भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 321340

तच् छ्रुत्वा स भूपालो ब्रह्मदत्तः प्रमोदितः ।
सहसोपेत्य तं पुत्रं दृष्ट्वा न तृप्तिम् आययौ ॥ र्म्_33.20{20} ॥
तस्मिन्न् एव दिने तस्य प्रसेनजिन् महीपतेः ।
भार्यापि समये सूत सुतां दिव्यातिसुंदरीं ॥ र्म्_33.21{21} ॥
स्त्रीरत्नलक्षणोपेतं सुभद्रांगीमनोहरां ।
रमोपमं शुभाकारां मनापां रतिसंनिभां ॥ र्म्_33.22{22} ॥
तच् छ्रुत्वा स महीपालः प्रसेनजित् प्रसादितः ।
सहसोपेत्य तां पुत्रीं ददर्सातिप्रमोदितः ॥ र्म्_33.23{23} ॥
तां दृष्ट्वा स नरेंद्रो ऽपि मे वभूव समागतः ।
ताम् एव सुचिरं पश्यन्न् अवतस्थे सुनिश्चलः ॥ र्म्_33.24{24} ॥
तयोर् अप्य् उभयो राज्ञोः स्कंधाचाराः प्रवर्त्तिताः ।
ये नित्यं तत्प्रवृत्तांतं स्वप्रभोर् उपहारकाः ॥ र्म्_33.25{25} ॥
ये प्रसेनजितश् चारा ब्रह्मदत्तस्य भूपतेः ।
पुत्रो जात इति श्रुत्वा परिज्ञाय प्रसेदिरे ॥ र्म्_33.26{26} ॥
ते प्रसेनजितो राज्ञः सहसा समुपागताः ।
कृतांजलिपुटो नत्वा पुर एवं न्यवेदयन् ॥ र्म्_33.27{27} ॥
जय देव महाराज शृणु तत्र प्रवर्त्तितं ।
ब्रह्मदत्तस्य भूपस्य पुत्रो जातो ऽधुना खलु ॥ र्म्_33.28{28} ॥
सांप्रतं तत्र राजेन्द्रशुभोत्साहं प्रवर्त्तते ।
तत् त्वया सह संवंधं कृत्वा स स्वपुरं व्रजेत् ॥ र्म्_33.29{29} ॥
तत् प्रसीद महाराज मा विभैषीः शुभं भवेत् ।
तेन संधिं भवान् कृत्वा विहरतां यथासुखं ॥ र्म्_33.30{30} ॥
इति तैः कथितं श्रुत्वा स प्रसेनजिन् नराधिपः ।
सत्यम् एतद् इति ज्ञात्वा प्रससाद ऽविशंकितः ॥ र्म्_33.31{31} ॥
तथा ये ब्रह्मदत्तस्य गूढचाराः प्रवर्त्तिताः ।
ते प्रसेनजितः पुत्री जातेति शुश्रुवुस् तदा ॥ र्म्_33.32{31} ॥
ततस् ते सहसा तत्र ब्रह्मदत्तस्य भूपतेः ।
पुरतः समुपाश्रित्य प्रणत्वैवं न्यवेदयन् ॥ र्म्_33.33{33} ॥
जय देव महाराज शृणु तत्र प्रवर्त्तितं ।
प्रसेनजिन्महीपस्य पुत्री जाता ऽधुना खलु ॥ र्म्_33.34{34} ॥
दारिका सा सुभद्रांगी दिव्यकामा रमोपमा ।
सर्वलक्षणसंपन्ना सुंदरी रतिसंनिभा ॥ र्म्_33.35{35} ॥
तेन तत्र शुभोत्साहं प्रवर्त्तते ऽधुना प्रभो ।
तेन सहात्र संवंधं कर्त्तुम् अर्हति सर्वथा ॥ र्म्_33.36{36} ॥
इति तैः कथितं श्रुत्वा ब्रह्मदत्तो नराधिपः ।
भद्रम् इति परिज्ञाय तत्रैवं समचिंतयत् ॥ र्म्_33.37{37} ॥
अहो चित्र महोत्साहो भद्रम् एकस्मिन् दिवसे यतः ।
जातो मे ऽत्र सुतो भद्रस् तस्यापि जायते सुता ॥ र्म्_33.38{38} ॥
तत् तां भद्रां रमाकारां तं प्रसेनजितम् आदरत् ।
प्रार्थयित्वात्र पुत्राय सन्धिं कृत्वा चरेवहि ॥ र्म्_33.39{39} ॥

इति निश्चित्य स ब्रह्मदत्तो राजा प्रसादितः ।
सुजनं दूतम् आमंत्र्य पुर एवं समब्रवीत् ॥ र्म्_33.40{40} ॥
गछ दूत महीपालं तं प्रसेनजितम् आदरात् ।
ममैवं वचसोपेत्य प्रार्थयस्व प्रबोधयन् ॥ र्म्_33.41{41} ॥
ब्रह्मदत्तो महीपालो वदत्य् एवं समादरात् ।
भवता सह संवंधं कर्त्तुम् इछामि सांप्रतं ॥ र्म्_33.42{42} ॥
यद् एकस्मिन् दिने जातौ दारकाव् आवयोर् अपि ।
सुता ते भद्रिका ख्याता मम पुत्रो ऽपि भद्रिकः ॥ र्म्_33.43{43} ॥
तद् एतयोर् हि संवंधं कर्त्तुम् अर्हावहे ध्रुवं ।
तद् भवान् मम पुत्राय स्वात्मजां दातुम् अर्हति ॥ र्म्_33.44{44} ॥
एवं कृते ऽपि संवंधे यावज्जीवं सदावयोः ।
वैरोत्सर्गो भवेन् नूनं प्रीतिसंधिर् न भेत्स्यति ॥ र्म्_33.45{45} ॥
तदावयोः सदा भद्रं विषयेषु समंततः ।
निरीतिकं शुभोत्साहं भविष्यति न संशयः ॥ र्म्_33.46{46} ॥
इति मे वचसा राजा प्रसेनजित् स कौशलः ।
प्रार्थनीयस् त्वया साधो गछास्तु ते सुमंगलं ॥ र्म्_33.47{47} ॥
इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा दूतः स बोधितः ।
तथेत्य् उक्त्वा नृपं नत्वा समुत्थाय ततो ऽचरत् ॥ र्म्_33.48{48} ॥
तत्र स सहसा गत्वा तं प्रसेनजितं नृपं ।
उपेत्य सांजलिर् नत्वा पुरस्थ एवम् अब्रवीत् ॥ र्म्_33.49{49} ॥
जय देव महाराज यदर्थे ऽहम् इहागतः ।
तदर्थं संप्रवक्ष्यामि भवां श्रोतुं समर्हति ॥ र्म्_33.50{50} ॥
ब्रह्मदत्तो महाराजो भवतां कुशलं मुदा ।
पृछति सर्वदा नित्यं सर्वत्र विषयेष्व् अपि ॥ र्म्_33.51{51} ॥
पुनर् एवं स भूपालो ब्रह्मदत्तो ब्रवीत्य् अपि ।
भवता सह संवंधं कर्तुम् इछामि सांप्रतं ॥ र्म्_33.52{52} ॥
यद् एकस्मिन् दिने जातौ दारकाव् आवयोर् इह ।
सुता ते भद्रिका ख्यातो मम पुत्रो ऽपि भद्रिकः ॥ र्म्_33.53{53} ॥
तद् एतयोर् हि संवंधं कर्तुम् अर्हामहे ध्रुवं ।
तद् भवान् मम पुत्राय स्वात्मजां दातुम् अर्हति ॥ र्म्_33.54{54} ॥
एवं कृते ऽपि संवंधे यावज्जीवं सदावयोः ।
वैरोत्सर्गो भवेन् नूनं प्रीतिसंधिर् न भेत्स्यते ॥ र्म्_33.55{55} ॥
तदावयोः सदा भद्रं विषयेषु समंततः ।
निरीतिकं शुभोत्साहं भवेद् एव न संशयः ॥ र्म्_33.56{56} ॥
इति मे वचसा राजा प्रसेनजित् स कौशलः ।
प्रार्थनीयस् त्वया साधो गछास्तु त्वं समाहितः ॥ र्म्_33.57{57} ॥
इत्य् आदिश्य नरेन्द्रेण ब्रह्मदत्तेन भूर्भुजा ।
प्रेषितो ऽहं महाराज भवताम् अंतिके खलु ॥ र्म्_33.58{58} ॥
तत् तेन भूपतीशेन यथादिष्टं नराधिप ।
भवान् अपि तथा कर्तुम् अर्हत्य् एदन् न नान्यथा ॥ र्म्_33.59{59} ॥

एवं हि भवतां भद्रं यावाज्जीवं सुखैः सदा ।
सर्वत्र मङ्गलोत्साहं भवेन् नूनं न संशयः ॥ र्म्_33.60{60} ॥
तद् भवान् अपि राजेन्द्र ब्रह्मदत्तस्य भूपतेः ।
पुत्राय स्वात्मजां भद्रां संप्रदातुम् इहार्हति ॥ र्म्_33.61{61} ॥
इति तेन समाख्यातं श्रुत्वा स कोशलाधिपः ।
तुष्णीभूत्वा क्षणं तत्र मनसैवं व्यचिंतयेत् ॥ र्म्_33.62{62} ॥
अहो मे जायते क्षेमं यद् असौ क्षत्रियाधिपः ।
वैरं विहाय संवन्धं कर्त्तुम् इछति सांप्रतं ॥ र्म्_33.63{63} ॥
तद् अहं तेन भूपेन यथादिष्टं तथा ऽधुना ।
दत्वैनां स्वात्मजां भद्रां संधिं कुर्यां शुभाप्तये ॥ र्म्_33.64{64} ॥
एवं कृते सदा क्षेमं सर्वत्र विषयेष्व् अपि ।
मम तस्यापि भूपस्य भवेन् नूनं न चान्यथा ॥ र्म्_33.65{65} ॥
इति ध्यात्वा विनिश्चित्य प्रसेनजित् स कौशलः ।
तं दूतं समुपामंत्र्य समालोक्यैवम् अब्रवीत् ॥ र्म्_33.66{66} ॥
साधो तेन नरेन्द्रेण यथादिष्टं तथादरात् ।
आज्ञां शिरसा धृतिवा करिष्यामि सदाप्य् अहं ॥ र्म्_33.67{67} ॥
एवं मे वचसा साधो सर्वम् एतत् सुविस्तरं ।
समाख्याय नरेन्द्रं तं प्रसादयितुम् अर्हसि ॥ र्म्_33.68{68} ॥
इति तेन नरेन्द्रेण समाख्यातं निशम्य सः ।
दूतस् तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः ॥ र्म्_33.69{69} ॥
ततः स दूतस् तं भूपं कोशलाधिपतिं मुदा ।
नत्वा दृष्ट्वा समामंत्र्य ततो ऽचरत् प्रमोदितः ॥ र्म्_33.70{70} ॥
ततः स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः ।
उपेत्य सांजलिः पादौ प्रणत्वेवम् अभाषत ॥ र्म्_33.71{71} ॥
जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतं ।
यथाभिलषितं सर्वं तत् सिद्धम् इति मन्यतां ॥ र्म्_33.72{72} ॥
तद् यथा भवतादिष्टं तथा विज्ञापितं मया ।
तच् छ्रुत्वानेन भूपेन प्रमोदित्वाध्युवासितं ॥ र्म्_33.73{73} ॥
इति सत्यं समाधाय पालयस्व यथोदितं ।
सर्वदा ते भवेद् भद्रं सर्वत्र विषयेष्व् अपि ॥ र्म्_33.74{74} ॥
इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
प्रबोधितो ऽनुमोदित्वा प्राभ्यनंदत् प्रसादितः ॥ र्म्_33.75{75} ॥
ततः स भूपती राजा ब्रह्मदत्तो महोत्सवैः ।
चतुरंगवलैः सार्द्धं जयवाद्यं प्रवादयन् ॥ र्म्_33.76{76} ॥
ततः संप्रस्थितो लोकैः स्तूयमानः सुरैर् अपि ।
प्रचरन् सहसा तत्र स्वपुरं समुपाययौ ॥ र्म्_33.77{77} ॥
ततः सो ऽपि महीपालः प्रसेनजित् प्रमोदितः ।
चतुरंगवलैः सार्द्धं जयोत्साहं प्रणादयन् ॥ र्म्_33.78{78} ॥
ततः प्रत्यागतो लोकै स्तूयमानो ऽमरैर् अपि ।
प्रचरन् स नृपो तत्र श्रावस्त्यां समुपाचरत् ॥ र्म्_33.79{79} ॥

तत्र स्वनगरे प्राप्तः प्रसेनजित् स कौशलः ।
स्वप्रासादतलासीनः सर्वान्तपुरिकान्वितः ॥ र्म्_33.80{80} ॥
तां भदरिकां सुतां दृष्ट्वा सुप्रसन्नाशयो मुदा ।
अहो क्षेमं प्रजातं मे इत्य् एवं मुहुर् अब्रवीत् ॥ र्म्_33.81{81} ॥
ततस् तस्याः सुतायाः स कृत्वा जातिमहं मुदा ।
सर्वञ् ज्ञातीन् समाहूय पुर एवम् उपादिशत् ॥ र्म्_33.82{82} ॥
भदन्तः श्रूयताम् अस्या भद्राया दुहितुर् मम ।
यथायुक्तं नामधेयं स्थापयत प्रसिद्धितं ॥ र्म्_33.83{83} ॥
इति तेन नरेन्द्रेण समादिष्टं निशम्यते ।
संपश्यञ् ज्ञातयस् तत्र संमील्यैवं समब्रुवन् ॥ र्म्_33.84{84} ॥
यस्मिन् दिने प्रजातेयं तस्मिन्न् एव दिने यतः ।
क्षेमं नो जायते तस्मात् क्षेमाभिधा भवन्त्व् इयं ॥ र्म्_33.85{85} ॥
इति ते ज्ञातयः सर्वे कृत्वैवं संमतं ततः ।
कौशलेन्द्रं तम् आमंत्र्य प्रणत्वैवं समब्रुवन् ॥ र्म्_33.86{86} ॥
शृणु राजन् यद् अस्माकम् अभिप्रायं प्रचक्ष्यते ।
तद् अस्या नामधेयं करोतु भुवि विश्रुतं ॥ र्म्_33.87{87} ॥
यस्मिन् दिने प्रजातेयं क्षेमं भवति सर्वतः ।
तेनास्या क्रियतां नाम क्षेमेति विश्रुतं भुवि ॥ र्म्_33.88{88} ॥
तथा तैर् गदितं श्रुत्वा राजा स जनको मुदा ।
तस्याः पुत्र्यास् तथा नाम क्षेमेति प्रार्थितं व्यधात् ॥ र्म्_33.89{89} ॥
ततः सा दारिकाष्टाभिर् धात्रिभिः प्रतिपालिता ।
परिपुष्टा प्रवृद्धाभूद् ध्रदस्थम् इव पंकजं ॥ र्म्_33.90{90} ॥
तथा स ब्रह्मदत्तो ऽपि राजा स्वान्तर्गृहे गतः ।
तं पुत्रां मुहुर् आलोक्य प्राभ्यनंदत् प्रमोदितः ॥ र्म्_33.91{91} ॥
तत्र तस्य शिशो राजा कृत्वा जातिमहं पिता ।
सर्वाञ् ज्ञातीन् समाहूय पुर एवम् अभाषत ॥ र्म्_33.92{92} ॥
भवंतो दारकस्यास्य पुत्रस्य मे शुभाकृतेः ।
क्रियतां नामधेयन् सन्मंगलाक्षरसंयुतं ॥ र्म्_33.93{93} ॥
इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा ते ज्ञातयो मुदा ।
सर्वे ऽप्य् एकत्र संगम्य मिथर् एवं समब्रुवन् ॥ र्म्_33.94{94} ॥
यद् अयं जातमात्रो ऽपि क्षेमं करोति सर्वतः ।
तथास्य भवतु क्षेमंकर इत्य् आह्वयं ध्रुवं ॥ र्म्_33.95{95} ॥
इति ते ज्ञातयः सर्वे ब्रह्मदत्तस्य भूपतेः ।
पुरतः समुपासृत्य प्रणत्वैवं न्यवेदयन् ॥ र्म्_33.96{96} ॥
शृणु राजन् यद् अस्माभिर् नामास्य क्रियते शिशोः ।
तन् नाम क्षेमसंपन्नं प्रथयतु भावान् भुवि ॥ र्म्_33.97{97} ॥
यद् अयं जातमात्रो ऽपि क्षेमं करोति सर्वतः ।
तेन क्षेमंकराख्यो ऽयं भवंतु लोकनंदनः ॥ र्म्_33.98{98} ॥
एतत् तैः कथितम् श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
तद् एव नामे पुत्रस्य तस्याकरोत् प्रविसृतं ॥ र्म्_33.99{99} ॥

ततः स दारको ऽष्टाभि धात्रिभिः प्रतिपालितः ।
परिपुष्टः प्रवृद्धो ऽभूद् ध्रदस्थं कमलं यथा ॥ र्म्_33.100{100} ॥
ततः क्रमात् कुमारत्वम् आप्तवान् स नृपात्मजः ।
गुरूणां समुपाश्रित्य लिपी क्रमाद् अशिक्षत् ॥ र्म्_33.101{1} ॥
यथाक्रमम् अधीत्येवं क्षेमंकरः स बुद्धिमान् ।
सर्वशास्त्रकलास्व् आदि विद्यापरं ययौ लघु ॥ र्म्_33.102{2} ॥
ततः स दहरः कान्तः कुमारो रतिलालितः ।
सवयेःसचिवैः सार्द्धं रेमे पुरे परिभ्रमन् ॥ र्म्_33.103{3} ॥
तदा स दारिका क्षेमा प्रसेनजित्सुतापि च ।
क्रमाद् अभूत् कुमारीत्वप्राप्ता कान्ताभिसुंदरी ॥ र्म्_33.104{4} ॥
ततः सा भद्रिका कन्या सुमतिर् गुणलालसाः ।
गुरूणां समुपाश्रित्य क्रमाल् लिपिर् अशिक्षत ॥ र्म्_33.105{5} ॥
यथाक्रमम् अधीत्यैवं सा सुबुद्धिमती सती ।
सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ र्म्_33.106{6} ॥
तदा सा भाविनी क्षेमा स्वसखीभिः समन्विता ।
संबुद्धभाषितं धर्मम् अनुश्रुत्वा मुदानमत् ॥ र्म्_33.107{7} ॥
तदा स ब्रह्मदत्तस्य कुमारो ऽतिविचक्षणः ।
तां क्षेमां सुंदरीं द्रष्टुं समैछद् रतिलालसः ॥ र्म्_33.108{8} ॥
ततः स दूतम् आहूय बोधयित्वा प्रसादयन् ।
दत्वा सुरत्नमालां तं क्षेमायाः प्रेषयेत् स्वयं ॥ र्म्_33.109{9} ॥
ततः स दूत आदाय तां मालां सहसा चरन् ।
श्रावस्त्याः पुरि संप्राप्तः क्षेमायाः सदने ऽचरत् ॥ र्म्_33.110{10} ॥
तत्र स दूत आलोक्य सखीम् एकाम् उपागतां ।
ताम् उपेत्य समामंत्र्य सुगुप्तम् एवम् अब्रवीत् ॥ र्म्_33.111{11} ॥
क्षेमंकरकुमारेण क्षेमाये प्रहिताम् इमां ।
रत्नमालां त्वम् आदाय भद्रे तस्यै समर्पय ॥ र्म्_33.112{12} ॥
इत्य् उक्त्वा रत्नमालां तां क्षेमासखीकरे रहः ।
दत्वा स दूत आमंत्र्य सहसा स्वपुरं ययौ ॥ र्म्_33.113{13} ॥
तत्र सापि सखी तस्याः क्षेमायाः पुरतो गता ।
प्राभृतं तम् उपस्थाप्य रहस्य् एवं न्यवेदयत् ॥ र्म्_33.114{14} ॥
अयि भद्रम् इमं पश्य प्रहितं स्वामिना तव ।
तद् इदं त्वं समाश्लिष्य पतिम् इव विभावय ॥ र्म्_33.115{15} ॥
इति तयोदितं श्रुत्वा सा क्षेमा लज्जिताशया ।
कामविषाग्निसंत्रस्ता तस्थौ दिनम् अधोमुखा ॥ र्म्_33.116{16} ॥
ततः सा कन्यका क्षेमा तां सखीं पुरतः स्थितां ।
सुचिरात् समुपारभ्य हर्त्सयन्त्य् एवम् अब्रवीत् ॥ र्म्_33.117{17} ॥
अरे रे किं वदस्य् एवं स्वामी मे कात्र विद्यते ।
निलज्जे वद तत् केन प्रहितं प्राभृतं तव ॥ र्म्_33.118{18} ॥
इत्य् उक्तं सा सखी श्रुत्वा क्षेमाया दुरितुः प्रभोः ।
आजन्मे सर्ववृत्तांतं विस्तरेण न्यवेदयत् ॥ र्म्_33.119{19} ॥

एवं सख्या समाख्यातं श्रुत्वा सा नृपनंदिनी ।
क्षेमा संसारसंचारसमुद्विग्नाशयाभवत् ॥ र्म्_33.120{20} ॥
तत उत्थाय सा क्षेमा कन्यापि सहसा पितुः ।
उपेत्य चरणौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_33.121{21} ॥
तात कामार्थिनी नाहम् अपि तु सद्गुणार्थिनी ।
सद्गुणां साधयिष्यामि तद् अनुज्ञां ददातु मे ॥ र्म्_33.122{22} ॥
यद् अहं शासने बौद्धे प्रव्रजित्वा समाहित ।
ब्रह्मचर्यं समाधाय प्रेछामि चरितुं प्रभो ॥ र्म्_33.123{23} ॥
तद् भवां कृपया तात संबोधिव्रतसाधने ।
अनुज्ञां संप्रदत्व् मे सर्वथानुग्रहं कुरु ॥ र्म्_33.124{24} ॥
इत्य् अर्थितं तया पुत्र्या श्रुत्वा स कोशलाधिपः ।
तां कुमारीं समालोक्य तस्थौ संदिग्धमानसः ॥ र्म्_33.125{25} ॥
ततः स जनको राजा तां क्षेमां स्वात्मजां प्रियां ।
बोधयितुं समामंत्र्य समालोक्यैवम् अब्रवीत् ॥ र्म्_33.126{26} ॥
नैवं पुत्रि मया कर्तुं शक्यते तत् क्षमस्व मे ।
यत् ते जन्मनि मे राष्ट्रे क्षेमम् एवं प्रजायते ॥ र्म्_33.127{27} ॥
तदापि त्वं प्रतिज्ञय ब्रह्मदत्तस्य भूपतेः ।
क्षेमंकराय पुत्राय संकल्पिता मयात्मजे ॥ र्म्_33.128{28} ॥
तद् यथा मे प्रतिज्ञातं वचनं पूरयात्मजे ।
मा कृथाः सर्वथा क्षेमे प्रव्रज्यासाधने मम ॥ र्म्_33.129{29} ॥
यथा मया प्रतिज्ञातं करिष्ये न तद् अन्यथा ।
मत्वेति मे वचः श्रुत्वा कुलधर्मे चरात्मजे ॥ र्म्_33.130{30} ॥
एवं पित्रोदितं श्रुत्वा सा क्षेमा प्रहताशया ।
उत्थाय स्वालये गत्वा तूष्णीभूता न्यषीदत ॥ र्म्_33.131{31} ॥
तदा स जनको राजा दूतम् आहूय सादरं ।
सर्वम् एतत् प्रवृत्तांतं समाख्यायैवम् अब्रवीत् ॥ र्म्_33.132{32} ॥
गछ साधो नरेन्द्रस्य ब्रह्मदत्तस्य भूपतेः ।
पुर एतत् प्रवृत्तांतं निवेद्यैवं प्रबोधय ॥ र्म्_33.133{33} ॥
यद् इयं मे सुता क्षेमा प्रव्रजितुं समिछति ।
तद् इमां सहसागत्वा भवान् आदातुम् अर्हति ॥ र्म्_33.134{34} ॥
इति राज्ञा समादिष्टं श्रुत्वा पुरः स सादरं ।
तथेति संप्रतिज्ञाय प्रणत्वा तं ततो ऽचरत् ॥ र्म्_33.135{35} ॥
तत्र स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः ।
उपेत्य सांजलिर् नत्वा पुर एवं न्यवेदयत् ॥ र्म्_33.136{36} ॥
जय एव यदर्थे ऽहं प्रेषितो ऽत्र महीभृता ।
कोशलेन्द्रेण तद् भवां शृणोत्व् एवं ब्रवीति सः ॥ र्म्_33.137{37} ॥
यद् इयं मे सुता क्षेमा प्रव्रजितुं समिछति ।
तद् इमां सहसागत्वा भवान् आहर्तुम् अर्हति ॥ र्म्_33.138{38} ॥
यथा मया प्रतिज्ञातं कर्त्तुं न शक्यते ऽन्यथा ।
तद् अहं ते कुमाराय दास्यामि स्वात्मजाम् इमां ॥ र्म्_33.139{39} ॥

एवं तेन नरेंद्रेण समाख्याय भवत्पुरः ।
प्रेषितो ऽहम् इति ज्ञात्वा तत् तत्रागंतुम् अर्हति ॥ र्म्_33.140{40} ॥
इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
तं दूतं सहसामंत्र्य पुर एवम् अभाषत ॥ र्म्_33.141{41} ॥
एवं चेद् आगमिष्यामि सपुत्रः सप्तमे ऽहं ।
यत् तत् कृत्यं हि तत् सर्वं कर्त्तव्यम् इति कथ्यतां ॥ र्म्_33.142{42} ॥
इत्य् आदिष्टं नरेंद्रेण ब्रह्मदत्तेन सांजलिः ।
नत्वा तथेति विज्ञप्य समुत्थाय ततो ऽचरत् ॥ र्म्_33.143{43} ॥
तत्र स सहसा गत्वा स्वपुरं समुपाचरन् ।
नृपतिं सांजलिर् नत्वा पुर एवं न्यवेदयत् ॥ र्म्_33.144{44} ॥
जय देव यथादिष्टं ब्रह्मदत्तस्य भूपतेः ।
तथा विज्ञापितं सर्वं तद् उक्तं याच्यते शृणु ॥ र्म्_33.145{45} ॥
एवं चेद् आगमिष्यामि सपुत्रः सप्तमे ऽहनि ।
तद् यत् कृत्यं हि तत् सर्वं साधयितुं त्वम् अर्हसि ॥ र्म्_33.146{46} ॥
इति तेन नरेन्द्रेण प्रतिज्ञाय निदेशितं ।
इति सत्यं परिज्ञाय सर्वं कृत्यं प्रकारय ॥ र्म्_33.147{47} ॥
इति तेनोदितं श्रुत्वा प्रसेनजित् स भूपतिः ।
तदर्हसर्वसामग्रीं सहसा समसाधयत् ॥ र्म्_33.148{48} ॥
तदैतत् सर्ववृत्तांतं श्रुत्वा चा दारिका सुधीः ।
उद्विग्नमानसा क्षेमा मनसैवं व्यचिंतयत् ॥ र्म्_33.149{49} ॥
हा किं मयात्र कर्त्तव्यं विवाहां मे भवे यतः ।
कामभोगं परित्यज्य वांछामि सौगतव्रतं ॥ र्म्_33.150{50} ॥
कामा हि गर्ह्यते सद्भि वर्ण्यते सौगतं व्रतं ।
तद् अत्र किं करिष्यामि यन् मे न गोचरं व्रते ॥ र्म्_33.151{51} ॥
धिग् जन्म तस्य संसारे यस्य न गोचरं व्रते ।
व्रतं विनात्र किं सारं कामभोग्यै गुणैर् अपि ॥ र्म्_33.152{52} ॥
तद् अत्र क्व गमिष्यामि निमग्ना कामपंकिले ।
को मे त्राता भवेद् अत्र संबुद्धाद् अपरः कृती ॥ र्म्_33.153{53} ॥
तद् अत्र तं जगन्नाथं सर्वज्ञं सर्वतायिनं ।
संस्मृत्वा शरणं गत्वा प्रार्थये साधुनादरात् ॥ र्म्_33.154{54} ॥
नूनं बुद्धो जगन्नाथो जगच्छास्ता मुनीश्वरः ।
कृपया मां समालोक्य बुद्धव्रते नियोजयेत् ॥ र्म्_33.155{55} ॥
यदि मे दैवयोगेन व्रतं नैव लभेय हि ।
संबुद्धशरणोद्भूतं पुण्यं तु लभ्यते ध्रुवं ॥ र्म्_33.156{56} ॥
संबुद्धस्मृतिजं पुण्यं न क्षिणोति कदा चन ।
संबुद्धसंवरं दद्याद् इति प्रज्ञैर् निगद्यते ॥ र्म्_33.157{57} ॥
तद् अहं तं जगन्नाथं स्मृत्वात्र मरणं वरं ।
न तु कामविषं भोक्ष्ये भोज्ये पुण्यामृतं ध्रुवं ॥ र्म्_33.158{58} ॥
इति निश्चित्य सा क्षेमा स्नात्वा शुद्धाम्वरावृता ।
शरणपृष्ठम् आरुह्य अभवद् दिन्मुखा स्थिता ॥ र्म्_33.159{59} ॥

जानुभ्यां भुवि संस्थिता कृतांजलिपुटा मुदा ।
भगवन्तम् अनुस्मृत्वा नत्वैवं प्रार्थयत् त्रिधा ॥ र्म्_33.160{60} ॥
भगवन् नाथ सर्वज्ञ सर्वसत्वानुकंपक ।
ब्रह्मचारिन् महाभिज्ञ महर्षे दुरितान्तकः ॥ र्म्_33.161{61} ॥
प्रशमोपायविद् विज्ञ शान्त चित्त महामुने ।
त्वम् एव हि जगन्नाथ तत् ते ऽहं शरणं व्रजे ॥ र्म्_33.162{62} ॥
तन् मां भवोदधौ मग्नां कृपयोद्धर्तुम् अर्हति ।
इति संप्रार्थिते सत्यो कन्यया क्षेमया तया ।
भगवान् कृपया दृष्ट्या ददर्श तां शुभाशयां ॥ र्म्_33.163{63} ॥
ततः स भगवान् दृष्ट्वा तां क्षेमां बोधिभाविनीं ।
ऋद्ध्याकशात् समागत्य तत्र क्षेमान्तिके ययौ ॥ र्म्_33.164{64} ॥
तत्र तं श्रीघनं दृष्ट्वा सा क्षेमा सहसोत्थिता ।
प्रज्ञप्य स्वासनं नत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_33.165{65} ॥
भगवन् नाथ संबुद्ध प्रविशात्रासने शुभे ।
प्रसीद कृपयपायान् मां समुद्धर्तुं अर्हसि ॥ र्म्_33.166{66} ॥
इति तस्यार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तां क्षेमां भद्रिकां कन्यां समालोक्यैवम् आदिशत् ॥ र्म्_33.167{67} ॥
मा भैषि भद्रिके कन्ये त्वदीहितं समृध्यति ।
तथा मे शरणं गत्वा चर शुभे समाहिता ॥ र्म्_33.168{68} ॥
इत्य् आदिश्य पुनस् तस्याः संबोधिपदसाधनं ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_33.169{69} ॥
तद् आर्य्यधर्मम् आकर्ण्य क्षेमा परिबोधिता ।
अनागामिफलं प्राप्ता लब्धाभिज्ञाभवत् तदा ॥ र्म्_33.170{70} ॥
ततः सा मुदिता कन्या दृष्टसत्या प्रसादिता ।
सांजलिस् तं मुनिं नत्वा प्रार्थयच् चैवम् आदरात् ॥ र्म्_33.171{71} ॥
भगवन् सर्वविन् नाथ सदैवं कृपया भवान् ।
दृष्ट्वा मां सौगते धर्मे नियोज्य त्रातुम् अर्हति ॥ र्म्_33.172{72} ॥
इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तथा हीति प्रतिज्ञाय तथार्द्ध्या चाश्रमे ययौ ॥ र्म्_33.173{73} ॥
तदा सा कन्यका क्षेमा संबुद्धशरणं गता ।
संस्मृत्य श्रद्धया नित्यं प्राचरन् मुदिता शुभे ॥ र्म्_33.174{74} ॥
तदा स ब्रह्मदत्तो ऽपि पुत्रपुरोहितादिभिः ।
स्वजनैः सहसोत्साहैः श्रावस्त्यां समुपाचरत् ॥ र्म्_33.175{75} ॥
तदागतम् समाकर्ण्य प्रसेनजित् स भूपतिः ।
सहसा मंगलोत्साहैः प्रत्युद्ययौ तम् आदरात् ॥ र्म्_33.176{76} ॥
तत्र स कोशलेशस् तं ब्रह्मदत्तं नराधिपं ।
उपेत्य कुशलं दृष्ट्वा स्वपुरे संन्यवेशयत् ॥ र्म्_33.177{77} ॥
तत्रानेकाः समायाता लोकाः सर्वे प्रमोदिताः ।
तद्विवाहमहोत्साहं द्रष्टुं समुपतस्थिरे ॥ र्म्_33.178{78} ॥
ततः स कौशलो राजा तद्विवाहदिने शुभे ।

साधितसर्वसामग्रीं होतुः समत्यढौकयत् ॥ र्म्_33.179{79} ॥
तदा क्षेमा कुमारी सा सर्वालंकारभूषिता ।
मात्रा सह समागत्य तत्रासने समाश्रयत् ॥ र्म्_33.180{80} ॥
क्षेमंकरकुमारो ऽपि सर्वालंकारभूषितः ।
पित्रा सह समागत्य तत्रासने उपाविशत् ॥ र्म्_33.181{81} ॥
ततः स विधिविद् धोता शुद्धासने समाश्रयन् ।
विधिनाग्निं समावाह्य स हव्यैः समतर्पयत् ॥ र्म्_33.182{82} ॥
ततः पुरोहितो विप्रस् तद्वेला समुपागते ।
क्षेमंकराय तां क्षेमां संकल्पयितुम् आरभत् ॥ र्म्_33.183{83} ॥
यथाविधि समारभ्य ब्राह्मणः स पुरोहितः ।
क्षेमाया हस्तम् आदाय कुमारस्यास्य प्राग्रहीत् ॥ र्म्_33.184{84} ॥
तस्मिन्न् एव क्षणे तत्र सा क्षेमा सहसोद्गता ।
पक्षिवत् खं समाश्रित्य तस्थौ ध्यात्वा मुनीश्वरं ॥ र्म्_33.185{85} ॥
तात्र सा भासयन्त्य् एव स्थिता चिरं समाहिता ।
प्रातिहार्याणि चित्राणि विविधान्य् अभ्यदर्शयत् ॥ र्म्_33.186{86} ॥
तद् दृष्ट्वा कौशलो राजा प्रसेनजित् पितापि सः ।
ब्रह्मदत्तो नरेन्द्रो ऽपि पुरोहितो द्विजो ऽपि सः ॥ र्म्_33.187{87} ॥
क्षेमंकरः कुमारो ऽपि सर्वे ऽपि ब्राह्मणाश् च ते ।
अमात्या मंत्रिणश् चापि सर्वे सैन्यगणा अपि ॥ र्म्_33.188{88} ॥
पौराश् चापि स्त्रियो ऽन्ये ऽपि दारका दारिका अपि ।
सर्वे ऽतिविस्मयाक्रांतहृदया अवतस्थिरे ॥ र्म्_33.189{89} ॥
तत्र क्षेमंकरो राजकुमारो ब्राह्मणैः सह ।
तां क्षेमां सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_33.190{90} ॥
नमस् ते भगिनि क्षेमे यत् ते ऽहं कामलालसाः ।
पाणिं ग्रहीतुम् इछामि तत् क्षमस्व दयानिधे ॥ र्म्_33.191{91} ॥
यद् एवं त्वं महाभिज्ञापदप्राप्ता महर्द्धिका ।
यत् कामान् परिभुंजीथा इत्य् अस्थानम् एव हि ॥ र्म्_33.192{92} ॥
तत् क्षमस्व त्वम् आकाशाद् अवतीर्य महीतले ।
सर्वलोकाभिबोधार्थं सद्धर्मं समुपादिश ॥ र्म्_33.193{93} ॥
इति संप्रार्थितं तेन कुमारेण निशम्य सा ।
क्षेमा प्रसन्नास्या तत्राकाशाद् अवातरत् ॥ र्म्_33.194{94} ॥
तत्र सा समुपागत्य जनकाये सभासने ।
स्थित्वार्यसत्यम् आरभ्य सद्धर्मं समुपादिशत् ॥ र्म्_33.195{95} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
सत्यम् इति परिज्ञाय प्राभ्यनन्दन् प्रसादिताः ॥ र्म्_33.196{96} ॥
ततः क्षेमंकरः पित्रा सह तं कोशलाधिपं ।
आमंत्र्य तद्गुणाहृष्टमनाः स्वं नगरं ययौ ॥ र्म्_33.197{97} ॥
ततः सा कन्यका क्षेमा साञ्जलिः पुरतो गता ।
पितुः पादाम्बुजे नत्वा प्रार्थयेद् एवम् आदरात् ॥ र्म्_33.198{93} ॥
नाहं कामार्थिनी तात संबुद्धशरणार्थिनी ।

तद् इतः शासने बौद्धे गन्तुम् इछामि सांप्रतं ॥ र्म्_33.199{99} ॥
तद् यदि ते मयि प्रीतिर् अस्ति धार्मे ऽपि वा रुचिः ।
तद् अत्र कृपयानुज्ञां दातुम् अर्हति मे पित ॥ र्म्_33.200{100} ॥
इति संप्रार्थितं पुत्र्या श्रुत्वा स कौशलाधिपः ।
तां क्षेमां स्वात्मजां कन्यां चिरं दृष्ट्वैवम् अब्रवीत् ॥ र्म्_33.201{1} ॥
किमेत्र वक्ष्यते पुत्रि यत् त्वं सद्धर्मवांछिनी ।
किं चाप्य् असि महाभिज्ञावती प्रज्ञावती सुधीः ॥ र्म्_33.202{1} ॥
किं तु त्वं दारिका कन्या शीतवातातपाहता ।
तत् प्रव्रज्याव्रतं वाल्ये चरितुं शक्नुयाः कथं ॥ र्म्_33.203{3} ॥
सद्धर्म यदि ते वांछा गृहे स्थित्वा समाहिता ।
त्रिरत्नभजनं कृत्वा सद्धर्मं साधयात्मजे ॥ र्म्_33.204{4} ॥
त्रिरत्नभजनोद्भूतं पुण्यं सद्धर्मसाधनं ।
तेन संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_33.205{5} ॥
एवं मत्वा स्वगेहे त्वं शुद्धशीलव्रतावृता ।
त्रिरत्नभजनं कृत्वा चर नित्यं शुभे सदा ॥ र्म्_33.206{6} ॥
इति पित्रोदितं श्रुत्वा शा क्षेमा कामनिःस्पृहा ।
पितरं तं समालोक्य पुनर् एवम् अभाषत ॥ र्म्_33.207{7} ॥
न मे तात गृहावासे क्लेशमारगणाकुले ।
क्षणं स्थातुं मनस् तेन वांछति सौगतं व्रतं ॥ र्म्_33.208{8} ॥
सर्वे ऽपि सौगतः सन्तो विहारे सुगताश्रमे ।
सदा धर्मामृतं भुक्त्वा वसन्ति सद्गुणोद्यताः ॥ र्म्_33.209{9} ॥
त एव सद्गुणाधारा बोधिसत्वाः सुखान्विताः ।
यावज्जीवं व्रतं धृत्वा यान्ति चान्ते जिनालयं ॥ र्म्_33.210{10} ॥
इति दृष्ट्वाहम् इछामि प्रव्रजितुं जिनाश्रमे ।
तद् भवान् कृपयानुज्ञां दातुम् अर्हति मे प्रभो ॥ र्म्_33.211{11} ॥
इति संप्रार्थितं पुत्र्या श्रुत्वा स बोधितः पिता ।
तथानुमोदनां कृत्वा तां क्षेमाम् एवम् अब्रवीत् ॥ र्म्_33.212{12} ॥
किं मया वक्ष्यते वत्से त्वम् एवं सत्सुभार्थिनी ।
तद् व्रज शासने बौद्धे व्रतं चर समाहिता ॥ र्म्_33.213{13} ॥
इति पित्राभ्यनुज्ञातं श्रुत्वा सा मुदिताशया ।
क्षेमा तस्य पितुः पादौ नत्वैव निर्ययौ ततः ॥ र्म्_33.214{14} ॥
ततः सा मुदिता क्षेमा सहसा तत्र जिनाश्रमे ।
गता तं श्रीघनं दृष्ट्वा मुदिता समुपाचरत् ॥ र्म्_33.215{15} ॥
तत्र सा साञ्जलिर् नत्वा सास्तारं तं मुनीश्वरं ।
पुरतः समुपासीना प्रार्थयद् एवम् आदरात् ॥ र्म्_33.216{16} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत् प्रव्रज्याव्रतं दत्वा सदा मे ऽनुग्रहं कुरु ॥ र्म्_33.217{17} ॥
इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तच् छिरो दक्षहस्तेन पृष्ट्वा ताम् एवम् अब्रवीत् ॥ र्म्_33.218{18} ॥
एहि वत्से प्रगछ त्वं गौतम्याः शरणं व्रज ।

सा माता भिक्षुणीशास्ता प्रव्रज्यां ते प्रदास्यति ॥ र्म्_33.219{19} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा मुदिताशया ।
क्षेमा तस्या जगन्मातुर् गौतम्याः समुपाचरत् ॥ र्म्_33.220{20} ॥
तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_33.221{21} ॥
जगन्मातर् अहं क्षेमा भवत्याः शरणं व्रजे ।
तन् प्रव्रज्याव्रतं मह्यं भवन्ती दातुम् अर्हति ॥ र्म्_33.222{22} ॥
इत्य् अर्थितं तया श्रुत्वा गौतामी सा प्रसादिता ।
तच् छिरो दक्षहस्तेन पृष्ट्वैवं ताम् अभाषत ॥ र्म्_33.223{23} ॥
एहि भिक्षुणि वत्से शासने सौगते शुभे ।
प्रव्रज्यासंवरं धृत्वा ब्रह्मचर्यं समाचर ॥ र्म्_33.224{24} ॥
एहीति समादिष्टे गौतम्यास्य शुभाशया ।
क्षेमाभून् मुण्डिता पात्रधरा सुचीवरावृता ॥ र्म्_33.225{25} ॥
ततः सा भिक्षुणी क्षेमा सौम्यरूपा जितेन्द्रिया ।
भित्वा ऽविद्यागणान् दुष्टान् प्राप्तविद्यागणाञ् छुभान् ॥ र्म्_33.226{26} ॥
समाधिधारणीविद्या घटमाना समुद्यता ।
महाभिज्ञापदप्राप्ता संबोधिपदसाधिनी ॥ र्म्_33.227{27} ॥
ततः सा सुमतीर् मत्वा भवचक्रं चलाचलं ।
मत्वा च सर्वसंस्कारगतिश् चापि विघातिनीः ॥ र्म्_33.228{28} ॥
सर्वक्लेशगणान् हित्वा जित्वा मारगणान् अपि ।
साक्षाद् अर्हत्पदं प्राप्य बभूव ब्रह्मचारिणी ॥ र्म्_33.229{29} ॥
ततः साकाशसादृश्या निर्विकल्पा निरंजना ।
वासिचंदनकल्पांशा परिशुद्धत्रिमंडला ॥ र्म्_33.230{30} ॥
संसारलाभसत्कारनिःस्पृहा सर्वदेहिनां ।
स देवासुरलोकानां वंद्या पूज्याभवत् सती ॥ र्म्_33.231{31} ॥
ततः स भगवाञ् छास्ता सर्वज्ञो ऽर्हन् मुनीश्वरः ।
सर्वान्स् तां श्रावकां भिक्षून् समामंत्र्यैवम् आदिशत् ॥ र्म्_33.232{32} ॥
एषाग्रा भिक्षवः सर्वभिक्षूणीनां ममाश्रमे ।
अभिज्ञाप्रतिभाणसत्प्रज्ञानां यद् इयं सुधीः ॥ र्म्_33.233{33} ॥
क्षेमाख्या भिक्षुणी सत्यवादिनी ब्रह्मचारिणी ।
सत्य् अद्वयपरिज्ञाता संबोधिपदगामिनी ॥ र्म्_33.234{34} ॥
इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते सांघिका अपि ।
विस्मितास् तं मुनिं नत्वा पप्रछुस् तत् पुराकृतं ॥ र्म्_33.235{35} ॥
भगवन्न् अनया कर्म किं पुरा सुकृतं कृतं ।
येनेयं भद्रिका क्षेमा प्रज्ञावती महर्द्धिका ॥ र्म्_33.236{36} ॥
महाप्रज्ञावतीनां च सर्वासाम् अपि सद्धियां ।
महर्द्धिप्रतिभाणानाम् अग्रा निर्दिश्यते त्वया ॥ र्म्_33.237{37} ॥
तद् इमे सांघिकाः सर्वे श्रोतुम् इछंति सांप्रतं ।
तत् सर्वं समुपादिश्य सर्वाल् लोकान् प्रबोधय ॥ र्म्_33.238{38} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।

सर्वान्स् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ र्म्_33.239{39} ॥
शृणुत भिक्षवः सर्वे पुरा यद् अनया कृतं ।
तद् अहं संप्रवक्ष्यामि सर्वलोकाभिबोधने ॥ र्म्_33.240{40} ॥
पुराभूत् काश्यपो नाम तथागतो मुनीश्वरः ।
सर्वज्ञो ऽर्हञ् जगच्छास्ता सुगतो धर्माधिपो जिनः ॥ र्म्_33.241{41} ॥
वाराणस्याम् उपारण्ये मृगदावे जिनाश्रमे ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ र्म्_33.242{42} ॥
तच् छासने तदा श्रेष्ठिदुहिता शरणं गता ।
प्रव्रज्याव्रतम् आदाय प्रचचार समाहिता ॥ र्म्_33.243{43} ॥
सा तत्र शासने बौद्धे ददौ दानं समादरात् ।
द्वादशाब्द सहस्राणि ब्रह्मचर्यं चचार च ॥ र्म्_33.244{44} ॥
न केस्मिं विगुणे ऽभ्यासं चकार सा निरुद्यमा ।
केवलं संवरं धृत्वा त्रिरत्नं सर्वदाभजत् ॥ र्म्_33.245{45} ॥
तस्यायाभूद् उपाध्याया भिक्षुणी ब्रह्मचारिणी ।
सा काश्यपेन निर्दिष्टा प्रज्ञावतीगणाग्रगा ॥ र्म्_33.246{46} ॥
तत् समाकर्ण्य सा साध्वी भिक्षुणी चानुमोदिता ।
मनसैवं समाधाय प्रणिधानं व्यधान् मुदा ॥ र्म्_33.247{47} ॥
यथायम् उत्तरो विप्रो व्याकृतस् तेन तायिना ।
कलौ शाक्यमुनिर् नाम तथागतो भवेद् इटि ॥ र्म्_33.248{48} ॥
तदा तस्य मुनीन्द्रस्य शासने शरणं गता ।
प्रव्रज्यासंवरं धृत्वा चरेयं ब्रह्मचारिकां ॥ र्म्_33.249{49} ॥
अहम् अपि तया तत्र प्रज्ञावतीगणाधिपा ।
भवेय हि यथापीयम् उपाध्याया ममाधुना ॥ र्म्_33.250{50} ॥
सदैतत्प्रणिधानेन चरंति सा शुभाशया ।
त्रिरत्नस्मरणं कृत्वा समये मरणं ययौ ॥ र्म्_33.251{51} ॥
यासौ श्रेष्ठिसुता ह्य् एषा क्षेमा राजसुताधुना ।
यान्मेति भिक्षवो यूयं मन्यध्वं व्रतम् एव हि ॥ र्म्_33.252{52} ॥
यत् तदा प्रकृतं दानं काश्यपशासने ऽनया ।
एतद्धर्मविपाकेन भवतीयं नृपात्मजा ॥ र्म्_33.253{53} ॥
यच् चापि ह्य् अनया तत्र ब्रह्मचर्यं सुपालितं ।
एतत्पुण्यैर् इहार्हन्ती भवतीयं किला ऽधुना ॥ र्म्_33.254{54} ॥
यद्यापि ह्य् अनया तत्र प्रणिधानं कृतं यथा ।
तथेयं भवति ह्य् अत्र प्रज्ञावतीगणाधिपा ॥ र्म्_33.255{55} ॥
एवं हि यत् कृतं येन तेनैव भुज्यते फलं ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ र्म्_33.256{56} ॥
नाग्निभिर् दह्यते कर्म क्लिद्यते नोदकैर् अपि ।
वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ र्म्_33.257{57} ॥
न प्रणश्यंति कर्माणि जन्मकल्पशतैर् अपि ।
सामाग्रीं प्राप्य काले हि फलन्ति प्राणिनां खलु ॥ र्म्_33.258{58} ॥
अन्यथापि भवेन् नैव कृतकर्मफलं क्वचित् ।

कृष्णकर्मविपाके हि दुःखतैव सदा भवे ॥ र्म्_33.259{59} ॥
शुभकर्मविपाके तु सुखतैव सदा भवेत् ।
मिश्रितकर्मपाकेन मिश्रितता सदैव हि ॥ र्म्_33.260{60} ॥
यथैव यत् कृतं कर्म तथैव तत् फलं ध्रुवं ।
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ॥ र्म्_33.261{61} ॥
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ र्म्_33.262{62} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_33.263{63} ॥
एतन् मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वं चाप्य् एवं महाराज चर नित्यं शुभे सदा ॥ र्म्_33.264{64} ॥
प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ र्म्_33.265{65} ॥
तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
क्रमाद् बोधिं च संप्राप्य संबुद्धपदम् आप्नुयाः ॥ र्म्_33.266{66} ॥
इति तेनार्हतादिष्टं श्रुत्वा ऽशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_33.267{67} ॥
क्षेमावदानं मनुजा इदं ये शृण्वंति चापि निशामयन्ति ।
ते सर्व एवं सततं सुखानि भुक्त्वा प्रयान्त्य् एव जिनालयन् ते ॥ र्म्_33.268{68} ॥
++ इति रत्नावदानतत्वे क्षेमावदानं समाप्तम् ++
xxxइव् आरामिकावदान
अथाशोको महीपालः कृताञ्जलिः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_34.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुञ् च मे ऽर्हति ॥ र्म्_34.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ।
तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ र्म्_34.3{3} ॥
शृणु साधु महाराज यथा मे गुरुणोदितं ।
तथात्राहं प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ र्म्_34.4{4} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतो शास्ता धर्मराजस् तथागतः ॥ र्म्_34.5{5} ॥
श्रावकैर् भिक्षुभिः सार्द्धं भिक्षुणीभिर् उपासकैः ।
उपासिकागणैश् चापि चैलकैश् चापि तीर्थिकं ॥ र्म्_34.6{6} ॥
बोधिसत्वैर् महासत्वैः सर्वसत्वहितंकरं ।
ऋषिभिर् योगिभिश् चापि यतिभिर् ब्रह्मचारिभिः ॥ र्म्_34.7{7} ॥
श्रावस्त्या बहिर् उद्याने जेतारण्ये जिनाश्रमे ।
विहारे व्यहरल् लोकहितार्थं धर्मम् आदिशन् ॥ र्म्_34.8{8} ॥
तत् सद्धर्मामृतं पातुं सर्वे सत्वाः प्रमोदिताः ।
शक्रब्रह्मादयो देवाः सर्वलोकाधिपा अपि ॥ र्म्_34.9{9} ॥
नगेन्द्रा असुरेन्द्राश् च यक्षगंधर्वकिन्नराः ।
सिद्धा विद्याधराः साध्या गरुडा राक्षसा अपि ॥ र्म्_34.10{10} ॥

ब्राह्मणाः क्षत्रिया भूपा राजपुत्राश् च मंत्रिणः ।
अमात्याः श्रेष्ठिनः पौर गृहाधिपा महाजनाः ॥ र्म्_34.11{11} ॥
वणिजः सार्थवाहाश् च शिल्पिनो ऽपि शुभार्थिनः ।
ग्राम्या जानपदाश् चान्यलोकाः कार्पटिकादयः ॥ र्म्_34.12{12} ॥
सर्वे ते समुपाश्रित्य विहारे तं मुनीश्वरं ।
दृष्ट्वा साञ्जलयो नत्वा मुदिताः समुन्पाविशन् ॥ र्म्_34.13{13} ॥
तत्र सर्वे ऽपि ते नाथं तम् अभ्यर्च्य यथाक्रमं ।
त्रिधा प्रदक्षिणीकृत्य प्रणत्वा समुपाश्रयन् ॥ र्म्_34.14{14} ॥
तदा तान् समुपासीनां दृष्ट्वा स भगवाञ् जिनः ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_34.15{15} ॥
तत् सद्धर्मामृतं पीत्व सर्वे ब्रह्मादयो ऽपि ते ।
लोकाः सत्यम् इति मत्वा प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_34.16{16} ॥
तस्मिन्न् अवसरे कश्चित्ऽसौ ऽथ आरमिकः सुधीः ।
दन्तकाष्ठं समादाय श्रावस्त्यां समुपाविशत् ॥ र्म्_34.17{17} ॥
तत्र नैमित्तिको द्वारे ऽवस्थितस् तम् आगतं ।
दृष्ट्वा तद् दन्तकाष्ठं च समालोक्यैवम् उपागमत् ॥ र्म्_34.18{18} ॥
वतैतद् दन्तकाष्ठं यो भक्षयिष्यति मानवः ।
नूनम् णतरणं भोग्यं प्रभोक्ष्यति स भाग्यवान् ॥ र्म्_34.19{19} ॥
एतत् तेनोदितं श्रुत्वा स आरमिक उन्मुखः ।
तत्रैव क्षणम् आश्रित्य मनसैवं व्यचिन्तयत् ॥ र्म्_34.20{20} ॥
कस्माय् एतद् अहं दद्यां संमानो येन मे भवेत् ।
एवं ध्यात्वा पुनस् तत्र मनसैवं व्यचिन्तयत् ॥ र्म्_34.21{21} ॥
यद् अयं भगवान् बुद्धः सर्वत्रैधातुकाधिपः ।
जगच्छास्ता जगन्नाथो धर्मराजो मुनीश्वरः ॥ र्म्_34.22{22} ॥
यद् अस्मै दीयते किञ्चिद् अपि तत् फलम् उत्तमं ।
अप्रमेयम् असंख्येयं महत्ख्यातं श्रुतं मया ॥ र्म्_34.23{23} ॥
तद् अस्मै धर्मराजाय बुद्धाय सर्वतायिने ।
जगच्छास्त्रे मुनीन्द्राय दद्यां काष्ठम् इदं न्व् अहं ॥ र्म्_34.24{24} ॥
इति ध्यात्वा विनिश्चित्य स आरमिक आदरात् ।
दन्तकाष्ठं तद् आदाय जेतोद्याने उपाचरत् ॥ र्म्_34.25{25} ॥
तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतं ।
विहारे स प्रसन्नास्याः प्रविष्टः समुपाचरत् ॥ र्म्_34.26{26} ॥
तत्र तस्य मुनीन्द्रस्य दन्तकाष्ठं तद् आदरात् ।
उपस्थाप्य प्रणत्वा स सांजलिर् एवम् अब्रवीत् ॥ र्म्_34.27{27} ॥
भगवन् नाथ सर्वज्ञ ममानुग्रहकारणात् ।
दन्तकाष्ठम् इमं शास्ता भवान् आदातुम् अर्हति ॥ र्म्_34.28{28} ॥
एवं संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
दृष्ट्वा तत् काष्ठम् आदाय तस्याग्रतो व्यसृजत ॥ र्म्_34.29{29} ॥
तदा तत् काष्ठम् आदाय स उद्यानपालको मुदा ।
तत्रैव सौगतारामे निखन्य निदधे भुवि ॥ र्म्_34.30{30} ॥

तत्र निहितमात्रं तत् काष्ठं मूलप्रतिष्ठितं ।
महच्छाखाहरित्पत्रपुष्पफलसमृद्धितः ॥ र्म्_34.31{31} ॥
तत्क्षणेन महान् वृक्षो न्यग्रोधः परिमण्डलः ।
सर्वसत्वमनोहारी महामेघ इवाभवत् ॥ र्म्_34.32{32} ॥
तत्र स भगवान् गत्वा तच्छायां समुपाश्रयन् ।
सभामध्यासनासीनः सद्धार्मं समुपादिशत् ॥ र्म्_34.33{33} ॥
एतद् अद्भुतम् आलोक्य सर्वे लोकाः सविस्मयाः ।
तत् सद्धर्मामृतं पीत्वा प्राभ्यनन्दन् प्रमोदिताः ॥ र्म्_34.34{34} ॥
तदा तत्र महात्मा स गृहीशो ऽनाथपिण्डदः ।
समागत्य मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ र्म्_34.35{35} ॥
भगवन्न् अहम् अद्येह भगवन्तं ससांघिकं ।
पूजयितुं समिछामि तन् ममानुग्रहं कुरु ॥ र्म्_34.36{36} ॥
इति तत् प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तथेति तं समालोक्य तूष्णीं भूत्वाध्युवास तत् ॥ र्म्_34.37{37} ॥
तद् अधिवासितं शास्त्र मत्वा सो ऽनाथपिण्डदः ।
तत्रासनानि प्रज्ञप्य तत् सामग्रीं समानयत् ॥ र्म्_34.38{38} ॥
तदा स भगवान्स् तत्र ससांघिकः समुत्थितः ।
तद् दत्तं पाद्यम् आदाय स्वस्वासने समाश्रयत् ॥ र्म्_34.39{39} ॥
तत्रासनसमासीनं तं मुनीन्द्रं ससांघिकं ।
दृष्ट्वा स मुदितः श्रेष्ठी यथाक्रमं समर्चयेत् ॥ र्म्_34.40{40} ॥
ततः शतरसै भोज्यैः सुप्रणीतैः स दीनभृत् ।
संबुद्धप्रमुखं सर्वसंघं तं समतर्पयत् ॥ र्म्_34.41{41} ॥
ततः स श्रीघनं सर्वसंघं च परितुष्टितं ।
मत्वा पनीयपात्राणि तद् धस्तादीं व्यशोधयत् ॥ र्म्_34.42{42} ॥
ततः क्रमुकताम्बूलगणौषधीरसायनं ।
दत्वा स सांजलिर् नत्वा ससंघं तम् उपाश्रयत् ॥ र्म्_34.43{43} ॥
ततः स भगवान् दृष्ट्वा तं गृहस्थम् उपस्थितं ।
आदिमध्याम्टकल्याणं साशिषं धर्मम् आदिशत् ॥ र्म्_34.44{44} ॥
तद् दृष्ट्व समहोत्साहम् आरमिकः स मोहितः ।
नैमित्तिकसमाख्यातं सत्यं मत्वाभ्यनंदत ॥ र्म्_34.45{45} ॥
ततः स सुप्रसन्नात्मा आरामिकः प्रमोदितः ।
समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरत् ॥ र्म्_34.46{46} ॥
तत्र तस्य मुनीन्द्रस्य पादयोः स कृताञ्जलिः ।
प्रणत्वा मनसा बोधिप्रणिधानं व्यधान् मुदा ॥ र्म्_34.47{47} ॥
यद् अस्मै धर्मराजाय जगच्छास्त्रै जगद्भुते ।
मयात्र श्रद्धया दत्तकाष्ठमात्रं समर्प्पितं ॥ र्म्_34.48{48} ॥
एतत्पुण्यविपाकेन चरित्वाहं शुभे सदा ।
प्रत्येकां बोधिम् आसाद्य निर्वृतिपदम् आप्नुयां ॥ र्म्_34.49{49} ॥
इति तेन सुचित्तेन प्रणिधानम् कृतं सदा ।
मत्वा स भगवान् स्मितं विससर्ज सरश्मिकं ॥ र्म्_34.50{50} ॥

ततस् ते रश्मयः सर्वा मुनिमुखाब्जनिःसृताः ।
नाना वर्णाः समन्तेषु भुवनेषु स भासयन् ॥ र्म्_34.51{51} ॥
ये चाधो भुवने याताः सर्वत्र नरकेषु ते ।
अवभास्य सुखीकृत्य नारकीयान् प्रचेरिरे ॥ र्म्_34.52{52} ॥
तद्रश्मिसंपरिस्पृष्टाः सर्वे ते नरकस्थिताः ।
निर्दुःखाः सुखसंपन्ना विस्मिता एवम् ऊचिरे ॥ र्म्_34.53{53} ॥
अहो चित्रं कथं दुःखं प्रस्रब्धं जायते सुखं ।
इतश् च्युताः कुहान्यत्र संप्राप्ताः सांप्रतं वयं ॥ र्म्_34.54{54} ॥
इति संदिग्धचित्तानां तेषां नरकवासिनां ।
बोधार्थं निर्मितं बुद्धं भगवान् व्यसृजत् तदा ॥ र्म्_34.55{55} ॥
तन् निर्मितं मुनिं दृष्ट्वा सर्वे ते नरकस्थितिताः ।
महच्चित्रसमाक्रान्तहृदयाश् चैवम् ऊशिरे ॥ र्म्_34.56{56} ॥
नैवान्यत्र गता सर्वे इहैव संस्थिता वयं ।
किन्त्व् अयं पुरुषो ऽपूर्वदर्शनः समुपागतः ॥ र्म्_34.57{57} ॥
नूनम् अयं महासत्त्वः समीक्ष्यास्मान् सुदुःखिनः ।
कृपया चोदितः सर्वान् समुद्धर्त्तुम् इहागतः ॥ र्म्_34.58{58} ॥
तद् अस्य पुरुषस्यात्र सर्वैर् अस्माभिर् आदरात् ।
श्रद्धया शरणं गत्वा कर्त्तव्यं भजनं मुदा ॥ र्म्_34.59{59} ॥
इति संभाष्य ते सर्वे नारकीया प्रसादिताः ।
तस्य निर्मितबुद्धस्य प्राभजञ् छरणं गताः ॥ र्म्_34.60{60} ॥
तदैतद्भजनोत्पन्नैः पुण्यैस् ते नरकोत्थिताः ।
निर्मुक्तपातकाः सर्वे शुद्धकाया दिवं ययुः ॥ र्म्_34.61{61} ॥
एवं ते रश्मयः सर्वे सर्वान्स् तान् निरयाशृतान् ।
अवभास्य समुद्धृत्य प्रत्याययुर् मुनेः पुरः ॥ र्म्_34.62{62} ॥
एवम् उर्द्धगता ये च रश्मयस् ते प्रसारिताः ।
अवभास्य दिशः सर्वाः संप्रसुस्रुः सुरालयान् ॥ र्म्_34.63{63} ॥
सर्वान् देवालयांश् चैवम् अवभास्य समन्ततः ।
गत्वाकनिष्ठपर्यन्तं सर्वान् देवान् अचोदयन् ॥ र्म्_34.64{64} ॥
अनित्यं खलु संसारं दुःखशून्यम् अनात्मकं ।
पुण्यम् एव जगत्सारं मत्वा तच् चिनुतादरात् ॥ र्म्_34.65{65} ॥
निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने ।
मारसैन्यान् विनिर्जित्य चरध्वं संवरे सदा ॥ र्म्_34.66{66} ॥
यो ऽप्रमत्तो मुनीन्द्रस्य शासने संचरिष्यते ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_34.67{67} ॥
इत्य् उद्घोषैः सुरान् सर्वाञ् चोदयित्वा समन्ततः ।
सर्वे ते रश्मयस् तत्र पुरः प्रत्याययुर् मुनेः ॥ र्म्_34.68{68} ॥
तत्र ते रश्मयः सर्वे ऽप्य् एकीभूताश् च पिण्डिताः ।
मुनिं प्रदक्षिणीकृत्य तद् ऊर्णायां समाविशन् ॥ र्म्_34.69{69} ॥
तद् दृष्ट्वा सभासीनाः सर्वे लोकाः सविस्मयाः ।
किं शास्तेहादिशेद् धर्मम् इत्य् एवं समचिन्तयत् ॥ र्म्_34.70{70} ॥

अथानंदः समुत्थाय कृतांजलिः सविस्मयः ।
भगवन्तं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ र्म्_34.71{71} ॥
नाहेतुप्रत्ययं शास्तर् हसन्ति सुगताः क्वचित् ।
तत् किम् अर्थञ् जगन्नाथ भवान् हसति सांप्रतं ॥ र्म्_34.72{72} ॥
यद् भवतः स्मितं दृष्ट्वा सर्वे इमे सभाजनाः ।
विस्मयसमुपाक्रान्तचित्तास् तिष्ठन्ति सर्ववित् ॥ र्म्_34.73{73} ॥
तद् यद् अर्थे भवान् स्मितं मुंचति तज् जगद्गुरो ।
समुपादिश्य सर्वेषां संशयं छेतुम् अर्हति ॥ र्म्_34.74{74} ॥
इत्य् आनन्दोदितं श्रुत्वा भगवान् मुनीश्वरः ।
तम् आनन्दं सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_34.75{75} ॥
एवम् एतत् तथानंद यथाख्यातं त्वया किल ।
नाहेतुप्रत्ययं बुद्धा मुञ्चंति हि स्मितं क्व चित् ॥ र्म्_34.76{76} ॥
यदर्थे ऽहम् इहानन्द स्मितं मुञ्चामि सांप्रतं ।
तत् सत्यं संप्रवक्ष्यामि शृणुत यूयम् आदरात् ॥ र्म्_34.77{77} ॥
यद् अयं श्रद्धयानन्द सुधीर् उद्यानपालकः ।
दन्तकाष्ठम् उपस्थाप्य सत्कारं कुरुते मम ॥ र्म्_34.78{78} ॥
एतत्पुण्यविपाकेन कल्पान्य् अपि त्रयोदश ।
विनिपातम् अयं क्वापि गमिष्यति कदा चन ॥ र्म्_34.79{79} ॥
सर्वदायं महासत्वः सद्धर्मसाधनोद्यतः ।
सद्गुणी सुखसंभोक्ता बोधिसत्वो भविष्यति ॥ र्म्_34.80{80} ॥
ततो ऽन्ते ऽयं महाभिज्ञः परिशुद्धत्रिमण्डलः ।
प्रत्येकं बोधिम् आसाद्य प्रत्येकसुगतो जिनः ॥ र्म्_34.81{81} ॥
विमलो नाम सत्वानां हितकरी शुभंकरः ।
ब्रह्मचारी विशुद्धात्मा लोकनाथो भविष्यति ॥ र्म्_34.82{82} ॥
एवम् आनंद विज्ञाय संबुद्धशासने क्वचित् ।
किञ्चिद् वापि प्रदातव्यं तत् फलं स्यान् महत्तरं ॥ र्म्_34.83{83} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिकादयः ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_34.84{84} ॥
सो ऽपि चारामिकः श्रुत्वा व्याकृतं सुगतेन तत् ।
त्रिरत्नभजनं कर्तुं समैछन् मुदितः सदा ॥ र्म्_34.85{85} ॥
तच् छ्रुत्वा स महादाता गृहस्थो ऽनाथपिण्डदः ।
साञ्जलिस् तं जिनं नत्वा मुदितः स्वगृहं ययौ ॥ र्म्_34.86{86} ॥
ततः स भगवांच् छास्ता समुत्थाय ससांघिकः ।
स्वासनसमुपासीनस् तस्थौ ध्यानसमाहितः ॥ र्म्_34.87{87} ॥
ततः आरमिकः सो ऽपि सर्वादा संप्रमोदितः ।
त्रिरत्नभजनं कुर्वन् प्राचरत् समुपस्थितः ॥ र्म्_34.88{88} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वयाप्य् एवं महाराज भज रत्नत्रयं सदा ॥ र्म्_34.89{89} ॥
लोकाश् चापि तथा राजं बोधयित्वा प्रयत्नतः ।
त्रिरत्नभजनोत्साहे योजनीयास् त्वया सदा ॥ र्म्_34.90{90} ॥

तेन ते मङ्गलं नित्यं सर्वत्रापि भवेत् सदा ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_34.91{91} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_34.92{92} ॥
आरमिकस्येदम् इहावदानं शृण्वन्ति ये ये च निशामयन्ति ।
ते सर्वम् एवं शुभसत्सुखानि भुक्त्वा प्रयआस्यन्ति जिनालयन् ते ॥ र्म्_34.93{93} ॥
++ इति रत्नावदानतत्वे आरमिकावदानं समाप्तम् ++
xxxव् शोभितावदान
अथाशोको महाराजः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयेच् चैवम् आदरात् ॥ र्म्_35.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथाख्यातुं च मे ऽर्हति ॥ र्म्_35.2{2} ॥
इति संप्रार्थितं तेन श्रुत्वा सो ऽर्हं सुधीर् यतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवम् अब्रवीत् ॥ र्म्_35.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुभाषितं ।
तथात्र हि प्रवक्ष्यामि तव चित्ताभिबोधने ॥ र्म्_35.4{4} ॥
तद्यथा भगवाच् छास्ता शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञो ऽर्हञ् जगन्नाथो धर्मराजस् तथागतः ॥ र्म्_35.5{5} ॥
संबुद्धः स तथा तत्र पुरे कपिलवस्तुनि ।
न्यग्रोधरुचिरारामे विजहार ससांघिकः ॥ र्म्_35.6{6} ॥
तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि ।
शाक्य आसीन् महासाधुः श्रीमान् यक्षाधिपोपमः ॥ र्म्_35.7{7} ॥
सर्वलोकप्रधानाख्यः सर्वद्रव्यसमृद्धिमान् ।
तस्य भार्या सुरूपाख्या सुंदरी रतिसंनिभा ॥ र्म्_35.8{8} ॥
सुभाविनी रमा कान्ता स्वकुलधर्मचारिणी ।
तया सह समारक्तः स श्रीमान् परिचारयन् ॥ र्म्_35.9{9} ॥
यथाकामं सुखं भुक्त्वा रराम संप्रमोदितः ।
ततः स्वापन्नसत्वाभूत् सा सुरूपा प्रगर्भिता ।
क्रमाद् वृद्धोदरा पाण्डुवर्णा स्वल्पाशिनी कृशा ॥ र्म्_35.10{10} ॥
ततः सा समये सूत दारकं दिव्यसुंदरं ।
दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरं ॥ र्म्_35.11{11} ॥
तस्य जन्मन्य् अनेकानि महाश्चर्यकराण्य् अपि ।
प्रादुर्भूतानि तैः सर्वं नगरं परिशोभितं ॥ र्म्_35.12{12} ॥
तम् अभिशोभितं जातम् श्रुत्वा स जनको मुदा ।
सहसोपेत्य संपश्यन्स् तस्थौ चित्रान्विताशयः ॥ र्म्_35.13{13} ॥
ततः स मुदितो ज्ञातीन् आहूय सह वांधवैः ।
कृत्व जातिमहं तस्य नामा हि ख्यातुम् अब्रवीत् ॥ र्म्_35.14{14} ॥
भवन्तो ज्ञातयः सर्वे दृष्ट्वास्य लक्षणं यथा ।
तथा नामप्रसिद्धेन व्यवस्थापितुम् अर्हथ ॥ र्म्_35.15{15} ॥
इति तेनोदितैः श्रुत्वा सर्वे ते ज्ञातयस् तथा ।

तस्य निमित्तम् आलोक्य तं शाक्यम् एवम् अब्रुवन् ॥ र्म्_35.16{16} ॥
साधो यज् जायते आत्माभैः शोभयति पुरं ततः ।
शोभित इति नामास्य भवतु प्रथितं भुवि ॥ र्म्_35.17{17} ॥
इति तै ज्ञातिभिः सर्वे समाख्यातं निशम्य सः ।
तथा तेनाभिधानेन प्राख्यापयत् तम् आत्मजं ॥ र्म्_35.18{18} ॥
ततः शोभितो ऽष्टाभिर् धात्रीभिः प्रातिपालितः ।
परिपुष्टो ऽभिवृद्धो ऽभू ह्रदारुहाम्बुजं यथा ॥ र्म्_35.19{19} ॥
यदा सो दारकः प्रौढः कुमारत्वम् अवाप्तवान् ।
तदा पित्रा स विद्यार्थी गुरुहस्ते समर्प्पितः ॥ र्म्_35.20{20} ॥
ततः स गुरुणा शास्त्रा क्रमाल् लिपिर् अशिष्यते ।
तथाभिशिष्यमाणः स सर्वविद्यान्तम् आययौ ॥ र्म्_35.21{21} ॥
ततः स शोभितो धीमान् सर्वविद्यां विचक्सणः ।
तीर्थिकवादसंरक्तो विरक्तो ऽभूद् गृहाश्रमे ॥ र्म्_35.22{22} ॥
सदा स तीर्थिकारामे गत्वा स तीर्थिकैः सह ।
शास्त्रसंचोदनोत्साहै रेमे जयन् प्रवादिनः ॥ र्म्_35.23{23} ॥
तस्मिंश् च समये तत्र न्यग्रोधरुचिराश्रमं ।
स भगवान् सभासीनो धर्मम् आदेष्टुम् आरभत् ॥ र्म्_35.24{24} ॥
तदा ते भिक्षवः सर्वे भिक्षुण्यो ऽपि समागताः ।
व्रतिनश् चैलकाश् चान्ये उपासका उपासिकाः ॥ र्म्_35.25{25} ॥
बोधिसत्वा महासत्वास् तथान्ये श्रावका अपि ।
तत् सद्धर्मामृतं पातुं सर्वे ते समुपाचरन् ॥ र्म्_35.26{26} ॥
तत्र तं श्रीघनं नत्वा परिवृत्य समंततः ।
पुरस्कृत्य समालोक्य सर्वे ते उपतस्थिरे ॥ र्म्_35.27{27} ॥
तदान्ये ऽपि समायाता ब्रह्मशक्रादयः सुराः ।
चत्वारो लोकपालाश् च सर्वे लोकाधिपा अपि ॥ र्म्_35.28{28} ॥
सिद्धा विद्याधराश् चापि यक्षगंधर्वकिन्नराः ।
रक्षसा गरुडा नागास् तथान्ये ऽपि महर्द्धिकाः ॥ र्म्_35.29{29} ॥
यतयो योगिनश् चापि निर्ग्रन्थास् तीर्थिका अपि ।
ऋषयो ब्राह्मणाश् चापि तापसा ब्रह्मचारिणः ॥ र्म्_35.30{30} ॥
राजानः क्षत्रिया वैश्या अमात्या मंत्रिणो जनाः ।
श्रेष्ठिनो धनिनः पौराः सार्थवाहा महाजनाः ॥ र्म्_35.31{31} ॥
वणिजः शिल्पिनश् चापि तथान्यदेशवाशिनः ।
ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ र्म्_35.32{32} ॥
सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ।
यथाक्रमं समभ्यर्च्य नत्वा कृत्वा प्रदक्षिणां ॥ र्म्_35.33{33} ॥
सांजलयः पुनर् नत्वा परिवृत्या समंततः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_35.34{34} ॥
ततः स शोभितश् चापि तच् छ्रुत्वा कौटुकान्वितः ।
तत्र तां पर्षदं द्रष्टुं सहसा समुपाचरत् ॥ र्म्_35.35{35} ॥
तत्र स सहसोपेत्य प्राद्रक्षीत् तं मुनीश्वरं ।

सर्वलोकसभामध्यसमासीनं प्रभास्वरं ॥ र्म्_35.36{36} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितं ।
व्यामप्रभासमुद्भासं शतसूर्याधिकप्रभं ।
सौम्यं शान्तेन्द्रियं कान्तं समंतभद्ररूपिकं ।
दृष्ट्वा स सुप्रसन्नात्मा नत्वा कृत्वा प्रदक्षिणां ॥ र्म्_35.37{37} ॥
तद्धर्मदेशनां श्रोतुं तत्रैकान्ते उपाश्रयत् ।
तदा स भगवान् दृष्ट्वा तां सर्वां समुपस्थितान् ॥ र्म्_35.38{38} ॥
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ।
तदार्यधर्मम् आकर्ण्य सर्वे ते स सुरादयः ॥ र्म्_35.39{39} ॥
लोका धर्मविशेषत्वम् आज्ञाय प्रतिबोधिताः ।
बोधिचित्तं समाधाय त्रिरत्नभजनोद्यताः ॥ र्म्_35.40{40} ॥
सर्वसत्वहितार्थेन बभूवुर् बोधिचारिणः ।
तदा स शोभितश् चापि श्रुत्वार्यसत्यम् उत्तमं ॥ र्म्_35.41{41} ॥
प्रबोधितः प्रसन्नात्मा संसारविरतो भवान् ।
सत्कायदृष्टिभूमीन्ध्रं विंसतिशिखरोद्गमं ॥ र्म्_35.42{42} ॥
हित्वा ज्ञानासिना श्रोतआपत्तिफलम् आप्तवान् ॥ र्म्_35.43{43} ॥
दृष्टसत्यो विशुद्धात्मा सद्धर्मगुणलालसः ।
संबुद्धपदसंप्राप्त्यै प्रव्रजितुं समैछत ॥ र्म्_35.44{44} ॥
ततः स समुपाश्रित्य कृतांजलिपुरोगतः ।
तं मुनीन्द्रं जगन्नाथं स्वैवं प्रार्थयन् मुदा ॥ र्म्_35.45{45} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं गतः ।
प्रव्रजितुं समिछामि तत्कृपया प्रसीदतु ॥ र्म्_35.46{46} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
शोभितं तं समालोक्य समामंत्र्यैवम् आदिशत् ॥ र्म्_35.47{47} ॥
यदि त्वं शासने बौद्धे प्रव्रजितुं समिछसि ।
पितुर् आज्ञां समासाद्य प्रेहि दास्यामि ते व्रतं ॥ र्म्_35.48{48} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स शोभितो मुदा ।
पादौ तस्य मुनेर् नत्वा सहसा निर्ययौ ततः ॥ र्म्_35.49{49} ॥
तत्र स स्वगृहे गत्वा पादौ नत्वा पुरः स्थितः ।
पित्रोर् एतत् समाख्याय प्रार्थयद् एवम् आदरात् ॥ र्म्_35.50{50} ॥
ताताहम् अद्य गछामि न्यग्रोधरुचिरे वने ।
तत्र तं श्रीघनं बुद्धं पश्यामि पर्षदाश्रितं ॥ र्म्_35.51{51} ॥
धन्यास् ते श्रावकाः सर्वे भिक्षवो भद्रिकाशिकाः ।
शांतेंद्रियाः समाचारा अर्हन्तो ब्रह्मचारिणः ॥ र्म्_35.52{52} ॥
तेषाम् एव हि संसारे साफल्यं जन्म मानुषे ।
ये भजन्ति मुनीन्द्रस्य शासने शरणं गताः ॥ र्म्_35.53{53} ॥
तेषां चैवं सुसारं स्यान् संसारे भवचारणे ।
ये सद्धर्मं मुनीन्द्रस्य श्रुत्वा चरंति संवरं ॥ र्म्_35.54{54} ॥
तेषां चापि भवे सारं जन्मद्रव्यगुणार्जनं ।
सत्कारैः सांघिके सेवां कृत्वा चरन्ति ये व्रतं ॥ र्म्_35.55{55} ॥

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc