भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 341360

किं तेषां मानुषे जन्म निस्फलं सर्वसाधनं ।
ये ध्यात्वापि जिनं स्मृत्वा भजंति न कदा चन ॥ र्म्_35.56{56} ॥
तेषां च किं भवे जन्म केवलं पापसाधनं ।
ये न शृण्वंति सद्धर्मं संबुद्धभाषितं क्व चित् ॥ र्म्_35.57{57} ॥
तेषां च निस्फलं जन्म मानुष्ये दुःखसाधनं ।
ये न कुर्वन्ति सत्कारं सांघिकेषु कदा चन ॥ र्म्_35.58{58} ॥
एवं ये पशुवद् गेहे भोग्यं भुक्त्वा वसंति वै ।
तेषां किं जन्म संसारे पापदुःखार्थम् एव हि ॥ र्म्_35.59{59} ॥
एवं ते प्राणिनः सर्वे भ्रमंति भवसागरे ।
यतो यैर् दृश्यते क्वापि त्रिरत्नं न कदा चन ॥ र्म्_35.60{60} ॥
तथास्माकम् अपि चात्र संसारे जन्म निस्फलं ।
संपदो ऽपि निरर्था हि त्रिरत्नभजनं विना ॥ र्म्_35.61{61} ॥
धर्मार्थजन्मसंसारे यदि धर्मो न लभ्यते ।
किम् एवं जीवितेनापि केवलाशुभसाधिना ॥ र्म्_35.62{62} ॥
तद् वरं मृत्युर् अद्येवं विना धार्मार्थसाधनं ।
किं तेन जीवितेनापि यन् मिथ्यादुःखसाधनं ॥ र्म्_35.63{63} ॥
न प्राप्तं भगवत्पूजा महोत्साहं कदापि यैः ।
धर्मो ऽपि न श्रुतः कश्चिन् न काराः सांघिके कृताः ॥ र्म्_35.64{64} ॥
भीतेभ्यो नाभयं दत्तं दरिद्राशा न पूरिता ।
दुःखाय केवलं मातुर् गतास् ते गर्भशल्यतां ॥ र्म्_35.65{65} ॥
धन्यास् ते सुखिनो लोके सुभद्राः शुभभाविनः ।
सत्पुरुषा महात्मानः श्रीमंतः सद्गुणाश्रयाः ॥ र्म्_35.66{66} ॥
ये बुद्धे शरणं गत्वा ध्यात्वा स्मृत्वा समाहिताः ।
सद्धर्मामृतम् आपीय चरन्तः सौगतं व्रतं ॥ र्म्_35.67{67} ॥
सर्वे सत्वहितार्थं च दानं दत्वा यथेप्सितं ।
दयालवः सुसौम्यांशाः सर्वसत्वहिताशयाः ॥ र्म्_35.68{68} ॥
संबोधिसाधनोत्साहसर्वसत्वहितोद्यताः ।
निःक्लेशा विमलात्मानः समाधिनिश्चलाशयाः ॥ र्म्_35.69{69} ॥
प्रज्ञावंतो महाधीराः संबोधिरत्नलाभिनः ।
प्रव्रज्याव्रतिनार्हन्तो निर्विकल्पा निरंजनाः ॥ र्म्_35.70{70} ॥
भिक्षाहारा निरातंका निःशंका दमितेंद्रियाः ।
निःशेषनिर्जिताविद्याः प्राप्तविद्या विशारदाः ॥ र्म्_35.71{71} ॥
स्वछंदचारिणः सन्तः सर्वसत्वात्मभाविनः ।
निःस्पृहा विरतोत्साहा निर्दैन्यः क्षुभिताशयाः ॥ र्म्_35.72{72} ॥
निर्मदा निरहंकारा आर्या निरभिमानिनः ।
निर्माया निर्ममाखड्गा निःसंगा निःपरिग्रहाः ॥ र्म्_35.73{73} ॥
मुण्डिता खिक्खिरीपात्रदधानाश् चीवरावृताः ।
यतिनः सुगताकारास् त्रियानमोक्षदेशकाः ॥ र्म्_35.74{74} ॥
स्वपरात्महितार्थेन संबोधिमार्गदेशकाः ।
वंद्याः पूज्याः प्रमान्याश् च चतुर्ब्रह्मविहारिणः ॥ र्म्_35.75{75} ॥

ते एव सुगतिं यांति यांति चान्ते जिनालये ।
संबोधिं च समासाद्य भवेयुः सुगता अपि ॥ र्म्_35.76{76} ॥
इति सत्यं मुनीन्द्रेण समादिष्टं निशम्य मे ।
मनो ऽत्र भवसंचारे चरितुं नाभिवांछति ॥ र्म्_35.77{77} ॥
त्रिरत्नशरणं कृत्वा संबुद्धशासने शुभे ।
प्रव्रज्यासंवरं धृत्वा चरितुम् इछति सांप्रतं ॥ र्म्_35.78{78} ॥
किं च मे जन्मकाले यद् इदं युः शोभितारुषा ।
संपदो ऽपि प्रवर्द्धन्ते दिव्याभिसुंदरास्मि च ॥ र्म्_35.79{79} ॥
तत् सर्वं मे पुरा भद्रकर्मधर्मविपाकतः ।
संपद्यते ऽधुना नूनं विद्धि मा त्व् अन्यथा पित ॥ र्म्_35.80{80} ॥
एतन् नूनम् इति मत्वा भूयो ऽपि मे मनस् तथा ।
सद्धर्मसाधनं कर्तुम् इछति सौगतं व्रतं ॥ र्म्_35.81{81} ॥
एतद् धेतोर् अहं तात प्रार्थयाम्य् एवम् आदरात् ।
तद् अनुज्ञां प्रदत्तं मे यदि वांछास्ति वा शुभे ॥ र्म्_35.82{82} ॥
एतत्पुण्यविभागेन यूयम् अपि सुरालयं ।
गत्वा दिव्यसुखान्य् एव भुक्त्वा चिरं निवत्स्यथ ॥ र्म्_35.83{83} ॥
ततः काले दिवश् च्युत्वा मर्त्यलोक इहागताः ।
त्रिरत्नभजनं कृत्वा चरिष्यथ शुभे सदा ॥ र्म्_35.84{84} ॥
तच् छुभपुण्यपाकेन शुद्धाशयाः शुभाविनः ।
संबुद्धशासने गत्वा सद्धर्मं श्रोष्यथादरात् ॥ र्म्_35.85{85} ॥
ततस् तत् पुण्यपाकेन संघानां शरणं गताः ।
सत्कारैः समुपस्थित्वा भजिष्यथ समादरात् ॥ र्म्_35.86{86} ॥
ततस् तत् पुण्यपाकेन बोधिचित्तम् अवाप्स्यथ ।
ततो लोकहितार्थेषु बोधिचर्यां चरिष्यथ ॥ र्म्_35.87{87} ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमं ।
ततो बोधिं समासाद्य संबुद्धपदम् आप्स्यथ ॥ र्म्_35.88{88} ॥
एवं विज्ञाय संबुद्धपदसंप्रतिपत्तये ।
तद् अनुज्ञां प्रदत्तं मे संबुद्धपदवांछिरे ॥ र्म्_35.89{89} ॥
अनित्यं खलु सम्षारं जीवितं क्षणभंगुरं ।
क्षणभंगिशरीरं च सर्वेषां भवचारिणां ॥ र्म्_35.90{90} ॥
संपदो ऽपि स्थिरा नैव सत्क्षणं च सुदुर्लभं ।
मानुष्ये सर्वदा जन्म लभ्यते न सुदुर्ल्लभं ॥ र्म्_35.91{91} ॥
तत्रापि दुर्लभा धर्मे मतिर् जातापि न स्थिराः ।
धर्मं तु सौगतैः श्रेष्ठं यत् संबोधिपदसाधनं ॥ र्म्_35.92{92} ॥
तत् संबोधिपदप्राप्त्यै धर्मं इछामि सौगतं ।
तद् अनुज्ञां प्रदत्वा मे मनो हर्षयत द्रुतं ॥ र्म्_35.93{93} ॥
धर्मं विनात्र किं सारं भोग्यैर् अर्थैर् गुणैर् अपि ।
किं कामसुखं भुक्त्वा स्थित्वा च पशुवद् गृहे ॥ र्म्_35.94{94} ॥
तद् अनुज्ञां न दत्यश्येन् स्थास्यामि न गृहे ऽप्य् अहं ।
सर्वान् परिग्रहान्स् त्यक्त्वा गमिष्यामि तपोवनं ॥ र्म्_35.95{95} ॥

तत्र को निर्जने स्थित्वा चरित्वा दुष्करं तपः ।
अनाहारो मरिष्ये ऽहं सर्वत्र मरणं ध्रुवं ॥ र्म्_35.96{96} ॥
कस्य मृत्यु भवे नास्ति कुत्र मृत्योर् भयं न हि ।
सर्वलोकान् ग्रसेन् मृत्युर् एको ऽपि स महावलिः ॥ र्म्_35.97{97} ॥
तद् अत्र किं विषादेन यद् दमोपायम् अत्र न ।
अवश्यं भाविनो भावा भवन्ति महताम् अपि ॥ र्म्_35.98{98} ॥
मृत्युकाले सहायो ऽपि को ऽपि नास्ति सहानुगः ।
धर्म एव तदैको हि सहायः स्यात् सहानुगः ॥ र्म्_35.99{99} ॥
एवं मत्वात्र संसारे स्थातुं नेछन्ति सज्जनाः ।
सर्वान् परिग्रहान्स् त्यक्त्वा प्रव्रजन्ति शुभार्थिनः ॥ र्म्_35.100{100} ॥
तथाहम् अपि तन् मृत्युभयं दृष्ट्वाभिशंकितः ।
संबुद्धशरणं गत्वा चरितुं व्रतम् उत्सहे ॥ र्म्_35.101{1} ॥
इति धर्मे निधेद्धं मा किं चिद् वा वक्तुम् अर्हथ ।
सुप्रसन्नाधियानुज्ञां प्रदातुम् एव मे ऽर्हति ॥ र्म्_35.102{2} ॥
इति तेनात्मजेनैवं संप्रार्थितं निशम्य तौ ।
पितरौ विस्मयाक्रांतचित्तौ तष्ठतुर् मूर्छितौ ॥ र्म्_35.103{3} ॥
ततस् तौ धैर्यम् आलम्ब्य तम् एव स्वात्मजं चिरात् ।
दृष्ट्वा वियोगदुःखार्त्तौ तष्ठतुर् लिखिताव् इव ॥ र्म्_35.104{4} ॥
ततः स जनकः शाक्यस् तदुक्तपरिबोधितः ।
गलदश्रुमुखो दृष्ट्वा तं पुत्रम् एवम् अब्रवीत् ॥ र्म्_35.105{5} ॥
हा पुत्र किं अत्राहं वदेय सांप्रतं खलु ।
यत् त्वम् एव सुधीर् विज्ञः पण्डितो ऽसि विचक्षणः ॥ र्म्_35.106{6} ॥
यत् त्वं शासने बौद्धे प्रव्रजितुं समिछसि ।
तच् छास्तुः शरणं कृत्वा व्रतं चर समाहितः ॥ र्म्_35.107{7} ॥
इति पित्रोदितं श्रुत्वा स सोभितः प्रमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ र्म्_35.108{8} ॥
ततः स सहसा गत्वा न्यग्रोधतरुमण्डिते ।
विहारे सुगतारमे प्रविश्य समुपाचरत् ॥ र्म्_35.109{9} ॥
यत्र स पुरतो गत्वा कृतांजलिपुटो मुदा ।
प्रणत्वा तं जगन्नाथं प्रार्थयद् एवम् आदरात् ॥ र्म्_35.110{10} ॥
भगवन् नाथ सर्वज्ञ प्राप्यानुज्ञां समाव्रजे ।
तद् भवान् सांप्रतं मह्यं प्रव्रज्यां दातुम् अर्हति ॥ र्म्_35.111{11} ॥
भवतां शरणे स्थित्वा प्रव्रज्य सौगतंव्रतं ।
धृत्वा सदा समादाय चरिष्ये बोधिचारिकां ॥ र्म्_35.112{12} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
सव्येन पाणिना तस्य शिरः स्पृष्ट्वैवम् आदिशत् ॥ र्म्_35.113{13} ॥
एहि च वत्स समाधाय व्रतं चरस्व सौगतं ।
इत्य् उक्त्वा स मुनीन्द्रः स्वसांघिके तं समग्रहीत् ॥ र्म्_35.114{14} ॥
एहीत्य् उक्ते मुनींद्रेण शोभितो ऽभूत् स मुण्डितः ।
खिक्खिरीपात्रविभ्राणः काखायचीवरी यतिः ॥ र्म्_35.115{15} ॥

ततः स सुमतिर् भिक्षुः संसारगतिनिस्पृहः ।
भित्वाविद्यागणान् सर्वान् प्राप्तविद्या विशारदः ॥ र्म्_35.116{16} ॥
सर्वक्लेशगणां जित्वा साक्षाद् अर्हत्वम् आप्तवान् ॥ र्म्_35.117{17!} ॥
ततः सो ऽर्हन् महाभिज्ञः परिशुद्धत्रिमण्डलः ।
निक्लेशः सुविशुद्धात्मा शुद्धेन्द्रियो जिनांशभृत् ॥ र्म्_35.118{18} ॥
निर्विकल्पः समाकारो ब्रह्मचारी निरंजनः ।
संसारलाभसत्कारनिःस्पृहः खसमाशयः ॥ र्म्_35.119{19} ॥
स देवासुरलोकानां सर्वेषां भवचारिणां ।
मान्यः पूज्यो ऽभिवंद्यश् च बभूव स जिनात्मजः ॥ र्म्_35.120{20} ॥
तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
भवन्तं प्रणत्वैवं पप्रछुस् तत् पुराकृतं ॥ र्म्_35.121{21} ॥
भगवन् किं पुरानेन सुकृतं प्रकृतं कुह ।
येनायं सुकुले जातो दिव्यकल्पातिसुंदरः ॥ र्म्_35.122{22} ॥
जन्मनि वास्य जातानि महाद्भुतकराण्य् अपि ।
यैर् एतन् नगरं सर्वं चंद्राभैर् इव शोभितं ॥ र्म्_35.123{23} ॥
भवतां शासने चापि त्रिरत्नशरणं गतः ।
प्रव्रज्यासंवरं धृत्वा यतिर् अर्हन् भवत्य् अपि ॥ र्म्_35.124{24} ॥
एतत् सर्वं समाख्याय भवांच् छास्ता जगद्गुरुः ।
सर्वान् अस्मान् सभांश् चापि प्रबोधयितुम् अर्हति ॥ र्म्_35.125{25} ॥
इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वान् यतीन् सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_35.126{26} ॥
शृणुत भिक्षवः सर्वे यद् अनेन पुराकृतं ।
तत् सर्वं समाशख्ये युष्माकं परिबोधने ॥ र्म्_35.127{27} ॥
तद्यथाभूत् पुरा शास्ता क्रकुछन्दस् तथागतः ।
सर्वज्ञो ऽर्हं जगन्नाथो धर्मराजो मुनीश्वरः ॥ र्म्_35.128{28} ॥
तदा स भगवान् लोके बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य प्रचचार समंततः ॥ र्म्_35.129{29} ॥
एवं स भगवां छास्ता कृत्वा सर्वत्र मंगलं ।
शोभावत्या महापूर्य्या राजधान्या उपाश्रमे ॥ र्म्_35.130{30} ॥
विहारे सौगतावासे समाश्रित्य प्रभासयन् ।
सद्धर्मं समुपादेष्टुं विजहार ससांघिकः ॥ र्म्_35.131{31} ॥
तत्रागत्य समानीनं तं मुनीन्द्रं ससांघिकं ।
श्रुत्वा शोभो महाराजो द्रष्टुं स समुपाचरत् ॥ र्म्_35.132{32} ॥
तत्र स नृपतिः शोभो दृष्ट्वा तं सुगतं मुनिं ।
क्रकुछंदं समासीनं भिक्षुसंघपुरस्कृतं ॥ र्म्_35.133{33} ॥
मुदितः समुपासृत्य कृतांजलिः पुरोगतः ।
प्रणत्वा सुप्रसन्नास्यः प्रार्थयम् एवम् आदरात् ॥ र्म्_35.134{34} ॥
भगवन् नाथ सर्वज्ञ भवाञ् छास्ता जगद्गुरुः ।
तद् अस्माकं हितार्थेन धर्मम् आदेष्टुम् अर्हति ॥ र्म्_35.135{35} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् अपि ।

तं शोभं क्षितिपालेंद्रं समालोक्यैवम् आदिशत् ॥ र्म्_35.136{36} ॥
शृणु राजन् समाधाय सत्वानां हितकारणं ।
संबोधिसाधनं धर्मं वक्ष्यामि ते शुभार्थतः ॥ र्म्_35.137{37} ॥
अनित्यं खलु संसारे सर्वं शून्यम् अनात्मकं ।
मायाक्लेशसमुद्भूतं जगल्लोकम् अशाश्वतं ॥ र्म्_35.138{38} ॥
तद् अत्र किं भवे सारं निरर्थं दुःखसाधनं ।
इति विज्ञाय राजेन्द्र क्लेशाञ् जित्वा शुभे चर ॥ र्म्_35.139{39} ॥
शुभेन सद्गतिं याया सद्गतौ सर्वदा सुखं ।
सुखेन सर्वदा भद्रे चरितव्यं तथा भवं ॥ र्म्_35.140{40} ॥
शुभं संजायते पुण्यात् सर्वत्रापि सदा ध्रुवं ।
पुण्यं संजायते ह्य् आदौ संबुद्धदर्शनाद् अपि ॥ र्म्_35.141{41} ॥
एतत्पुण्यानुभावेन सद्धर्मश्रवणं लभेत् ।
तत् सद्धर्मरसास्वादसंसक्तश् च समुत्सहेत् ॥ र्म्_35.142{42} ॥
तदुत्साहात् पुनः श्रोतुम् अभिलाषः समुद्भवेत् ।
समुद्भूताभिलाषश् च सत्कृत्य मानयेन् मुदा ॥ र्म्_35.143{43} ॥
सद्गुरुं समुपासृत्य सद्धर्मं शृणुयात् सदा ।
तत् सद्धर्मामृतस्वादगुणलब्धः प्रमोदितः ॥ र्म्_35.144{44} ॥
सद्धर्मचारणो भिक्षून् सत्कृत्य मानयेन् मुदा ।
ततस् तद् धर्मम् आकर्ण्य संबोधिधर्मवांछितः ।
त्रिरत्नभजनं कृत्वा स्वपरार्थहिते चरेत् ॥ र्म्_35.145{45} ॥
एतत्पुण्यविपाकेन स कुले श्रीसमालये ।
जातो लोकहितार्थेन दानं दद्याद् यथेप्सितं ॥ र्म्_35.146{46} ॥
तद् दानपुण्यपाकेन स दाता सद्गतिं व्रजेत् ।
सद्गतिस्थः सुखेनैवं सुशीलः संवरं चरेत् ॥ र्म्_35.147{47} ॥
तत् सुशीलव्रतोत्पन्नैः पुण्यैः स परिशुद्धधीः ।
सर्वसत्वहितार्थेषु दयालु मैत्रवच् चरेत् ॥ र्म्_35.148{48} ॥
ततस् तत् पुण्यपाकेन स सुधीरो विचक्षणः ।
स्वपरात्महितार्थेन सर्वकार्याणि साधयेत् ॥ र्म्_35.149{49} ॥
एतत् पुण्यविशुद्धात्मा निःक्लेशो विमलाशयः ।
समाधिधरणीविद्यासमाधानः सुधीर् भवेत् ॥ र्म्_35.150{50} ॥
ततस् तत् पुण्यसंभारसंबोधिगुणसार्थभृत् ।
प्रज्ञाब्धिपारम् आसाद्य बोधिचित्तमणिं लभेत् ॥ र्म्_35.151{51} ॥
तन् मनेर् अनुभावेन सर्वोपायविधानवित् ।
सर्वसत्वहितो धानं बोधिचर्याव्रतं चरेत् ॥ र्म्_35.152{52} ॥
तत्पुण्यैः स महासत्वः सर्वसत्वशुभंकरः ।
संबोधिप्रणिधानेन सद्धर्माभिरतो भवेत् ॥ र्म्_35.153{53} ॥
ततस् तद् धर्मपूतात्मा दुष्टक्लेशान् विनिर्जयन् ।
सर्वहितार्थसंभर्ता महाभिज्ञा वली भवे ॥ र्म्_35.154{54} ॥
ततो मारगणाञ् जित्वा परिशुद्धत्रिमण्डलः ।
सो ऽर्हन् संबोधिसंप्राप्तः संबुद्धपदम् आप्नुयात् ॥ र्म्_35.155{55} ॥

ततः स सुगतः शास्ता कृत्वा धर्ममयं जगत् ।
बोधिमार्गे प्रतिष्ठाप्य निर्वृतः स्वालयं व्रजेत् ॥ र्म्_35.156{56} ॥
ततः स स्वालये लीनो धर्मधात्वीश्वरो जिनः ।
विश्वरूपा विशुद्धाभज्योतिरूपो निरंजनः ॥ र्म्_35.157{57} ॥
एवं विज्ञाय राजेन्द्र संबुद्धपदवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_35.158{58} ॥
तथा तं सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्स्यथ ॥ र्म्_35.159{59} ॥
इति शास्त्रा समादिष्टं श्रुत्वा शोभः स भूपतिः ।
तथा हीति प्रविज्ञप्य प्राभ्यनन्दत् प्रबोधितः ॥ र्म्_35.160{60} ॥
तदारभ्य स भूमीन्द्रस् त्रिरत्नशरणं गतः ।
सर्वसत्वहितं कृत्वा प्राचरत् सर्वदा शुभे ॥ र्म्_35.161{61} ॥
तदा तद्विषये तत्र सर्वदाभूच् छुभोत्सवं ।
सर्व लोकाश् च सद्धर्मारतोत्साहाः प्रचेरिरे ॥ र्म्_35.162{62} ॥
एवं स नृपतिः शोभस् तं मुनीन्द्रं ससांघिकं ।
यथार्हभोजनैश् चापि त्रिमास्यं समसेवित ॥ र्म्_35.163{63} ॥
ततः स भूमीराजो त्रिमासान्ते ससांघिकं ।
क्रकुछंदं मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ र्म्_35.164{64} ॥
भगवन् नाथ सर्वज्ञ सर्वदात्र ससांघिकः ।
सद्धर्मं कृपयास्मद्भ्यम् आदेष्टुम् स्थातुम् अर्हति ॥ र्म्_35.165{65} ॥
इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः ।
तद शोभं जगतीपालं समालोक्यैवम् आदिशत् ॥ र्म्_35.166{66} ॥
नाहं राजंस् तवैकस्य हितार्थे सुगतो भवे ।
अपि तु सर्वसत्वानां शुभहेतौ भवे जिनः ॥ र्म्_35.167{67} ॥
तद् एवं सर्वलोकेषु बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपाख्यातुं चरेयं सह सांघिकैः ॥ र्म्_35.168{68} ॥
यद्य् अस्ति ते सदा राजं भक्तिश्रद्धामतिर् मयि ।
मन्नामाभिसमुद्दिश्य स्तूपं कृत्वा सदा भज ॥ र्म्_35.169{69} ॥
एतस्मिं यत् कृतं कर्म तन् मयि कृतम् एव हि ।
तिष्ठतो निर्वृतस्यापि तुल्यं भक्तिमतां फलं ॥ र्म्_35.170{70} ॥
तद्यथा मयि राजेन्द्र श्रद्धया शरणं गतः ।
त्रिरत्नभजनं कृत्वा चरस्वैवं शुभे मुदा ॥ र्म्_35.171{71} ॥
तथास्मिन् सर्वदा स्तूपे श्रद्धया शरणं गतः ।
त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ र्म्_35.172{72} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_35.173{73} ॥
इत्य् आदिश्य स संबुद्धस् तस्मै शोभाय भूर्भुजे ।
स्वनखकेशम् उत्कृत्य ददौ स्तूपार्थम् आदरात् ॥ र्म्_35.174{74} ॥
तं मुनीन्द्रप्रदत्तं स भूपतिः संप्रमोदितः ।
प्रणत्वा समुपागृह्य सानंदः स्वालयं ययौ ॥ र्म्_35.175{75} ॥

तत्र स नृपती राजा तन् नखकेशम् आदरात् ।
गर्भे निधाय सद्रत्नैर् महस्तूपम् अकारयत् ॥ र्म्_35.176{76} ॥
ततस् तं स नृपो राजा प्रतिष्ठाप्य यथाविधिः ।
महोत्सवैः सदा नित्यं समभ्यर्च्य भजन् मुदा ॥ र्म्_35.177{77} ॥
तत्रैकस्मिन् दिने भद्रे पर्वणि प्रत्युपस्थिते ।
समेत्य गोष्ठिकाः सर्वे तं स्तूपं द्रष्टुम् आगताः ॥ र्म्_35.178{78} ॥
दृष्ट्वा ते गोष्ठिकाः सर्वे सुप्रसन्नाभिमोदिताः ।
नानापुष्पैस् तम् अभ्यर्च्य महोत्सवैः सहाभजत् ॥ र्म्_35.179{79} ॥
तत्रैको गोष्ठिको दृष्ट्वा दरिद्रो ऽहम् इति ब्रुवन् ।
तत्पूजामहोत्साहे लज्जया स्वगृहं ययौ ॥ र्म्_35.180{80} ॥
ततस् तैर् गोष्ठिकैः सर्वैर् दृष्ट्वा स स्वगृहे ततः ।
बहुशः परिभाषित्वा गोष्ठिमध्याद् बहिष्कृतः ॥ र्म्_35.181{81} ॥
ततः स लज्जयाखिन्नः पश्चात्तापाग्नितापितः ।
हा मंदः कथम् एको ऽहं तिष्ठेयम् इत्य् अचिंतयत् ॥ र्म्_35.182{82} ॥
ततः स सुगतं स्मृत्वा दरिद्रो ऽपि समंततः ।
सर्वपुष्पाणि संगृह्य तैस् तं स्तूपं समर्चयत् ॥ र्म्_35.183{83} ॥
ततः प्रदक्षिणीकृत्य सांजलिः स प्रमोदितः ।
तत् पादयोः प्रणत्वैवं प्रणिधानं मुदाकरोत् ॥ र्म्_35.184{84} ॥
यन् मयात्र मुनीन्द्रस्य स्तूपः पुष्पैः समर्चितः ।
एतत्पुण्यविपाकेन भवेयं श्रीसमृद्धिमान् ॥ र्म्_35.185{85} ॥
इत्य् एवं प्रणिधिं कृत्वा तत् स्तूपं शरणं गतः ।
स दरिद्रः समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ र्म्_35.186{86} ॥
मन्यतां भिक्षवो यो ऽसौ दरिद्रो ऽयं हि शोभितः ।
यत् स्तूपो ऽर्चितः पुष्पैस् तेनायं श्रीसमृद्धिमान् ॥ र्म्_35.187{87} ॥
अन्यद् अपि यथानेन सुकृतं प्रकृतं पुरा ।
तत् सर्वं संप्रवक्ष्यामि शृणुध्वन् यूयम् आदरात् ॥ र्म्_35.188{88} ॥
तथाथाभूत् पुरा पूर्य्यां वाराणस्यां गृहाधिपः ।
श्रेष्ठी महाजनः साधुर् व्यवहारविचक्षणः ॥ र्म्_35.189{89} ॥
तदैकस्मिन् दिने तस्य गृहान्तिके शनैश् चरन् ।
प्रत्येकसुगतो ग्लानो भिक्षार्थं समुपाचरन् ॥ र्म्_35.190{90} ॥
तं गृहान्तिकम् आयातं दृष्ट्वा स करुणाहतः ।
सहसोपेत्य नत्वैनम् आमंत्र्य स्वगृहे नयेत् ॥ र्म्_35.191{91} ॥
तत्र श्रेष्ठी स तं ग्लानं प्रत्येकबुद्धम् आसने ।
उपस्थाप्य समभ्यर्च्य पटेनाछादयन् मुदा ॥ र्म्_35.192{92} ॥
तस्मै क्षीरोदनैः पूर्णं पात्रं पंचामृतैः सह ।
प्रदत्वा सांजलिर् नत्वा मनसैवं व्यचिंतयत् ॥ र्म्_35.193{93} ॥
यद् अयं सुगतो ग्लानो ऽभ्यर्चितो मयादरात् ।
एतत्पुण्यविपाकेन भवेयं क्षेमवान् सुधीः ॥ र्म्_35.194{94} ॥
इत्य् एवं प्रणिधानेन स श्रेष्ठी प्रतिमोदितः ।
सत्कृत्य सादरं तत्र स्वाश्रमे समचारयत् ॥ र्म्_35.195{95} ॥

मन्यतां भिक्षवो यो ऽसौ श्रेष्ठी श्रीमान् महाजनः ।
अयम् एव महाभिज्ञः शोभितो ऽर्हन् महामतिः ॥ र्म्_35.196{96} ॥
यद् अनेन तदा ग्लानप्रत्येकबुद्ध आदरात् ।
पटेनाछाद्य पिंडेन प्रतिपाद्य समर्चितः ॥ र्म्_35.197{97} ॥
एतत्पुण्यविपाकेन शोभितो ऽयं समृद्धिमान् ।
पंचजन्मशतान्य् एवं बभूव सद्गुणाकरः ॥ र्म्_35.198{98} ॥
भूयो ऽपि यत् पुरानेन सुकृतं साधितं यथा ।
तत् सर्वं संप्रवक्ष्यामि शृणुध्वं यूयम् आदरात् ॥ र्म्_35.199{99} ॥
तद्यथाभूत् पुरा शास्ता काश्यपो ऽर्हन्स् तथागतः ।
सर्वज्ञः सुगतो नाथो धर्मराजो मुनीश्वरः ॥ र्म्_35.200{100} ॥
वाराणस्यां स संबुद्धो मृगदावे ससांघिकः ।
सर्वसत्वहितार्थेन व्यहरद् धर्मम् आदिशत् ॥ र्म्_35.201{11} ॥
तस्मिंश् च समये तत्र वाराणस्याम् अभूद् गृही ।
संबुद्धभक्तिमान् साधुर् दरिद्रः काष्ठहारिकः ॥ र्म्_35.202{2} ॥
स एकस्मिन् दिने काष्ठम् आहर्तु पर्वटे व्रजन् ।
तत्रैकत्र महत् स्तूपं ददर्शाछादितं तृणैः ॥ र्म्_35.203{3} ॥
दृष्ट्वा स समुपाश्रित्य तत् तृणानि समंततः ।
सर्वाण्य् अपि समुत्पाट्य संमृज्य समशोधयत् ॥ र्म्_35.204{4} ॥
ततस् तं शोभितं दृष्ट्वा स श्रेष्ठी संप्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य मनसैवं व्यचिंतयत् ॥ र्म्_35.205{5} ॥
यद् अयं सौगतस्तूपो मया संमृज्य शोधितः ।
एतत्पुण्यविपाकेन भवेयं दिव्यसुंदरः ॥ र्म्_35.206{6} ॥
दिव्यातिरिक्ताभैः शोभितः स्यान् समृद्धिमान् ।
अनागतांश् च संबुद्धान् आरागयेयम् आदरात् ॥ र्म्_35.207{7} ॥
तदा तच्छासने गत्वा त्रिरत्नशरणं गतः ।
प्रव्रज्यार्हत्पदं प्राप्य व्रजेयाहं सुनिर्वृतिं ॥ र्म्_35.208{8} ॥
इत्य् एवं प्रणिधिं कृत्वा प्रणत्वा तं जिनालयं ।
सततः काष्ठम् आदाय स्वगृहं समुदाचरत् ॥ र्म्_35.209{9} ॥
ततः स सुमतिः श्रीमान् अभूत् तत्पुण्यवान् कृतिः ।
सुखानि सुचिरं भुक्त्वा काले मृतो दिवं ययौ ॥ र्म्_35.210{10} ॥
स्वर्गे स दिव्यभोग्यानि भुक्त्वा रेमे सुरैः सह ।
पंचजन्मशतान्य् एवं सुखं भुक्त्वा भ्रमेद् भवे ॥ र्म्_35.211{11} ॥
अत्रापि यदेयं श्रीमाञ् छासने मे समागतः ।
प्रव्रज्यासंवरं धृत्वा चरन्न् अर्हन् भवत्य् अपि ॥ र्म्_35.212{12} ॥
तत् सर्वं हि विजानीत तत्स्तूपसंमृष्टपुण्यतः ।
यथा च चिंतितं तत्र तथास्य सिद्ध्यते ऽधुना ॥ र्म्_35.213{13} ॥
दरिद्रकाष्ठहारो यो भवेत् सो ऽयं हि शोभितः ।
अन्य इति न मन्यन्तव्यं युष्माभिर् नात्र संशयः ॥ र्म्_35.214{14} ॥
एवं सर्वत्र संसारे सर्वेषाम् अपि प्राणिनां ।
यथैव यत् कृतं कर्म तथैव तत् फलं ध्रुवं ॥ र्म्_35.215{15} ॥

अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ।
अन्यथापि भवेन् नैव कर्मफलं कथं चन ॥ र्म्_35.216{16} ॥
एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_35.217{17} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
सर्वे लोकाश् च संबोधिप्राप्तुं धर्मार्थिनो ऽभवन् ॥ र्म्_35.218{18} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
त्वम् अप्य् एवं महाराज सद्धर्मनिरतो भव ॥ र्म्_35.219{19} ॥
प्रजाश् चापि महारज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे ऽभिसंस्थाप्य पातुम् अर्हति सर्वदा ॥ र्म्_35.220{20} ॥
एवं कृते महाराज सर्वत्र वः शुभं भवेत् ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_35.221{21} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूमिपः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत् स पार्षदः ॥ र्म्_35.222{22} ॥
ये श्रद्धाः सुप्रसन्ना इदम् अपि मनुजाः शोभितस्यावदानं ।
शृण्वन्ति श्रावयंति प्रमुदितमनसा ये च संबोधिकामाः ।
ते सर्वे बोधिसत्वाः सकलगुणभृतो बोधिचर्यां चरन्तो ।
भुक्त्वा सौख्यं प्रकामं दशबलनिलये संप्रयान्ति प्रमुक्त्वा ॥ र्म्_35.223{23} ॥
++ इति रत्नावदानतत्वे शोभितावदानं समाप्तम् ++
xxxवि मुक्तावदान
अथाशोको महीपालः सांजलिः समुपाश्रितः ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_36.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_36.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
तम् अशोकं महाराजं समालोक्यैवम् अब्रवीत् ॥ र्म्_36.3{3} ॥
शृणु साधु महाराज यथा मे गुरुभाषितं ।
तथात्राहं प्रवक्ष्यामि तव चित्तविशुद्धये ॥ र्म्_36.4{4} ॥
तद्यथाभून् महापूर्य्यां श्रावस्त्यां श्रीदसंनिभः ।
श्रेष्ठी महाधनः साधुः पुष्याभिधो महाजनः ॥ र्म्_36.5{5} ॥
तस्य भार्या सुभद्रांगी रामाख्या श्रीसमानिका ।
कुलधर्मसमाचरा स्वामिचर्यानुचारिणी ॥ र्म्_36.6{6} ॥
यया पत्न्या सुभाविन्या सार्द्धं पुष्यः स सन्मतिः ।
यथाकामः सुखं भुक्त्वा रेमे समुपचारयन् ॥ र्म्_36.7{7} ॥
ततः सा समये कांता गर्भिणी वर्द्धितोदरा ।
स्वल्पाहाररता पाण्डुवर्णा कृशाभवत् क्रमात् ॥ र्म्_36.8{8} ॥
ततः सा समये ऽसूत दारिकां दिव्यसुंदरीं ।
शिरोनिवद्धमुक्ता स्रक्कोहिताम् अभिरोचिनीं ॥ र्म्_36.9{9} ॥
तां संजातां शिरोवद्धमुक्तामालां प्रशोभितां ।
दारिकां सा प्रसू दृष्ट्वा सचित्रानंदितो ऽभवत् ॥ र्म्_36.10{10} ॥

तच् छ्रुत्वा स पिता पुष्यो विस्मयोद्धतमानसः ।
उपेत्य तां सुतां दृष्ट्वा तस्थौ पश्यन् सविस्मयः ॥ र्म्_36.11{11} ॥
ततस् ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः ।
तां संजातां निशम्याशु द्रष्टुम् आजग्मुर् आदरात् ॥ र्म्_36.12{12} ॥
तत्र तां दारिकां कांतां शिरोमुक्तास्रगन्वितां ।
दर्शनीयां सुभद्रांगीं प्राद्राक्षुस् ते चिरं मुदा ॥ र्म्_36.13{13} ॥
अहोस्विद् देवकन्येयं नूनं मान्या न मानवी ।
यद् इयं जातमात्रापि भाभिः शोभते पुरं ॥ र्म्_36.14{14} ॥
इति संभाष्य ते सर्वे ज्ञातिवंधू सुहृज्जनाः ।
सुचिरं तां समालोक्य विस्मिता निर्ययुस् ततः ॥ र्म्_36.15{15} ॥
ततः स जनकस् तस्याः कृत्वा जतिमहं मुदा ।
सर्वाञ् ज्ञातीन् समामंत्र्य पुर एवम् अभाषत ॥ र्म्_36.16{16} ॥
भवन्तो ऽस्याः सुताया मे दृष्ट्वा संपन्निमित्तमां ।
यथा लोके प्रसिद्धं स्यात् तथा नामाभिधीयतां ॥ र्म्_36.17{17} ॥
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातिवांधवाः ।
तन् निमित्तं समालोक्य तं पुष्यम् एवम् अब्रुवन् ॥ र्म्_36.18{18} ॥
साधो यत् संप्रजातेयं मुक्तामालाशिरोरुहा ।
तद् अस्या नाम मुक्तेति प्रसिद्धं भवतु ध्रुवं ॥ र्म्_36.19{19} ॥
एवं तैः ज्ञातिभिः सर्वैः समाख्यातं निशम्य सः ।
पुष्यस् तस्याः सुतायास् तन् नामप्रसिद्धम् अचारयत् ॥ र्म्_36.20{20} ॥
ततः सा दारिका मुक्ता धात्रीभिः प्रतिपालिता ।
अष्टाभिर् अभिपुष्यांगा प्रवृद्धाभूद् ह्रदाब्जवत् ॥ र्म्_36.21{21} ॥
ततः सा दारिका कान्ता प्रवृद्धाभूत् कुमारिका ।
गुरुणां समुपाश्रित्य क्रमाद् विद्या अशिक्षते ॥ र्म्_36.22{21*} ॥
तत्र सा सुमतीर् मुक्ता लिपिपारं गता क्रमात् ।
सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ र्म्_36.23{22} ॥
ततः सा दानसंरक्ता सर्वार्थिभ्यो यथेप्सितं ।
सद्धर्मप्रणिधानेन ददौ नित्यं प्रसादिता ॥ र्म्_36.24{23} ॥
सर्वे ऽपि याचकास् तस्या गृहं दृष्ट्वा समागताः ।
तद् दत्तं द्रव्यम् आदाय प्रययुः संप्रमोदिताः ॥ र्म्_36.25{24} ॥
तदैको ब्राह्मणस् तस्या मुक्तामालां शिरोरुहां ।
दृष्ट्वा लोभाकुलात्मा स गृहं गत्वा समाश्रयत् ॥ र्म्_36.26{25} ॥
तत्र स ब्राह्मणो दृष्ट्वा तां कन्यां संप्रदायनीं ।
उपेत्याशीर्वचोद्दत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_36.27{26} ॥
जयो ऽस्तु ते सदा भद्रे चिरं जिव्याः सुखान्विता ।
यथा ते वांछते चित्तं तथा सर्वं प्रसिद्ध्यतु ॥ र्म्_36.28{27} ॥
भद्रे ऽहं ते गुणाच् छ्रुत्वा दूरतो यद् इहाव्रजे ।
तद् अर्थं शृणु ते वक्ष्ये तच् छ्रुत्वा मे प्रसीदतु ॥ र्म्_36.29{28} ॥
यद् इयं ते शिरोबद्धा मुक्तामाला प्रशोभिता ।
तद् इमां मे प्रदत्वात्र मनो मम विनोदय ॥ र्म्_36.30{29} ॥

इति संप्रार्थिते तेन सा मुक्ता संप्रदानिका ।
तां प्रदातुं समिछन्ती तं विप्रम् एवम् अब्रवीत् ॥ र्म्_36.31{30} ॥
साधु विप्र क्षणं तिष्ठ मा व्रजस्वान्यतः क्वचित् ।
पित्रोर् आज्ञां समायाच्य दास्यामि ते इमाम् अपि ॥ र्म्_36.32{31} ॥
इत्य् उक्त्वा स समाश्वास्य ब्राह्मणं तं प्रलोभितं ।
सहसा पुरतो गत्वा पित्रोर् एवम् अभाषत ॥ र्म्_36.33{32} ॥
पितर् अम्ब गृहे ऽस्माकं ब्राह्मणो ऽर्थी समागतः ।
स ममेमां शिरोरूढां मुक्तामालां प्रयाचते ॥ र्म्_36.34{33} ॥
तद् इमां दातुम् इछामि तस्मै विप्राय साधवे ।
तद् अनुज्ञां प्रदत्तं मे यद्य् अस्ति वां दयाम् अपि ॥ र्म्_36.35{34} ॥
इति पुत्र्योदितं श्रुत्वा स पिता विस्मयाहतः ।
तां पुत्रीं सुचिरं दृष्ट्वा परिभाष्यैवम् अब्रवीत् ॥ र्म्_36.36{35} ॥
भो वत्स किं समीक्ष्यैवं स्वमस्तक समुद्भवां ।
नेत्रवत् कथम् उत्कृत्य प्रदद्याद् अर्थिने सुते ॥ र्म्_36.37{36} ॥
यदि दातुं समिछा ते ब्राह्मणायार्थिने सुते ।
तद् अन्यत्प्रार्थितं द्रव्यं प्रददस्व यथेप्सितं ॥ र्म्_36.38{37} ॥
इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता सुधीः ।
जनकं तं समालोक्य प्रणत्वा चैवम् अब्रवीत् ॥ र्म्_36.39{38} ॥
शृणु तात यद् अर्थे ऽहं स्वशिरःसंभवाम् अपि ।
मुक्तामालं समुद्धृत्य दित्सामि तत् प्रवक्ष्यते ॥ र्म्_36.40{39} ॥
अनित्यं खलु संसारे मानुष्ये जन्म दुर्लभं ।
क्षणध्वंसि शरीरं च जीवितं च तृणाम्बुवत् ॥ र्म्_36.41{40} ॥
तत्रापि बहवो रोगाः संपदो ऽप्य् अतिचंचलः ।
दुर्लभा क्षणसंपच् च धर्ममतिश् च दुर्लभा ॥ र्म्_36.42{41} ॥
किं नित्यम् अत्र संसारे को हि नित्यस्थितो भवे ।
इत्य् अनित्याम् इमां मुक्तामालां दित्साम्य् अहं पित ॥ र्म्_36.43{42} ॥
को ऽन्यत्र मानुषा देहाद् दानं कर्तुं प्रशक्नुयात् ।
इत्य् आप्य् अहं समीक्ष्यात्र दातुम् इछे कजाम् अपि ॥ र्म्_36.44{43} ॥
कस्यात्र विग्रहे मृत्योर् विश्वासं विद्यते खलु ।
इति मत्वापि तातेमां दित्सामि मुक्तकास्रजं ॥ र्म्_36.45{44} ॥
कस्यात्र जीवितं काये स्वेछया समवस्थितं ।
एवं विज्ञाय तातेमं मालां दित्सामि पुष्पवत् ॥ र्म्_36.46{45} ॥
को नात्र पीड्यते रोगैः सक्लेशैर् देवसंभवैः ।
इत्य् एवं समीक्ष्यैमां दातुम् इछामि मुक्तिकां ॥ र्म्_36.47{46} ॥
कस्य संपत् स्थिरा गेहे अस्ताश् चपि स्थितिर् न हि ।
एवं विज्ञाय ततेमं दित्सामि कुसुमाकृतिं ॥ र्म्_36.48{47} ॥
कस्य चात्र शुभे दृष्टिर् जायात् तिष्ठेच् च सर्वदा ।
एवं वापि परिज्ञाय दित्सामीमां कजाम् अपि ॥ र्म्_36.49{48} ॥
सदा न जायते नैवं धर्मे मतिः कथं चन ।
इति दृष्ट्वापि मे चित्तम् इमां दित्सति पुष्पवत् ॥ र्म्_36.50{49} ॥

इमां मे दैवसंजातां शिरःस्थां केशसादृशीं ।
दातुम् इछाम्य् अहं तात सद्धर्मरत्नलब्धये ॥ र्म्_36.51{50} ॥
कियत् कालं च जीवेयं सर्वेषां मरणं ध्रुवं ।
यावद् जीवितमुक्तायाम् इयं मुक्तापि नक्ष्यति ॥ र्म्_36.52{51} ॥
यद् इयं मे शिरोजापि प्राणेन सह नक्ष्यति ।
तद् दत्ता वाप्य् अदत्तापि सर्वथापि विनक्ष्यति ॥ र्म्_36.53{52} ॥
एतद् देवं समीक्ष्ये मां मुक्तां पुष्पस्रजं यथा ।
कजाम् अपि समुद्धृत्य दातुम् इछाम्य् अहं पित ॥ र्म्_36.54{53} ॥
तद् अत्र मा कृथा विघ्नं मम सद्धर्मसाधने ।
तद् अनुज्ञां प्रदत्वा मे प्रार्थितं सफलं कुरु ॥ र्म्_36.55{54} ॥
यदि न दीयते ऽनुज्ञां दानविघ्नफलं लाभेः ।
ततो ते दुष्कृतिर् जायात् ततो हि दुर्गतिं व्रजेः ॥ र्म्_36.56{55} ॥
यद्य् अनुज्ञां प्रदानेन सत्यं पूरयसे मम ।
ततस् ते सुकृतिर् जायात् तेन यायाद् धि सद्गतिं ॥ र्म्_36.57{56} ॥
सद्गतौ सर्वदा सौख्यं भुक्त्वा चरेः शुभेष्व् अपि ।
ततः क्रमेण संबोधिं प्राप्य बुद्धत्वम् आप्नुयाः ॥ र्म्_36.58{57} ॥
एवं वीज्ञाय तातात्र वारयितुं न मे ऽर्हति ।
तद् अनुज्ञप्य मे सत्यं संपूरयितुम् अर्हति ॥ र्म्_36.59{58} ॥
इति पुत्र्या तयाख्यातं श्रुत्वा पिता स बोधितः ।
तां मुक्तां सुमातिः पुत्रीं समालोक्यैवम् अब्रवीत् ॥ र्म्_36.60{59} ॥
यत् त्वयैवं समाख्यातं तत् सर्वं सत्यम् एव हि ।
यदि श्रद्धास्ति ते दातुं प्रदेहि किं निवारये ॥ र्म्_36.61{60} ॥
इति पित्राभ्यनुज्ञाते सा मुक्ता परिमोदिता ।
तां शिरःसद्भवां मुक्तां मालाम् उत्कर्तुम् ऐछत ॥ र्म्_36.62{61} ॥
तदा सा जननी दृष्ट्वा तां मुक्तां स्वात्मजां प्रियां ।
शिरोजाम् अपि तां मुक्तां मालाम् उत्कर्तु वांछिनीं ॥ र्म्_36.63{62} ॥
सहसा गाढम् आलिंग्य वारयितुं समुद्यता ।
गलदश्रुविलिप्ताक्षा विलपंत्यैवम् अब्रवीत् ॥ र्म्_36.64{63} ॥
हा प्रिये स्वात्मजे पुत्री कथम् अज्ञासि सांप्रतं ।
इन्द्रियवत् तनूद्भूताम् अपि दातुं यदीछसि ॥ र्म्_36.65{64} ॥
यच् छिरोजां समुत्कृत्य मुक्तामालां स्वदैवजां ।
किम् अन्यद् इह पश्यन्ति विप्राय दातुम् इछसि ॥ र्म्_36.66{65} ॥
यदि दाने ऽतिवांछा ते प्रदेहि तद् यद् इप्सितं ।
इमाम् एव शिरोजतां मा दाः कस्मै चिद् अर्थिने ॥ र्म्_36.67{66} ॥
दम् इयं स्वतनूद्भूता सहजा जीवितेन्द्रैः ।
तद् इयं कथम् उत्कृत्य दातव्येति विचारय ॥ र्म्_36.68{67} ॥
यदीमं स्वशिरोरूढां बलेनोत्कृत्य दास्यसि ।
तदेयं नक्ष्यते नूनं जीवितेन सह ध्रुवं ॥ र्म्_36.69{68} ॥
विनष्टे जीविते काये को धर्मं साधयेत् पुनः ।
धर्मं विनात्र संसारे निरर्थं सर्वसाधनं ॥ र्म्_36.70{69} ॥

धर्ममूलं हि संसारे सत्कायजीवितं किल ।
तज् जीविताश्रयः कायो रक्षितव्यः प्रयत्नतः ॥ र्म्_36.71{70} ॥
यत् कायप्राणरक्षार्थं संसारे धर्मसाधनं ।
कायप्राणं विना को ऽर्थः संसारे धर्मसाधने ॥ र्म्_36.72{71} ॥
धर्मार्थकाममोक्षादि साधनं सुखकारणं ।
अभावे जीविते काये कस्यार्थे सुखसाधनं ॥ र्म्_36.73{72} ॥
यत् स्वजीवे न पक्ष्यैवं किम् अर्थे दातुम् इछसि ।
स्वकायजीवरक्षार्थं दानादि पुण्यसाधनं ॥ र्म्_36.74{73} ॥
स्वकायजीवितं त्यक्त्वा किम् अर्थे पुण्यसाधनं ।
स्वकायजीव भद्रार्थे गुणद्रव्यवृषार्जनं ॥ र्म्_36.75{74} ॥
इति सत्यं मयाख्यातं हितार्थं ते प्रियात्मजे ।
श्रुत्वेमं नेत्रवद् रक्ष्या मा दाः कस्मै चिद् अर्थिने ॥ र्म्_36.76{75} ॥
यदि ते ऽस्ति वृषे वांछा दत्वेतो ऽन्यद् यथेप्सितं ।
गृहे व्रतं चरत्य् एवं सुखेन पुण्यम् अर्जय ॥ र्म्_36.77{76} ॥
एतत्पुण्यविपाकेन सर्वत्र ते शुभं भवेत् ।
सर्वदा दुर्गतिं नैव यायात् सदा तु सद्गतिं ॥ र्म्_36.78{77} ॥
एवं मत्वात्मजे श्रुत्वा सद्धर्मं सौगतोदितं ।
त्रिरत्नभजनं कृत्वा गृहे व्रतं सुखं चर ॥ र्म्_36.79{78} ॥
एतत्पुण्यविशुद्धा त्वं सर्वदा शुभभाविनी ।
क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_36.80{79} ॥
इति मात्रा समाख्यातं श्रुत्वा मुक्तात्मजापि सा ।
उत्थायाश्रुविरुक्षा ययौ शोकालये शनैः ॥ र्म्_36.81{80} ॥
तत्र शय्यातलासीना मुक्तादानचिन्तया ।
संबुद्धस्मरणं कृत्वा तस्थौ ध्यानसमाहिता ॥ र्म्_36.82{81} ॥
तत्र तद्ध्यानसंमूढा निद्रासुप्तेन्द्रियापि सा ।
तम् एव श्रीघनं स्मृत्वा तस्थौ निश्चरिताशयाः ॥ र्म्_36.83{82} ॥
ताम् एवां संस्थितां दृष्ट्वा भगवान् स मुनीश्वरः ।
स्वप्न इव समाभाष्य मुक्ताम् एवं व्यबोधयत् ॥ र्म्_36.84{83} ॥
वत्से मात्र विषीद त्वं प्रदेयेयं कजापि ते ।
प्रदीयतां समुद्धृत्य पुनः प्रादुर्भविष्यति ॥ र्म्_36.85{84} ॥
इति संभाषितं श्रुत्वा स्वप्ने इव समुत्थिता ।
सा मुक्ता विस्मयाक्रान्तचित्ता तस्थौ सुनिशला ॥ र्म्_36.86{85} ॥
ततः सा तं जगन्नाथं स्मृत्वा तच्चिन्तयाकुला ।
किम् एतत् सत्यम् एवं स्याद् इति ज्ञातुं समैछत ॥ र्म्_36.87{86} ॥
ततः सा स्वयम् उद्धृत्य स्वशिरःस्थां स्वपाणिना ।
मुक्तामालां मुदालोक्य तां शास्त्रे समकल्पयत् ॥ र्म्_36.88{87} ॥
ततो ऽनंतरम् एवं सा मुक्तामालाभिशोभिता ।
तस्याः शिरसमुभूता रराज तत्समानिका ॥ र्म्_36.89{88} ॥
तां समालोक्य सा मुक्ता कन्यातिविस्मयान्विता ।
सहसा पुरतो गत्वा मातुर् एवं न्यवेदयत् ॥ र्म्_36.90{89} ॥

मातर् अद्य मुनीन्द्रस्य कृपादृष्टिप्रसादतः ।
यथा मया प्रतिज्ञातं पूर्य्येत मे तथा ध्रुवं ॥ र्म्_36.91{90} ॥
इत्य् उक्त्वा सा मुदा मुक्ता समुद्धृतां शिरोरुहां ।
ये उभे दर्शयित्वाग्रे मातुर् एवम् अभाषत ॥ र्म्_36.92{91} ॥
मातर् अहं विपन्नाशा शय्या तलसमाश्रिता ।
संबुद्धं मनसा ध्यात्वा तिष्ठामि दानचिंतया ॥ र्म्_36.93{92} ॥
यदा मे ध्यानसुप्ताया हृदि निद्रोपसर्पते ।
तदैवं सर्वनाथेन समादिष्टं श्रुतं मया ॥ र्म्_36.94{93} ॥
प्रदेयेयं शिरोजाता मुक्तामाला त्वया मुदा ।
पुनः प्रादुर्भवेद् भूयो ऽप्य् एतत्समानिका ध्रुवं ॥ र्म्_36.95{94} ॥
इति श्रुत्वा प्रबुद्धाहं किम् एतत् सूनृतं भवेत् ।
इति कृत्वा समुद्धृत्य पश्यामीमां प्रमोदिता ॥ र्म्_36.96{95} ॥
ततो ऽनंतरम् एवं मे शिरस्यैतत्समानिका ।
मुक्तामाला समुद्भूता दृश्यताम् इयम् अम्बिके ॥ र्म्_36.97{96} ॥
इत्य् उक्त्वा सा सुता मुक्ता तस्या मातुः पुरो मुदा ।
मुक्तां मालां उपस्थाप्य दर्शयन्त्य् एवम् आह च ॥ र्म्_36.98{97} ॥
इमां मातुर् जगच्छास्त्रे मुदा संकल्पयाम्य् अहं ।
तद् एनां त्रिजगच्छास्त्रे संप्रदातुं व्रजेय हि ॥ र्म्_36.99{98} ॥
इति पुत्र्या समाख्यातं श्रुत्वा सा जननी मुदा ।
तां मुक्तास्रजम् आलोक्य तच् छिरोजां च हर्षिता ॥ र्म्_36.100{99} ॥
मुहुर् मुहुः समीक्षन्ती तां सुताम् एवम् अब्रवीत् ।
धन्यासि भद्रिका पुत्रि त्वया यथा समीहितं ॥ र्म्_36.101{100} ॥
तथा ते सिद्ध्यते नूनं संबुद्धस्यानुभावातः ।
तद् इमां त्वं समादाया यथा संकल्पितं त्वया ॥ र्म्_36.102{1} ॥
तथा तस्मै मुनीन्द्राय प्राभ्यर्च्य दातुम् अर्हसि ।
तथा ते ऽङ्गीकृतं पुत्रि तत् सत्यं सेत्स्यते ध्रुवं ॥ र्म्_36.103{2} ॥
एतत्पुण्यानुभावैश् च सर्वदा सद्गतिं व्रजेः ।
इति मत्वा जगच्छास्तुर् उपहृत्य भजादरात् ॥ र्म्_36.104{3} ॥
तथा चास्मै द्विजायैवम् आदाय दातुम् अर्हति ।
तथा ते ऽङ्गी कृते सिद्धे सर्वत्र मंगलं भवेत् ॥ र्म्_36.105{4} ॥
सफलं मानुषे जन्म सदा च सद्गतौ स्थितिः ॥ र्म्_36.106{5} ॥
इति मात्रोदितं श्रुत्वा प्रतिसंमोदिताशया ।
सा तथेति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ र्म्_36.107{6} ॥
तथा सैतत्प्रवृत्तांतं भर्त्तुर् अग्रे न्यवेदयत् ।
श्रुत्वा भर्त्तापि पुष्यः समुदिताभ्यन्वमोदत ॥ र्म्_36.108{7} ॥
तस्मिन्न् अवसरे तत्र श्रावस्त्यां जेतकाश्रमे ।
विहारे भगवान् सो ऽर्हन् विजहार ससांघिकः ॥ र्म्_36.109{8} ॥
तत्र स त्रिजगच्छास्ता बोधिचर्यां प्रकाशयन् ।
सर्वसत्वसहितार्थेन धर्मम् आदेष्टुम् आरभत् ॥ र्म्_36.110{9} ॥
तदा ते भिक्षवः सर्वे श्रावकाश् चैलकादयः ।

भिक्षुण्यो व्रतिनश् चापि बोधिसत्वगणा अपि ॥ र्म्_36.111{10} ॥
उपासकगणाश् चापि तथा चोपासिका अपि ।
सर्वे ते समुपाश्रित्य समातस्थुः समाहिताः ॥ र्म्_36.112{11} ॥
तथा शक्रादयो देवा ब्रह्माद्या ब्रह्मचारिणः ।
दानवा लोकपालाश् च यक्षगंधर्वकिन्नराः ॥ र्म्_36.113{11!} ॥
राक्षसा गरुडा नागाः सिद्धविद्याधरादयः ।
यतयो योगिनश् चापि निर्ग्रन्थास् तीर्थिका अपि ॥ र्म्_36.114{12} ॥
ऋषयो ब्राह्मणाश् चापि तपश्विनो महर्द्धिकाः ।
राजानः क्षत्रियाश् चापि वैश्या राजकुमारकाः ॥ र्म्_36.115{} ॥
श्रेष्ठिनो मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः ।
वणिजः सार्थवाहाश् च पौरिकाः शिल्पिनो ऽपि च ॥ र्म्_36.116{24} ॥
ग्राम्या जानपदाश् चापि तथान्यद्देशवासिनः ।
सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ॥ र्म्_36.117{15} ॥
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं ।
कृताञ्जलिपुटा नत्वा परिवृत्य समंततः ॥ र्म्_36.118{16} ॥
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ।
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ र्म्_36.119{17} ॥
तत् सद्धर्मं समाकर्ण्य सर्वे लोकाः [प्रबोधिकाह्] प्रबोधिताः ।
सर्वसत्वहितार्थेषु बभूवुः बोधिचारिणः ॥ र्म्_36.120{18} ॥
तदा सा कन्यका मुक्ता सखीभिः सह मोदिता[ः] ।
मुक्तामालां समादाय धर्मं श्रोतुम् उपाचरत् ॥ र्म्_36.121{19} ॥
तत्र तं श्रीघनं दृष्ट्वा नत्वा सा सांजलिर् मुदा ।
त्रिधा प्रदक्षिणीकृत्य तस्य शास्तुः पुरोगता ॥ र्म्_36.122{20} ॥
तत्राग्रे ताम् उपस्थप्य मुक्तामालां कृतांजलिः ।
पादौ नत्वा प्रसन्नास्या धर्मं श्रोतुम् उपाश्रयत् ॥ र्म्_36.123{21} ॥
ततः स भगवांस् तस्या दृष्ट्वाशयं विशुद्धितं ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_36.124{22} ॥
तत् सद्धर्मं समाकर्ण्य सा मुक्ता परिबोधिता ।
धर्मविशेषम् आज्ञाय बभूव बोधिवाञ्छिनी ॥ र्म्_36.125{23} ॥
तत्र सा कन्यका मुक्ता सत्कायदृष्टिपर्वतं ।
हित्वा ज्ञानासिना श्रोतआपत्तिफलम् आययौ ॥ र्म्_36.126{24} ॥
ततः सा भद्रिका मुक्ता दृष्टसत्या प्रमोदिता ।
सांजलिश् चरणौ शास्तुर् नत्वा स्वगृहम् आययौ ॥ र्म्_36.127{25} ॥
ततः सा च समादाय मुक्तामालं स्वमूर्द्धजं ।
सुप्रसन्नाशया तस्मै द्विजाय प्रददौ मुदा ॥ र्म्_36.128{26} ॥
तां मुक्तास्रजम् आदाय ब्राह्मणः संप्रमोदितः ।
तस्यै भद्राशिषं दत्वा सहसा स्वगृहे ऽव्रजत् ॥ र्म्_36.129{27} ॥
तथा सा मुदिता गत्वा सर्वार्थिभ्यो यथेप्सितं ।
त्रिरत्नभजनं कृत्वा शुभधर्मे समाचरत् ॥ र्म्_36.130{28} ॥

तदा तस्या गुणाञ् छ्रुत्वा बहवः कामरागिणः ।
सरत्नप्राभृतं दत्वा तां प्रार्थयितुम् ईछिरे ॥ र्म्_36.131{29} ॥
कुमारा भुर्भुजा तस्याः पितरं पुष्यम् आदरात् ।
स्वस्वदूतैः सरत्नानि दत्वा संप्रार्थयन् मुदा ॥ र्म्_36.132{30} ॥
तथा द्विजकुमाराश् च मंत्रिपुत्राश् च कामिनः ।
वैश्यपुत्रास् तथान्ये न धनिनो वणिगात्मजाः ॥ र्म्_36.133{31} ॥
सार्थवाहसुताश् चापि तथा शिल्पिसुता अपि ।
महाजनसुताश् चैवम् अन्ये ऽपि काममोहिताः ॥ र्म्_36.134{32} ॥
सर्वे ते तां सुभद्रांगीं मुक्तां मुक्ताभ्यलंकृतां ।
दृष्ट्वा रागाग्निसंतप्तास् तन्मुखामृतवांछिनः ॥ र्म्_36.135{33} ॥
सवस्त्रालंकाररत्नानि दत्व दूतैः पृथक् पृथक् ।
तस्यास् तं जनकं पुष्यं प्रार्थयन्न् एवम् आदरात् ॥ र्म्_36.136{34} ॥
तथा तैः प्रार्थ्यमानो ऽसौ पुष्यो दूतैः पृथक् पृथक् ।
तद् दत्तं प्राभृतं दृष्ट्वा तस्थौ तं क्षुभिताशयः ॥ र्म्_36.137{35} ॥
तत उत्थाय पुष्यः स शोकागारे विषण्णधीः ।
गत्वा शय्यातलासीनो मनसैवं व्यचिंतयत् ॥ र्म्_36.138{36} ॥
हारे दुःखं प्रजातं मे किं करिष्यामि सांप्रतं ।
एकैव दुहिता मे ऽस्ति याचका बहवो ऽपि मे ॥ र्म्_36.139{37} ॥
यद्य् एकस्मै प्रदास्यामि सर्वे ऽन्ये स्युर् मम द्विषः ।
अत्राहं किं करिष्यामि यद् उपायं न मन्यते ॥ र्म्_36.140{38} ॥
इति चिन्ताविषण्णास्यस् तस्थौ मोहविषार्दितः ॥ र्म्_36.141{39!} ॥
तत्रैवं संस्थितं दृष्ट्वा जनकं तं समोहितं ।
समेत्य सात्मजा मुक्ता नत्वैवं पर्यपृछत ॥ र्म्_36.142{40} ॥
तात किं ते मनो दुःखं यद् एवं तिष्ठसे ऽधुमा ।
तत् सत्यं समुपाख्या प्रबोधयात्मजाम् इमां ॥ र्म्_36.143{41} ॥
इति संप्रार्थिते पुत्र्या तया स जनकः सुधीः ।
तं मुक्तां स्वात्मजं दृष्ट्वा सुचिराद् एवम् अब्रवीत् ॥ र्म्_36.144{42} ॥
अयि पुत्रि सुभद्रांगी किम् अत्राहं वदेय हि ।
यत् त्वम् एका सुता मे ऽस्ति याचका बहवास् तव ॥ र्म्_36.145{43} ॥
यद्य् एकस्मै प्रदास्यामि त्वाम् एकं दिव्यसुंदरीं ।
ते सर्वे ऽन्ये भवेयुर् मे शत्रवो ह्य् अपकारिणः ॥ र्म्_36.146{44} ॥
इति चिन्ताविदग्धात्मा तिष्ठाम्य् एवं हि नान्यथा ।
तद् उपायं न पश्यामि यतो मे जायते भयं ॥ र्म्_36.147{45} ॥
इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता पुनः ।
जनकं तं समालोक्य बोधयन्त्य् एवम् अब्रवीत् ॥ र्म्_36.148{46} ॥
नाहं कामार्थिनी तात संबुद्धशासने गता ।
प्रव्रज्य संवरं धृत्वा चरिष्यामि शुभां चरिं ॥ र्म्_36.149{47} ॥
इति मे निश्चितं चित्तम् अन्यथा न करोमि हि ।
तद् अत्र मा विषीद त्वं तद् अनुज्ञां प्रदेहि मे ॥ र्म्_36.150{48} ॥
इति पुत्र्या तथाख्यातं स पुष्यो जनकः सुधीः ।

स्वात्मजां तां समालोक्य पुनर् एवम् अभाषत ॥ र्म्_36.151{49} ॥
अयि पुत्रि कथं तावत् प्रव्रज्यां चरितुं सहेः ।
त्वं हि बाला सुभद्राङ्गी कुमारी सुखमेधिनी ॥ र्म्_36.152{50} ॥
तस्माद् यावत् कुमारी त्वं तावद् गेहे समाश्रिता ।
त्रिरत्नभजनं कृत्वा चरोपासकसंवरं ॥ र्म्_36.153{51} ॥
इति पित्र्योदितं श्रुत्वा सा मुक्ता दुहिता सुधीः ।
तथा हीति प्रतिश्रुत्य प्रबोधितान्वमोदितः ॥ र्म्_36.154{52} ॥
तथा सा भद्रिका मुक्ता शुद्धशीला सुभाविनी ।
त्रिरत्नभजनं कृत्वा चेरे उपासिकाव्रतं ॥ र्म्_36.155{53} ॥
यदा सा यौवनी कांता मुक्ता मुक्तातिशोभिता ।
तदा कनिष्ठपुत्रेण दृष्टानाथान्नसंस्तृतः ॥ र्म्_36.156{54} ॥
ततः सो ऽनाथभृत्पुत्रः सुप्रियाख्यो ऽभिमोदितः ।
कामरागाग्निसंतप्तो रोगी वाभूद् विषण्णधीः ॥ र्म्_36.157{55} ॥
तं पुत्रं कामरागार्त्तं दृष्ट्वा सो ऽनाथपिण्डदः ।
तन् निमित्तं समालोक्य समाश्वास्यैवम् अब्रवीत् ॥ र्म्_36.158{56} ॥
भो पुत्रैवं किम् अर्थे त्वं रोगीव तिष्ठसे ऽधुना ।
तद् वदस्व ममाग्रे ऽपि यद् इछति मनस् तव ॥ र्म्_36.159{57} ॥
इति पित्रोदितम् श्रुत्वा सुप्रियः स विनिःश्वसन् ।
पितरं तं समालोक्य शनैर् एवम् अभाषत ॥ र्म्_36.160{58} ॥
तात यो ऽसौ सुभद्राङ्गी मुक्ता मुक्तातिशोभिता ।
दृष्ट्वा मयानुरूपेति मनो मे हरते ऽपि सा ॥ र्म्_36.161{59} ॥
तदभिलाषरागाग्निदाहसंतोषितं मनः ।
तद् रागाग्निशमोपायं कर्तुम् अर्हति मे ऽधुना ॥ र्म्_36.162{60} ॥
इति पुत्रोदितं श्रुत्वा सो ऽनाथपिण्डदः पिता ।
पुत्रस्य प्राणरक्षार्थं याचितुं तां समैहत ॥ र्म्_36.163{61} ॥
ततः स दूतम् आहूय पुर एवम् अभाषत ।
साधो गछ गृहस्थस्य पुष्यस्यैव परो वद ॥ र्म्_36.164{62} ॥
साधो तद् दुहिता भद्रा तद् दीयतां सुताय मे ।
एवं कृते ऽपि संबंधं यावज्जीवं सुखाय नौ ॥ र्म्_36.165{63} ॥
इत्य् उक्त्वा तस्य पुष्यस्य तां मुक्ताख्यां सुभाविनीं ।
प्रार्थयित्वा सुतायास्मै दातुं मे ऽर्हति सर्वथा ॥ र्म्_36.166{64} ॥
इति तेनोदितं श्रुत्वा तथेति प्रतिभाष्य सः ।
दूतः प्राभृतम् आदाय पुष्यस्य समुपाचरत् ॥ र्म्_36.167{65} ॥
तत्र तस्य पुरः स्थाप्य प्राभृतं संविनोदयन् ।
यथानाथभृतादिष्टं तथा सर्वं न्यवेदयत् ॥ र्म्_36.168{66} ॥
तद् उक्तं सर्वम् आकर्ण्य स पुष्यः परिबोधितः ।
मुक्तां तां स्वात्मजां पुत्रीं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_36.169{67} ॥
अयि प्रियात्मजे पुत्रि त्वम् अनाथभृता सता ।
सुप्रियाय स्वपुत्राय प्रार्थिता त्वं प्रसीद तत् ॥ र्म्_36.170{68} ॥
इति पित्रोदितं श्रुत्वा मुक्ता सा दुहिता सती ।

पितरं तं समालोक्य प्रणत्वैवम् अभाषत ॥ र्म्_36.171{69} ॥
नाहं कामार्थिनी तात संबुद्धशरणं गता ।
प्रव्रज्यासंवरं धृत्वा चरिष्यामि शुभां चरीं ॥ र्म्_36.172{70} ॥
इति पुत्र्योदितं श्रुत्वा स पुष्यो ऽभिहताशयः ।
दुहितां तां चिरं दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_36.173{71} ॥
हे सुते कथम् एव त्वं वदेथाः किं न मन्यसे ।
यद् असौ गृहभृन् नाथस् तद् वचः श्रूयते न कैः ॥ र्म्_36.174{72} ॥
तद् यावद् यौवनी भूता तावद् भर्त्ता सहानुगाः ।
त्रिरत्नभजनं कृत्वा चर व्रतं गृहे सुखं ॥ र्म्_36.175{73} ॥
यदा वृद्धा व्यवस्थास्यै तदा त्वं सौगताश्रमे ।
प्रव्रज्यासंवरं धृत्वा प्रचरस्व शुभां चरीं ॥ र्म्_36.176{74} ॥
इति पित्रा समादिष्टं श्रुत्वा सा दुहिता सुधीः ।
पित्रो वाक्यं कथं लंघ्यम् इति मत्वैवम् अब्रवीत् ॥ र्म्_36.177{75} ॥
नाहं कामर्थिनी तात सद्धर्मसाधनार्थिनी ।
तथापि त्वद्वचो ऽलंघ्यम् इति श्रोष्यामि ते वचः ॥ र्म्_36.178{76} ॥
यदि मे समयं धृत्वा सत्यवाक्यं ददाति मे ।
वृणुयां तं पतिं ननुम् इति मे वचनं ध्रुवं ॥ र्म्_36.179{77} ॥
इति पुत्र्योदितं श्रुत्व स पुष्यः परिबोधितः ।
एतत् सर्वं प्रवृत्तांतं दूतस्याग्रे न्यवेदयत् ॥ र्म्_36.180{78} ॥
दूतापि तत् प्रवृत्तांतं श्रुत्वा तथेति सत्वराः ।
अनाथपिण्डदस्याग्रे विस्तरेण न्यवेदयत् ॥ र्म्_36.181{79} ॥
सो ऽनाथपिण्डदश् चापि श्रुत्वा स प्रतिमोदितः ।
सर्वम् एतत् प्रवृत्तांतं पुत्रस्याग्रे न्यवेदयत् ॥ र्म्_36.182{80} ॥
एतत् पित्रा समाख्यातं श्रुत्वा स सुप्रियः सुधीः ।
तथा हीति प्रतिज्ञाय दूतस्याग्रे न्यवेदयत् ॥ र्म्_36.183{81} ॥
दूतश् च तद्वचः श्रुत्वा पुष्यस्य पुरतो गतः ।
सर्वम् एतत् प्रवृत्तांतं विस्तरेण न्यवेदयत् ॥ र्म्_36.184{82} ॥
पुष्यो ऽपि तत् समाख्यातं श्रुत्वा पत्न्याः पुरो ऽवदत् ।
सापि तज् जननी श्रुत्वा पुत्र्या अग्रे न्यवेदयत् ॥ र्म्_36.185{83} ॥
तन् मात्रा समुपादिष्टं श्रुत्वा सा दुहिता सती ।
तथा हीति प्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_36.186{84} ॥
ततः स जनकः पुष्यो मत्वा पुत्र्याधिवासितं ।
तस्या विवाहसामग्रीं सहसा समसाधयत् ॥ र्म्_36.187{85} ॥
ततः स जनकः पुष्यो ऽप्य् अनाथपिण्डदात्मजं ।
सुप्रियं तं समानीय सत्कृत्य सममानयत् ॥ र्म्_36.188{86} ॥
ततस् ताम् आत्मजां मुक्तां सुप्रियाय सुभाविने ।
संकल्प्य प्रददौ पुष्यो जनकः स यथाविधिः ॥ र्म्_36.189{87} ॥
ततः स सुप्रियो भर्त्ता तांमुक्तां रमणीं प्रियां ।
भार्यां स्वगृहे आनीय रेमे भुक्त्वा यथासुखं ॥ र्म्_36.190{88} ॥
एवं सा भाविनी मुक्ता काञ्चित् कालं गृहे मुदा ।

भर्त्त्रा सह यथाकामं भुक्त्वा रेमे प्रमोदिता ॥ र्म्_36.191{89} ॥
ततस् तौ दंपती देहे वृद्धत्व समुपाक्रमे ।
पित्रोः पादान् प्रणत्वैवं प्रार्थयतं समादरात् ॥ र्म्_36.192{90} ॥
पितरौ यत् कृतं सत्यम् आवाभ्यां तत् सुसिद्धये ।
पूरयितुं समिछावस् तद् आज्ञां दातुम् अर्हथ ॥ र्म्_36.193{91} ॥
इति संप्रार्थितं ताभ्यां श्रुत्वा पिता स सा प्रसूः ।
दृष्ट्वा तौ दंपती श्राद्धायुक्ताव् एवं समूचतुः ॥ र्म्_36.194{92} ॥
यदि वां विद्यते वांछा चरितुं सौगतं व्रतं ।
तत् सत्यपूरये तस्मात् प्रचरत समाहितौ ॥ र्म्_36.195{93} ॥
इति ताभ्याम् अनुज्ञाते दंपती तौ प्रमोदितौ ।
पित्रोः पादान् प्रणत्वैव प्रतस्थुः सहसा गृहात् ॥ र्म्_36.196{94} ॥
ततस् तौ जेतकोद्याने विहारे समुपागतौ ।
भगवन्तं तम् आनम्य प्रव्रज्यां समयाचतां ॥ र्म्_36.197{95} ॥
भगवन् नाथ सर्वज्ञ विजानाति यद् आवयोः ।
सत्यं तत् पूरयिष्यावस् तत् प्रव्रज्यां ददातु वां ॥ र्म्_36.198{96} ॥
इति संप्रार्थिते ताभ्यं भगवां दक्षपाणिना ।
स्पृष्ट्वा तच् छिरसोर् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ र्म्_36.199{97} ॥
एवं चरतम् आदाय प्रव्रज्याव्रतम् उत्तमं ।
स्वपरात्महितार्थेषु ब्रह्मचर्यं समाहितौ ॥ र्म्_36.200{98} ॥
इत्य् आदिष्टे मुनीन्द्रेण ताव् उभाव् अपि मुंडितौ ।
खिक्खिरीपात्रविभ्राणौ च भर्तुश् चीवरावृतौ ॥ र्म्_36.201{99} ॥
ततो ऽविद्यागणं भित्वा प्राप्तविद्याविशारदौ ।
सर्वक्लेशगणाञ् जित्वा साक्षाद् अर्हत्वम् आवतुः ॥ र्म्_36.202{100} ॥
ततस् तौ विमलात्मानौ प्रिशुद्धत्रिमण्डलौ ।
जितेन्द्रियाऊ समाचारौ निर्विकल्पौ निरंजनौ ॥ र्म्_36.203{1} ॥
सर्वेषाम् अपि लोकानां त्रैधातुकनिवासिनां ।
पूज्यौ मान्यौ च वंद्यौ ताव् अभूतं ब्रह्मचारिणौ ॥ र्म्_36.204{2} ॥
तद् दृष्ट्वा ते भिक्षवः सर्वे विस्मयोद्धतमानसा ।
भगवंतं तम् आनम्य पप्रछुस् तत् पुराकृतं ॥ र्म्_36.205{3} ॥
भगवन् किं कृतं कर्म पुराभ्यां सुकृतं कुह ।
तत् सर्वं समुपादिश्य सर्वान् नः परिबोधय ॥ र्म्_36.206{4} ॥
इति संप्रार्थिते सर्वैर् भिक्षुभिः स मुनीश्वरः ।
सर्वांस् तां श्रावकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ र्म्_36.207{5} ॥
शृणुत भिक्षवः कर्म यद् आभ्यां प्रकृतं पुरा ।
तत् सर्वं वः प्रवक्ष्यामि श्रुत्वा चाभ्यनुमोदत ॥ र्म्_36.208{6} ॥
तद् यथाभूत् पुरा शास्ता काश्यपाख्यमुनीश्वरः ।
सर्वज्ञो ऽर्हं जगन्नाथो धर्मराजस् तथागतः ॥ र्म्_36.209{7} ॥
भगवान् स मृगारण्ये वाराणस्यां जिनारमे ।
सर्वसत्वहितार्थेन विजहार ससांघिकः ॥ र्म्_36.210{8} ॥
तदा तत्र महान् साधुः श्रीमाञ् छ्रीदोपमः सुधीः ।

सदा तस्य मुनीन्द्रस्य सद्धर्मश्रावको ऽभजत् ॥ र्म्_36.211{9} ॥
ततः स बुद्धिमान् दाता सर्वलोकहितार्थतः ।
छन्दकभिक्षणं तत्र याचित्वा पंचवार्षिकं ॥ र्म्_36.212{10} ॥
काश्यपस्य मुनीन्द्रस्य ससंघय निरंतरं ।
सपूजाभोजनैर् नित्यम् उपस्थातुं समैछत ॥ र्म्_36.213{11} ॥
ततः स नृपतेर् आज्ञां समासाद्य प्रमोदितः ।
हस्तिस्कन्धे समारुह्य घण्टावाद्यं प्रवादयन् ॥ र्म्_36.214{12} ॥
सर्वत्र विषये तत्र वाराणस्याः समंततः ।
छंदकभिक्षणं सार्द्धं याचितुं प्राचरज् जनैः ॥ र्म्_36.215{13} ॥
तं दृष्ट्वा सार्थवाहस्य भार्या भद्रा सुभाविनी ।
सा तस्यै शिरसो मुच्य मुक्ताहारं ददौ मुदा ॥ र्म्_36.216{14} ॥
ततस् तस्याः शिरस्कं तन्मुक्ताहारव्यपोहितं ।
द्ष्ट्वा स विस्मितो हार्य्यं ताम् एव पर्यपृछत ॥ र्म्_36.217{15} ॥
क्वासौ भद्रे शिरस्थस् ते मुक्ताहारो न विद्यते ।
कस्यै दत्तस् त्वया केन हृतो वा तद् वदस्व मे ॥ र्म्_36.218{16} ॥
इति भर्त्राभिपृष्टे सा मुदिता रचितांजलिः ।
भर्त्तारं तं प्रणत्वैवं विनोदयितुम् अब्रवीत् ॥ र्म्_36.219{17} ॥
आर्यपुत्र प्रसीदात्र मा कृथा रोषताम् इह ।
यन् मया श्रद्धया दत्तश् छंदकभिक्षणे ऽप्य् असौ ॥ र्म्_36.220{18} ॥
इति भार्योदितं श्रुत्वा सार्थवाहस् ततश् चरन् ।
निष्क्रीय बहुमूल्येन तस्यै पत्न्यै ददौ पुनः ॥ र्म्_36.221{19} ॥
तं मुक्ताहारम् आलोक्य सार्थभृतः प्रियापि सा ।
संप्रदत्तं मया शास्तु इति तं नाग्रहीद् अपि ॥ र्म्_36.222{20} ॥
ततः स सार्थभृत् स्वामी तां भार्यां रमणीं प्रियां ।
स्नेहार्दचक्षुषा दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_36.223{21} ॥
बहुमूल्येन भद्रे यं मया क्रीतस् तु दीयते ।
तत् कस्मान् नेछसीदं मद् ग्रहीतुं कथम् एव हि ॥ र्म्_36.224{22} ॥
इति भर्त्रोदितम् श्रुत्वा सा दत्तं स्वामिना पुनः ।
तं मुक्ताहारम् आदाय भर्त्तुश् चित्तं व्यनोदयत् ॥ र्म्_36.225{23} ॥
ततः सा विषयारक्ता सद्धर्मगुणवांछिनी ।
तं संपूजांगम् आदाय ययौ शास्तुर् मुदाश्रमे ॥ र्म्_36.226{24} ॥
तत्रैतद् गन्धकुट्यां सा कृत्वा सुगंधिलेपनं ।
सुपुष्पैश् च समाकीर्य्य नत्वा कृत्वा प्रदक्षिणां ॥ र्म्_36.227{25} ॥
ततः सा मुदिता तस्य काश्यपस्य जगद्गुरोः ।
मुक्ताहारं पुरः क्षिप्त्वा प्रणनाम कृतांजलिः ॥ र्म्_36.228{26} ॥
ततो बुद्धानुभवेन मुक्ताहारः स तत् क्षणं ।
तस्य शास्तुः शिरः संस्थो रराज संप्रभासयन् ॥ र्म्_36.229{27} ॥
तद् दृष्ट्वा सा सुप्रसन्नास्याः संबोधिगुणलालसाः ।
शास्तुः पादौ प्रणत्वैवं प्रणिधानं व्यधान् मुदा ॥ र्म्_36.230{28} ॥
एतत्पुण्यविपाकेन शास्तारम् ईदृशं जिनं ।

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc