रत्नमालावदान · भाग 401420
संपठेद् धारणीं चापि श्रद्धया भक्तिमानसः ॥ र्म्_38.295{94} ॥
तथ चैकम् अहोरात्रम् अविछिन्नं पंथेन् मुदा ।
यावत् त्रिपंचसप्ताहोरात्राणि च पठेत् तथा ॥ र्म्_38.296{95} ॥
आचार्यश् च तथा रात्रौ स्त्रिः कृत्वा दिवसस्य च ।
स लोकपालभूतेभ्यो बलिं दद्याद् यथाविधि ॥ र्म्_38.297{96} ॥
ततो दानपतिः शास्त्रे सर्वोपकरणादिकं ।
दाने सदक्षिणं दद्याद् अन्येभ्यो ऽपि तथादरात् ॥ र्म्_38.298{97} ॥
ततश् च सांजलिर् नत्वा प्रार्थयित्वा क्षमाम् अपि ।
संबोधिसाधनीं द्रव्यसंपत्तिं प्रार्थयेन् मुदा ॥ र्म्_38.299{98} ॥
ततः सर्वं समाप्यैवैः कृत्वापि तद् विसर्जनं ।
यथार्हभोजनैः सर्वाञ् छास्त्रादीन् समतोषयेत् ॥ र्म्_38.300{99} ॥
तन् मण्डले रजः सर्वं समादाय सपुष्पकं ।
कोष्ठकोष्ठालयागारे निक्षिप्य स्थापयेत् सदा ॥ र्म्_38.301{100} ॥
तद् रजो यत्र निक्षिप्तं तत्र संपत् प्रवर्द्धितः ।
सर्वद्रव्याभिसंपूर्णा भवेन् न क्षिणुयात् क्वचित् ॥ र्म्_38.302{1} ॥
निर्माल्यम् अपरं सर्वं सनैवेद्यध्वजादिकं ।
नद्यां नागान् समभ्यर्य संप्रक्षिप्य प्रवाहयेत् ॥ र्म्_38.303{2} ॥
ततस् तद् धारणीविद्या भवेत् पठितसिद्धिता ।
यत्रापि पठ्यते तत्र संपत् प्रवर्द्धिता भवेत् ॥ र्म्_38.304{3} ॥
एवं सत्यं समाख्यातं सर्वैर् अपि मुनीश्वरं ।
श्रीदेव्याः साधनं कल्यं मत्वैवं चर तद् व्रतं ॥ र्म्_38.305{4} ॥
य एवं श्रीमहादेव्याः श्रद्धया शरणं गतः ।
यथाविधि समाधाय चरते व्रतम् आदरात् ॥ र्म्_38.306{5} ॥
तस्य मारगणाः सर्वे सत्वोपद्रवकारकाः ।
विहेठनां सदा क्वापि कर्त्तु मैवाभिशक्नुयुः ॥ र्म्_38.307{6} ॥
सर्वशक्रादयो देवाः सर्वदैत्याधिपा अपि ।
ग्रहास् ताराश् च सिद्धाश् च साध्या विद्याधरा अपि ॥ र्म्_38.308{7} ॥
लोकपालाश् च सर्वे ऽपि गंधर्वाः किंनरा अपि ।
यक्षाश् च राक्षसाः सर्वे नागाश् च गरुडा अपि ॥ र्म्_38.309{8} ॥
मातृका भैरवाः सर्वे सकुमारविनायकाः ।
महाकालाश् च डाकिन्यः शाकिन्यो ऽपि तथापराः ॥ र्म्_38.310{9} ॥
योगिन्यो ऽपि तथा सर्वे वीरा यमान्तकादयः ।
रक्षन्ति सर्वदा नित्यं श्रीदेव्याः शरणाश्रितं ॥ र्म्_38.311{10} ॥
धारणीपाठकं यो ऽपि साधकं व्रतचारिणं ।
तथा भूतगणाः सर्वे पिशाचाश् च दुराशयाः ॥ र्म्_38.312{11} ॥
सर्वे ज्वरादयो रोगा अपस्मारादयो ऽपि च ॥ र्म्_38.313{12} ॥
उन्मादा पिटकाश् चापि सर्वे कुष्ठाश् च कछवः ।
श्रीदेवीव्रतिनो देहे न स्पृशंति कदाचन ॥ र्म्_38.314{13} ॥
ईतयश् च तथा सर्वा महोपद्रवकारकाः ।
तस्य देशे गृहे देहे न विशन्ति कदा चन ॥ र्म्_38.315{14} ॥
वसुंधर्या व्रते यत्र धारणी च प्रवर्त्तते ।
तत्र मारगणा दुष्टा उपसर्गा विशन्ति न ॥ र्म्_38.316{15} ॥
नृपाग्न्युदका चौरादि दुष्टाः शठाश् च वंचकाः ।
श्रीदेवीव्रतिनः किंचिद् अपकर्तुं न शक्नुयुः ॥ र्म्_38.317{16} ॥
यश् च श्रीवसुधाराया भक्तिमाञ् छरणं गतः ।
सर्वदा स्मरणं कृत्वा भजते संचरद् व्रतं ॥ र्म्_38.318{17} ॥
यश् च तस्या महादेव्या धारणीं मुदितः स्मरन् ।
पठते सर्वदाप्य् एवं परेभ्यो ऽपि समादिशेत् ॥ र्म्_38.319{18} ॥
यश् चैतद् धारणीं सम्यग् ऽलिखेल् लिखाययेद् अपि ।
लिखितां समादाय संस्थाप्य भजते गृहे ॥ र्म्_38.320{19} ॥
यश् चापि हृदयं देव्या लिखित्वा भूर्जपत्रके ।
मूर्द्ध्नि कण्ठे भुजे वाहौ दधाति नित्यम् आदरात् ॥ र्म्_38.321{20} ॥
तेषाम् अपि च सर्वेषां मारविघ्नोपसर्गिकाः ।
सर्वे ऽपि सर्वदा क्वापि ह्य् अपकर्त्तुं न शक्नुयुः ॥ र्म्_38.322{21} ॥
सर्वे ऽपि बोधिसत्वास् ते त्रैधातुकनिवासिनः ।
एतद्विद्यानुभावेन दानपारमिताश्रिताः ॥ र्म्_38.323{22} ॥
सर्वोपकरणैः सर्वान् सत्वान् संतर्प्पयन्त्य् अपि ।
तथा दानं सदा कृत्वा बोधिमार्गे चरन्ति ये ॥ र्म्_38.324{23} ॥
ते सर्वे क्रमेणैवं पूर्य पारमिता दशः ।
सर्वान् मारगाणां जित्वा प्राप्नुयु बोधिसंपदं ॥ र्म्_38.325{24} ॥
सर्वभूपाश् च राजानश् चक्रवर्त्त्यादयो नृपाः ।
पालयन्ति प्रजा लोकान् धर्मैर् लक्ष्मीव्रतोद्भवैः ॥ र्म्_38.326{25} ॥
एवम् अन्ये ऽपि लोकाश् च ये ये संपत्समृद्धिताः ।
महाधना महाभोगाः सर्वद्रव्यसमन्विताः ॥ र्म्_38.327{26} ॥
दत्वा दानं सुखं भुक्त्वा यावज्जीवं शुभे सदा ।
प्रचरन्त्य् अपि सर्वे ते ज्ञेया लक्ष्मीप्रसादतः ॥ र्म्_38.328{27} ॥
ये श्रीदेव्या व्रतं धृत्वा सर्वार्थिभ्यो यथेप्सितं ।
ददाति ते महासत्वाः श्रीमन्तः सद्गुणान्विताः ॥ र्म्_38.329{28} ॥
यशःसंपत्समापन्नाः सर्वविद्याकलास्पदाः ।
धर्मात्मानो महेशाख्यः सुधियः सत्यवादिनः ॥ र्म्_38.330{29} ॥
सुशीलाः सुभगा भद्राः क्षान्तिसौरभ्यवासिनः ।
सौम्येन्द्रिया विशुद्धांगाः करुणार्द्रशुभाशयाः ॥ र्म्_38.331{30} ॥
बलवीर्यमहोत्साहा निःक्लेशाः सुसमाहिताः ।
जितेन्द्रिया महाधीराः प्रज्ञावन्तो विचक्षणाः ॥ र्म्_38.332{31} ॥
उपायविधिविज्ञाश् च सर्वसत्वहितार्थिनः ।
सुप्रणिधिसमाधाना बलिनो ब्रह्मचारिणः ॥ र्म्_38.333{32} ॥
ज्ञानविज्ञानविद्वान्सः सर्वसत्वशुभंकराः ।
बोधिसत्वा जगन्नाथा बुद्धात्मजा भवंत्य् अपि ॥ र्म्_38.334{33} ॥
यतिभिर् ना अतीतास् ते वर्त्तमाना अनागताः ।
ते ऽपि सर्वे महादेव्या व्रतपुण्यानुभावतः ॥ र्म्_38.335{34} ॥
क्रमात् पारमिताः सर्वाः परिपूर्य समाहिताः ।
बोधिलब्धा भवंत्य् एवं लप्स्यंति नान्यथा खलु ॥ र्म्_38.336{35} ॥
एवं मत्वा महाविद्यं श्रीदेवीं धारणीं परां ।
समाधाय पठन् नित्यं व्रतं चर समादरात् ॥ र्म्_38.337{36} ॥
एषा महैश्वरी देवी बोधिलक्ष्मीर् जिनेश्वश्री ।
जननी सर्वबुद्धानां धात्री मातानुपालिनी ॥ र्म्_38.338{37} ॥
अधृष्या सर्वदुष्टानां सर्वविघ्नविनाशिनी ।
महाविद्येश्वरी भद्रा सर्वारिष्ठनिसूदनी ॥ र्म्_38.339{38} ॥
यस्याः शरणमात्रेण व्रतं चरंति मानवाः ।
दारिद्र्यदुःखशोकाग्नौ न पतंति कदापि ते ॥ र्म्_38.340{39} ॥
अचिन्तितानि रत्नादि धनद्रव्यगुणानि च ।
यशोधर्मार्थकामादि सुखानि समवाप्नुयुः ॥ र्म्_38.341{40} ॥
एतत्पुण्यम् असंख्येयम् अप्रमेयं महत्तरं ।
सर्वैर् अपि मुनीन्द्रैर् हि संख्यातुं नापि शक्यते ॥ र्म्_38.342{41} ॥
सर्वे व्रतजपुण्यानानि संख्यातुम् अभिशक्यते ।
तद् एतद्व्रतपुण्यानां संख्यातुं केन शक्यते ॥ र्म्_38.343{42} ॥
यद् एतद्व्रतसादृश्यं कुत्रापि नो हि विद्यते ।
तद् अधिकं कुतो लोके सर्वत्रापि न दृश्यते ॥ र्म्_38.344{43} ॥
ईदृक् पुण्यमहारत्नं त्रैलोक्येष्व् अपि दुर्ल्लभं ।
त्रिरत्नभजनाद् एव लभ्यते भुवि मानवं ॥ र्म्_38.345{44} ॥
तद् एवं त्वं परिज्ञाय त्रिरत्नशरणं गतः ।
श्रीदेवीं विधिनावाह्य व्रतं चर समाहितः ॥ र्म्_38.346{45} ॥
एतत्पुण्यानुभावेन सर्वदा सद्गतीं गतः ।
श्रीसंपत्तिसमापन्नः प्रदाता सुखभृद् भवेत् ॥ र्म्_38.347{46} ॥
त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_38.348{47!} ॥
इति हेतोर् महादेव्याः स्वयं त्वं शरणं गतः ।
व्रतं चरंस् तथा लोके प्रचारय समंततः ॥ र्म्_38.349{48} ॥
इति तया महादेव्याः समादिष्टं निशम्य सः ।
सेनः कृतांजलिर् नत्वा तां देवीम् एवम् अब्रवीत् ॥ र्म्_38.350{49} ॥
एवं देवि करिष्यामि भवत्याज्ञां शिरो वहन् ।
तत् प्रसीद महादेव्या धारणीं संप्रदेहि मे ॥ र्म्_38.351{50} ॥
इति संप्रार्थितं तेन श्रुत्वा सा संप्रसादिता ।
देवी तं सेनम् आलोक्य समामंत्र्यैवम् आदिशत् ॥ र्म्_38.352{51} ॥
साधु सेन गृहाण त्वं देव्याया धारणीं वरां ।
स्वयं पठं परेभ्यो ऽपि देशयस्व यथाविधि ॥ र्म्_38.353{52} ॥
इत्य् आदिश्याप्सरोरूपा सा श्रीदेवी वसुंधरा ।
तस्मै सेनासु तां देव्या धारणीं संपठन् ददौ ॥ र्म्_38.354{53} ॥
स सेनस् तां महादेवीं प्रणत्वा सांजलिर् मुदा ।
श्रीदेव्या धारणीं विद्यां प्रणत्वा श्रद्धयाददे ॥ र्म्_38.355{54} ॥
ततः सा चाप्सरो देवी तस्मै सेनाय सादरं ।
स पंचामृतगोधूमै पिष्टकं पालने ददौ ॥ र्म्_38.356{55} ॥
तद् दत्तं पिष्टतं तं स सेनो दृष्ट्वा प्रमोदितः ।
प्रणत्वादाय तं भूपं स्मृत्वा न बुभुजे स्वयं ॥ र्म्_38.357{56} ॥
तदा दिव्यप्सरोरूपं त्यक्त्वा साक्षात् त्रिमूर्त्तिधृक् ।
चंद्रमण्डलमध्यस्थभद्रघटोपरिस्थिता ॥ र्म्_38.358{57} ॥
दर्शयाम् आस रूपं स्वं प्रभामण्डलवर्त्तितं ।
अन्या देव्यो ऽपि रूपं स्वं धृत्वा देवीं वसुंधरां ॥ र्म्_38.359{58} ॥
परिवृत्य पुरो धाय पताकाध्वजचामरैः ।
वीजयंत्यः सर्वदिक्षु तस्थु संप्रोक्तरूपवत् ॥ र्म्_38.360{59} ॥
ततः स सेन उत्थाय तां देवीं सगणां मुदा ।
मुहुर्मुहुर् वद्धगल अष्टाङ्गैः प्रणतिं व्यधात् ॥ र्म्_38.361{60} ॥
ततः स सेन आधाय सपंचामृतपिष्टकं ।
तं जलं च समाधाय सहसा नृपांतिके ययौ ॥ र्म्_38.362{61} ॥
तत्र स सेन आलोक्य नृपं दुराद् उपागतं ।
तद् अमृतादिकं सर्वम् उपस्थाप्याप्य् अधौकयत् ॥ र्म्_38.363{62} ॥
ततः स सेन आलोक्य तं नृपं सांजलिर् मुदा ।
प्रणत्वा सुप्रसन्नास्यः पुरतः समुपाश्रयत् ॥ र्म्_38.364{63} ॥
तम् अमृतादिकं सर्वं दृष्ट्वा स विस्मितो नृपः ।
किं विलंवं कृतश् चैतद् इत्य् एवं तम् अपृछत ॥ र्म्_38.365{67!} ॥
इति पृष्टे नरेन्द्रेण स सेनः समुपाश्रितः ।
तं नरेन्द्रं समालोक्य विनयन्न् एवम् अब्रवीत् ॥ र्म्_38.366{68} ॥
क्षमस्व भो महाराज यद् अर्थे मे विलंवितं ।
तत् सर्वं समुपाख्याय भवन्तं बोधयान्य् अपि ॥ र्म्_38.367{69} ॥
इदं तावन् महाराज सुरनद्यमृतं पिवा ।
इदं पंचामृतं चापि भुक्ष्वेदं च सुपिष्टकं ॥ र्म्_38.368{70} ॥
इत्य् उक्त्वा स समादाय कमण्डलुं समर्प्पयत् ।
भोग्यं पंचामृतं चापि पिष्टकं चाग्रतः प्रभोः ॥ र्म्_38.369{71} ॥
तद् अमृतादिकं सर्वं दृष्ट्वा स मुदितो नृपः ।
कमण्डलुं समादाय पपौ तत् सुरसामृतं ॥ र्म्_38.370{72} ॥
ततः स नृपतिस् तुष्टो निस्तृष्णाह्लादिताशयः ।
तं च पंचामृतं भोग्यं बुभुजे पिष्टकान्य् अपि ॥ र्म्_38.371{73} ॥
ततः स नृपतिस् तुष्टो महानंदप्रमोदितः ।
तं सेनं सुमतिं धीरं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.372{73!} ॥
त्वम् अपीदं सुधाकल्पम् अमृतं पिव सन्मते ।
भुक्ष्व पचामृतं भोग्यं पिष्टकं चेदम् उत्तमं ॥ र्म्_38.373{74} ॥
इति राज्ञा समादिष्टे स सेनः प्रतिमंडितः ।
तद् अमृतादिकं सर्वम् आदाय बुभुजे स्वयं ॥ र्म्_38.374{75} ॥
ततस् तच् छेषम् आदाय स सेनः परितोषितः ।
अश्वाय समुपस्थाप्य सर्वं ददौ विनोदयन् ॥ र्म्_38.375{76} ॥
सो ऽपि चाश्वः समालोक्य तत् सर्वम् अमृतादिकं ।
आश्वाद्य परिभुंजानो महानंदं समाययौ ॥ र्म्_38.376{77} ॥
ततः स नृपति राजा परिशुद्धाशयो मुदा ।
तं सेनं तम् उपामंत्र्य पुनर् एवम् अपृछत ॥ र्म्_38.377{78} ॥
अहो सेन त्वम् आनीतं यद् एतद् अमृतादिकं ।
कुतः कथं समासाद्य तत् सत्यं वक्तुम् अर्हसि ॥ र्म्_38.378{79} ॥
इत्य् एवं प्रार्थिते राज्ञा स सेनः सांजलिर् मुदा ।
स्वामिनं तं नृपं नत्वा समालोक्यैवम् अब्रवीत् ॥ र्म्_38.379{80} ॥
शृणु राजन् समाधाय यद् एतद् अमृतादिकं ।
मयासाद्य समानीतं तत् संनिवेदयानि ते ॥ र्म्_38.380{81} ॥
यद् अत्र त्वं तृषार्त्तो ऽसि तदर्थे ऽहं ससंभ्रमः ।
जलम् अन्वेषितुं तत्र वने पश्यन् भ्रमाम्य् अहं ॥ र्म्_38.381{82} ॥
कुत्रापि दृश्यते नात्र पानीयं निर्जने वने ।
ततो दूरतरं गत्वा जलम् अन्वेषितुं भ्रमे ॥ र्म्_38.382{83} ॥
तत्रापि दृश्यते नैव जलं क्वापि समंततः ।
ततो ऽतिदूरतो नद्याः शब्दं शृण्वन्न् अनुव्रजे ॥ र्म्_38.383{84} ॥
तच्छब्दानुसरन् गत्वा पश्यामि सुरनिम्नगां ।
तत्र देवीगणाश् चापि पश्यामि व्रतचारिकाः ॥ र्म्_38.384{85} ॥
तत्र तासां समालोक्य समाक्रंदंति सादरं ।
ततो ऽहं तत्प्रभावेन तां नदीं लंघयन् व्रजे ॥ र्म्_38.385{86} ॥
तत्र मां समुपाहूय सर्वा ता अप्सरोगणाः ।
कुतः कथम् इहायासि त्वं वदेति बभाषिरे ॥ र्म्_38.386{87} ॥
ततो ऽहं समुपासृत्य ताः सर्वा अप्सरोगणाः ।
सांजलिः सादरं नत्वा पुर एवं निवेदय ॥ र्म्_38.387{88} ॥
सूर्योदयो महाराजो महीपालो नराधिपः ।
तस्योद्याने वराहौ द्वौ प्रकुर्वात उपद्रवं ॥ र्म्_38.388{89} ॥
तन् निशम्य स भूपालः समंत्रिसैन्यपौरिकः ।
सह भोग्यं समारुह्य वराहौ हंतुं उद्ययौ ॥ र्म्_38.389{90} ॥
तत्रोद्याने चतुर्दिक्षु परिवृत्य समंततः ।
हाहाकारं प्रकुर्वन्तस् तिष्ठन्ति ते नृपादयः ॥ र्म्_38.390{91} ॥
ततस् तौ द्वौ महाघोरौ वराहौ सह सागतः ।
उद्यानान् निर्गतौ वेगान् नृपान्तिकात् परागतौ ॥ र्म्_38.391{92} ॥
तत्र स नृपतिः कोपात् तौ वराहाव् अनुद्रुतः ।
अश्वम् आरुह्य वेगेन प्रविष्टो भ्रमते वने ॥ र्म्_38.392{93} ॥
तत्र स नृपतिर् अश्वाद् वेगात् प्रधावतो ऽपतत् ।
श्रमतापपिपासार्त्तो तरुतले निषीदति ॥ र्म्_38.393{94} ॥
तस्य राज्ञस् तृषार्त्तस्य जलम् अन्वेषितुं भ्रमन् ।
कुत्रापि निर्जने ऽरण्ये जलं पश्याम्य् अहं न हि ॥ र्म्_38.394{95} ॥
ततो दूरतरं गत्वा जलम् अन्विष्य सर्वतः ।
भ्रमन् दूरान् नदीशब्दं श्रुत्वाहं समुपासरे ॥ र्म्_38.395{96} ॥
एतद् अर्थम् अहं देव्यो दूरतः सहसागतः ।
तद् भवन्त्यः प्रसीदंतु दृश्यंते भाग्यतो मया ॥ र्म्_38.396{97} ॥
भवन्त्यो ऽपि किम् अर्थे ऽत्र विहरन्ति समाश्रिताः ।
इति पृष्टे मया ताश् च देव्यः सर्वाः प्रसादिताः ॥ र्म्_38.397{93} ॥
आदरान् मां समामंत्र्य पुर एवं बभाषिरे ।
मानव त्वं न जानीषे यद् इहेव ममाश्रिता ।
तद् अर्थं समुपाख्यायस् तत् संशृणु समाहितः ॥ र्म्_38.398{99} ॥
या श्रीभगवती देवी माहेश्वरी वसुंधरा ।
तस्या व्रतं वयं सर्वा चरितुम् इह संस्थिताः ॥ र्म्_38.399{100} ॥
तद् अत्र नो व्रतं पश्यं क्षणं तिष्ठ समाहितः ।
एतद्दृष्टे ऽपि ते पुण्यं संप्रजायेन् महत्तरं ॥ र्म्_38.400{1} ॥
इति ताभिः समादिष्टं श्रुत्वाहं संप्रमोदितः ।
तथेति प्रतिविज्ञप्य तद् व्रतं द्रष्टुम् आश्रमे ॥ र्म्_38.401{2} ॥
ततस् ता अप्सरोदेव्यः सर्वास् तत्र यथाक्रमं ।
स्वस्वासने समाश्रित्य प्रारभन्ति यथाक्रमात् ॥ र्म्_38.402{3} ॥
तत्र ता मंडले देवीं सगणां श्रीवसुंधराण् ।
यथाविधिं समावाह्य पूजयंति समादरात् ॥ र्म्_38.403{4} ॥
जपस्तोत्रादिकं कृत्वा सर्वाः सांजलयश् च ताः ।
नत्वा प्रदक्षिणीकृत्य प्रार्थयंति सुसंपदं ॥ र्म्_38.404{5} ॥
ततस् ता अप्सरोदेव्यः सर्वाः समाप्तिते व्रते ।
स पंचामृतैः पूपैः कुर्वंति व्रतपालनां ॥ र्म्_38.405{6} ॥
मह्यम् अपि तथा दत्तं ताभिः सर्वाभिर् आदरात् ।
इदं पंचांऋतं भोज्यं गोधूमपिष्टकं वरं ॥ र्म्_38.406{7} ॥
स्मृत्वा भवंतम् आदाय ताभिर् दत्तं समादरात् ।
तथा पात्रे प्रतिष्ठाप्य गोपयामि तवार्थतः ॥ र्म्_38.407{8} ॥
ततो ऽहं सांजलिर् नत्वा ता देवीः सकला अपि ।
तथा चरितुम् आलोच्य प्रार्थयामि विधिं व्रते ॥ र्म्_38.408{9} ॥
मया संप्रार्थितं श्रुत्वा या तद् देवी गणाधिपा ।
सा तद् व्रतविधिं सम्यक् समादिशति मे क्रमात् ॥ र्म्_38.409{10} ॥
तत् सर्वं समुपादिष्टं श्रुत्वाहं संप्रमोदितः ।
तथा तद् व्रतम् आराध्य प्रेछामि चरितुं सदा ॥ र्म्_38.410{11} ॥
प्रत्यक्षदर्शनं लब्ध्वा अष्टांगैः प्रणतो ऽस्म्य् अहं ॥ र्म्_38.411{12} ॥
ततस् ताः सकला देवीः प्रार्थयित्वा समादारात् ।
इदं दिव्यामृतं भोज्यं प्रादाय सहसा चरे ॥ र्म्_38.412{13} ॥
इति हेतो महाराज विलम्वो जायते तथा ।
तत् क्षमस्व प्रभो मात्र रौक्ष्यं कृथाः प्रसीद मे ॥ र्म्_38.413{14} ॥
इति तेनोदितं श्रुत्वा स राजा विस्मयान्वितः ।
तद् दर्शनोत्सुको दृष्ट्वा तं सेनम् एतद् अब्रवीत् ॥ र्म्_38.414{15} ॥
अहो आश्चर्य्यम् अत्र यद् वसुधारा व्रतं श्रुतं ।
प्रत्यक्षदर्शनम् अपि लब्धं सेनेह निर्जने ॥ र्म्_38.415{16} ॥
मया न श्रूयते क्वापि दृश्यते न कदा चन ।
तद् द्रष्टुं सेन मे चित्तं समभिलषति ध्रुवं ॥ र्म्_38.416{17} ॥
तस्मात् त्वं तत्र मां नीत्वा ता देवी दर्शय द्रुतं ।
इति राज्ञोदितं श्रुत्वा स सेनः सचिवः सुधीः ।
तथेति प्रतिविज्ञप्य तत्र राज्ञा सह चरन् ॥ र्म्_38.417{18} ॥
सहसा तौ प्रगछंतौ तद्देवीदर्शनोत्सुकौ ।
दैवयोगात् क्षणात् प्राप्तौ तत्र स्थाने समैक्षतां ॥ र्म्_38.418{19} ॥
तदा तत्र न ता देव्यः स्थिताः सर्वा दिवं गताः ।
व्रतनिर्माल्यपुष्पादि तत्राद्राष्टां न ताः क्वचित् ॥ र्म्_38.419{20} ॥
तत्र स नृपतिस् तासां देवीनां दर्शनं क्वचित् ।
अलभ्यमाने उद्विग्नपरिखिन्नाशयो ऽभवत् ॥ र्म्_38.420{21} ॥
तत्र स नृपतिर् नत्वा व्रतस्थाने कृतांजलिः ।
सर्वत्रापि समालोक्य खं पश्यन्न् एवम् अब्रवीत् ॥ र्म्_38.421{22} ॥
हा मया लभ्यते नात्र देवीनां दर्शनं क्वचित् ।
किं मया प्रकृतं पापं मंदभाग्यो ऽस्म्य् अहं यतः ॥ र्म्_38.422{23} ॥
व्रतं चरितुम् इछामि तत् कथं ज्ञास्यते विधिं ।
अहो मे दैवयोगेन श्रुतम् एव न दर्शनं ॥ र्म्_38.423{24} ॥
तद् अत्र किं करिष्यामि को ऽत्र मे विधिम् आदिशेत् ।
यदिछामि न तत् सिद्धं वृथैवेत्ये परिश्रमं ॥ र्म्_38.424{25} ॥
इति प्रोक्त्वा विषण्णात्मा नृपतिः स विमोहितः ।
निराशया विभिन्नास्यो निर्जले मीनजातिवत् ॥ र्म्_38.425{26} ॥
हा हेति निन्दितात्मानं हा मे भाग्यम् अपीह धिक् ॥ र्म्_38.426{27!} ॥
इत्य् एवं विलपन्न् अश्रुपूर्णास्यो गद्गदः स्वरः ।
हृदि ललाटे वाहुभ्यां ताडयन् मूर्छितो मुहुः ॥ र्म्_38.427{28} ॥
स्मृतिमांश् च स्वयम् अपि तस्थौ तत्र विनिःस्वसन् ॥ र्म्_38.428{28!} ॥
इत्य् एवं तं स्थितं दृष्ट्वा सा श्रीदेवी वसुंधरा ।
आकाशान् महदाघोषं तत्रैवं निरचारयत् ॥ र्म्_38.429{29} ॥
राजन् मात्र विषीद त्वं सेत्स्यते ते ऽभिलाषितं ।
सर्वं सेनो विजानाति तत् सेनं पृछ तद् विधिं ॥ र्म्_38.430{30} ॥
इत्य् आकाशात् समुच्चारं घोषं श्रुत्वा स भूपतिः ।
सांजलिः प्रणतो ऽष्टौषीद् ऊर्द्ध्वास्यः श्रीवसुंधरां ॥ र्म्_38.431{31} ॥
या सुस्मृता सुरुचिरं सुष्ठुतरं प्रवृद्धं दारिद्र्यदुःखदुरितं शमते नराणां ।
तां कल्पवृक्षसदृशीं वसुधारसंज्ञां भक्त्या नमामि शिरसा जगतो हिताय ॥ र्म्_38.432{31!} ॥
प्रणमामि सदा वसुधां जननीं करुणार्द्रहृदं परिवीक्ष्य जनं ।
बहुधेति भयान्वितदुःखतरं प्रणमामि सदा वसुधां जननीं ॥ र्म्_38.433{2!} ॥
पापाचारस्य दुर्बुद्धेर् दुर्भगस्य सदा मम ।
क्षंतव्यो भूयशश् चागः श्रीवसुधे नमो ऽस्तु ते ॥ र्म्_38.434{3!} ॥
नमस् ते भो महादेवि प्रसीद मे कृपां कुरु ।
भवंत्य् अत्र यथादिष्टं करिष्यामि तथा खलु ॥ र्म्_38.435{32} ॥
इत्य् उक्त्वा स नृपो भूयस् तत्र नत्वा कृतांजलिः ।
तं सेनं पुरतः कृत्वा ततो ऽचरत् प्रमोदितः ॥ र्म्_38.436{33} ॥
ततः स नृपतिर् गछन् सहसा मुदिताशयः ।
तत्राशोकतलासीनम् अश्वं पश्यन्न् उपाचरन् ॥ र्म्_38.437{34} ॥
तत्र प्रातः स भूयस् तम् अश्वं दृष्ट्वा प्रमोदितः ।
राजा तं सेनम् आनत्वा दृष्ट्वा एवम् अभाषत ॥ र्म्_38.438{35} ॥
सेन तम् अश्वम् आरुह्य गछ त्वं पुरम् आश्रमे ।
मम तवानुगछामि सहसा गछतु ध्रुवं ॥ र्म्_38.439{36} ॥
इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर् नमन् ।
नृपतिं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.440{37} ॥
नैवम् अत्र महाराज यन् मे स्वामि भवान् प्रभुः ।
तद् भवद्वाहनं हीनं कथम् आरोहयेय वै ॥ र्म्_38.441{38} ॥
इति तेनोदितं श्रुत्वा सूर्योदय आत्मवित् ।
राजा तं सेनम् आनत्वा पुनर् एवम् अभाषत ॥ र्म्_38.442{39} ॥
मा त्वयैवं प्रवक्तव्यं यद् अद्यारभ्य भवान् गुरुः ।
यथाकाशसमादिष्टं तत् तथा कर्त्तुम् अर्हसि ॥ र्म्_38.443{40} ॥
इति मे वचनं श्रुत्वा ममानुकंपया ऽधुना ।
शास्तर् अग्रे ऽश्वम् आरुह्य प्रव्रजतामयान्वितः ॥ र्म्_38.444{41} ॥
इति राज्ञोदितं श्रुत्वा तथेति स प्रबोधितः ।
स्वयम् अग्रे ऽश्वम् आरुह्य पृष्ठे प्रारोहयेन् नृपं ॥ र्म्_38.445{42} ॥
ततः स ऽश्वस् तदारूढो वायुर् इव समुच्चरन् ।
महावेगात् पुरोपांतं तत्क्षणात् समुपाययौ ॥ र्म्_38.446{43} ॥
तत्र तं नृपम् आयातं समंत्रिजनपौरिकाः ।
सर्वे ते समुपालोक्य प्रत्युज्जग्मुः प्रमोदिताः ॥ र्म्_38.447{44} ॥
तत्राश्वपृष्ठम् आरूढं नृपं सेनं पुरः स्थितं ।
दृष्ट्वा ते मंत्रिणः सर्वे पौराश् च विस्मयं ययुः ॥ र्म्_38.448{45} ॥
ततस् ते मंत्रिणो ऽमात्या पौराः सर्वे प्रमोदिताः ।
प्रणत्वा तं नृपं राजकुले ऽनयन् महोत्सवं ॥ र्म्_38.449{46} ॥
तत्राश्वपृष्ठतो राजा सो ऽवरुह्य स्वयं ततः ।
सेनं पुरः स्थितं पश्चाद् अवारोहयद् आदरात् ॥ र्म्_38.450{47} ॥
ततो राजकुले गत्वा नृपः पृष्ठतश् चरन् ।
पादप्रक्षालनस्थाने तं सेनम् एवम् अब्रवीत् ॥ र्म्_38.451{48} ॥
हे सेने सुमतेर् अत्र पादप्रक्षालयाग्रतः ।
त्वत्तः पश्चाद् अहं पादौ प्रक्षालयामि सांप्रतं ॥ र्म्_38.452{49} ॥
इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर् नमन् ।
नृपतिं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.453{50} ॥
विभ्रमो ऽसि कथं राजन् भवान् स्वामि नराधिपः ।
तत् प्रथमं त्वम् एवात्र पादौ प्रक्षालय प्रभो ॥ र्म्_38.454{51} ॥
इति तेनोदितं श्रुत्वा नृपतिः स कृतांजलिः ।
नमंस् तं सेनम् आलोक्य तत्रैवं संन्यवेदयत् ॥ र्म्_38.455{52} ॥
भो सेन यद् भवां छास्ता मम सन्मार्गदेशकः ।
तद् अत्र प्रथमं पादौ प्रक्षालयितुम् अर्हति ॥ र्म्_38.456{53} ॥
इति संप्रार्थिते राज्ञा स सेनः परिबोधितः ।
राज्ञ आज्ञा ह्य् अलंघ्येति पादौ प्रक्षालयेत् पुरः ॥ र्म्_38.457{54} ॥
ततः स नृपतिः पादौ प्रक्षाल्यानुसरन् मुदा ।
तं सेनं पुरतः कृत्वा प्रासादे समुपाचरत् ॥ र्म्_38.458{55} ॥
तत्रासने पुरोधाय तं सेनं गुरुम् आदरात् ।
नृपतिः स सभामध्ये तस्थौ लोकान् विलोकयन् ॥ र्म्_38.459{56} ॥
ततः स नृपतिर् दृष्ट्वा सर्वाल् लोकान् सभाश्रितान् ।
सर्ववृत्तान्तम् आख्याय व्यनोदयद् व्रतोत्सवे ॥ र्म्_38.460{57} ॥
तन् नृपादेशितं श्रुत्वा सर्वे लोकाः प्रमोदिताः ।
श्रीदेव्यास् तद् व्रतं धर्त्तुं समैछन्त धनार्थिनः ॥ र्म्_38.461{58} ॥
ततस् सर्वे ऽपि ते लोका नत्वा तं सेनम् आदरात् ।
नृपतिं च समालोक्य स्वस्वालयं ययुर् मुदा ॥ र्म्_38.462{59} ॥
ततः स नृपतिस् तेन सेनेन गुरुणा सह ।
सानंदं प्रेरयाम् आस दिनानि कतिचिन् मुदा ॥ र्म्_38.463{60} ॥
ततः स भूपती राजा तद्व्रतसमयागते ।
सामात्यान् मंत्रिणान् सर्वान् समामंत्र्यैवम् आदिशत् ॥ र्म्_38.464{16} ॥
भो मंत्रिणो जनाः सर्वे व्रतसमयम् आगतं ।
तस्मात् सर्वे मया सार्द्धं व्रतं चरितुम् अर्हथ ॥ र्म्_38.465{62} ॥
तद् एनं सेनम् एवात्र प्रव्रज्यासद्गुरुं कुरु ।
इति मंत्रिभिर् आख्यातं श्रुत्वा नृपस् तथेति सः ।
तं सेनं शासने बौद्धे प्राव्राजयद् यथाविधि ॥ र्म्_38.466{63} ॥
साथ प्रव्रजितो नाम्ना श्रीसेनगुप्त इत्य् अभूत् ।
खिक्खिरीपात्रभृन् मुण्डः काषायचीवरावृतः ॥ र्म्_38.467{64} ॥
ततस् तद् व्रतम् उत्सृज्य वज्रधरपदाप्तये ।
वज्राभिषेकम् आसाद्य वज्राचार्यो ऽभवत् स च ॥ र्म्_38.468{65} ॥
ततः स नृपती राजा तद् व्रतं कर्त्तुम् आदरात् ।
शास्तारं तं समाराध्य संप्रार्थयेद् यथाविधिं ॥ र्म्_38.469{66} ॥
ततः श्रीसेनगुप्तः स वज्राचार्यो यथाविधिः ।
श्रीदेवीं तां समाराध्य पूर्वसेवां समादधत् ॥ र्म्_38.470{67} ॥
ततो भाद्रपदे मासे द्वितीयायां सिते तरे ।
प्रातस् तीर्थे शुभे स्नात्वा शुद्धवस्त्रावृतः सुधीः ॥ र्म्_38.471{68} ॥
प्रासादोपरि मृद्गव्यपरिलिप्ते सुभूतले ।
विधिवन् मंडलं कृत्वा प्रतिष्ठाप्याधिवासयेत् ॥ र्म्_38.472{69} ॥
तद् रात्रौ च समाराध्य श्रीदेवीं विधिनार्चयेत् ।
दीपधूपादिभिश् चापि बलिं दत्वाभ्यतोषयत् ॥ र्म्_38.473{70} ॥
ततः प्रातः स आचार्य्यस् तीर्थे स्नात्वा सुवस्त्रभृत् ।
मध्याह्ने स्वासनासीन उत्तरादिङ्मुखस्थितः ॥ र्म्_38.474{71} ॥
ततः च गुरुर् आचार्यस् त्रिसमाधिसमाहितः ।
श्रीदेवीं सगणां सम्यग् आवाह्य विधिनार्चयेत् ॥ र्म्_38.475{72} ॥
ततः स्नानविशुद्धाङ्गान् परिशुद्धाम्वरावृतान् ।
व्रतिनः सनृपान् सर्वान् पंचगव्यैर् व्यशोधयत् ॥ र्म्_38.476{73} ॥
ततस् ते व्रतिनः सर्वे गुरुं नत्वा यथाक्रमं ।
नृपतिप्रमुखा एवं व्रतं चरितुम् आश्रयत् ॥ र्म्_38.477{74} ॥
ततस् ते व्रतिनः सर्वे श्रिदेवीसंमुखस्थिताः ।
यथाचार्य समादिष्टं तथाचरन् व्रतं मुदा ॥ र्म्_38.478{75} ॥
तत्र तां श्रीमहादेवीं सगणां विधिना क्रमात् ।
समावाह्य समभ्यर्च्य पूजाङ्गैः समतोषयन् ॥ र्म्_38.479{76} ॥
जपस्तोत्रादिकं कृत्वा कृत्वा च पापदेशनां ।
पुण्यानुमोदनां चापि कृत्वा च स्थितियाचनां ॥ र्म्_38.480{77} ॥
कृतांजलिपुटाः सर्वे ते च कृत्वा प्रदक्षिणां ।
अष्टाङ्गैः प्रणतिं कृत्वा संप्रार्थयन् सुसंपदं ॥ र्म्_38.481{78} ॥
पिष्टकं पायसं चापि पंचामृत समन्वितं ।
फलमूलादिकं चापि समुपाढोकयन् मुदा ॥ र्म्_38.482{79} ॥
ततो लोकाधिपेभ्यो ऽपि स भूतेभ्यो महावलिं ।
यथाविधि प्रदत्वा संप्रार्थयच् छ्री समृद्धितां ॥ र्म्_38.483{80} ॥
ततः शास्ता स आचार्यः प्रार्थयित्वा क्षमां मुदा ।
सर्वेभ्यो व्रतिलोकेभ्यः प्रत्येकं सूत्रम् आर्प्पयेत् ॥ र्म्_38.484{81} ॥
तत् सूत्रं व्रतिनः सर्वे आदाय गुरुणार्प्पितं ।
स्वस्वहस्ते ऽभिवंधित्वा रक्षार्थम् आदराद् दधुः ॥ र्म्_38.485{82} ॥
या राज्ञो महिषी भार्या चूडदेवीति विश्रुता ।
सैका तत् सूत्रम् आदाय च वन्धन् एवम् आदरात् ॥ र्म्_38.486{83} ॥
ततो व्रतसमाप्ते सा स्वालयं समुपाश्रिता ।
तद् व्रतसूत्रम् आलोक्य करवद्धं व्यचिंतयत् ॥ र्म्_38.487{84} ॥
किं ममानेन सूत्रेण सर्वरत्नादिभूषणैः ।
मण्डिता या करे वद्धम् इति त्यक्तुं समैहत ॥ र्म्_38.488{85} ॥
ततः सा दुर्मती राज्ञी रक्षासूत्रम् अपि स्वयं ।
करवद्धम् अपि छित्वा गवाक्षात् सहसाक्षिपत् ॥ र्म्_38.489{86} ॥
तस्मिन्न् अवसरे तत्र निम्वदेव्याः सखी वनात् ।
स्वामिन्यै भोजनं राज्ञै याचितुं समुपाचरत् ॥ र्म्_38.490{87} ॥
तत्र सा तद् व्रतोत्साहशब्दं श्रुत्वा स कौतुका ।
तच् छब्दनिहितस्वान्ता तस्थाव् एकान्त आश्रिता ॥ र्म्_38.491{88} ॥
चूडदेव्या यद् उत्क्षिप्तं सूत्रं वातायनाद् बहिः ।
निश्चरन् मूर्द्धनि तस्याः सखाः संन्यपतद् द्रुतं ॥ र्म्_38.492{89} ॥
सा तत् सूत्रं समादाय पश्यन्ती किम् इदं न्व् इति ।
व्रतसूत्रम् इति ज्ञात्वा प्रणत्वा मुदिताग्रहीत् ॥ र्म्_38.493{90} ॥
ततः स प्रेषिका देव्या भोग्यम् अप्रार्थयंत्य् अपि ।
तत् सूत्रम् एव धृत्वाशु निम्ववनं मुदाचरन् ॥ र्म्_38.494{91} ॥
तत्र सा सहसा गत्वा भर्तृकायाः पुरोगताः ।
तत् सूत्रं समुपस्थाप्य प्रणत्वैवं न्यवेदयत् ॥ र्म्_38.495{92} ॥
जयो ऽस्तु ते महादेवि यद् अहं राजमंदिरे ।
ततः श्रीवसुधाराया व्रतं शृणोमि चारितं ॥ र्म्_38.496{93} ॥
चूडदेव्या स्वयं छित्वा व्रतसूत्रम् इदं बहिः ।
क्षिप्तं गवाक्षरंध्रान् मे मूर्द्ध्नि सजति निश्चरत् ॥ र्म्_38.497{94} ॥
दृष्ट्वा तद् अहम् आदाय व्रतसूत्रम् इदं खलु ।
इति मत्वात्र ते भोग्यम् अयाचित्वा व्रजे द्रुतं ॥ र्म्_38.498{95} ॥
तथावाम् अपि हे देवि धृत्वेदं व्रतसूत्रकं ।
श्रीवसुधां महादेवीं स्मृत्वा व्रतं चरावहे ॥ र्म्_38.499{96} ॥
सा श्रीदेवी वसुंधारा दृष्ट्वा नौ भक्तिसाधनं ।
स्वयम् अत्र समाश्रित्य संदद्याद् अपि संपदं ॥ र्म्_38.500{97} ॥
यदि नौ दैवयोगेन संपत्तिर् नात्र विद्यते ।
पुण्यं तु खलु विद्येत ततः स्याज् जन्म साफलं ॥ र्म्_38.501{98} ॥
इति मत्वात्र भो देवि स्नात्वा शुद्धाम्वरावृतौ ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वा व्रतं चरावहे ॥ र्म्_38.502{99} ॥
इति सख्या समाख्यातं निम्वदेवी निशम्य सा ।
तथेत्य् अभ्यनुमोदित्वा तथा चरितुम् ऐछत ॥ र्म्_38.503{100} ॥
ततस् तथेह एवं ते स्नात्वा शुद्धाम्वरावृते ।
सन्मृद्गोमय संलिप्ते स्वगृहे समुपाश्रिते ॥ र्म्_38.504{1} ॥
मनसा श्रीमहादेवीं वसुन्धरां समादरात् ।
ध्यात्वा स्मृत्वा समाधाय संचरते व्रतं मुदा ॥ र्म्_38.505{2} ॥
तस्मिन्न् अवसरे तत्र सा श्रीदेवी वसुंधरा ।
वृद्धीरूपधरा राजकुलद्वारम् उपाचरत् ॥ र्म्_38.506{3} ॥
तत्र सा ज्यायसी वृद्धा प्रकीर्णशुक्लमूर्द्धजा ।
उपसृत्य सखीम् एकां समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.507{4} ॥
भद्रिके त्वम् इहागछ चूडदेव्याः पुरो गता ।
तव मातामही द्वरे तिष्ठतीति निवेदय ॥ र्म्_38.508{5} ॥
इति तया समादिष्टं श्रुत्वा चेटी तथेति सा ।
चूडदेव्याः पुरोगत्वा समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.509{6} ॥
देवी मातामही वृद्धा ज्यायसी ते इहागता ।
भवंत्यो दर्शनं कर्तुम् इछन्ती द्वारि तिष्ठति ॥ र्म्_38.510{7} ॥
तद् भवंती समागछ तस्या दर्शनम् आदरात् ।
दत्वा संभाषणं कृत्वा विनोदयितुम् अर्हति ॥ र्म्_38.511{8} ॥
इति तया समाख्यातं चूडदेवी निशम्य सा ।
न मे मातामही का सा ध्यात्वेत्य् एवं च प्रावदत् ॥ र्म्_38.512{9} ॥
मम मातामही नास्ति कासाव् इह समागता ।
इति प्रोक्त्वा त्वया द्वारात् सहसा प्रेष्यतां बलात् ॥ र्म्_38.513{10} ॥
इति देव्योदितं श्रुत्वा तथेति सा सखी गता ।
वृद्धांतिकम् उपाश्रित्य दृष्ट्वा ताम् एवम् अब्रवीत् ॥ र्म्_38.514{11} ॥
मातामही न मे का चिद् इति देवी वदत्य् अपि ।
अतः सा ते मुखं द्रष्टुं नैवेह समुपाव्रजेत् ॥ र्म्_38.515{12} ॥
अतस् त्वम् इह मा तिष्ठ गछातः सहसा वहिः ।
न व्रजेर् यदि सा देवी प्रैषयेत् त्वां बलाद् अपि ॥ र्म्_38.516{13} ॥
इति तयोदितं श्रुत्वा सा वृद्धा तत उत्थिता ।
न तिष्ठेयम् इति प्रोक्त्वा ततः शनैर् ययौ वहिः ॥ र्म्_38.517{14} ॥
ततः सा श्रीमहादेवी वृद्धी रूपधरा तथा ।
निम्ववने स्थितां राज्ञीं समुद्धर्त्तुम् उपाचरत् ॥ र्म्_38.518{15} ॥
तत्र सा ज्यायसी वृद्धा शनैर् द्वारम् उपाश्रिता ।
दृष्ट्वा चेटीं समाहूय मृदुगिरैवम् अब्रवीत् ॥ र्म्_38.519{16} ॥
दारिके त्वम् इहागछ किं चिन् मे वचनं शृणु ।
राज्ञा विचारणार्थे ऽहं शनैर् इह समाव्रजे ॥ र्म्_38.520{17} ॥
एतन् मे वचनम् श्रुत्वा निम्वदेव्या पुरोगता ।
वृद्धेका ते मुखं द्रष्टुम् आगतेति निवेदय ॥ र्म्_38.521{18} ॥
इति तयोदितं श्रुत्वा सा चेटी सादरं मुदा ।
पश्यंति सांजलिर् नत्वा तां वृद्धाम् एवम् अब्रवीत् ॥ र्म्_38.522{19} ॥
मातामहि समागछ भवंत्या गदितं यथा ।
तथा देव्या निवेदित्वा सहसात्राव्रजाम्य् अहं ॥ र्म्_38.523{20} ॥
इत्य् उक्त्वा सा सखी तस्या निम्वदेव्याः पुरो गता ।
मुदिता सुप्रसन्नास्या समालोक्यैवम् अब्रवीत् ॥ र्म्_38.524{21} ॥
देवि तव विचारार्थे वृद्धैकेह समागता ।
तद् भवंती समामंत्र्य संमानयितुम् अर्हति ॥ र्म्_38.525{22} ॥
इति सख्योदितं श्रुत्वा निम्वदेवी समुत्थिता ।
सहसा समुपागत्य तां वृद्धाम् एवम् अब्रवीत् ॥ र्म्_38.526{23} ॥
स्वागतं भद्रिके जेष्ठे मातामहि समाव्रज ।
शनै धैर्यं समालम्व्य समाधाय समासर ॥ र्म्_38.527{24} ॥
इत्य् उक्त्वा सा सुभद्रांशा निम्वदेवी समादरात् ।
तां वृद्धां समुपामंत्र्य स्वासने समुपाश्रयत् ॥ र्म्_38.528{25} ॥
तत्र सा ज्यायसी वृद्धा स्वासने समुपाशृता ।
तां राज्ञीं सुदृशालोक्य सुप्रसन्नैवम् अब्रवीत् ॥ र्म्_38.529{26} ॥
किं वे ऽत्र चरसे वत्से तन् मे वक्तुं त्वम् अर्हसि ।
कस्मिन्न् अर्थे ऽभिलाषं ते तवापि मे पुरो वद ॥ र्म्_38.530{27} ॥
इति तया समाख्यातं निम्वदेवी निशम्य सा ।
तां वृद्धां सुप्रसन्नास्या समालोक्यैवम् अब्रवीत् ॥ र्म्_38.531{28} ॥
किम् अत्राहं वदिष्यामि मन्दभाग्यास्मि दुःखिता ।
दरिद्रिता न मे संपद् विद्यते ऽत्र गृहे क्वचित् ॥ र्म्_38.532{29} ॥
व्रतोपहारसामग्रिम् अपि किं चिन् न विद्यते ।
तद् इदं कदरीपत्रकृतम् अर्घादि भाजनं ॥ र्म्_38.533{30} ॥
तन् मया श्रद्धया भक्तिमात्रेण श्रीवसुंधरां ।
ध्यात्वा स्मृत्वा समाराध्य संचरितम् इदं व्रतं ॥ र्म्_38.534{31} ॥
व्रतसाधनसामग्रीसंपूर्णं विद्यते न मे ।
तद् विधिना व्रतैः कर्त्तुं शक्यते न मया तथा ॥ र्म्_38.535{32} ॥
तन् मनोभावनामात्रपूजाङ्गैः श्रिवसुंधरां ।
महादेवीं समाराध्य व्रतम् एवं चरावहे ॥ र्म्_38.536{33} ॥
एतत् तया समाख्यातं श्रुत्वा सा ज्यायसी मुदा ।
तं राज्ञीं ससखीं भद्रां समालोक्यैवम् अदिशत् ॥ र्म्_38.537{34} ॥
सिद्ध्यतु ते व्रतं पूर्णं चरस्वेवं समाहिता ।
श्रद्धया भक्तिभावेन स्मृत्वा देवीं सदा भज ॥ र्म्_38.538{35} ॥
तथा सा श्रीमहादेवी वसुलक्ष्मीः प्रसादिता ।
परितुष्टा गृहे ते ऽत्र सदापि सगणाश्नयेत् ॥ र्म्_38.539{36} ॥
ततस् तस्या महादेव्याः प्रभावेन सदा तव ।
सर्वत्रापि भवेन् नूनं मंगलं निरुपद्रवं ॥ र्म्_38.540{37} ॥
ततस् ते सर्वसंपत्तिपरिपूर्णं भवेद् गृहे ।
ततस् त्वं स्वेछया दानं दत्वार्थिभ्यः शुभे चर ॥ र्म्_38.541{38} ॥
एतत्पुण्यपरीता त्वं सर्वदा सद्गतीं गताः ।
परिशुद्धाशया धीरा सुशीला शुभभाविनी ॥ र्म्_38.542{39} ॥
साक्षाद् अर्हत्पदं प्राप्ता संबुद्धालयम् आप्नुयाः ।
एवं विज्ञाय भो वत्से संबुद्धपदलब्धये ।
त्रिरत्नशरणं कृत्वा श्रीदेवीं भज सर्वदा ॥ र्म्_38.543{40} ॥
इत्य् उक्त्वा सा महादेवी त्यक्त्वा वृद्धाकृतिं तथा ।
धृत्वा रूपं वसुंधर्य्या तस्थौ सर्वगणैर् वृता ॥ र्म्_38.544{41} ॥
तां देवीं श्रीप्रभास्वंतीं सगणान् समवस्थितान् ।
आलोक्य निम्वदेवी सा तस्थौ क्षणं सुविस्मिता ॥ र्म्_38.545{42} ॥
ततः स्वप्नविबुद्धेव साक्षात् तां श्रीवसुं धरां ।
दृष्ट्वा सा सहसोत्थाय सांजलि न्यपतत् पुरः ॥ र्म्_38.546{43} ॥
ततः सा श्रीमहादेवी तां रज्ञीं पुरतो नतां ।
धृत्वा हस्तेन हे वत्स उत्तिष्ठेत्य् एवम् अब्रवीत् ॥ र्म्_38.547{44} ॥
वत्से दारिद्र्यदुःखं ते नश्यते सांप्रतं खलु ।
सर्वदात्र गृहे संपत् परिवृद्धा भवेद् अपि ॥ र्म्_38.548{45} ॥
इत्य् आदिष्टं तया देव्या निम्वदेवी निशम्य सा ।
उत्थाय सांजलि देवीं प्राद्राक्षीत् तां वसुंधरां ॥ र्म्_38.549{46} ॥
गृहे चापि महासंपत् परिपूर्णं समंततः ।
पश्यन्ती किम् इदं स्वप्नम् इत्य् उक्त्वा समलोकयत् ॥ र्म्_38.550{47} ॥
ततः सा श्रिवसुंधारा महादेवी गणैः सह ।
भद्रे ऽनुभूयतां सौख्यम् इत्य् उक्त्वानुदधौ ततः ॥ र्म्_38.551{48} ॥
तत्र सा निम्वदेवी तां श्रीदेवीं सगणां तथा ।
अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ विमूर्छिता ॥ र्म्_38.552{49} ॥
ततश् चैतन्यम् आषाद्य सा राज्ञी परिबोधिता ।
तां देवीं सगणां धात्वा स्मृत्वा तस्थौ समाहितं ॥ र्म्_38.553{50} ॥
ततस् तस्या निम्वदेव्या उद्यानेषु समंततः ।
सर्वपुष्पद्रुमा जातास् तथा सर्वफलद्रुमाः ॥ र्म्_38.554{51} ॥
अष्टाङ्गगुणसंपन्न जलपूर्णा मनोरमाः ।
पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यः समुद्भवाः ॥ र्म्_38.555{52} ॥
गृहं चापि मनोरम्यं प्रास्पादं दिव्यसंनिभं ।
सर्वसंपत्ति संपूर्णं श्रीदपुरम् इवाभवत् ॥ र्म्_38.556{53} ॥
तद् ईदृग् भवनं दृष्ट्वा तथोद्यानं मनोरमं ।
नंदिता निम्वदेवी सा तस्थौ दिव्यसुखान्विता ॥ र्म्_38.557{54} ॥
तदा स नृपतिश् चूडदेव्या व्रतं न धारितं ।
व्रतसूत्रं विसृष्टं च श्रुत्वातिरुषिताभवत् ॥ र्म्_38.558{55} ॥
ततः सो नृपती राजा मंत्रिभिः परिबोधितः ।
महिषीं तां प्रियां भार्यां समेत्येवम् अभाषत ॥ र्म्_38.559{56} ॥
अरे रे हेतुना केन त्वया न धारितं व्रतं ।
व्रतसूत्रं कथं छित्वा विसृष्टं तद् वदस्व मे ॥ र्म्_38.560{57} ॥
इति राज्ञोदितं श्रुत्वा चूडदेवी प्रगर्विता ।
स्वामिनंस् अपि तं भूपम् अनादृत्य्यैवम् अब्रवीत् ॥ र्म्_38.561{58} ॥
ममैतच् छ्रीसमृद्धास्ति गृहे रत्नादि संयुता ।
किं तेन व्रतसूत्रेण व्रतेनापि प्रयोजनं ॥ र्म्_38.562{59} ॥
इति तयोदितं श्रुत्वा नृपतिः स प्रकोपितः ।
प्रयत्नाद् अपि तां भार्यां बोधयितुं शशाक न ॥ र्म्_38.563{60} ॥
ततः स नृपति राजा तद्व्रतधारणोत्सुकः ।
सखीम् एकां समाहूय पुर एवम् अभाषत ॥ र्म्_38.564{61} ॥
सखी त्वं मे वचः श्रुत्वा गछ निम्ववने ऽधुना ।
निम्वदेव्याः पुरो गत्वा वदस्वैवं समादरात् ॥ र्म्_38.565{62} ॥
स्वामी स नृपती राजा व्रतं चरितुम् इछति ।
वसुलक्ष्म्यास् त्वया सार्द्धं तद् आशु गम्यताम् इति ॥ र्म्_38.566{63} ॥
सा तथेति प्रतिश्रुत्य द्रुतं निम्ववने गता ।
दृष्ट्वोद्यानं मनोरम्यं क्षणं तस्थौ सविस्मया ॥ र्म्_38.567{64} ॥
ततः सा कौतुकाक्रांतहृदया समुपाविशत् ।
तत्र तद् भवनं रम्यं दृष्ट्वा तस्थौ सकौतुका ॥ र्म्_38.568{65} ॥
ततः सा सुचिरं दृष्ट्वा मुदिता विस्मयान्विता ।
निम्वदेव्याः पुरो गत्वा पादौ नत्वैवम् अब्रवीत् ॥ र्म्_38.569{66} ॥
देवि त्वदन्तिके राज्ञा प्रेषिताहं समागता ।
तद् भवंती प्रभोर् आज्ञां श्रोतुम् अर्हति सांप्रतं ॥ र्म्_38.570{67} ॥
स स्वामी श्रीवसुंधर्य्या व्रतं चरति सप्रियः ।
चूडदेव्या व्रतं सम्यक्परितं न प्रमादतः ॥ र्म्_38.571{68} ॥
तत्त्वया सह स स्वामी व्रतं चरितुम् इछति ।
तत् त्वदाहूतये राज्ञा प्रेषिताहं तथात्र हि ॥ र्म्_38.572{69} ॥
तद् भवंती प्रभोर् आज्ञां शिरो धृत्वा समादरात् ।
तद् व्रतं चरितुं भर्त्त्रा सहाश्व् आगंतुम् अर्हति ॥ र्म्_38.573{70} ॥
इति तया समाख्यातं निम्वदेवी निशम्य सा ।
तां चेटीं स्वामिनो दूतीं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.574{71} ॥
सख्य् अत्र श्रीवसुंधाराव्रतं मया विधार्यते ।
पश्य मे संपदो जाताः श्रीदेवीसंप्रसादतः ॥ र्म्_38.575{72} ॥
तद् अहं सांप्रतं तत्र नेछामि चरितुं व्रतं ।
तदर्थागमनेनापि प्रयोजनं न मे ऽधुना ॥ र्म्_38.576{73} ॥
तद् अहं नागमिष्यामि तच्छैतत् कथितं मया ।
नृपतेः पुरतो गत्वा वक्तव्यं नान्यथा त्वया ॥ र्म्_38.577{74} ॥
इति तया समाख्यातं श्रुत्वा चेटी तथेति सा ।
तां राज्ञीं सांजली नत्वा प्रत्याययौ नृपालयं ॥ र्म्_38.578{75} ॥
तत्र सा नृपतेः पादौ प्रणम्य सांजलिः पुरः ।
उवाचैतत् प्रवृत्तांतं निम्वदेव्या यथोदितं ॥ र्म्_38.579{76} ॥
तत् तया कथितं श्रुत्वा स राजा विस्मयाहतः ।
भूयस् तां चेटिकां दूतीं समामंत्र्यैवम् आदिशत् ॥ र्म्_38.580{77} ॥
भूयो ऽपि तत्र गछ त्वं बोधयित्वा प्रयत्नतः ।
निम्वदेवीं समाहूय सहसानेतुम् अर्हति ॥ र्म्_38.581{78} ॥
इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा सा चेटिकापि च ।
नृपतिं तं महाराजं प्रणत्वैवं न्यवेदयत् ॥ र्म्_38.582{79} ॥
किं तत्राहं गमिस्यामि निम्वदेवीह माव्रजेत् ।
यत् सा तत्र महासौख्यं भुक्त्वा तिष्ठति सांप्रतं ॥ र्म्_38.583{80} ॥
यत् तस्या भवनं रम्यं प्रासादं भवते ऽधुना ।
सर्वसंपत्तिसंपूर्णं श्रीदस्येव किम् उच्यते ॥ र्म्_38.584{81} ॥
उद्याने ऽपि मनोरम्याः पुष्करिण्यः समुद्भवाः ।
नानावृक्षाश् च संजाताः फलपुष्पसमन्विताः ॥ र्म्_38.585{82} ॥
किम् अत्र वहिमोक्तेन दिव्यश्री संपदान्वितं ।
यदि तद् इछसि द्रष्टुं तत्र गत्वाभिलोकय ॥ र्म्_38.586{83} ॥
एवं तयोदितं श्रुत्वा स राजा तृषितान्वितः ।
तथा तद् भवनं द्रष्टुं सहसा गंतुम् ऐछत ॥ र्म्_38.587{84} ॥
ततः स नृपती राजा सखिमंत्रिजनैः सह ।
यानारूढो व्रजन्स् तत्र निम्ववने उपासरत् ॥ र्म्_38.588{85} ॥
तत्रोद्यानं मनोरम्यं सर्ववृक्षाः समन्वितं ।
पुष्करिणीश् च दूरात् स राजाद्राक्षीन् मनोहराः ॥ र्म्_38.589{86} ॥
भवनं च मनोरम्यं प्रासादं दिव्यकल्पितं ।
दृष्ट्वा स मुदितो राजा स शीघ्रं द्वारान्तिके ययौ ॥ र्म्_38.590{87} ॥
तन् नृपं समुपायातं दृष्ट्वा देव्याः सखी द्रुतं ।
पुरतः सहसोपेत्य समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.591{88} ॥
देवी प्रसीद यद् भर्त्ता स्वामीह स्वयम् आगतः ।
तद् भवंती प्रसन्नास्या दर्शनं दातुम् अर्हति ॥ र्म्_38.592{89} ॥
इति सख्योदितम् श्रुत्वा निम्वदेवी प्रहर्षिता ।
सहसोत्थाय पर्यङ्कं प्राज्ञपयत् सुकोमलं ॥ र्म्_38.593{90} ॥
तत्र स भूपती राजा प्रविश्य मंदिरे चरन् ।
तां देवीं समुपामंत्र्य प्रययौ सहिते जनैः ॥ र्म्_38.594{91} ॥
तत्र तं प्रभुम् आयातं निम्वदेवी समीक्ष्य सा ।
सहसोत्थाय पश्यंती ननाम चरणे प्रभोः ॥ र्म्_38.595{92} ॥
तत्र स प्रभुर् आलोक्य तां भार्यां श्रीसमांशिकां ।
सर्वत्र कुशलं प्रश्नं कृत्वासने समाश्रयत् ॥ र्म्_38.596{93} ॥
तत्र तां श्रीसमाकारं निम्वदेवीं निरीक्ष्य सः ।
राजा प्रभुः स्वयं धृत्वा सहासने न्यवेशयत् ॥ र्म्_38.597{94} ॥
ततस् तौ दंपती तत्र सहासने समाश्रितौ ।
परस्परं समाश्रित्य निषेदतुः प्रमोदितौ ॥ र्म्_38.598{95} ॥
ततः स नृपती स्वामी सकौतुकप्रमोदितः ।
तां भार्यां श्रीसमानांशं दृष्ट्वैवं पर्यपृछत ॥ र्म्_38.599{96} ॥
कथं ते भवनं रम्यं प्रासादं भवने ऽधुना ।
उद्यानं च मनोरम्यं जायते तद् वदस्व मे ॥ र्म्_38.600{97} ॥
इति पृष्टे नरेंद्रेण निम्वदेवी विनोदिता ।
तं प्रभुं सांजलिर् नत्वा समालोक्यैवम् अब्रवीत् ॥ र्म्_38.601{98} ॥
शृणु स्वामिन् महाराज यदि श्रोतुं त्वम् इछसि ।
तथाहं कथयिष्यामि यन् मे संपत् प्रजायते ॥ र्म्_38.602{99} ॥
प्रत्यहं यत् त्वया दत्तं तद् भोग्यं याचितुं सखी ।
अमुष्मिन् दिवसे तत्र मयेयं प्रेषिताचरत् ॥ र्म्_38.603{100} ॥
तत्रेयं सहसा गत्वा प्रासादैकांतम् आश्रिता ।
तदा वातायनात् क्षिप्तं व्रतसूत्रम् अधो ऽपतत् ॥ र्म्_38.604{1} ॥
तद् दृष्ट्वैवं सखी गृह्य किम् इदम् इति वीक्ष्य सा ।
विस्मिता सहसागत्वा ममाग्रे समदर्शयत् ॥ र्म्_38.605{2} ॥
तद् दृष्ट्वायं मया पृष्टा त्यक्त्वाहारम् इदं कुतः ।
सूत्रम् आदाय प्रैषि त्वं तत् कथम् उच्यताम् इति ॥ र्म्_38.606{3} ॥
तथेयं परिपृष्टा मे विस्तरेणैवम् अब्रवीत् ।
स्वामिनि यदि ते श्रोतुं वांछास्ति श्रूयताम् इति ॥ र्म्_38.607{4} ॥
प्रत्यहं स्वामिनाहारं दत्तं तद् याचितुं तदा ।
तत्र राजकुले देव्या व्रतोत्साहं शृणोम्य् अहं ॥ र्म्_38.608{5} ॥
तद् व्रतशब्दम् आकर्ण्य तत्रैकांते समाश्रिता ।
तदा वातायनात् क्षिप्तं सूत्रं पतति मे मम ॥ र्म्_38.609{6} ॥
तद् इदं सूत्रम् आलोक्यमिति विस्मयान्विता ।आलोक्य किम् इति?
त्यक्त्वाहारम् इदं सूत्रम् आदाय सहसा व्रजे ॥ र्म्_38.610{7} ॥
इत्य् उक्त्वेयं सखी मे ऽग्रे उपस्थायाप्य् अदर्शयत् ।
व्रतसूत्रं तद् आलोक्य नत्वागृह्नान् मुदादरात् ॥ र्म्_38.611{8} ॥
ततश् चेयं सखि दृष्ट्वा प्रेम्ना हितार्थवांछिनी ।
मातेवानुनयं कृत्वा ममाग्रे एवम् अब्रवीत् ॥ र्म्_38.612{9} ॥
भवंत्य् अपि तथा श्रद्धाभक्तिमात्रेण सर्वदा ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चर ॥ र्म्_38.613{10} ॥
इत्य् अस्या वचनं श्रुत्वा तथाहं भक्तिमात्रतः ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्याचरं व्रतं ॥ र्म्_38.614{11} ॥
तदैका ज्यायसी वृद्धा मातामही तवागता ।
इत्य् आख्याय शनैर् अत्र ममाग्रे समुपागता ॥ र्म्_38.615{12} ॥
मयापि सादरेणात्र नत्वासने निवेशिता ।
ततश् च मां समालोक्य कुशलं समपृछत ॥ र्म्_38.616{13} ॥
ततश् चासौ परिज्ञाय मयात्र व्रतसाधनं ।
किं व्रतं सध्यते वत्स इति मां पर्यपृछत ॥ र्म्_38.617{14} ॥
ततस् तां सांजलिर् नत्वा न्यवेदयन् समादरात् ।
मातामहि नु मे किं चिद् अपि द्रव्यं न विद्यते ॥ र्म्_38.618{15} ॥
तद् अहं श्रद्धया भक्तिभावमात्रेण सादरं ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चरे ॥ र्म्_38.619{16} ॥
इति मयोदितं श्रुत्वा सा वृद्धा परिमोदिता ।
तद्व्रतविधिपुण्यानि यथा क्रमम् उपादिशत् ॥ र्म्_38.620{17} ॥
तद् उपादिष्टम् आकर्ण्य मुदिता संप्रमोदिता ।
सांजलिस् तन्पदाब्जे ऽहं नत्वा तिष्ठम् अधोमुखः ॥ र्म्_38.621{18} ॥
तदा सा तज्ज्यायसी रूपं त्यक्त्वात्र च क्षणाद् अपि ।
श्रीदेवीमूर्त्तिम् आधाय सगणां समदर्शयत् ॥ र्म्_38.622{19} ॥
अतो ऽहं सहसोत्थाय दृष्ट्वा तां श्रीवसुंधरां ।
गणवृतां समालोक्य यथाशक्ति समर्च्यं ॥ र्म्_38.623{20} ॥
ततः सा श्रीमहदेवी मद्भक्तिपरितोषिता ।
सगणा मे वरं दत्वा व्यवधानम् इतो ऽव्रजत् ॥ र्म्_38.624{21} ॥
ततस् तस्या महालक्ष्म्या कृपादृष्टिप्रसादतः ।
इदं मे भवनं रम्यं प्रासादं भवते क्षणात् ॥ र्म्_38.625{22} ॥
उद्यानं च मनोरम्यं नानापुष्पफलद्रुमैः ।
पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यो चोद्भवाः ॥ र्म्_38.626{23} ॥
सधातुरत्नजातादि सर्वद्रव्याभिपूरितं ।
कोष्ठागारं समुद्भूतं सवस्त्रालंकारपूरितं ॥ र्म्_38.627{24} ॥
सर्वव्रीहिसमापूर्णम् षड्ररद्रव्यपूरितं ।
घृतदधिमधुक्षीरमोदकादिप्रपूरितं ॥ र्म्_38.628{25} ॥
विविधपानभोज्यानि पट्टपुष्पासनानि च ।
फलपुष्पादि भोग्यानि संजायंते क्षणाद् इह ॥ र्म्_38.629{26} ॥
ईदृशी महती संपत् समुद्भूता मम क्षणात् ।
तत् सर्वं श्रीमहादेव्याः प्रसादाद् अपि नान्यथा ॥ र्म्_38.630{27} ॥
इति विज्ञाय राजेन्द्र तस्या देव्याः सदा मुदा ।
श्रद्धया शरणं गत्वा व्रतं चरितुम् अर्हति ॥ र्म्_38.631{28} ॥
एतत्पुण्यानुभावेन सर्वदा सद्गतीं व्रजेः ।
यावद्भवं व्रजेर् नैव दुर्गतीं च कदा चन ॥ र्म्_38.632{29} ॥
सद्गतौ सत्सुखान्य् एव लब्धो सदा शुभे चरन् ।
त्रिरत्नभजनं कृत्वा बोधिचर्यां चरेत् क्रमात् ॥ र्म्_38.633{30} ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमात् ।
स्वयं चरं परां चापि बोधिमार्गे नियोजयेत् ॥ र्म्_38.634{31} ॥
ततो मारगणान् सर्वां जित्वा शुद्धत्रिमंडलः ।
अर्हन् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_38.635{32} ॥
इति तया महादेव्याः समुपादिष्टम् अत्र मे ।
तच् छ्रुत्वा सर्वदा स्वामि मनो ऽतिरोचते व्रतं ॥ र्म्_38.636{33} ॥
तद् अहं सर्वदा तस्याः श्रीदेव्याः शरणं गता ।
श्रद्धया भक्तिभावेन चरिष्यामि व्रतं प्रभो ॥ र्म्_38.637{34} ॥
तथा भवान् अपि स्वमिञ् छ्रीदेव्याः शरणं गतः ।
श्रद्धाभक्तिप्रसन्नात्मा व्रतं चरितुम् अर्हति ॥ र्म्_38.638{35} ॥
इति भार्योदितं श्रुत्वा स राजाभ्यनुमोदितः ।
तथा सदा महादेव्या व्रतं चरितुम् ऐछत ॥ र्म्_38.639{36} ॥
तत्रैवं स महीपालो निम्वदेव्या तया सह ।
यथाकामं सुखं भुक्त्वा तस्थौ क्रीडन् यथेछया ॥ र्म्_38.640{37} ॥
एवं क्रीडन् स राजेन्द्रो निम्वदेव्या सहारतः ।
तत्रानंदसुखोत्साहैर् न्युवास राज्यनिस्पृतः ॥ र्म्_38.641{38} ॥
तत्रैवं तं महीपालं निम्वदेव्या सह स्थितं ।
चूडदेवी समाकर्ण्य चुकोपातिप्ररोषिता ॥ र्म्_38.642{39} ॥
ततः सा चूडदेवी तं स्वामिनं तत्र संस्थितं ।
स्वयं गत्वा समाक्रम्य संमानयितुम् ऐछत ॥ र्म्_38.643{40} ॥
ततः सा क्रोधिता चण्डी चूडदेवी प्रधाविता ।
व्रजंती सहसा तत्र निम्ववन उपासरत् ॥ र्म्_38.644{41} ॥
तत्र तद्व्रतनिर्माल्यप्रक्षिप्तः पुष्पसंकुलं ।
स्थानं सातिप्रकोपांधा लंघित्वा सहसाचरत् ॥ र्म्_38.645{42} ॥
तल्लंघितातिपापेन सा देवी तत्क्षणाद् अपि ।
कोलमुखी महाघोररूपाविछंदिता भवत् ॥ र्म्_38.646{43} ॥
तत्र तां सहसायातां लोकान् दृष्ट्वा भयोत्थिताः ।
कोलमुखी प्रविष्टेति शब्दं कृत्वा विचेरिरे ॥ र्म्_38.647{44} ॥
तद् विरावं जनाः सर्वे श्रुत्वा तत्र समुत्थिताः ।
कोलाहलमहाशब्दं प्रकुर्वन्त उपाद्रुवन् ॥ र्म्_38.648{45} ॥
तत् कोलाहलं शब्दं श्रुत्वा संत्रसिताशया ।
परायित्वा ततो ऽन्यत्र प्रदुद्राव वनांतरे ॥ र्म्_38.649{46} ॥
तत्रैका विभ्रमंती सा दैवसंप्रेरिता वने ।
निर्जने दुर्गमे ऽरण्ये परिखिन्नाप्य् अधावत ॥ र्म्_38.650{47} ॥
तथा सा दूरतो गत्वा प्राद्राक्षीत् सरसी द्वयं ।
दृष्ट्वा सा तत्र तृष्णार्त्ता जलं पातुम् उपाचरत् ॥ र्म्_38.651{48} ॥
तदा ते सरसी युद्धं परस्परं प्रचक्रतुः ।
दृष्ट्वा सा विस्मिता ऽपीत्वा जलं तस्थौ सविस्मया ॥ र्म्_38.652{49} ॥
तत्र ते सरसी दृष्ट्वा तां कोलवदनां स्त्रियं ।
कुत्र गंतुम् इहैषि त्वम् इत्य् एवं पर्यपृछतां ॥ र्म्_38.653{50} ॥
तत् पृष्टं सा समाकर्ण्य सा शंकविस्मयाहता ।
किम् एतद् इति संचिंत्य क्षणं तस्थौ विमोहिता ॥ र्म्_38.654{51} ॥
तत्र सा दैवयोगेन प्रतिलभ्य सुचेतनां ।
किं मयात्रापि वक्तव्यम् इति ध्यात्वा व्यचिंतयत् ॥ र्म्_38.655{52} ॥
हा कथम् इह प्राप्ताहं भ्रमामि निर्जने वने ।
किं मया प्रकृतं पापं येन भ्रष्टा चराम्य् अहं ॥ र्म्_38.656{53} ॥
हा किं कुर्यां क्व गछेयं सहायैकापि मे ऽस्ति न ।
सर्वथात्र विनष्टास्मि को मां रक्षेद् इहा ऽधुना ॥ र्म्_38.657{54} ॥
इति चिंताविषण्णा सा तस्थौ तत्र निराशिता ।
ततः सा दैवयोगेन सस्मार श्रीवसुंधरां ॥ र्म्_38.658{55} ॥
तद् देवीस्मृतिपुण्येन सा कर्मभाविनी सुधीः ।
यत् स्वयं प्रकृतं कर्म तत् सर्वं पर्य्यबुध्यतां ॥ र्म्_38.659{56} ॥
हा मया दुर्धिया तत्र सम्यन् न धारितं व्रतं ।
एतत्पापेन नूनं मे जाते ऽयम् ईदृशी विपत् ॥ र्म्_38.660{57} ॥
तद् अत्र किं करिष्यामि कोलमुखी यतो ऽस्म्य् अहं ।
तत् तत्र कथं एवं हि प्रतियायं नृपालयं ॥ र्म्_38.661{58} ॥
यच् चाहं दुर्मतिर् दुष्टा स्वकृतपापभागिनी ।
तद् दैवप्रेषिता ह्य् अत्र भ्रमामि निर्जने वने ॥ र्म्_38.662{59} ॥
तद् अत्र किं चरेयाहं जीविते ऽपि न मे रुचिः ।
सर्वेषाम् अपि जंतूनां सर्वत्र मरणं ध्रुवं ॥ र्म्_38.663{60} ॥
इति मत्वाहम् अत्रापि निरपेक्षः स्वजीविते ।
श्रीदेव्या दर्शनं कर्त्तुं स्मृत्वा गछेय सांप्रतं ॥ र्म्_38.664{61} ॥
इति निश्चित्य सा राज्ञी चूडदेवी समुद्यता ।
श्रीदेव्या दर्शनं कर्तुं स्मृत्वा चरितुम् ऐछत ॥ र्म्_38.665{62} ॥
ततः सा चूडदेवी ते सरसी द्वे समीक्ष्य च ।
उपेत्य तज् जलं पीत्वा तीरे स्थित्वैवम् अब्रवीत् ॥ र्म्_38.666{63} ॥
सरसी यद् अहं मूढा दुर्मती मंदभागिनी ।
तच् छ्रीवसुंधरां देवीं द्रष्टुम् इहाव्रजामि हि ॥ र्म्_38.667{64} ॥
इति तयोदितं श्रुत्वा पुष्करिण्याव् उभे ऽपि ते ।
तां राज्ञीं समुपामंत्र्य नृगिरैवम् अभाषतां ॥ र्म्_38.668{65} ॥
साधु साधु महाभागे व्रजास्तु मंगलं तव ।
पुन नौ वचसा देवीम् एवं पृछ त्वम् आदरात् ॥ र्म्_38.669{7} ॥
केनावां हेतुना युद्धं कृत्वा तिष्ठावहे सदा ॥ र्म्_38.670{8} ॥
इत्य् एतत् कथितं ताभ्यां श्रुत्वा राज्ञी तथेति सा ।
प्रतिज्ञाय तत्रान्यत्र स्वदैवप्रेषिताचरत् ॥ र्म्_38.671{9} ॥
तत्रारण्ये भ्रमंती सा किं चिद् दूरं गता ततः ।
महांतं शूकरं घोरं ददर्श भीषणाकृतिं ॥ र्म्_38.672{10} ॥
तत्र सा दूरतः स्थित्वा पश्यंस् तं भीमशूकरं ।
मात्रा तिष्ठ व्रजान्यत्र सहसेति तम् अब्रवीत् ॥ र्म्_38.673{11} ॥
इति तेनोदितं श्रुत्वा स शूकरः समुत्थितः ।
सहसोपेत्य तां राज्ञीं समालोक्यैवम् अब्रवीत् ॥ र्म्_38.674{12} ॥
का त्वं कुत इहायासि कुत्र गंतुं प्रधावसि ।
एकाकिनी कथं भ्रांतो वन एतद् वदस्व मे ॥ र्म्_38.675{13} ॥
इति तेनोदितं श्रुत्वा सा देवी प्रतिचित्रिता ।
शनैर् उपेत्य तं प्रेतं संपश्यन्न् एवम् अब्रवीत् ॥ र्म्_38.676{14} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
श्रीदेव्या दर्शनं कर्तुं वांछंतीह समाव्रजे ॥ र्म्_38.677{15} ॥
इति तद् गदितं श्रुत्वा शूकरः सो ऽतिविस्मितः ।
तां देवीं समुपाश्रित्य पश्यन्न् एवम् अभाषत ॥ र्म्_38.678{16} ॥
साधु साध्वि महाभागे व्रजास्तु ते सुमंगलं ।
तां श्रीभगवतीदेवीं मन्नाम्ना प्रणमादरात् ॥ र्म्_38.679{17} ॥
भूयो मे वचसा साध्वी तां देवीं परिपृछतां ।
केनाहं शूकरीभूतस् तिष्ठामीति भवंत्य् अपि ॥ र्म्_38.680{18} ॥
एतत् तत् कथितं श्रुत्वा चूडदेवी तथेति सा ।
प्रतिज्ञाय ततो ऽन्यत्र व्रजंती सहसाचरत् ॥ र्म्_38.681{19} ॥
तत्र सूचीमुखप्रेतम् अस्थिकायं महोदरं ।
स्वकेशरोमसंछन्नम् अपश्यद् दूरतो वने ॥ र्म्_38.682{20} ॥
तत्र स प्रेत आलोक्य तां देवीं समुपागतां ।
सहसोपेत्य संपश्यन् पुरस्थ एवम् अब्रवीत् ॥ र्म्_38.683{21} ॥
को त्वं कुत इहायासि कुत्र गंतुम् इहागता ।
निःसहाया कथं भ्रांता चरते तद् वदस्व मे ॥ र्म्_38.684{22} ॥
इति तत् कथितं श्रुत्वा सा देवी विस्मयान्विता ।
शनैर् उपेत्य तं प्रेतं पश्यंत्य् एवम् अवोचत ॥ र्म्_38.685{23} ॥
सूर्योदयमहीभर्त्तु भार्याहं महिषी सती ।
श्रीदेव्या दर्शने गंतुं पथानेनाव्रजामि हि ॥ र्म्_38.686{24} ॥
इति तद् उदितं श्रुत्वा स प्रेतो ऽतिविचित्रितः ।
तां देवीं सांजलिर् नत्वा पुर एवम् अवोचत ॥ र्म्_38.687{25} ॥
साधु साध्वि महाभागे चरास्तु ते सुभद्रकं ।
तां श्रीभगवतीलक्ष्मीं मन्नाम्ना प्रणमादरात् ॥ र्म्_38.688{26} ॥
भूयो ऽपि वचसा मे तां श्रीदेवीं परिपृछतु ।
केनाहं पापकेनैवं तिष्ठामि दुःखभागिनी ॥ र्म्_38.689{27} ॥
एतत् तत् कथितं श्रुत्वा चूडदेवी तथेति सा ।
प्रतिश्रुत्य गतान्यत्र प्राद्राक्षीद् दशपापिनः ॥ र्म्_38.690{28} ॥
ते ऽपि तां समुपायातां दृष्ट्वोपेत्येवम् अब्रुवन् ।
का त्वं कुत इहायासि कुत्र गंतुं च तद् वद ॥ र्म्_38.691{29} ॥
इति तैर् गदितं श्रुत्वा सा देवी समुपास्थिता ।
तान् सर्वान् पापिनो दृष्ट्वा पुर एवम् अभाषत ॥ र्म्_38.692{30} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
श्रीदेव्या दर्शने गंतुं पथानेनाव्रजाम्य् अहं ॥ र्म्_38.693{31} ॥
इति तद् गदितं श्रुत्वा सर्वे ते दशपापिनः ।
कृतांजलिपुटा नत्वा तां देवीम् एवम् अब्रुवन् ॥ र्म्_38.694{32} ॥
साधु देवी महाभागे प्रव्रजास्तु जयं तव ।
अस्माकं प्रकृतं पापं तां देवीं परिपृछतु ॥ र्म्_38.695{33} ॥
इति तद् देशितं श्रुत्वा चूडदेवी तथेति सा ।
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0