_37.136{36} ॥
ततस् तस्य गृहे संपद् दिने प्रवर्द्धिता ।
सरत्नधातुसद्वस्त्रशस्यादि द्रव्यजातयः ॥ र्म्_37.137{37} ॥
ता एवं वर्द्धिता दृष्ट्वा सदारः स गृहाधिपः ।
स विस्मयो मुदितोत्फुल्लवक्त्राम्बुजो ऽभ्यनंदत ॥ र्म्_37.138{38} ॥
ततः स सर्वदार्थिभ्यो दत्वा दानं यथेप्सितं ।
त्रिरत्नभजनं कृत्वा सुखं भुक्त्वा शुभे ऽचरत् ॥ र्म्_37.139{39} ॥
तद् दृष्ट्वा तस्य गेहस्य समीपस्थो द्विजोत्तमः ।
विष्णुदासाभिधो विज्ञो विस्मयोद्धतमानसः ॥ र्म्_37.140{40} ॥
धीमतीं रमणीं भार्यां सुविशुद्धाशयां सतीं ।
निःश्वसन्स् तां समामंत्र्य पुनर् एवम् अभाषत ॥ र्म्_37.141{41} ॥
पश्य भद्रस्य मित्रस्य गृहे संपत् समृद्धिता ।
किम् अनेन कृतं धर्मं येनैवं श्रीः प्रवर्द्धिता ॥ र्म्_37.142{42} ॥
किम् आवाभ्यां कृतं पापं येनैवं नो विपत् सदा ।
किम् अत्रावां करिष्यावो येन संपत् प्रवर्द्धिता ॥ र्म्_37.143{43} ॥
तद् उपायं न जानामि को मे उपदिशेद् धितं ।
धन्यास् ते धनवंता ये यथाकाम सुखाशिनः ॥ र्म्_37.144{44} ॥
किं ते सद्गुणवंतो ऽपि कृपणा ये दरिद्रिता ।
वरं प्राणपरित्यागं न त्व् एवं जीवितं भवे ॥ र्म्_37.145{45} ॥
किं तेषां सद्गुणैश् चापि येषां संपद् गृहे न हि ।
धनवान् पुरुषो धीरः कुलीनो निर्गुणो ऽपि च ।
सर्वे हि धनिनां वश्या पंडिताः सुगुणा अपि ॥ र्म्_37.146{46} ॥
धनवान् निर्गुणश् चापि मान्यते गुरुवज् जनैः ।
धनहीना न पूज्यंते पंडिता ब्रह्मणा अपि ॥ र्म्_37.147{47} ॥
धिग् मे जीवितम् एवं हि ब्राह्मणस्यापि दुःखिनः ।
वरम् एवाद्येतन् मृत्युर् न त्व् एव चिरजीवितुं ॥ र्म्_37.148{48} ॥
किम् अनेनापि जीवेन केवलदुःखभोगिना ।
तद् अत्र मर्त्तुम् इछामि नैव जीवेय दुःखभाक् ॥ र्म्_37.149{49} ॥
सर्वेषाम् अपि जंतूनाम् अवश्यं मरणं भवे ।
तद् अत्र विद्यमानो ऽहं कथं लोके चरेय हि ॥ र्म्_37.150{50} ॥
इत्य् एवं विलपं विप्रो विष्णुदासः स मोहितः ।
गलदश्रुविरुक्षाक्षस् तस्थौ मुहुर् विनिःश्वसन् ॥ र्म्_37.151{51} ॥
इत्य् एवं विलपन्तन् तं दृष्ट्वा सा धीमती प्रिया ।
बोधयितुं समाश्वास्य भर्त्तारम् एवम् अब्रवीत् ॥ र्म्_37.152{52} ॥
मा विषादं कृथाः स्वामिन् धैर्य्यम् आलम्ब्य तिष्ठतु ।
किं करिष्यावहे ह्य् अत्र दैवात् संपन् न तौ गृहे ॥ र्म्_37.153{53} ॥
तथापि धैर्य्यम् आलम्ब्य यत्नं कुरु समाहितः ।
यत्नेन सिद्ध्यते सर्वं गुणद्रव्यादि साधनं ॥ र्म्_37.154{54} ॥
तद् अत्राहं वदिष्यामि हितार्थं ते शृणु प्रभो ।
भार्या हि स्वामिनो भर्त्तुर् हितार्थम् ऽभ्यनुदेशिनी ॥ र्म्_37.155{55} ॥
यद् अयं गृहभृद् भर्त्ता धर्मध्वजस् तव प्रियः ।
सुहृन् मित्रं महासाधुस् तद् आदरात् स पृछ्यतां ॥ र्म्_37.156{56} ॥
यथा तेन समादिष्टं तथैव क्रीयतां प्रभो ।
ततस् तस्य यथा संपत् तथास्माकं भवेद् अपि ॥ र्म्_37.157{57} ॥
इति भार्योदितं श्रुत्वा विष्णुदासः स तैर्थिकः ।
बौद्धवाक्ये विरुद्धत्वाद् अनिछन्न् एवम् अब्रवीत् ॥ र्म्_37.158{58} ॥
वयं हि ब्राह्मणा भद्रे बुद्धदेवी वसुंधरा ।
तद् विधिं वेदशास्त्रेषु कथितं न क्वचिद् अपि ॥ र्म्_37.159{59} ॥
तत् कथं स्वकुलाचारं त्यक्त्वान्यछरणं गताः ।
बौद्धोपदेशम् आसाद्य लक्ष्म्या व्रतं चरेमहि ॥ र्म्_37.160{60} ॥
ये त्यक्त्वा स्वकुलाचारम् अन्यत्र शरणं गताः ।
व्रतं चरंति संपत्तिलाभिलाभाकुलाशयाः ॥ र्म्_37.161{61} ॥
ते स्वधर्मपरिभ्रष्टा इहापि क्लिष्टभोगिनः ।
रोगिणो दुहितात्मानो मृता यास्यंति दुर्गतीं ॥ र्म्_37.162{62} ॥
इति भद्रे न मे वांछा बौद्धदेव्या व्रते ऽशुभे ।
वरं प्राणपरित्यागं नान्यद्व्रतं चरेमहि ॥ र्म्_37.163{63} ॥
अस्माकम् अपि या देवी महालक्ष्मी कुलेश्वरी ।
तस्या व्रतं समाधाय चरेमहि सदादरात् ॥ र्म्_37.164{64} ॥
ततः सा श्रीमहादेवी गृहे ऽश्माकं समाश्रिता ।
यथाभिवांछितं द्रव्यं सर्वं दद्यात् प्रसादिता ॥ र्म्_37.165{65} ॥
इति तस्या महालक्ष्म्या व्रतं चरावहे वयं ।
तत् तद् व्रतस्य सामग्रीं साधय सर्वम् आदरात् ॥ र्म्_37.166{66} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सा प्रमोदिता ।
तथेत्य् अभ्यनुमोदन्ती तत् सामग्रीम् असाधयत् ॥ र्म्_37.167{67} ॥
तत्र सा धीमती तस्याः शांतमत्याः पुरो गता ।
तद् वृत्तान्तं सामाख्याय सामग्रीं समयाचत ॥ र्म्_37.168{68} ॥
सापि शांतमती तस्यै धीमत्यै संप्रमोदिता ।
यद् यत् संप्रार्थितं द्रव्यं तत् तत् सर्वं ददौ मुदा ॥ र्म्_37.169{67} ॥
तद् द्रव्यं सा समादाय भर्त्तुर् अग्रे समागता ।
तत् सर्वं समुपस्थाप्य विनोद्यैवम् अभाषत ॥ र्म्_37.170{70} ॥
स्वामिन् त्वया यथादिष्टं तत् सर्वं साधितं मया ।
तथा तस्या महालक्ष्म्या व्रतम् आरभ सांप्रतं ॥ र्म्_37.171{71} ॥
इति भार्योदितं श्रुत्वा विष्णुदासः स मोदितः ।
यथाविधि महालक्ष्मीव्रतं चरितुम् आरभत् ॥ र्म्_37.172{72} ॥
मासे भाद्रपदे कृष्णपक्षे ऽष्टम्यां यथाविधि ।
मण्डलादीन् प्रतिस्थाप्य शुद्धशीलः समाहितः ॥ र्म्_37.173{73} ॥
सदारस् तां महालक्ष्मीं समावाह्य समर्चयन् ।
विधिना तद् व्रतं कृत्वा संपत्तिं प्रार्थयन् मुदा ॥ र्म्_37.174{74} ॥
ततः स ब्राह्मणः कृत्वा तद् व्रतं सुसमाप्तितं ।
सभार्यः सुप्रसन्नात्मा प्राचरत् तां श्रियं स्मरन् ॥ र्म्_37.175{75} ॥
तथा तस्य गृहे संपत् समुद्भूताभ्यजायत ।
दृष्ट्वा तौ दंपती तत्र महानंदम् अवापतुः ॥ र्म्_37.176{76} ॥
ततः स ब्राह्मणो लुब्धो दृष्ट्वा तान् संपदं मुदा ।
सर्वान् गुप्ते निधायैव न किं चित् तद् व्ययं व्यधात् ॥ र्म्_37.177{77} ॥
भूयस् तृष्णाभिसंतप्तो मात्सर्याभिहताशयः ।
कस्मै चिद् अपि तद् द्रव्यं किं चिद् दानं ददौ क्वचित् ॥ र्म्_37.178{78} ॥
तथा संरक्ष्य तद् द्रव्यं निधाय तु वियत्नतः ।
गोपयित्वा स्वयं भोक्तुम् अपि नैवाभ्यवांछत ॥ र्म्_37.179{79} ॥
तथापि स प्रलुब्धात्मा नित्यं कृपणो ऽर्थिवत् ।
धनिनां समुपाश्रित्य याचित्वा धनम् आर्जयत् ॥ र्म्_37.180{80} ॥
तथार्जनः कृतस् तस्य गृहे द्रव्यं न वर्द्धितं ।
दिने दिने निहीनत्वं गत्वा क्षयं क्रमाद् ययौ ॥ र्म्_37.181{81} ॥
ततः स ब्राह्मणो लुब्धो धनिनाम् अर्थिनो गृहे ।
दृष्ट्वातिरुषितः सर्वान् परिभाष्याभ्यनिंदयत् ॥ र्म्_37.182{82} ॥
तत्पापताविपाकेन गृहे यद् गोपितं धनं ।
तत् सर्वं निहृतं चौरैर् निदग्धं चापि वह्निना ॥ र्म्_37.183{83} ॥
ततः स ब्राह्मणस् तीव्रक्लेशाग्निपरितापितः ।
दरिद्रिताविभग्नाशः सभार्यो न्यवसद् गृहे ॥ र्म्_37.184{34!} ॥
तस्मिन्न् अवसरे तस्या धीमत्याः स पिता द्विजः ।
हरिशर्माभिधो गेहे यज्ञं कर्त्तुं सदारभत् ॥ र्म्_37.185{35} ॥
तदा स वांधवान् सार्वाञ् ज्ञातीन् मित्रसुहृज्जनान् ।
भगिनीभागिनेयांश् च जामात्रींश् तत्सुतान् अपि ॥ र्म्_37.186{36} ॥
दुहितॄर् अपि सर्वाश् च न्यमंत्रयत् समादरात् ॥ र्म्_37.187{37} ॥
तत्र ते वांधवा सर्वे ज्ञातिमित्रसुहृज्जनाः ।
भगिन्या भागिनेयाश् च जामातरो ऽपि तत्सुताः ॥ र्म्_37.188{38} ॥
दुहितरस् तथा पौत्राः पौत्र्यादयो ऽपि चापरे ।
सर्वे ते समुपागत्य समुपतस्थुर् आद्रिताः ॥ र्म्_37.189{39} ॥
तत्र सा कृपणीभूता दुर्भगेति पितापि सः ।
तत्र यज्ञमहोत्साहे ताम् एकां न न्यमंत्रयत् ॥ र्म्_37.190{40} ॥
तदा सा धीमती श्रुत्वा पितुर् यज्ञमहोत्सवं ।
कथं मे विस्मृतं पित्रा मात्रापि वांधवैर् अपि ॥ र्म्_37.191{41} ॥
इति चिंताविषाघ्रातहृदया परिमूर्छिता ।
भोजने ऽपि निरुत्साहा तस्थौ लज्जान्विता गृहे ॥ र्म्_37.192{42} ॥
तथा स विष्णुदासो ऽपि ससुरस्य गृहे तदा ।
श्रुत्वा यज्ञमहोत्साहं तां भार्याम् एवम् अब्रवीत् ॥ र्म्_37.193{43} ॥
कथं ते जनकेनावां विस्मृतौ केन हेतुना ।
नैव निमंत्रितौ भद्रे यथा सर्वे निमंत्रिता ॥ र्म्_37.194{44} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सातिलज्जिता ।
भर्त्तारं विष्णुदासं तं बोधयन्त्य् एवम् अब्रवीत् ॥ र्म्_37.195{45} ॥
किम् अत्राहं वदिष्यामि यन् नौ संपद् गृहे ऽस्ति न ।
तेन नौ लज्जयाम्बापि निमंत्रितुं न वांछते ॥ र्म्_37.196{46} ॥
इति सा धीमती लज्जासंकुंचिताशयानना ।
भर्त्रा सह विलप्यैव तस्थौ गृहे निराशिता ॥ र्म्_37.197{47} ॥
तदा तज्जनं स्मृत्वा धीमतीं ताम् अनागतां ।
काञ् चित् पठिगतां चेटीं समाहूयैवम् अब्रवीत् ॥ र्म्_37.198{48} ॥
अयि सखि सुता मे सा धीमता यदि दृश्यते ।
मद्वाचसा समेत्यासौ वक्तव्यैवं लघु त्वया ॥ र्म्_37.199{49} ॥
पितुस् ते मन्दिरे यज्ञमहोत्साहं प्रवर्त्तते ।
तत् कथं न समायासि सभर्त्तागन्तुम् अर्हसि ॥ र्म्_37.200{50} ॥
इति संदिश्य ते मात्रा प्रेषिताहं त्वदन्तिके ।
तन् मातुर् वचनं श्रुत्वागछेति तत् पुरो वद ॥ र्म्_37.201{51} ॥
तत् संदिष्टं तया श्रुत्वा तथेति प्रतिभाष्य सा ।
चेटी ततो ऽभिगछन्ती धीमत्या भवने ययौ ॥ र्म्_37.202{52} ॥
तत्र तां धीमतीं दृष्ट्वा सा चेटी समुपस्थिता ।
यथा मात्रा समादिष्टं तथा सर्वं न्यवेदयत् ॥ र्म्_37.203{53} ॥
तत् तया कथितं श्रुत्वा धीमती साश्रुमोचिनी ।
विनिःश्वस्य प्रसूं स्मृत्वा विलपन्त्यैवम् अब्रवीत् ॥ र्म्_37.204{54} ॥
हा मातः कथम् अद्याहं संस्मृता सांप्रतं त्वया ।
किम् आगछेय ते पुत्री पापिनी दुःखभागिनी ॥ र्म्_37.205{55} ॥
तस्मिन्न् एव क्षणे भर्त्ता विष्णुदास उपाचरत् ।
तां चेटीं समुपालोक्य किम् अर्थम् इत्य् अपृछत ॥ र्म्_37.206{56} ॥
इति तेनाभिसंपृष्टे सा चेटी रचितांजलिः ।
ब्राह्मणं तं प्रणम्यैतत् सर्वं वृतांतम् अब्रवीत् ॥ र्म्_37.207{57} ॥
तथा तत् कथितं श्रुत्वा विष्णुदासो ऽपि स द्विजः ।
गलदश्रुविरुक्षाक्षस् तां भार्याम् एवम् अब्रवीत् ॥ र्म्_37.208{58} ॥
किं वदिष्यावहे भार्ये दैवान् नौ जायते विपत् ।
तथापि धैर्य्यम् आलम्व्य गछ द्रष्टुं पितुर् मनः ॥ र्म्_37.209{59} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सा कुवासिनी ।
निर्मण्डनात् सुतान् पुत्रीः समादाय शनैर् ययौ ॥ र्म्_37.210{60} ॥
ततो मातुर् गृहे प्राप्ता दृष्ट्वा तौ पितरौ पुरः ।
गत्वा सा धीमती नत्वा तस्थौ लज्जाहताशया ॥ र्म्_37.211{61} ॥
पितरौ तां सुतां दृष्ट्वा विछन्दां लज्जिताशयं ।
किं चिद् दृष्ट्वागतासीति कथित्वैव निषेदतुः ॥ र्म्_37.212{62} ॥
ततः सा धीमती सर्वाञ् ज्ञातीन् भ्रात्रींश् च वांधवान् ।
भगिनीः सुहृदो जेष्ठान् प्रणनाम यथाक्रमं ॥ र्म्_37.213{63} ॥
तां दृष्ट्वा ज्ञातयः सर्वे भ्रातरो वांधवा अपि ।
भगिन्यापि सुहृदश् चापि दृष्ट्वोपहस्य जल्पिरे ॥ र्म्_37.214{64} ॥
तथा प्रहसितं सर्वे सा दृष्ट्वातित्रपान्विता ।
स्वदैवस्मृतिम् आधाय निःश्वस्यैकान्त आश्रयत् ॥ र्म्_37.215{65} ॥
ततः स हरिशर्मा स पुरोहितो यथाविधि ।
यज्ञकर्मसमारभ्य यथाकामं समापयत् ॥ र्म्_37.216{66} ॥
ततस् तान् वांधवाञ् ज्ञातीन् सुहृन्मित्रजनान् अपि ।
सत्कृत्यात्यभिसंतुष्टान् सादरेण व्यसर्जयत् ॥ र्म्_37.217{67} ॥
ततस् ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः ।
नंदितास् तं प्रशंसित्वा स्वस्वालयं मुदा ययुः ॥ र्म्_37.218{68} ॥
ततस् ते सुस्थिताः सर्वे ज्ञातिवंधुसुहृज्जनाः ।
नानाकथाभिसंलापं कुर्वन्तः संनिषेदिरे ॥ र्म्_37.219{69} ॥
ततः सा धीमती पश्चाद् भुक्त्वैकान्ते निराद्रिता ।
पुत्रपुत्री समादाय शिवस्य भवने ऽचरत् ॥ र्म्_37.220{70} ॥
तत्र सा स्तृणम् आस्तीर्य पुत्रपुत्रीसमन्विता ।
दारिद्र्यदुःखचिन्तानुनिःश्वसन्ती न्यषीदत ॥ र्म्_37.221{71} ॥
तत्र स विष्णुदासो ऽपि पश्चाद् भुक्त्वा निराद्रितः ।
शिवालये स्थितां श्रुत्वा सह स्थातुम् उपाचरत् ॥ र्म्_37.222{72} ॥
भर्त्तारं तम् उपायातं दृष्ट्वा सा धीमती तदा ।
गलदश्रुविरुक्षाक्षा विलपन्त्य् एवम् अब्रवीत् ॥ र्म्_37.223{73} ॥
धिग् मे जीवं दरिद्रायाः किम् एवं जीवितेन हि ।
पित्रोर् अपि दयास्नेहदृष्टिर् न विद्यते मयि ॥ र्म्_37.224{74} ॥
यत् पित्रोः समाः सर्वा भगिन्यः स्वात्मजा अपि ।
तथाहं मानिता नैव मानितास् ता यथादरात् ॥ र्म्_37.225{75} ॥
धिग् जीवितं दरिद्राया जन्मापि धिक् च मानुषे ।
किं रूपैः सुगुणैः वापि विद्याभिः किं धनं विना ॥ र्म्_37.226{76} ॥
हा दैव किं मया पापं दारुणं प्रकृतं पुरा ।
यन् मे न विद्यते संपत् पित्रो दधापि दया मयि ॥ र्म्_37.227{77} ॥
तद् अत्र किं करिष्यामि यास्यामि शरणं कुह ।
का मां रक्षेत् स्वदैवोत्थदरिद्र्यदुःखतापिनीं ॥ र्म्_37.228{78} ॥
किम् एवं जीवितेनापि वरं मृत्युर् हि सांप्रतां ।
अवश्यम् एव मर्त्तव्यं सर्वेषाम् अपि जन्मिनां ॥ र्म्_37.229{79} ॥
एवं नानाप्रलापेन विलपन्ती सुतम् सुतां ।
भर्त्तारं च मुहुर् दृष्ट्वा कारुण्यार्त्ता रुरोद सा ॥ र्म्_37.230{80} ॥
एवं विलापं कुर्वन्तीं रुदन्तीं तां विलोक्य सः ।
विष्णुदासो विनिःश्वस्य समाश्वास्यैवम् अब्रवीत् ॥ र्म्_37.231{81} ॥
प्रिये ऽत्र मा रुदिहि त्वं किं करिष्यावहे ऽधुना ।
यद् आवाभ्यां कृतं पापं भोक्तव्यम् एव तत् फलं ॥ र्म्_37.232{82} ॥
तद् अत्र धैर्य्यम् आलम्व्य तिष्ठ किं वक्ष्यते बहु ।
अवश्यं भाविनो भावा भवंति महताम् अपि ॥ र्म्_37.233{83} ॥
शिवो ऽपि स विरूपाक्षो नीलकण्ठो दिगंवरः ।
उन्मत्तो भस्मलिप्तांगः कपालयो ऽपि रस्थिधृक् ॥ र्म्_37.234{84} ॥
विष्णुर् वीरो ऽपि संसारे भ्रमितः स जनार्दनः ।
सो ऽपि दासो वलिद्वास्थश् चौरो व्याधेषुणाहतः ॥ र्म्_37.235{85} ॥
ब्रह्मा लोकाधिपः सो ऽपि कामार्त्तो ऽगम्यकर्मकृत् ।
नियुज्यो निघ्नितो वैरिसेवकश् छिन्नमस्तक ॥ र्म्_37.236{86} ॥
चिछेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्त पंचमं ।
तच् छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिवभ्रमे ॥ र्म्_37.237{87} ॥
शंखतीर्थे गतो रुद्रस् तच् छिरः परिमुक्तवान् ।
कपालमोचनस् तीर्थो द्वितीयावर्त्तसंस्थितः ॥ र्म्_37.238{88} ॥
इति उत्कलखण्डक्षेत्रमाहात्म्ये उक्तम् आस्ते ।
एवम् अन्ये ऽपि लोकाश् च मुनयस् तापसा अपि ॥ र्म्_37.239{89} ॥
कोपाग्निदहितात्मानो व्रजन्ति नरकेष्व् अपि ।
एवं सर्वे ऽपि लोकाश् च स्वस्वदैवानुभाविनः ॥ र्म्_37.240{90} ॥
सुखिनो दुःखिनो भूता भ्रमंति भवसागरे ।
क्षणाल् लभन्ति संपत्तिं भवन्ति च दरिद्रिताः ॥ र्म्_37.241{91} ॥
सर्वे देवादयो लोकाः स्वकृतकर्मभोगिनः ।
एवं मत्वात्र संसारे सुखं दुःखं स्वदैवजं ॥ र्म्_37.242{92} ॥
मा कृथास् तद् विषाद त्वं धैर्यं धृत्वा समाचर ।
स्वकुलेशम् अनुस्मृत्वा समभ्यर्च्य यथाविधिः ।
श्रद्धया शरणं कृत्वा भज नित्यं समाहिता ॥ र्म्_37.243{93} ॥
ततस् तत्पुण्यपाकेन पापं नो विलयं व्रजेत् ।
ततः संपत् समृद्धिः स्यात् तदा लप्स्यावहे सुखं ॥ र्म्_37.244{94} ॥
इति मे वचनं श्रुत्वा धैर्य्यम् आलम्व्य सांप्रतं ।
पुत्रपुत्रीं समादाय प्रैहि गृहे व्रजामहे ॥ र्म्_37.245{95} ॥
इति भर्त्रोदितं श्रुत्वा धीमती साभिबोधिता ।
पुत्रं पुत्रीं पुरोधाय शनैर् भर्त्रा सहाचरत् ॥ र्म्_37.246{96} ॥
तत्र सा स्वगृहे गत्वा क्षणं स्थित्वा निरुत्सहा ।
ततः शान्तमतीं द्रष्टुं समुत्थाय शनैर् ययौ ॥ र्म्_37.247{97} ॥
तत्र सा धीमती तस्याः शांतमत्याः पुरोगता ।
गलदश्रुविलिप्तास्या निःश्वसंत्य् एवम् अब्रवीत् ॥ र्म्_37.248{98} ॥
शांतमते पितुर् यज्ञमहोत्साहप्रवर्त्तितं ।
तत् संद्रष्टु गता तत्र महालज्जान्विता चरं ॥ र्म्_37.249{99} ॥
यन् मां दृष्ट्वा भगिन्यो ऽपि ज्ञातिवंधुसुहृज्जनाः ।
अपि सर्वे मिथो दृष्ट्वा प्रजल्पिताभ्युपाहसन् ॥ र्म्_37.250{100} ॥
भागिनेयाश् च सर्वे ऽपि मां दृष्ट्वा रुषिताशयाः ।
पुत्रपुत्रीं च मे दृष्ट्वा फुत्कृत्य प्रत्याताडयन् ॥ र्म्_37.251{1} ॥
पितृभ्यां मानिताः सर्वाः भगिन्यस् ता यथादरात् ।
तथाहं मानिता नैव द्रष्टुम् अपि न चैष्यते ॥ र्म्_37.252{2} ॥
रात्राव् अपि गृहे वासं न मे दत्तं निरादरात् ।
शिवालये निषण्णा तन् निशां कृच्छ्राद् व्यलंघयं ॥ र्म्_37.253{3} ॥
एवम् अहं महल्लज्जादुःखाग्निपतितापिता ।
मर्त्तुम् अपि तद् इच्छामि किम् एवं जीवितेनपि ॥ र्म्_37.254{4} ॥
यदि ते ऽस्ति कृपा भद्रे दुःखिन्यां मयि विद्यते ।
तद् द्रव्योपार्जनोपायं समुपदेष्टुम् अर्हति ॥ र्म्_37.255{5} ॥
इति तयोदितं श्रुत्वा शान्तमतीर् दयार्दितः ।
धीमतीं तां समालोक्य समाश्वास्यैवम् अब्रवीत् ॥ र्म्_37.256{6} ॥
धीमती श्रीमहासंपत्साधनोपायम् अस्ति मे ।
यद्य् अत्राप्य् अस्ति ते वांछा प्रवक्ष्यामि शृणुष्व तत् ॥ र्म्_37.257{7} ॥
यदि श्रद्धास्ति ते देव्या वसुलक्ष्म्या व्रतं चर ।
ततस् ते श्रीवसुन्धारा महादेवी वसेद् गृहे ॥ र्म्_37.258{8} ॥
ततस् तस्या महादेव्याः कृपादृष्टिप्रसादतः ।
संपत्तिस् ते समुद्भूता प्रवर्द्धिता भवेद् गृहे ॥ र्म्_37.259{9} ॥
तदा त्वं श्रद्धयार्थिभ्यो दानं दत्वा यथेप्सितं ।
त्रिरत्नभजनं कृत्वा शुभे चर सुखाशिनी ॥ र्म्_37.260{10} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतिं गता ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_37.261{11} ॥
एवं मत्वास्ति ते वांछा संबुद्धपद साधने ।
श्रीदेव्याः शरणं गत्वा समाधाय व्रतं चर ॥ र्म्_37.262{12} ॥
इति तया समादिष्टं श्रुत्व सा धीमती मुदा ।
तां शांतमतीम् आनम्य सांजलीर् एवम् अब्रवीत् ॥ र्म्_37.263{13} ॥
साधु भद्रे व्रतं धृत्वा श्रीदेव्याः शरणं गता ।
त्रिरत्नभजनम् कृत्वा चरिष्यामि शुभे सदा ॥ र्म्_37.264{14} ॥
तद् भवंती कृपादृष्ट्या तद् उपदेशम् आदिश ।
यावज्जीवं चरिष्यामि श्रीदेव्या व्रतम् आदरात् ॥ र्म्_37.265{15} ॥
इति तयोदितं श्रुत्वा शान्तमतिः समादरात् ।
धीमतीं तां समालोक्य पुनर् एवम् अभाषत ॥ र्म्_37.266{16} ॥
यदि भद्रे ऽस्ति ते सत्यं स्नात्वा शुद्धाम्वरावृता ।
प्रेहि तं श्रीघनं नाथं संस्मृत्वा प्रार्थयावहे ॥ र्म्_37.267{17} ॥
तयेति समुपादिष्टं श्रुत्वा सा धीमती मुदा ।
सहसा स्वगृहे गत्वा स्नात्वा शुद्धाम्वरावृता ॥ र्म्_37.268{18} ॥
स लाजाक्षतपुष्पाणि गृहित्वा सहसा मुदा ।
तस्याः शांतमतेर् अग्रे प्रयातेवम् अभाषत ॥ र्म्_37.269{19} ॥
भद्रे त्वया यथादिष्टं तथाहं समुपागता ।
तं मुनीन्द्रम् अनुस्मृत्वा प्रार्थयेह समागमं ॥ र्म्_37.270{20} ॥
इति तयोदितं श्रुत्वा सा शान्तमतिर् आदरात् ।
तां धीमतीं समामंत्र्य प्रासादान्तं ययौ मुदा ॥ र्म्_37.271{21} ॥
तत्र शान्तमतिः साट्टे धीमत्या सह संस्थिता ।
जानुभ्यां भुवि संस्थित्वा भगवत्स्थितदिग्मुखा ॥ र्म्_37.272{22} ॥
संभवन्त्य् उत्तरासङ्गं सह लाजाक्षतादिभिः ।
साम्बुपुष्पाञ्जलिं धृत्वा नत्वैवं प्रार्थयन् मुनिं ॥ र्म्_37.273{23} ॥
भगवन् नाथ सर्वज्ञ विजानीते भवान् अपि ।
यद् इयं धीमती साध्वी भगवच्छरणम् आगता ॥ र्म्_37.274{24} ॥
यद् इयं सांप्रतं शास्तुर् उपदेशाद् यथाविधि ।
श्रीवसुधामहादेव्या व्रतं चरितुम् इछति ॥ र्म्_37.275{25} ॥
तद् अत्र समुपागत्य कृपयास्मै दयानिधे ।
श्रीसाधनं व्रतं श्रेष्ठं समुपदेष्टुम् अर्हति ॥ र्म्_37.276{26} ॥
इति संप्रार्थ्य सा शान्तमतिस् तं त्रिजगद्गुरुं ।
अनुस्मृत्वा त्रिधा नात्वा प्राक्षिपत् तज्जलादिकं ॥ र्म्_37.277{27} ॥
प्रक्षिप्तानि तया तानि साम्बुलाजाक्षताण्य् अपि ।
सदूर्वाकुण्डपुष्पाणि सर्वाणि गगणे शरन् ॥ र्म्_37.278{28} ॥
ततस् तानि प्रगच्छन्ति विहायसा विहङ्गवत् ।
कोशाम्व्यां घोषिरारामे विहारे समुपाययुः ॥ र्म्_37.279{29} ॥
तत्रस्थस्य मुनीन्द्रस्य मुर्द्धा परि विहायसि ।
संस्थितानि प्रभासन्ति विरेजुस् तानि छत्रवत् ॥ र्म्_37.280{30} ॥
तद् दृष्ट्वा भिक्षवः सर्वे सांघिकास् ते सविस्मयाः ।
कुतो निमंत्रणम् आयातम् इति ध्यात्वाभितस्थिरे ॥ र्म्_37.281{31} ॥
तत्रानन्दः समुत्थाय सांजलिः पुरतो गतः ।
तं मुनीन्द्रं प्रणत्वैवं पप्रछ विस्मयान्वितः ॥ र्म्_37.282{32} ॥
भगवन् कुत एतानि साम्बुलाजाक्षतान्य् अपि ।
पुष्पाणि समुपायान्ति तत् समादेष्टुम् अर्हति ॥ र्म्_37.283{33} ॥
इति तेनोदितं श्रुत्वा भगवां स मुनीश्वरः ।
तम् आनंदं समामंत्र्य समालोक्यैवम् अब्रवीत् ॥ र्म्_37.284{34} ॥
यः काशीपुरे विप्रो विष्णुदासो दरिद्रितः ।
धर्मध्वजो धनी श्रीमान् गृहस्थो धनदोपमः ॥ र्म्_37.285{35} ॥
तयोर् भार्य उभे साध्वौ शान्तमती रमोपमा ।
धीमती ब्राह्मणी भद्रा दरिद्रिता सुदुःखिनी ॥ र्म्_37.286{36} ॥
ताभ्यां श्रीवसुधाराया व्रतं चरितुम् इछ्यते ।
तद् इदं निमंत्रणार्थं मे उपहारं समागतं ॥ र्म्_37.287{37} ॥
तस्माच् छ्रीवसुधाराया व्रतविधिं त्वम् आत्मना ।
उपदेष्टुं तयोर् गेहे काश्यां गंतुं समर्हसि ॥ र्म्_37.288{38} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदस् तथेति सः ।
शास्तुर् आज्ञां शिरोधृत्वा काश्यां विहायसा ययौ ॥ र्म्_37.289{39} ॥
तत्राकाशान् स आनंदः शांतमतेर् गृहे पुरः ।
अवतीर्य सुधारश्मिर् इव तस्थौ प्रभासयन् ॥ र्म्_37.290{40} ॥
तत्रस्थं तं समालोक्य शान्तमतिः स धीमती ।
मुदिता सहसा तस्य प्रणंतुं समुपाचरत् ॥ र्म्_37.291{41} ॥
तत्र सा समुपासृत्य शांतमतिः सधीमती।
तम् आनंदं समालोक्य नत्वैवं प्रार्थयन् मुदा ॥ र्म्_37.292{42} ॥
भदन्त चरणौ वंदे भवतां शरणं गता ।
तद् अत्र कृपयास्माकम् अनुगृह्य प्रसीदतु ॥ र्म्_37.293{43} ॥
यद् अस्माकं भवाञ् छास्ता तद् गृहे समुपाश्रयन् ।
वसुधारामहादेव्या व्रतविधिं समादिश ॥ र्म्_37.294{44} ॥
यद् इयं धीमती भद्रा भवताम् उपदेशतः ।
वसुलक्ष्म्या महादेव्या व्रतं चरितुम् इछति ॥ र्म्_37.295{45} ॥
तद् अस्यै श्रीमहादेव्या व्रतविधिं यथाक्रमं ।
विस्तरं समुपादेष्टुम् अर्हति कृपया भवान् ॥ र्म्_37.296{46} ॥
इति संप्रार्थितं शान्तमत्या तया निशम्य सः ।
आनंदस् ते उभे दृष्ट्वा तथेति प्रत्यभाषत ॥ र्म्_37.297{47} ॥
ततः सा धीमती नत्वा सांजलिस् तं जिनात्मजं ।
आनंदं सुप्रसन्नास्या दृष्ट्वैवं प्रार्थयन् मुदा ॥ र्म्_37.298{48} ॥
भदंतो ऽहं स्वदैवेन पापिनी दुःखभागिनी ।
तद् भवच्छरणं गत्वा समिछे वसुधाव्रतं ॥ र्म्_37.299{49} ॥
तद् भवान् कृपया शास्तर् गृहे मे समुपागतः ।
यथाविधि समादिश्य व्रतं मे दातुम् अर्हति ॥ र्म्_37.300{50} ॥
तयैवं प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः ।
तत्र उत्थाय धीमत्यास् तस्या गृहे उपाचरत् ॥ र्म्_37.301{51} ॥
तत्र सा धीमती साध्वी शान्तमत्या समन्विता ।
सहसा स्वगृहे गत्वा प्रस्तारयत् तदासनं ॥ र्म्_37.302{52} ॥
ततः सा धीमती तस्य शास्तुः शुद्धाम्बुना मुदा ।
पादप्रक्षालनं कृत्वा प्रणत्वैव च प्रार्थयत् ॥ र्म्_37.303{53} ॥
भदंतार्हन् महाभिज्ञ ममानुग्रहकारणं ।
अत्रासने समाश्रित्य धर्मम् आदेष्टुम् अर्हति ॥ र्म्_37.304{54} ॥
तयेति प्रार्थितं श्रुत्वा स आनंदः प्रसन्नधीः ।
तद् दत्तासन आश्रित्य तस्थौ ध्यात्वा प्रभासयन् ॥ र्म्_37.305{55} ॥
तं दृष्ट्वा ब्राह्मणः सो ऽपि विष्णुदासः प्रसादितः ।
सहसा सांजलिर् नत्वा तत्रैकांत उपाश्रयन् ॥ र्म्_37.306{56} ॥
ततः सा धीमती साध्वी सांतमतीसमन्विता ।
तम् आनंदं समभ्यर्च्य भोजनेनाभ्यतोषयत् ॥ र्म्_37.307{57} ॥
ततः सा प्रणतिं कृत्वा नीचासनसमाश्रिता ।
तम् आनंदं महाभिज्ञं सांजलिर् एवम् अब्रवीत् ॥ र्म्_37.308{58} ॥
भदन्त भवताम् आज्ञां धृत्वाहं शिरसा मुदा ।
श्रीदेव्या वसुधारायाश् चरिष्यामि व्रतं ध्रुवं ॥ र्म्_37.309{59} ॥
तद् भदन्त भवाञ् छास्ता तद् विधिं मे यथाक्रमं ।
कृपानुग्रहम् आधाय समुपादेष्टुम् अर्हति ॥ र्म्_37.310{60} ॥
इति संप्रार्थिते तेन विष्णुदासेन सद्धिया ।
श्रुत्वानंदः स संपश्यन्स् तं द्विजम् एवम् अब्रवीत् ॥ र्म्_37.311{61} ॥
शृणु विप्र मुनीन्द्रेण याथादिष्टं मया श्रुतं ।
तथाहं ते प्रवक्ष्यामि श्रीव्रतस्य विधिं क्रमात् ॥ र्म्_37.312{62} ॥
भाद्रपदे ऽशिते पक्षे तृतीयायां तिथौ तथा ।
माघे वापि शिते पक्षे शुक्लपक्षे ऽपि वा सदा ॥ र्म्_37.313{63} ॥
तीर्थे देवालये शुद्धभूप्रदेशे गृहेषु वा ।
सम्यग् भूशोधनं कुर्याद् गोमयेन मृदाम्बुना ॥ र्म्_37.314{64} ॥
प्रातर् उत्थाय तीर्थेषु स्नात्वा शुचिसमाचरः ।
त्रिधाचम्यामृतं कायं पंचगव्येन शोधयेत् ॥ र्म्_37.315{65} ॥
शुद्धशीलसमाधानः परिशुद्धाम्वरावृतः ।
संबोधिचित्तम् आधाय सद्गुरोर् उपदेश धृक् ॥ र्म्_37.316{66} ॥
सुभूमौ मण्डलं सम्यग् वर्त्तयित्वा यथाविधि ।
ध्वजछत्रपताकाभि वितानैश् चाभिमंडयेत् ॥ र्म्_37.317{67} ॥
मंडलस्य वहिस् तस्य ज्वालावल्या वहिः पुनः ।
पंचवल्यावलीभिश् च स लाजाक्षतसंयुतैः ॥ र्म्_37.318{68} ॥
वेष्टयित्वा ततो वाह्ये क्रमान् संस्थापयेद् घटान् ।
तीर्थाम्बुपूरितान् पीतवस्त्रावृतान् सचिंह्नितान् ॥ र्म्_37.319{69} ॥
तात्र श्रीवसुधां देवीं सगणां विधिना क्रमात् ।
समावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ र्म्_37.320{70} ॥
तृतीयायां तथा प्रातः स्नात्वा शुद्धाम्वरावृतः ।
मध्याह्ने स्वासनासीन उत्तरादिग्मुखस्थितः ॥ र्म्_37.321{71} ॥
आदौ गुरुं समभ्यर्च्य रत्नत्रयं समर्चयेत् ।
ततो ध्यात्वा महादेवीं वसुधारां शुभकरीं ॥ र्म्_37.322{72} ॥
सगणां तां समावाह्य दत्वा पादार्घम् आदरात् ।
पीतमयोपहारेण समभ्यर्च्य यथाविधि ॥ र्म्_37.323{73} ॥
सर्वोपकरणान्य् अग्रे निवेस्य समढोकयत् ।
ततस् तद्धारणीं सम्यक् पठेन् मंत्राणि च क्रमात् ॥ र्म्_37.324{74} ॥
ततः कृतांजलिः स्तुत्वा कुर्याश् च पापदेशनां ।
पुण्यानुमोदनां चापि कुर्याच् च प्रणतिं स्मरन् ॥ र्म्_37.325{75} ॥
कुर्यात् प्रदक्षिणान्य् एवम् अष्टाङ्गैः प्रणमेत् पुनः ।
बोधिचित्तं समाधाय संप्रार्थयेद् अभीप्सितं ॥ र्म्_37.326{76} ॥
ततो वलिं प्रदत्वा च स भूतान् परितोषयेत् ।
ततः क्षमार्थनां कृत्वा व्रतसूत्रं च प्रार्थयेत् ॥ र्म्_37.327{77} ॥
षोडशभेदितं सूत्रम् षोडशग्रंथिसंयुतं ।
व्रतसूत्रं समादाय रक्षार्थं वंधयेत् करे ॥ र्म्_37.328{78} ॥
ततो गुरुं समाराध्य देयाद् दानं समिछितं ।
सदक्षिणं सुसत्कारैः सत्कृत्य समतोषयेत् ॥ र्म्_37.329{79} ॥
ततस् तृतीया यामे ऽह्नेः प्राश्नुयाद् यवपूरकान् ।
पंचामृतफलस्कंदमूलपत्रादिकान् अपि ॥ र्म्_37.330{80} ॥
पालनान्ते पुनः स्नात्वा तां श्रीदेवीम् अनुस्मरन् ।
तद्धारणीं पठन् रात्रौ पूजयेच् च समाहितः ॥ र्म्_37.331{81} ॥
एवं नित्यं चतुः संध्यं पूजयेच् छ्रीवसुंधरां ।
तत् परेद्युस् तथाभ्यर्च्य तन् मंडलं विसर्जयेत् ॥ र्म्_37.332{82} ॥
तद् रजांसि समादाय संनिधाय शुभे घटे ।
भंडागारे प्रतिस्थाप्य सदारान् भजेन् नमेत् ॥ र्म्_37.333{83} ॥
शेषरजः स निर्माल्यं नद्यां नागान् यथाविधि ।
समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ र्म्_37.334{84} ॥
ततस् तज् जलम् आदाय गृहे गत्वा समन्ततः ।
प्रोक्ष्य तन् मंडलस्थाने कुमारीं विधिनार्चयेत् ॥ र्म्_37.335{85} ॥
ततस् तन् सगणं चक्रं समभ्यर्च्य यथाविधि ।
भोजनैः संपरितोष्य प्रार्थयेद् यत् समीछितं ॥ र्म्_37.336{86} ॥
तथा तत् सगणं चक्रं कृत्वा क्षमार्थनां ततः ।
सांजलिश् च क्रमान् नत्वा विसर्जयेत् प्रसादयन् ॥ र्म्_37.337{87} ॥
तदा श्रीवसुधा देवी स्वयम् आगत्य तद्गृहे ।
समाश्रित्य सदा सर्वद्रव्यैः संपूरयेद् ध्रुवं ॥ र्म्_37.338{88} ॥
ततस् तत्र गृहे नित्यं मंगलं निरुपद्रवं ।
दानपुण्यमहोत्साहप्रवर्त्तितं भवेत् सदा ॥ र्म्_37.339{89} ॥
एवं तस्या महादेव्या वसुलक्ष्म्या व्रतोद्भवं ।
पुण्यं महद् असंख्येयम् अप्रमेयं विदुर् जिनाः ॥ र्म्_37.340{90} ॥
एवं महत्तरं पुण्यं विज्ञाय द्विज तत् तथा ।
श्रद्धये तद्व्रतं कुर्या यदि संपत्तिम् इछसि ॥ र्म्_37.341{91} ॥
यश् च तां श्रीमहादेवीं वसुधाराम् अनुस्मरन् ।
यत् कार्य्यम् आरभेत् तस्य तत् सर्वं हि समृद्ध्यति ॥ र्म्_37.342{92} ॥
रत्नार्थी लभते रत्नं धनार्थी लभते धनं ।
भोग्यार्थी लभते भोग्यं यसो ऽर्थी लभते यशः ॥ र्म्_37.343{93} ॥
द्रव्यार्थी लभते द्रव्यान् गुणार्थी लभते गुणान् ।
विद्यार्थी लभते विद्यां शुभार्थी लभते शुभं ॥ र्म्_37.344{94} ॥
मान्यार्थी लभते मान्यं जयार्थी लभते जयं ।
धर्मार्थी लभते धर्मान् सुखार्थी लभते सुखं ॥ र्म्_37.345{95} ॥
राज्यार्थी लभते राज्यं गृहार्थी लभते गृहं ।
क्षेत्रार्थी लभते क्षेत्रान् रसार्थी लभते रसान् ॥ र्म्_37.346{96} ॥
भार्यार्थी लभते भार्यां सुतार्थी लभते सुतां ।
पुत्रार्थी लभते पुत्रान् पौत्रार्थी पौत्रम् आप्नुयात् ॥ र्म्_37.347{97} ॥
ज्ञानार्थी लभते ज्ञानं मोक्षार्थी मोक्षम् आप्नुयात् ।
एवम् अन्यानि वस्तूनि सर्वोपकरणान्य् अपि ॥ र्म्_37.348{98} ॥
सर्वाणि द्रव्यजातानि वस्त्रादि भूषणान्य् अपि ।
समाप्नुयात् समृद्धानि वसुलक्ष्म्याः प्रसादतः ॥ र्म्_37.349{99} ॥
ततो दानानि दद्यात् स शुद्धशीलः समाचरेत् ।
क्षान्तिं च भावयेन् नित्यं धर्मवीर्य्यं समारभेत् ॥ र्म्_37.350{100} ॥
तथा ध्यानं समाधाय प्रज्ञाब्धिं संतरेद् द्रुतं ।
सर्वोपायविधानज्ञो बोधिप्रणिधिमानसः ॥ र्म्_37.351{1} ॥
सद्बुद्धिबलवान् धीरः स बोधिज्ञानम् आप्नुयात् ।
सर्वमारगणाञ् जित्वा निःक्लेशो ऽर्हञ् जितेन्द्रियः ।
संबुद्धपदम् आसाद्य निर्वृतपदम् आप्नुयात् ॥ र्म्_37.352{2} ॥
एवं ब्राह्मण विज्ञाय सद्धर्म्मं यदि वांछसि ।
तां श्रीदेवीं महालक्ष्मीं वसुधारां सदा भज ॥ र्म्_37.353{3} ॥
तथा ते सर्वदा गेहे मंगलं निरुपद्रवं ।
सर्वत्रेह परत्रापि भवेन् नूनं न संशयः ॥ र्म्_37.354{4} ॥
तथा दानानि दत्वा त्वं स्वयं तद्व्रतं संचरन् ।
सर्वसत्वहितं कृत्वा यावज्जीवं सुखं चर ॥ र्म्_37.355{5} ॥
ततः क्लेशविमुक्तात्मा संबोधिप्रणिधानधृक् ।
बोधिचर्याव्रतारक्ता बोधिसत्वो भवेद् ध्रुवं ॥ र्म्_37.356{6} ॥
सर्वे ऽपि सुगता बोधिसत्वाश् चापि जिनात्मजाः ।
वसुधाराव्रतं धृत्वा संविभ्रति जगत्त्रयं ॥ र्म्_37.357{7} ॥
इति तेनार्हतादिष्टं श्रुत्वा स ब्राह्मणो मुदा ।
तथा श्रीवसुधाराया व्रतं चरितुम् ऐछत ॥ र्म्_37.358{8} ॥
ततः स विष्णुदासो ऽपि भार्यां तां धीमतीं मुदा ।
सुप्रसन्नमुखाम्भोजः समालोक्यैवम् अब्रवीत् ॥ र्म्_37.359{9} ॥
प्रिये धन्यासि कल्याणी यद् अहं त्वत्प्रयत्नतः ।
श्रीदेव्या व्रतं रत्नं प्राप्नोमि सांप्रतं खलु ॥ र्म्_37.360{10} ॥
तद् यथानेन शास्त्रात्र समादिष्टं तथा खलु ।
श्रीदेव्याः शरणं गत्वा वांछामि चरितुं व्रतं ॥ र्म्_37.361{11} ॥
तत् त्वम् अपि समाधाय मया सार्द्धं तथादरात् ।
श्रीदेव्याः शरणं कृत्वा व्रतं चरितुम् अर्हति ॥ र्म्_37.362{12} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता ।
भर्त्तारं तं समालोक्य पुनर् एवम् अभाषत ॥ र्म्_37.363{13} ॥
तथा सत्यं समाधाय श्रद्धया शरणं गतौ ।
श्रीदेव्या व्रतम् अत्रावां समादराच् चरावहे ॥ र्म्_37.364{14} ॥
इत्य् उक्त्वा सा सती भद्रा धीमती सहसादरात् ।
व्रतोपचारसामग्रीं मुदिता समसाधयत् ॥ र्म्_37.365{15} ॥
ततस् तं गुरुम् आनंदं नत्वा सा सांजलिर् मुदा ।
तद् व्रतारम्भम् आधातुं प्रार्थयेद् एवम् आदरात् ॥ र्म्_37.366{16} ॥
भदन्त श्रीमहादेव्या व्रतदिन उपास्थितः ।
तद् यथाविधिम् आदिश्य संचारयतां व्रतं ॥ र्म्_37.367{17} ॥
तयेति प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः ।
सर्वविधिं समादिश्य व्रतारंभं समाक्रमत् ॥ र्म्_37.368{18} ॥
तत्र भूशोधनं कृत्वा स आनंदो यथाविधि ।
मंडलं वर्त्तयित्वा तत् प्रतिस्थाप्याध्यवासयत् ॥ र्म्_37.369{19} ॥
तथा तौ दंपती तीर्थे स्नात्वा शुद्धाम्वरावृतौ ।
यथा शास्त्रा समादिष्टं सर्वं कृत्वोपतस्थतुः ॥ र्म्_37.370{20} ॥
ततस् तौ दंपती तस्य शास्तुर् आदेशतः क्रमात् ।
शुद्धासनसमासीनाव् उत्तराभिमुखस्थितौ ॥ र्म्_37.371{21} ॥
गव्यैः कामादि वस्तूनि सर्वाणि शुद्धितान्य् अपि ।
कृत्वा शास्त्रा यथादिष्टं तथारंभं प्रचक्रतुः ॥ र्म्_37.372{22} ॥
आदौ गुरुं समभ्यर्च्य ततो रत्नत्रयं मुदा ।
अभ्यर्च्य शरणं कृत्वा प्रणत्वा विधिनादरात् ॥ र्म्_37.373{23} ॥
ततस् तन्मण्डले देवीं सगणां श्रीवसुंधरां ।
ध्यात्वा तथा समावाह्य दत्वा पादार्घम् आदरात् ॥ र्म्_37.374{24} ॥
ततस् तां सगणां देवीं समभ्यर्च्य यथाक्रमं ।
सर्वपूजोपचारैश् च पठित्वा धारणीं ततः ॥ र्म्_37.375{25} ॥
सहृद्वीजादिमंत्राणि यथाक्रमं जजल्पतुः ।
ततो ऽष्टाङ्गप्रणामैश् च नत्वा कृत्वा प्रदक्षिणां ॥ र्म्_37.376{26} ॥
गुणाभिवादनै स्तोत्रै स्तुत्वा नतौ ववंदतुः ॥ र्म्_37.377{27!} ॥
ततस् तौ सांजली स्थित्वा प्रक्षित्वा पापदेशनां ।
पुण्यानुमोदनां चापि संप्रार्थ्य श्रीसमृद्ध्यतां ॥ र्म्_37.378{28} ॥
सलोकपालभूतेभ्यो बलिं पंचामृतान्वितं ।
यथाविधि प्रढौकित्वा प्रार्थयतां सुसंपदं ॥ र्म्_37.379{29} ॥
ततो दानं प्रदत्वैवं गुरवे ऽपि सुदक्षिणां ।
ततः क्षमार्थनां कृत्वा समाप्तं चक्रतुर् व्रतं ॥ र्म्_37.380{30} ॥
ततो गुरुस् तयोः शास्ता व्रतसूत्रं समर्प्पयत् ।
संपत्तिससमृद्धाशीर्वादं ददौ प्रसादितः ॥ र्म्_37.381{31} ॥
ततो गुरुं पुरस्कृत्य यथोक्तं व्रतपालनं ।
कृत्वा ततः पुनः स्नात्वा देवीं ध्यात्वा निषेदितुः ॥ र्म्_37.382{32} ॥
ततो रात्रौ समाधाय सगणां वसुंधरां ।
देवीं ध्यात्वा समभ्यर्च्य धर्म्मं श्रुत्वा निषेदतुः ॥ र्म्_37.383{33} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0