रत्नमालावदान · भाग 301320
त्रिकाये वीर्यम् उत्थाप्य चरन्तु बुद्धशासने ॥ र्म्_30.80{82} ॥
किं कायेन विना धर्मं वाचापि किं विना गुणं ।
मनसो किं विना वीर्य्यं किं वीर्यं संवरं विना ॥ र्म्_30.81{83} ॥
यथा पुष्पं तथा देहं यथा पक्वफलं तनुः ।
क्षणाच् च्युत्वायते भुमौ तथा किं शोभते तनुः ॥ र्म्_30.82{84} ॥
कुम्भकारकृतं यद्वन् मृन्मयं मामभाजनं ।
तद्वद् देहं क्षणध्वंसि मत्वा चरन्तु संवरं ॥ र्म्_30.83{85} ॥
कदलीस्तम्भसंकाशं निस्सारं भेदनो सहं ।
मत्वा देहं समुत्थाय चरन्तु सौगतं वृसं ॥ र्म्_30.84{86} ॥
फेनपिण्डोपमं कायं निर्गुणं क्षणभंगुरं ।
मत्वा वीर्यमहोत्साहं धृत्वा चरंतु संवरं ॥ र्म्_30.85{87} ॥
आयुर्देहे स्थिरं नैव तृणं पत्रगताम्बुवत् ।
मत्वा संबोधिसंप्राप्त्यै चरन्तु सौगतं व्रतं ॥ र्म्_30.86{88} ॥
ये सौगतव्रतं धृत्वा चरंति बोधिलब्धये ।
दुर्गतिं न गछंति गछंति सद्गतिं सदा ॥ र्म्_30.87{89} ॥
तस्माद् इछंति ये भद्रं संसारे बोधिसाधनं ।
ते त्रिरत्नं सदा भक्त्या भजंतु शरणं गताः ॥ र्म्_30.88{90} ॥
त्रिरत्नभजनोत्पन्नं पुण्यं न क्षिणुते क्वचित् ।
एतत्पुण्यबलेनैव जीयते सर्वपातकं ॥ र्म्_30.89{91} ॥
पुण्यम् एव जगन्मित्रं पाप एव जगद्रिपुः ।
तत् पुण्यमित्रम् आराध्य जयंतु पापकं रिपुं ॥ र्म्_30.90{92} ॥
पुण्यवान् पुरुषः श्रेष्ठः सर्वत्र जगते सदा ।
यथाभिलषितं सौख्यं भुक्त्वा यांति सुखावतिं ॥ र्म्_30.91{93} ॥
इत्य् एवं भगवान् आह श्रुत्वा ते सर्वसांघिकाः ।
सत्यम् इति परिबुद्ध्वा प्रचेरुः सौगतं व्रतं ॥ र्म्_30.92{94} ॥
एतन् मे गुरुणाख्यातं तथा तत्र मयोच्यते ।
त्वयाप्य् एवं महाराज चरितव्यं शुभे वृषे ॥ र्म्_30.93{95} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
शुभे धर्मे प्रतिष्ठाप्य पालनीयाः सदादरात् ॥ र्म्_30.94{96} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेत् सदा ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_30.95{97} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्य् उक्त्वा प्रणत्वा च प्राभ्यनदत् सपार्षदः ॥ र्म्_30.96{98} ॥
अनित्यतासूत्रम् इदं सुभाष्यं शृण्वन्ति ये चापि नराः प्रसन्नाः ।
सुखानि भुक्त्वा शुभधर्मरक्ताः सम्यांति चान्ते सुगतालये ते ॥ र्म्_30.97{99} ॥
++ इति श्रीरत्नावदानतत्वे ऽनित्यतासूत्रं परिसमाप्तम् ++
xxxइ प्रेतीभूतावदान
अथाशोको महीपालः कृतांजलिः पुरःस्थितः ।
उपगुप्तं तम् आनम्य मुदैवं पुनर् अब्रवीत् ॥ र्म्_31.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_31.2{2} ॥
इति संप्रार्थिते राज्ञा स यतीशः प्रसन्नधीः ।
तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ र्म्_31.3{3} ॥
शृणु साधु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ र्म्_31.4{4} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजस् तथागतः ॥ र्म्_31.5{5} ॥
पुरैकसमये तत्र श्रावस्त्या बहिर् आश्रमे ।
जेतवने महोद्याने विहारे मणिमंडिते ॥ र्म्_31.6{6} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ र्म्_31.7{7} ॥
तत्र ते भिक्षवो ऽर्हन्तः सांघिकाश् चैलका अपि ।
बोधिसत्वा महासत्वाः सर्वसत्वहितार्थिनः ॥ र्म्_31.8{8} ॥
भिक्षुण्यः शुद्धशीलाश् च व्रतिनश् च शुभाशयाः ।
त्रिरत्नसेवकाः श्राद्धा उपासका उपासिकाः ॥ र्म्_31.9{9} ॥
सर्वे ऽपि सांघिकास् तत्र सद्धर्मं श्रोतुम् आगताः ।
क्रमात् तं श्रीघनं नत्वा कृत्वा त्रिधा प्रदक्षिणां ॥ र्म्_31.10{10} ॥
तत् सभायां क्रमेणैव पुरस्कृत्य समंततः ।
कृतांजलिपुटो दृष्ट्वा समुपतस्थुर् आदरात् ॥ र्म्_31.11{11} ॥
तदा तत्र सुरेंद्राश् च सशक्रोजमहेश्वरः ।
सर्वे ऽपि लोकपालाश् च ससैन्यबलवाहनः ॥ र्म्_31.12{12} ॥
असुरेन्द्राः ससैन्याश् च यक्षगंधर्वकिंनराः ।
राक्षसा गरुडा नागाः सिद्धा विद्याधरादयः ॥ र्म्_31.13{13} ॥
एवम् अन्ये ऽपि लोकाश् च ब्राह्मणाश् च महर्षयः ।
यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः ॥ र्म्_31.14{14} ॥
राजानः क्षत्रियाश् चापि नृपो राजकुमारकाः ।
वैश्याश् च मंत्रिणः श्रेष्ठा अमात्याश् च महाजनाः ॥ र्म्_31.15{15} ॥
सेनान्यः सबलाश् चापि गृहस्थाः पौरिका जनाः ।
वणिजः सार्थवाहाश् च धनिनः शिल्पिनो ऽपि च ॥ र्म्_31.16{16} ॥
अन्ये जानपदाश् चापि ग्राम्याः कार्पटिका अपि ।
एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवांछिनः ॥ र्म्_31.17{17} ॥
सर्वे तत्र समायाता दृष्ट्वा तं श्रीघनं मुनिं ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य क्रमान् मुदा ॥ र्म्_31.18{18} ॥
ततः सर्वे ऽपि ते नत्वा पुरस्कृत्य समंततः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_31.19{19} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
बोधिचर्यां समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_31.20{20} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
संबोधिसाधनोत्साहं लब्ध्वा संमुमुदुर् भृशं ॥ र्म्_31.21{21} ॥
तस्मिंश् च समये तत्र श्रावस्त्ये यो गृहाधिपः ।
आढ्यो महाधनः श्राद्धः श्रीमाञ्च् छ्रीदोपमः कृती ॥ र्म्_31.22{22} ॥
स तदा तत्र संबुद्धं श्रीघनं तं मुनीश्वरं ।
द्रष्टुं जेताश्रमे रम्ये विहारे समुपाचरत् ॥ र्म्_31.23{23} ॥
तत्र सभासमासीनं श्रीघनं तं मुनीश्वरं ।
दृष्ट्वा स मुदितः श्रेष्ठी प्रणत्वा समुपाचरत् ॥ र्म्_31.24{24} ॥
तत्र प्रदक्षिणीकृत्वा प्रणत्वा सांजलिर् मुदा ।
तत् सद्धर्मामृतं पातुं पुरतः समुपाश्रयत् ॥ र्म्_31.25{25} ॥
तं दृष्ट्वा समुपासीनं भगवान् स मुनीश्वरः ।
मत्वा तस्याशयं शुद्धम् आर्यसत्यम् उपादिशत् ॥ र्म्_31.26{26} ॥
तदार्यसत्यम् आकर्ण्य स श्रेष्ठी प्रतिबोधितः ।
संसारविरतस् तत्र प्रव्रजितुं समैछत ॥ र्म्_31.27{27} ॥
तत्र स सुप्रसन्नात्मा श्रेष्ठी मुदा समुत्थितः ।
सांजलिस् तं मुनिं नत्वा प्रव्रज्यां समयाचत ॥ र्म्_31.28{28} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत् प्रव्रज्यां व्रतं मह्यं कृपया दातुम् अर्हति ॥ र्म्_31.29{29} ॥
इति संप्रार्थिते तेन दृष्ट्वा स भगवान् मुनिः ।
तस्याशयं विशुद्धत्वं समालोक्यैवम् आदिशत् ॥ र्म्_31.30{30} ॥
यदि श्राद्धास्ति ते वत्स सौगतशासने व्रते ।
एहि चर समाधाय ब्रह्मचर्यं व्रतोत्तमं ॥ र्म्_31.31{31} ॥
इत्य् उक्त्वा स जगच्छास्ता सव्यहस्तेन तच् छिरः ।
संस्पृष्ट्वा शासने बौद्धे श्रेष्ठिनं तं समग्रहीत् ॥ र्म्_31.32{32} ॥
तत्र प्रव्रजितस् तेन मुनीन्द्रेण स मुण्डितः ।
खिक्खिरीपात्रधृग् भिक्षु रराज चीवरावृतः ॥ र्म्_31.33{33} ॥
ततः स भिक्षुर् आत्मज्ञो लाभी लोकाभिपूजितः ।
आगृहीतपरिष्कारा लब्धद्रव्यं समाचिनोत् ॥ र्म्_31.34{34} ॥
तल्लब्धं संचितं द्रव्यं स सह ब्रह्मचारिभिः ।
संविभागं गुरोः किंचिद् अप्य् अकरोत् कदा चन ॥ र्म्_31.35{35} ॥
तथा स मत्सराक्रान्तहृदयो दुरिताशयः ।
स्वयम् एव प्रभुंजानः किंचिन् नैव ददौ क्वचित् ॥ र्म्_31.36{36} ॥
ततः स समये कालधर्मयुक्तो रुजातुरः ।
तद् द्रव्यसंचयं स्मृत्वा नितः प्रेतालयं ययौ ॥ र्म्_31.37{37} ॥
प्रेतीभूतो ऽपि स स्मृत्वा तद् द्रव्यसंचयं पुनः ।
स्वकोष्ठालय आगत्य तस्थौ स्वासन आश्रयन् ॥ र्म्_31.38{38} ॥
ततस् ते भिक्षवः सर्वे तत्कोष्ठे तं मृतकं यतिं ।
दृष्ट्वा गण्डीं पराहत्य संस्कार्तुं विधि चार्चयन् ॥ र्म्_31.39{39} ॥
ततो नीत्वा बहिर्देशे संस्कृत्य वह्निनापितं ।
ततः प्रत्यागताः सर्वे तत् कोष्ठद्वारम् आययुः ॥ र्म्_31.40{40} ॥
ततस् तल् लयनद्वारं विमुच्य पात्रचीवरं ।
प्रत्यवेक्सितुम् आलब्धास् तं प्रेतं समपश्यत ॥ र्म्_31.41{41} ॥
तं प्रेतं विकृतं पात्रं धृतं चीवरप्रावृतं ।
दृष्ट्वा ते भिक्षवः सर्वे समुद्विग्ना विचेरिरे ॥ र्म्_31.42{42} ॥
ततस् ते भिक्षवः सर्वे भगवतः पुरोगताः ।
एतत् सर्वप्रवृत्तांतं प्रणत्वा संन्यवेदयत् ॥ र्म्_31.43{43} ॥
तच् छ्रुत्वा भगवांस् तस्य प्रेतस्यानुग्रहार्थतः ।
स लोकोद्वेजनार्थं च तद् देशं समुपाचरत् ॥ र्म्_31.44{44} ॥
तत्रासौ प्रेत आरात् तं भगवंतम् उपागतं ।
द्वात्रिंसल्लक्षणाशीतिव्यंजनप्रतिमण्डितं ॥ र्म्_31.45{45} ॥
शतसूर्य्याधिकोद्भासं व्यामाभासम् अलंकृतं ।
रत्नांगम् इव भद्रांशं ददर्श श्रीघनं मुनिं ॥ र्म्_31.46{46} ॥
तत्र स प्रेत आलोक्य लज्जाविभेदिताशयः ।
प्ररुदन् सांजलिर् नत्वा तस्थौ प्रसादिताशयः ॥ र्म्_31.47{47} ॥
ततः स भगवान् दृष्ट्वा तं प्रेतं संप्रसादितं ।
ब्रह्मगम्भीरनिर्घोषवचसा पर्यभाषत ॥ र्म्_31.48{48} ॥
भद्रमुख त्वयैवैतद् आत्मवधाय दुर्धिया ।
पात्रचीवरम् आधाय चरितं संवरं वृथा ॥ र्म्_31.49{49} ॥
येनापायसमुत्पन्नः प्रेतीभूतो दुराकृतिः ।
किम् इदानीं रुदित्वात्र स्वकृतं परिभुक्तवान् ॥ र्म्_31.50{50} ॥
साध्व् अत्र सांप्रतं चित्तं प्रसादय ममान्तिके ।
अस्माच् चापि परिष्कारद्रव्याच् चित्तं विरागय ॥ र्म्_31.51{51} ॥
मा हैवेतः पुनः कालं कृत्वा यास्यसि नैरये ।
तत् संघे शरणं गच्छ तेन त्वं सद्गतिं व्रजे ॥ र्म्_31.52{52} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स प्रेत उत्थितः ।
स पात्रचीवरं द्रव्यं संघेभ्यो निरयातयत् ॥ र्म्_31.53{53} ॥
ततः संघान् प्रणत्वैव भगवत्पादयो पुरे ।
निपत्य स्वकृतं पापं दिदेश सांजलिर् मुदा ॥ र्म्_31.54{54} ॥
भगवन् नाथ सर्वज्ञ यत् पापं प्रकृतं मया ।
मात्सर्याक्रान्तचित्तेन महामूढेन दुर्धिया ॥ र्म्_31.55{55} ॥
तत् सर्वं सांप्रतं शास्तर् दर्शयामि भवत्पुरः ।
तत् क्षमस्वापराधं मे प्रसीदतु भवान् गुरुः ॥ र्म्_31.56{56} ॥
इति संप्रार्थिते तेन भगवान् स कृपान्वितः ।
तत् प्रेतं सुदृशालोक्य समपश्यच् चिरं मुदा ॥ र्म्_31.57{57} ॥
ततश् च भगवांस् तस्य तदुपायविमुक्तये ।
सद्गतिप्रेरणार्थेन दक्षिणाम् एवम् आदिशत् ॥ र्म्_31.58{58} ॥
एतद्दानाद् धि यत् पुण्यं तत् पुण्यं त्वम् अवाप्नुयाः ।
उत्तिष्ठ क्षिप्रम् एतस्मात् प्रेतलोकात् सुदारुणात् ॥ र्म्_31.59{59} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा प्रेतः स मोदितः ।
तथेति प्रतिनंदित्वा नत्वानुमोदितो ऽभवत् ॥ र्म्_31.60{60} ॥
ततः स भगवांस् तस्य प्रेतस्य शुभसाधनं ।
सद्धर्मं समुपादिश्य ससंघः स्वाश्रये यथा ॥ र्म्_31.61{61} ॥
तथा स प्रेत आकर्ण्य सद्धर्मं तज् जिनोदितं ।
त्रिरत्नशरणं कृत्वा भेजे नित्यं प्रबोधितः ॥ र्म्_31.62{62} ॥
ततः काले समाघ्रातः च प्रेतो ज्वरदाहितः ।
त्रिरत्नस्मरणं कृत्वा मृतो ययौ यमालयं ॥ र्म्_31.63{63} ॥
ततः प्रेतः स सत्पुण्यैस् त्रिरत्नस्मरणोद्भवं ।
यमेन प्रेरितस् तस्मात् प्रेतमहर्द्धिके यायौ ॥ र्म्_31.64{64} ॥
तत्रापि स समुत्पन्ने विस्मितस् तं मुनीश्वरं ।
स्मृत्वा नित्यं सदा भेजे श्रद्धया शरणं गतः ॥ र्म्_31.65{65} ॥
ततः सो चिन्तयेद् एवं कुतः कुत्राहम् आगतः ।
केन पुण्यानुभावेन महत्सौख्यं लभे न्व् इति ॥ र्म्_31.66{66} ॥
इति चिंताहते तस्य चित्तपुण्यानुभावतः ।
त्रिरत्नस्मरणात् पुण्याद् इति मेने स पुण्यभाक् ॥ र्म्_31.67{67} ॥
ततश् चासौ परिज्ञाय त्रिरत्नभजनोत्सुकः ।
संबुद्धदर्शनं कर्त्तुं मनसैवं व्यचिंतयत् ॥ र्म्_31.68{68} ॥
अहो मया सुखं लब्धं तत् संबुद्धप्रसादतः ।
तद् इदानिं मुनींद्रं तं द्रष्टुम् अर्हामि सर्वथा ॥ र्म्_31.69{69} ॥
इत्य् एवं मनसा ध्यात्वा सो ऽपि प्रेतमहर्द्धिकः ।
स्नात्व शुद्धाम्वरो दिव्यरत्नालंकारभूषितः ॥ र्म्_31.70{70} ॥
पंचगंधविलिप्तांगं परिशुद्धाशयः शुचिः ।
पूजापंचोपहाराणि धृत्वा जेताश्रमे ऽसरत् ॥ र्म्_31.71{71} ॥
तत्र जेताश्रमे भाभिर् अवभास्य समंततः ।
विहारे श्रीघनं द्रष्टुं मुदितः समुदाचरत् ॥ र्म्_31.72{72} ॥
तत्र तं श्रीघनं दृष्ट्वानंदितः स कृतांजलिः ।
नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरत् ॥ र्म्_31.73{73} ॥
ततस् तं सुगतं नाथं समभ्यर्च्य प्रमोदितः ।
नत्वा स सांजलिर् धर्मं श्रोतुम् एकांत आश्रयत् ॥ र्म्_31.74{74} ॥
ततः स भगवांस् तस्य दृष्ट्वा चित्तं विशोधितं ।
बोधिचर्यां समारभ्य सद्धर्मम् एवम् आदिशत् ॥ र्म्_31.75{75} ॥
शृणु साधो ऽत्र संसारे सुखदुःखार्थकारणं ।
वक्ष्याम्य् एतत् परिज्ञाय समाधाय शुभे चर ॥ र्म्_31.76{76} ॥
यः पुमान् अत्र संसारे सत्सौख्यं सर्वदेछति ।
स आदौ श्रद्धया भक्त्या त्रिरत्नशरणं गतः ॥ र्म्_31.77{77} ॥
सर्वसत्वहितार्थेन दानं दद्याद् यथेप्सितं ।
एतत्पुण्यविपाकं संबोधौ मे परिणामयेत् ॥ र्म्_31.78{78} ॥
इत्थं कृतं प्रदानं यत् तद् विपाके महत् फलं ।
क्रमाद् वृद्धितरं यायान् न क्षिणुयात् कदा चन ॥ र्म्_31.79{79} ॥
एतत् पुण्यपरीतात्मा चक्रवर्त्ती नराधिपः ।
शास्ता धर्माधिपो राजा बोधिसत्वः सुधीर् भवेत् ॥ र्म्_31.80{80} ॥
तदापि स महादाता सर्वसत्वहितेछया ।
त्रिरत्नभजणं कृत्वा दद्याद् दानं यथेप्सितं ॥ र्म्_31.81{81} ॥
एतत्पुण्यविपाकेन स विशुद्धाशयः सुधीः ।
सुशीलसंवरं धृत्वा त्रिरत्नं सर्वदा भजन् ॥ र्म्_31.82{82} ॥
एतत्पुण्यविपाकेन स भवेत् त्रिदशाधिपः ।
तत्रापि श्रद्धया नित्यं त्रिरत्नं सर्वदा भजन् ॥ र्म्_31.83{83} ॥
सर्वसत्वहितार्थेन शीलपारमिता चरन् ।
तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ र्म्_31.84{84} ॥
एतत्पुण्यविपाकेन स सुयामाधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ र्म्_31.85{85} ॥
सर्वसत्वहितार्थेन क्षांतिपारमिता चरन् ।
संबोधिपदलाभाय तत्पुण्यं परिणामयेत् ॥ र्म्_31.86{86} ॥
एतत्पुण्यविपाकेन स भवेत् तुषिताधिपः ।
तत्रापि श्रद्धया नित्यं त्रिरत्नशरणं गतः ॥ र्म्_31.87{87} ॥
सर्वसत्वहितार्थेन वीर्य्यपारमितोद्यतः ।
संबोधिपदसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ र्म्_31.88{81!} ॥
एतत्पुण्यविपाकैः स निर्माणरतियो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतत् ॥ र्म्_31.89{82} ॥
सर्वसत्वहितार्थेन ध्यानपारमितारतः ।
संबोधिज्ञानसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ र्म्_31.90{83} ॥
एतत्पुण्यविपाकैः स वशवर्तीश्वरो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनो रतः ॥ र्म्_31.91{84} ॥
सर्वसत्वहितार्थेन प्रज्ञापारमितारतः ।
तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ र्म्_31.92{85} ॥
एतत्पुण्यविपाकेन स ब्रह्माधिपतिर् भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नारागणोद्यतः ॥ र्म्_31.93{86} ॥
सर्वसत्वहितार्थाय समुपायविधानधृक् ।
तत्पुण्यं बोधिसंप्राप्त्यै चेतसा परिणामयेत् ॥ र्म्_31.94{87} ॥
एतत्पुण्यविपाकेन महाब्रह्माधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नाराधनोद्यतः ॥ र्म्_31.95{88} ॥
सर्वसत्वहितार्थाय प्रणिधानसमाहितः ।
तत्पुण्यं बोधिसंप्राप्त्यै सर्वथा परिणामयेत् ॥ र्म्_31.96{89} ॥
एतत्पुण्यविपाकेन स महेशाधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ र्म्_31.97{90} ॥
सर्वसत्वहितार्थेन बलपारमितोद्यतः ।
तत्पुण्यं बोधिसंप्राप्त्यै प्रध्यानं परिणामयेत् ॥ र्म्_31.98{91} ॥
एतत्पुण्यविपाकेन बोधिसत्वाधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नसंप्रसादितः ॥ र्म्_31.99{92} ॥
सर्वसत्वहितार्थस्य ज्ञानपारमितारतः ।
तत्पुण्यैर् बोधिसंप्राप्तो धर्मराजो जिनो भवेत् ॥ र्म्_31.100{93} ॥
ततः स सुगतः शास्ता जगन्नाथो विनायकः ।
सर्वज्ञो ऽर्हन् महाभिज्ञस् तथागतो मुनीश्वरः ॥ र्म्_31.101{94} ॥
ततो मारगणाञ् जित्वा बोधिचर्यां प्रकाशयन् ।
सर्वसत्वाञ् छुभे स्थाप्य निर्वृतः सौगतिं व्रजेत् ॥ र्म्_31.102{95} ॥
एवं मत्वात्र संसारे य इछति शिवां गतिं ।
स एवं श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ र्म्_31.103{96} ॥
सर्वसत्वहितार्थेन करोतु दानम् आदरात् ।
ततः क्रमात् स तत्पुण्यैः सर्वाः पारमिता अपि ॥ र्म्_31.104{97} ॥
परिपूर्य महाभिज्ञा प्राप्तो बोधिम् अवाप्नुयात् ।
इति मत्वा शुभे नित्यं चरितव्यं शुभार्थिभिः ॥ र्म्_31.105{98} ॥
शुभेन सद्गतिं याया पापेन दुर्गतीं व्रजेत् ।
पापस् तु जायते लोभात् मात्सर्यमलिनाश्रयात् ॥ र्म्_31.106{99} ॥
वोपकारां सुखेछो ऽपि न किं चित् सुखम् आप्नुयात् ।
सर्वदा दुर्मतिर् दुष्टो दुर्गतिनिरयाश्रयः ॥ र्म्_31.107{100} ॥
सद्धर्म्मनिन्दको मूढो पापकर्मरतो भवेत् ।
तस्मात् मात्सर्य्यम् उत्सृज्य सर्वसत्वहितार्थभृत् ।
संबोधिप्रणिधिं कृत्वा चरेन् नित्यं सुसंवरे ॥ र्म्_31.108{1} ॥
एतत्पुण्यविपाकेन संसारसुखभाक् सदा ।
त्रिरत्नभजनोत्साही बोधिचर्यारतो भवेत् ॥ र्म्_31.109{2} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं ।
शिवां बोधिं समासाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_31.110{3} ॥
एवं त्वं वा परिज्ञाय त्रिरत्नशरणं गतः ।
बोधिचित्तं समाधाय चर नित्यं सुसंवरे ॥ र्म्_31.111{4} ॥
तथा ते सर्वदा भद्रं भवेन् नित्यं समन्ततः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_31.112{5} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधितः ।
तथेति हि प्रतिश्रुत्वा प्राभ्यनंदत् प्रसादितः ॥ र्म्_31.113{6} ॥
ततः स तं जगन्नाथं प्रणत्वा सांजलिर् मुदा ।
त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा स्वालये ऽचरत् ॥ र्म्_31.114{7} ॥
तत्र प्राप्तः प्रसन्नात्मा सो ऽपि प्रेतमहर्द्धिकः ।
त्रिरत्नं शरणं कृत्वा प्रचरन् सर्वदा मुदा ॥ र्म्_31.115{8} ॥
तद् रात्रौ तत्प्रभां दृष्ट्वा भिक्षवो विस्मयान्विताः ।
सर्वे ते प्रातर् उत्थाय नत्वापृछन् मुनीश्वरं ॥ र्म्_31.116{9} ॥
भगवन् नाथ सर्वज्ञ को ऽद्य रात्राव् इहागतः ।
एतद् वृत्तं समाख्याय सर्वान् नः परिबोधय ॥ र्म्_31.117{10} ॥
इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् सर्वान् सांघिकान् दृष्ट्वा बोधयितुम् उपादिशत् ॥ र्म्_31.118{11} ॥
शृणुत भिक्षवः सर्वे यो ऽद्य रात्राव् इहागतः ।
एतत् सर्वं प्रवृत्तांतं प्रवक्ष्यामि सुविस्तरं ॥ र्म्_31.119{12} ॥
यो ऽसौ श्रेष्ठी महाश्राद्धः सौगते शासने मुदा ।
श्रद्धया प्रव्रजित्वात्र ब्रह्मचर्यं मुदा चरन् ॥ र्म्_31.120{13} ॥
प्रव्रजितः स मात्सर्यपरिभूतो दुराशयः ।
लब्धद्रव्यं न कस्मै चिद् ददौ किञ्चित् कदा चन ॥ र्म्_31.121{14} ॥
केवलं संचयं कृत्वा कोष्ठागारे निधाय तत् ।
गुप्तीकृत्वा प्रयत्नेन व्यभजन् नैव किं चन ॥ र्म्_31.122{15} ॥
ततः काले समाघ्राते ध्यात्वा तद् द्रव्यसंचयं ।
मृतः प्रेतालयोत्पन्नः प्रेतोद्भवद् भयानकः ॥ र्म्_31.123{16} ॥
तद् द्रव्यसंचयं स्मृत्वा मात्सर्याकुलिताशयः ।
पुनः प्रत्यागतस् तत्र स्वालये संन्यषीदत ॥ र्म्_31.124{17} ॥
तत्र तं संस्थितं प्रेतं दृष्ट्वाहं समुपाचरन् ।
आर्यधर्मम् उपादिश्य प्राबोधयं प्रसादयन् ॥ र्म्_31.125{18} ॥
ततः स सुप्रसन्नात्मा ससंघस्य ममांतिके ।
स पात्रचीवरं सर्वं तद्द्रव्यं निरयातयत् ॥ र्म्_31.126{19} ॥
एतत्पुण्यानुभावेन त्रिरत्नशरणं गतः ।
काले ततः परिच्युत्वा प्रेतमहर्द्धिको ऽभवत् ॥ र्म्_31.127{20} ॥
तत्र स सुप्रसन्नात्मा स्मृत्वा रत्नत्रयं मुदा ।
मत्सद्धर्मामृतं पातुम् इह रात्रौ समागतः ॥ र्म्_31.128{21} ॥
स सद्धर्मामृतं पीत्वा ममान्तिके प्रसादितः ।
संबोधिसाधनोत्साही मुदितः स्वालये ऽचरत् ॥ र्म्_31.129{22} ॥
यो ऽयं श्रेष्ठी न चान्यो हि रात्राव् इह समागतः ।
यत् स मृतो ऽभवत् प्रेतस् मात्सर्यदुरिताश्रयात् ॥ र्म्_31.130{23} ॥
तस्मात् मात्सर्यम् उद्धृत्य त्यजन्तु शुभवांछिनः ।
मात्सर्यं हि त्रिलोकेषु पापमूलं निगद्यते ॥ र्म्_31.131{24} ॥
एवं मत्वात्र संसारे दुःखाकरं सुखांतकं ।
मात्सर्यं सुमदुष्टं रिपुं जयत सर्वथा ॥ र्म्_31.132{25} ॥
मात्सर्यं जीयते यैर् हि समुद्धृत्य स्वमानसात् ।
ते एव मानिनो वीराः शूराः प्राज्ञा विचक्षणाः ॥ र्म्_31.133{26} ॥
ये च जेतुं न मात्सर्यं शक्नुवंति कथं चन ।
किं ते शूरा विजेतारो विरा न क्लेशभोजिनः ॥ र्म्_31.134{27} ॥
येषां न जायते चित्ते मात्सर्यन् दुःकृताकरं ।
ते एव सुखिनो विरा जयिनः क्लेशघातकाः ॥ र्म्_31.135{28} ॥
यावन् न जीयते चित्ते मात्सर्यं दुरिताशयं ।
तावत् किं ते सुवीरा वा क्षणात् क्लेशानुचारिणः ॥ र्म्_31.136{29} ॥
ये च क्लेशवशा वीरा न ते धीरा विचक्षणाः ।
क्षणात् किं चिन् निमित्तेति चरेयुर् विकृताशयाः ॥ र्म्_31.137{30} ॥
ततस् ते क्लेशसंतप्ता मूढा रागाग्निदाहिताः ।
दुष्टाः क्रोधाग्निसंदग्धाः संपश्येयुर् न किं चन ॥ र्म्_31.138{31} ॥
ततस् ते ऽन्धा इवालोके चरेयुर् न च सत्पथे ।
कुमार्ग एव संरक्ताः प्रचरेयुः प्रमादिताः ॥ र्म्_31.139{32} ॥
ततो दुर्जनसंरक्ता मारचर्यानुचारिणः ।
असन्मित्रोपदेशेन प्रचरेयुर् मृषादृशः ॥ र्म्_31.140{33} ॥
ततः सद्धर्मनिन्दां कृत्वा दानादि संचरे ।
विघ्नं कर्तुं समुद्योगं कुर्युर् नित्यं समाहिताः ॥ र्म्_31.141{34} ॥
ततस् ते पापिनो दुष्टा उन्मत्ता इव तायिनः ।
स्वयं नष्टाः परांश् चापि नाशयेयुः प्रवंचकाः ॥ र्म्_31.142{35} ॥
ततस् ते क्लेशसंतप्ता महोपायानुरागिणः ।
सुघोराणि पापानि कुर्यात्तिः शंकिताशयाः ॥ र्म्_31.143{36} ॥
ततो भक्षम् अपीछंतं भुक्त्वागम्ये ऽपि संरताः ।
विपरीतसमाचाराः प्रचारेयुर् विरोधिताः ॥ र्म्_31.144{37} ॥
ततस् ते पातकालीढा महादुःखाभिघातिताः ।
तीव्रातिवेदनाघ्राता मृता यायुर् यमालयं ॥ र्म्_31.145{38} ॥
तत्र यमो महाराजा दृष्ट्वा तं दुरिताशयं ।
सहसा कर्मशासिभ्यः समर्प्य संप्रचोदयन् ॥ र्म्_31.146{39} ॥
तत्र तैर् यमदूतास् तां गृहीत्वा सहसा बलात् ।
यथा कर्मानुसारेण शासयेयुर् यथाविधिं ॥ र्म्_31.147{40} ॥
तत्र ते दैवभोग्यां भुक्त्वा भोक्तुं समंततः ।
चोदिता यमदूतैश् च भ्रमेयुर् नरकेष्व् अपि ॥ र्म्_31.148{41} ॥
तत्र ते दैवभोग्यानि भुक्त्वातितीव्रदुःखिताः ।
असह्यवेदनाक्रांता निषीदेयुः प्रखेटिताः ॥ र्म्_31.149{42} ॥
एवं ते दैवभोग्यां भुक्त्वा तथा चिरं सदा ।
नरकान् नरके गत्वा दुःखान्य् एवाश्नुयु वभ ॥ र्म्_31.150{43} ॥
यदा ते दैवयोगान्ते तीव्रातिवेदनाहताः ।
त्रिरत्नसंस्मृतिं कृत्वा प्रणमेयुः समानताः ॥ र्म्_31.151{44} ॥
तदा तान् सुगतान् दृष्ट्वा कृपया संप्रचोदिताः ।
दृक्प्रभाभिः समुद्धृत्य प्रेषयेयुः सुरालये ॥ र्म्_31.152{45} ॥
तत्र ते सुखसंपन्नाः स्मृत्वा रत्नत्रयं मुदा ।
सर्वदा शरणं कृत्वा प्रचरेयुः समाहिताः ॥ र्म्_31.153{46} ॥
तथैतत्पुण्यपाकेन संबुद्धशासने गताः ।
श्रद्धया सत्कृतिं कृत्वा शृणुयुर् धर्मम् आदरात् ॥ र्म्_31.154{47} ॥
तत् सद्धर्मामृतास्वादं लब्ध्वा ते परिमोदिताः ।
बोधिचित्तं समासाद्य प्रकुर्यु दानम् आदरात् ॥ र्म्_31.155{48} ॥
ततस् तत्पुण्यपाकेन सुशीलाः संवरोद्यताः ।
सर्वसत्वहितं कृत्वा साधयेयुः शुभां चरिं ॥ र्म्_31.156{49} ॥
ततो वीर्यबलेनैव जित्वा क्लेशगणान् रिपून् ।
ततस् ते विमलात्मानो ध्यात्वा योगसमाहिताः ॥ र्म्_31.157{50} ॥
प्रज्ञाब्धिपारम् आसाद्य ज्ञानरत्नम् अवाप्नुयुः ।
ततो मारगणां जित्वा परिशुद्धास् त्रिमण्डलाः ॥ र्म्_31.158{51} ॥
सम्यक्षंबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_31.159{52} ॥
एवं मत्वात्र संसारे मात्सर्यं मूलम् एनसां ।
बोधिचित्तासिनोछित्वा चरितव्यं शुभे सदा ॥ र्म्_31.160{53} ॥
ततो वो मंगलं नित्यं भवेद् भवे समंततः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्स्यथ ॥ र्म्_31.161{54} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका मुदा ।
सर्वे ऽपि प्रतिबुद्धित्वा प्राभ्यनंदन् प्रसादिताः ॥ र्म्_31.162{55} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
एवं त्वं नृप मात्सर्य्यं त्यक्त्वा चर शुभे सदा ॥ र्म्_31.163{56} ॥
प्रजाश् चापि त्वया राजन् बोधयित्वा प्रयत्नतः ।
बोधिचर्याशयाः कृत्वा प्रतिष्ठाप्याः शुभे सदा ॥ र्म्_31.164{57} ॥
एवं ते सर्वदा भद्रं भवेद् भवे समंततः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_31.165{58} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_31.166{89!} ॥
प्रेतीभूतावदानं दुरितहृतमतैः श्रेष्ठिनो लोभिनो ये शृण्वंति श्रवयंति प्रमुदितमनसः श्रद्धयेदं मनुष्याः ।
मात्सर्यं ते विहाय त्रिमणिशरणगाः सर्वसत्वानुरागा दानं दत्वा प्रसन्नाः सततशुभचरा यान्ति बुद्धालयं ते ॥ र्म्_31.167{60} ॥
++ इति श्रीरत्नावदानतत्वे प्रेतीभूतावदानं समाप्तम् ++
xxxइइ विरूपावदान
अथाशोको महराजः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयेच् चैवम् आदरात् ॥ र्म्_32.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_32.2{2} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ र्म्_32.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ र्म्_32.4{4} ॥
तद् यथैवं पुरैकस्मिन् समये स मुनीश्वरः ।
भगवां त्रिजगच्छास्ता धर्मराजस् तथागतः ॥ र्म्_32.5{5} ॥
सर्वज्ञः साक्यसिंहो ऽर्हं छ्राव्स्त्या बहिर् आश्रमे ।
जेतोद्याने विहारे ऽस्मिन् विजहार ससांघिकः ॥ र्म्_32.6{6} ॥
तदा तत्र सभामध्ये सिंहासने सुमंडिते ।
सर्वसत्वहितार्थेन धर्मम् आदेष्टुम् आश्रयत् ॥ र्म्_32.7{7} ॥
तत्र ते भिक्षवः सर्वे भिक्षुण्यो ऽपि समागताः ।
यतिनश् चैलकाश् चैवम् उपासका उपासिकाः ॥ र्म्_32.8{8} ॥
व्रतिनो बोधिसत्वाश् च संबोधिगुणलालसाः ।
निर्ग्रन्थास् तीर्थिकाश् चापि तापसाश् च महर्षयः ॥ र्म्_32.9{9} ॥
ब्रह्मशक्रादयो देवा लोकपाला महर्द्धिकाः ।
दैत्या यक्षाश् च गंधर्वाः किन्नराश् चापि राक्षसाः ॥ र्म्_32.10{10} ॥
सिद्धा विद्याधराश् चापि नागाश् च गरुडा अपि ।
साध्या ग्रहाः सताराश् च वसवश् चाप्सरोगणाः ॥ र्म्_32.11{11} ॥
ब्राह्मणाः क्षत्रियाश् चापि नृपा राजकुमारकाः ।
वैश्याश् च मंत्रिणो ऽमात्याः श्रेष्ठिनश् च महाजनाः ॥ र्म्_32.12{12} ॥
गृहस्था वणिजः सार्थवाहाश् च धनिनो ऽपि च ।
शिल्पिनः पौरिकाश् चापि जानपदाश् च नैर्गमाः ॥ र्म्_32.13{13} ॥
ग्राम्याः कार्पटिकाश् चापि सद्धर्मश्रवणार्थिनः ।
सर्वे ते समुपागत्य विहारे समुपाविशन् ॥ र्म्_32.14{14} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे ते संप्रसादिताः ।
नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरन् ॥ र्म्_32.15{15} ॥
तत्र सर्वे ऽपि ते लोकाः समभ्यर्च्य यथाक्रमं ।
तं मुनीन्द्रं प्रणत्वैव धर्मं श्रोतुम् उपाश्रयन् ॥ र्म्_32.16{16} ॥
ततः स भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् ।
बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_32.17{17} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः ।
लोकाः सत्यम् इति ज्ञात्वा प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_32.18{18} ॥
तस्मिन्न् अवसरे तत्र श्रावस्त्याः पौरिको गृही ।
आसीन् महाधनः श्रीमाञ् छृदोपमो महाजनः ॥ र्म्_32.19{19} ॥
स स्वकुलसमारामां स्वकुलधर्मचारिणीं ।
कांतां भार्य्यां समानीय सम्यक्व्यूहे यथाविधिः ॥ र्म्_32.20{20} ॥
ततः स कामसंरक्तः सुकामिन्या तया सह ।
यथेछया सुखं भुक्त्वा रेमे नित्यं प्रचोदितः ॥ र्म्_32.21{21} ॥
ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः ।
समये सा सती भार्य गर्भिताभूत् कृशांगिका ॥ र्म्_32.22{22} ॥
ततः सा समये ऽसूत दारकं दुर्भगाकृतिं ।
दुर्वर्णं दुरिताकारं विरूपं विकृताश्रयं ॥ र्म्_32.23{23} ॥
दृष्ट्वा तं दारकं माता भिन्नाशया विषेदिताः ।
किं ईदृग् आत्मजेनापि धिग् माम् इति व्यचिंतयत् ॥ र्म्_32.24{24} ॥
ततः स जनकः श्रुत्वा तं जातं विकृताश्रयं ।
विरूपं दुर्भगाकारम् इत्य् एवं समचिंतयत् ॥ र्म्_32.25{25} ॥
अहो किं प्रकृतं पापं जन्मांतरे पुरा मया ।
येनायं दुर्भगाकारो विरूपो जायते सुतः ॥ र्म्_32.26{26} ॥
तद् अत्र किं मयोपायं कर्त्तव्यं नापि मन्यते ।
धिग् मां येन सुते जाते लज्जया मे सुखं हृतं ॥ र्म्_32.27{27} ॥
तथापि किं करिष्यामि दैवात् मे जायते ह्य् अयं ।
तद् विरूपो ऽपि पुत्रो ऽयं पालनीयो मयात्मजः ॥ र्म्_32.28{28} ॥
इति भर्त्रोदितं श्रुत्वा सा भार्य्याप्य् एवम् अब्रवीत् ।
यद् आभ्यां प्रकृतं पापं तत्फलं भुज्यते खलु ॥ र्म्_32.29{29} ॥
यद् अभावि न तद् भोग्यं भावि चेन् न तद् अन्यथा ।
सर्वत्र भाविनो भोग्यं भुंजते सर्वजंतवः ॥ र्म्_32.30{30} ॥
तद् अत्राहम् इमं बालं पालयेयं प्रयत्नतः ।
इत्य् उक्त्वा सा विभिन्नास्या नारी तस्थौ प्रलज्जिता ॥ र्म्_32.31{31} ॥
तं विरूपं सुतं जातं वीक्ष्य स जनको ऽपि च ।
लज्जाविदीर्णचित्तो ऽभून् निरुत्साहविषादितः ॥ र्म्_32.32{32} ॥
हा मया किं कृतं पापं मन्यते न भवांतरे ।
यतो ऽयं दारको जातो विरूपो दुर्भगाकृतिः ॥ र्म्_32.33{33} ॥
तथापि किं करिष्यामि दैवान् नो जायते ह्य् अयं ।
दैवभोग्यं प्रभोक्तव्यं सर्वैर् अपि हि जंतुभिः ॥ र्म्_32.34{34} ॥
अवश्यं भाविनो भवन्ति सर्वदेहिनां ।
तद् अयं स्वात्मजो बालः पालनीयोत्मया मया ॥ र्म्_32.35{35} ॥
इति ध्यात्वा पिता सो ऽथदृष्ट्वा तस्य शिशोर् मुखं ।
लज्जया प्रतिभिन्नास्यस् तस्थौ दैवानुचिन्तयन् ॥ र्म्_32.36{36} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं स च ।
पितास्य नाम विख्याते कुरुतेति समब्रवीत् ॥ र्म्_32.37{37} ॥
ततस् ते ज्ञातयः सर्वे संकृत्वा समतं तथा ।
तद् गृहस्थं समामंत्र्य पुर एवम् उपादिशन् ॥ र्म्_32.38{38} ॥
गृहपते विरूपो ऽयं पुत्रो यत् तव जायते ।
तस्माद् भवतुन् आम्नायं प्रसिद्धो बालको भुवि ॥ र्म्_32.39{39} ॥
ततः स्नेहाद् विरूपो ऽसौ मात्रा यत्नेन पालितः ।
क्रामात् पुष्टो विवृद्धाभूद् ह्रदस्थम् इव पंकजं ॥ र्म्_32.40{40} ॥
तदा यदा कुमारत्वं प्राप्तः स विकृताश्रयं ।
स्वरूपं दर्प्पणे दृष्ट्वा विरूपो लज्जितो ऽभवत् ॥ र्म्_32.41{41} ॥
ततो जेह्रीयमानो ऽसौ विरूपः परिमोहितः ।
पापचिंतापरितात्मा मनसैवं व्यचिंतयत् ॥ र्म्_32.42{42} ॥
हा मया किं कृतं पापं येनाहं दुरिताकृतिः ।
किं ममानेन कायेन मृत्युं मे ऽत्र वरं ध्रुवं ॥ र्म्_32.43{43} ॥
किं करिष्ये विरूपो ऽहं क्व यास्यामि दुराकृतिः ।
किं ममानेन जीवेन केवलं दुःखभोगिना ॥ र्म्_32.44{44} ॥
तद् अत्राहं गृहं त्यक्त्वा वनोद्याने समाश्रयन् ।
संबुद्धं सुगतं ध्यात्वा मृत्युं गच्छेय मुक्तये ॥ र्म्_32.45{45} ॥
अवश्यम् एव सर्वेषां जंतूनं मरणं भवे ।
तन् ममेदृग् विरूपो ऽस्मिन् शरीरे जीविते स्पृहा ॥ र्म्_32.46{46} ॥
यद्य् अत्राहं चिरं जीवी निन्दितो दुःखम् आप्नुयां ।
तद् बुद्धं सुगतं ध्यात्वा तिष्ठेयं प्राणमुक्तये ॥ र्म्_32.47{47} ॥
तत् संबुद्धं जिनं ध्यात्वा मृतो ऽहं यदि सांप्रतं ।
तत् पुण्यः परितात्मा सुगतिं गछेय सर्वथा ॥ र्म्_32.48{48} ॥
ये बुद्धं सुगतं स्मृत्वा गछन्ति मृत्युम् आत्मना ।
दुर्गतिं ते न गछन्ति सम्यान्त्य् एव सुखावतीं ॥ र्म्_32.49{49} ॥
तस्मात् ते सुधियः सन्तः त्यक्त्वा यायात् कुलं गृहं ।
संबुद्धस्मरणं ध्यात्वा तिष्ठन्ति निर्जने वने ॥ र्म्_32.50{50} ॥
तथाहं तत् समालोक्य संबुद्धं शरणं गतः ।
समाधाय सदा स्मृत्वा वसेयं विजने वने ॥ र्म्_32.51{51} ॥
इत्य् एवं मनसा ध्यात्वा विरूपः स प्रसन्नधीः ।
स संपदं गृहं त्यक्त्वा जीर्णोद्यानं समाश्रयत् ॥ र्म्_32.52{52} ॥
तत्रोद्याने विविक्ते स पर्णकुट्टिं समाश्रयन् ।
भगवन्तम् अनुस्मृत्वा तस्थौ ध्यानसमाहितः ॥ र्म्_32.53{53} ॥
तदा स भगवाञ् छास्ता तं तथा स्थितं ।
विशुद्धाशयम् आलोक्य समुद्धर्तुं समुद्यतः ॥ र्म्_32.54{54} ॥
ततः स भगवान् नाथो भिक्षुसंघसमन्वितः ।
तत्रोद्याने विरूपं तं पश्यन् भास्वान् उपाचरत् ॥ र्म्_32.55{55} ॥
तत्प्रभापरिस्पृष्टो ऽसौ विरूपः सत्सुखान्वितः ।
विस्मितस् तं समायातं ससांघिकम् अपश्यत ॥ र्म्_32.56{56} ॥
तं मुनींद्रं समालोक्य विरूपः स विमोहितः ।
जेह्रीयमान उत्थाय परायितुं ततो ऽचरत् ॥ र्म्_32.57{57} ॥
तत्र स भगवान् दृष्ट्वा विरूपं तं परायितं ।
सहसर्द्ध्या दिशो मार्गे निरुध्याभ्यतिष्ठत ॥ र्म्_32.58{58} ॥
तथा निरुध्यमानः स विरूपस् तेन शासिना ।
परायितुं प्रयत्नेन न शशाक कथं चन ॥ र्म्_32.59{59} ॥
स परिखिन्नात्मा विरूपो लज्जिताशयः ।
पर्णकुट्टिसमासीनंस् तस्थौ भीतो दिवान्धवत् ॥ र्म्_32.60{60} ॥
तत्र स भगवान् दृष्ट्वा निलीनं लज्जयासने ।
संनिरोधसमापत्तिं समाधिं विदधे तदा ॥ र्म्_32.61{61} ॥
ततः स भगवञ् छास्ता तत् समाधेः समुत्थितः ।
स्वयं विरूपम् आत्मानं निर्माय विकृताश्रयं ॥ र्म्_32.62{62} ॥
भोजनपूर्णम् आदाय शरावं मृन्मयं ततः ।
शनैस् तस्य विरूपस्य पर्णकुट्ट्यन्तिके ऽचरत् ॥ र्म्_32.63{63} ॥
तत्र तं समुपायातं विरूपं विकृताश्रयं ।
स विरूपः समालोक्य हर्षित एवम् अब्रवीत् ॥ र्म्_32.64{64} ॥
स्वागतं भो सहाये हि कुत्र गन्तुम् इहागतः ।
तिष्ठात्रावां सदावासे वत्स्यावहे सुखान्विता ॥ र्म्_32.65{65} ॥
इति तेनोदितं श्रुत्वा भगवान् स विरूपधृक् ।
त्वां द्रष्टुम् इहायामि प्रोक्त्वेति समुपाश्रयेत् ॥ र्म्_32.66{66} ॥
तत्र स्थितः कथां कृत्वा भगवान् स विरूपधृक् ।
ददौ तस्मै विरूपाय सुरसामृतभोजनं ॥ र्म्_32.67{67} ॥
तत् प्रदत्तं प्रभुक्त्वान्नं स विरूपः स मोदितः ।
तत्क्षणात् परिपुष्टाङ्गो बभूव प्रीणितेन्द्रियः ॥ र्म्_32.68{68} ॥
ततः स भगवाञ् छास्ता दृष्ट्वा तं संप्रमोदितं ।
स्वरूपेण स्थितस् तत्र व्यराजत् संप्रभासयन् ॥ र्म्_32.69{69} ॥
तं सौम्यभद्ररूपाङ्गं श्रीघनं शुभितेंद्रियं ।
स विरूपः समालोक्य विस्मितश् चैवम् अब्रवीत् ॥ र्म्_32.70{70} ॥
अहो कथं भवत्य् एवम् अभिरूपतरो भवान् ।
कस्य पुण्यविपाकान् तद् वक्तुम् अर्हति मे पुरः ॥ र्म्_32.71{71} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
बोधयितुं विरूपं तं समालोक्यैवम् आदिशत् ॥ र्म्_32.72{72} ॥
महाविद्यास्ति मे साधो संबोधिसाधनोत्तमा ।
चित्तप्रसादसंजातजनन्याख्या महेबलः ॥ र्म्_32.73{73} ॥
तस्या एव प्रभावेन भवाम्य् अहं शुभेंद्रियः ।
समंतभद्ररूपाङ्गः सर्वसत्वमनोहरः ॥ र्म्_32.74{74} ॥
इत्य् आदिश्य मुनीन्द्रः स भगवांस् तत्र शुभासने ।
सद्धर्मं समुपादेस्तुं समाश्रयत् प्रभासयन् ॥ र्म्_32.75{75} ॥
ततस् ते सांघिकाः सर्वे सौम्यरूपाः शुभेंद्रियाः ।
परिवृत्य मुनीन्द्रं तं पुरस्कृत्योपतस्थिरे ॥ र्म्_32.76{76} ॥
तान् सर्वान् समुपासीनान् सौम्यरूपाञ् छुभेन्द्रियान् ।
दृष्ट्वा तं सुगतं मत्वा बभूव विस्मयान्वितः ॥ र्म्_32.77{77} ॥
अहो भाग्य मया लब्धं महत्पुण्यम् इहाधुना ।
यन् ममार्थे मुनीन्द्रो ऽयं ससांघिक उपागतः ॥ र्म्_32.78{78} ॥
नूनम् अत्र मुनीन्द्रो ऽयं मत्कर्मपरिचोदितः ।
सद्धर्मं समुपादेष्टुं ससंघः कृपयागतः ॥ र्म्_32.79{79} ॥
तद् अहम् अस्य मुनीन्द्रस्य श्रद्धया शरणं गतः ।
सत्कृत्य सौगतं धर्मं श्रोतुम् अर्हे समाहितः ॥ र्म्_32.80{80} ॥
इत्य् एवं मनसा ध्यात्वा विरूपः स प्रमोदितः ।
उपेत्य सांजलिर् नत्वा तं मुनीन्द्रम् उपाश्रयत् ॥ र्म्_32.81{81} ॥
तदा तस्य विरूपस्य बुद्धपुण्यानुभावतः ।
लक्ष्मी प्रादुरभूत् तत्र दिव्यभोगप्रदायिनी ॥ र्म्_32.82{82} ॥
तदा सो ऽभूद् विरूपो ऽपि दिव्याभिरूपसुन्दरः ।
परिशुद्धत्रिकायो ऽपि सद्गुणार्थो शुभांशिकः ॥ र्म्_32.83{83} ॥
ततः सो ऽतिप्रसन्नात्मा दृष्ट्वैतत् महद् अद्भुतं ।
मुदा तस्य मुनेः पादौ ववन्दे स कृतांजलिः ॥ र्म्_32.84{84} ॥
ततः उत्थाय तं नाथं भगवंतं ससांघिकं ।
समालोक्य प्रसन्नात्मा प्रार्थयत् स समादरात् ॥ र्म्_32.85{85} ॥
भगवन् भवता शास्तः कृपादृष्टिप्रसादतः ।
प्रादुर्भूतात्र मे लक्ष्मी भवामि यातिसुंदरः ॥ र्म्_32.86{86} ॥
तद् एतन् महद् आश्चर्यं दृष्ट्वा मे रोचते मनः ।
भवतां शरणे स्थित्वा चरितुं संवरं सदा ॥ र्म्_32.87{87} ॥
तद् अत्र भगवन् नाथ कृपया बुद्धशासने ।
अन्वाहृत्य शुभे धर्मे नियोक्तुं मां समर्हति ॥ र्म्_32.88{88} ॥
श्रद्धयाहं जगन्नाथ भवतां शरणं गतः ।
प्रव्रज्य संवरं धृत्वा चरिष्ये ऽत्र समाहितः ॥ र्म्_32.89{89} ॥
इति तत् संप्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तस्य शुद्धाशयम् आलोक्य समामंत्र्यैवम् आदिशत् ॥ र्म्_32.90{90} ॥
यदि वांछास्ति ते वत्स चरितुं सौगतं व्रतं ।
पितुर् आज्ञां समासाद्य प्रागछ दास्यते तदा ॥ र्म्_32.91{91} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स प्रतिहर्षितः ।
मुदा तस्य मुनेः पादौ प्रणत्वैव ततो ऽचरत् ॥ र्म्_32.92{92} ॥
तत्र स स्वगृहे गत्वा पादौ पितुः कृतांजलिः ।
प्रणत्वा पुरतः स्थित्वा प्रावदद् एवम् आदरात् ॥ र्म्_32.93{93} ॥
ततोद्याने विरूपो ऽहम् इति लज्जाविषादितः ।
पर्णकुट्यां समासीनो ध्यत्वा वसामि योगवित् ॥ र्म्_32.94{94} ॥
तत्र स भगवान् बुद्धः ससंघः स्वयम् आगतः ।
बोधयित्वामृतं भोग्यं ददाति समुपायवित् ॥ र्म्_32.95{95} ॥
तद् दत्तम् अमृतं भुक्त्वा भवामि सुंदराकृतिः ।
लक्ष्मीश् चापि समुद्भूता ममैवं जायते शुभं ॥ र्म्_32.96{96} ॥
एतत् सर्वं मुनीन्द्रस्य कृपादृष्टिप्रसादतः ।
नान्यथा हीति विज्ञाय प्रसीद सुगते सदा ॥ र्म्_32.97{97} ॥
एवम् एतत् महच्चित्रं दृष्ट्वा मे संप्रसादितं ।
मनो ऽद्य शासने बौद्धे चरितुं रोचते व्रतं ॥ र्म्_32.98{98} ॥
एतत्संप्रार्थनां कर्तुम् इहाहं प्रागतो मुदा ।
तद् अत्र कृपया तात तद् अनुज्ञां प्रदेहि मे ॥ र्म्_32.99{99} ॥
एतत्पुण्यविभागेन त्वं चापि सुगतीं व्रजेः ।
तत्र च सर्वदा सौख्यं भुक्त्वा यायाज् जिनालयं ॥ र्म्_32.100{100} ॥
इति मत्वा प्रसीदात्र मा कुरुष्व मनो ऽन्यथा ।
श्रद्धयानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ र्म्_32.101{1} ॥
इति संप्रार्थितं श्रुत्वा स गृहस्थः सविस्मयः ।
पिता तं स्वात्मजं दृष्ट्वा सुचिराद् एवम् अब्रवीत् ॥ र्म्_32.102{2} ॥
अहो हि भाग्यवान् पुत्र पुण्यवाञ्छाभि सांप्रतं ।
यतो ऽसौ कृपयोपेत्य बुद्धत् त्वाम् अभिरक्षति ॥ र्म्_32.103{3} ॥
तत् ते ऽस्ति यदि वाञ्छति चरितुं सौगतं व्रतं ।
तं बुद्धशरणं गत्वा व्रतं चर समाहितः ॥ र्म्_32.104{4} ॥
इति पित्रोदितं श्रुत्वा स विरूपः प्रसादितः ।
पादौ पित्रोः प्रणत्वैव सहसा प्राचरद् गृहात् ॥ र्म्_32.105{5} ॥
ततो जेताश्रमे गत्वा स विरूपः प्रमोदितः ।
पादौ तस्य मुनेर् नत्वा प्रार्थयेद् एवम् आदरात् ॥ र्म्_32.106{6} ॥
भगवन् नाथ सर्वज्ञ लब्धानुज्ञः सामागताः ।
तद् भवान् कृपया मह्यं संवरं दातुम् अर्हति ॥ र्म्_32.107{7} ॥
इति संप्रार्थिते तेन भगवांस् तस्य मस्तके ।
सव्यहस्तेन संस्पृष्ट्वा शासने तं समग्रहीत् ॥ र्म्_32.108{8} ॥
तत्र स व्राजितः सास्त्रा विरूपो मुण्डितो ऽपि सः ।
खिक्खिरिपात्रभृच् चीवरप्रावृतो वभौ ॥ र्म्_32.109{9} ॥
ततः स भिक्षुर् आत्मज्ञः संयमी विजितेंद्रियः ।
मत्वा संसारसंस्कारगतीः क्षणविघातिनीः ॥ र्म्_32.110{10!} ॥
भित्वाविद्यागणान् बोधिपक्षे धर्मेषु प्रोद्यतः ॥ र्म्_32.111{10!} ॥
ततः स धारणीविद्यासमाधिनिरतो यतिः ।
सर्वक्लेशगणाञ् जित्वा साक्षाद् अर्हत्वम् आप्तवान् ॥ र्म्_32.112{11} ॥
संसारलाभसत्कारनिःस्पृहो निर्मलाशयः ।
परिशुद्धत्रिकायश् च निर्विकल्पो निरंजनः ॥ र्म्_32.113{12} ॥
स देवासुरलोकानाम् अपि त्रैधातुचारिणां ।
मान्यः पूज्यो ऽभिवन्द्यो ऽभूद् ब्रह्मचरी स योगवित् ॥ र्म्_32.114{13} ॥
तदा ते भिक्षवः सर्वे दृष्ट्वा तं यतिम् उत्तमं ।
विस्मितास् तं मुनिं नत्वा पप्रछुस् तत् पुराकृतं ॥ र्म्_32.115{14} ॥
भगवन्न् अर्हतानेन किं कर्म प्रकृतं पुरा ।
येनायं दुरिताकारो विरूपो जायते ऽधुना ॥ र्म्_32.116{15} ॥
यच् चायं भगवाच् छास्त भवता संप्रसादितः ।
लक्ष्मीवान् अभिरूपश् च भवति सद्गुणारतः ॥ र्म्_32.117{16} ॥
यच् चायं शासने बौद्धे श्रद्धया शरणं गतः ।
सहसा क्लेशसंघारीञ् जित्वार्हत्त्वं समाप्तवान् ॥ र्म्_32.118{17} ॥
तद् अस्य सर्ववृत्तांतं यद् अनेन पुराकृतं ।
सुविस्तरं समाख्याय सर्वान् नः परिबोधय ॥ र्म्_32.119{18} ॥
इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वांस् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ र्म्_32.120{19} ॥
शृणुत भिक्षवः सर्वे यद् अनेन पुराकृतं ।
तत् सर्वैः कर्म वक्ष्यामि सर्वलोकप्रबोधने ॥ र्म्_32.121{20} ॥
यथाभूत् पुरा बुद्धः पुष्याभिधस् तथागतः ।
सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजो मुनीश्वरः ॥ र्म्_32.122{21} ॥
स भगवाञ् जगन्नाथः कृत्वा भद्रं समंततः ।
सर्वत्र सौगतं धर्मम् उपदेष्टुम् उपाचरत् ॥ र्म्_32.123{22} ॥
एवं सर्वत्र लोकेषु ससांघिकः स मारजित् ।
पूर्वोत्तरदिशो भागे राजधानीम् उपाश्रयत् ॥ र्म्_32.124{23} ॥
तत्र स भगवाञ् छास्ता सर्वसत्वहितार्थभृत् ।
आदिमध्यान्तकल्याणम् आर्यधर्मम् उपादिशत् ॥ र्म्_32.125{24} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकः प्रबोधितः ।
त्रिरत्नभजनं कृत्वा प्रचेरिरे शुभे सदा ॥ र्म्_32.126{25} ॥
तत्र स भगवान् पुष्यो बुद्धदृष्ट्य समंततः ।
लोके पश्यन् हितं कर्तुं ददर्श द्वौ जिनात्मजौ ॥ र्म्_32.127{26} ॥
एकः शाक्यमुनिर् नाम मैत्रेयश् चापरः सुधीः ।
तस्मिन् काले उभव् एतौ बोधिसत्वौ जिनात्मजौ ॥ र्म्_32.128{27} ॥
मैत्रेयस्य सुबुद्धेः स्वसंततिः परिपाकिता ।
तस्य शास्तुश् च वैनेयाः सत्वा न परिपाचिताः ॥ र्म्_32.129{28} ॥
शाक्यमुनेस् तु वैनेयाः परिपक्वा न संततिः ।
एवं स सुगतः पुष्यो दृष्ट्वैवं समचिंतयत् ॥ र्म्_32.130{29} ॥
अहो शाक्यमुनेर् न स्वसन्ततिः परिपाचिता ।
तत्स्वसन्ततिपाकार्थं चरेयाहं तदन्तिके ॥ र्म्_32.131{30} ॥
इति विचिन्त्य पुष्यः स तथागतः ससांघिकः ।
हिमवंतं गिरिं गत्वा प्रचक्राम प्रभासयन् ॥ र्म्_32.132{31} ॥
तत्र रत्नगुहायां स प्रविश्य स मुनीश्वरः ।
तेजोधातुसमापन्नो ध्यात्वा तस्थौ शुभासने ॥ र्म्_32.133{32} ॥
तस्मिंश् च समये तत्र शाक्यमुनिः स सन्मतिः ।
फलमूलसमाहर्तुं तदन्तिकम् उपाचरत् ॥ र्म्_32.134{33} ॥
तत्र रत्नगुहायां तं पुष्यं तथागतं मुनिं ।
सुपर्यङ्कसमासीनं ध्यानलीनं प्रभासितं ॥ र्म्_32.135{34} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिभूषितं ।
रत्नावलिम् इवोज्वालं शतसूर्य्याधिकप्रभं ॥ र्म्_32.136{35} ॥
सौम्यं दिव्यातिरिक्ताभं समंतभद्ररूपिणं ।
सुप्रसन्नमुखाम्भोजं धर्मराजं समैक्षत ॥ र्म्_32.137{36} ॥
तत्र तं सुगतं दृष्ट्वा शाक्यमुनिः स मोदितः ।
सहसा सांजलिर् नत्वा पूजांगैनार्चयन् मुदा ॥ र्म्_32.138{37} ॥
ततः स एकपादेन स्थित्वा सप्तनिशां मुदा ।
सांजलिः प्रणतिं कृत्वा तुष्टाव गाथयानया ॥ र्म्_32.139{38} ॥
न दिवि भुवि वा नास्मिल् लोके न वैश्रवणालये ।
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ र्म्_32.140{39} ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननां ।
पुरुषवृषभस्य तुल्यान्यो महाश्रमणः कुतः ॥ र्म्_32.141{40} ॥
एतयो गाथया स्तुत्वा तं पुष्यं सुगतं मुनिं ।
स शाक्यमुनिर् उत्साहात् सप्तरात्रिं मुदा भजन् ॥ र्म्_32.142{41} ॥
ततः सप्तदिनान्ते स पुष्यथागतो मुदा ।
परिस्तुतस् तम् आलोक्य शाक्यमुनिम् अभाषत ॥ र्म्_32.143{42} ॥
साधु साधु महासत्व त्वम् एवं यत् समुद्यतः ।
अनेन बलवीर्येण संपन्नेन द्विजोत्तम ॥ र्म्_32.144{43} ॥
नवकल्पाः परावृत्ताः संस्तुत्याद्य तथागतं ।
क्रमात् पारमिताः पूर्य संबोधिं समवाप्नुयाः ॥ र्म्_32.145{44} ॥
इत्य् आदिश्य मुनीन्द्रो ऽसौ पुष्यो धर्माधिपो जिनः ।
परिवृत्तो महेशाख्यैस् तत्र ध्यानारतो ऽभसत् ॥ र्म्_32.146{45} ॥
सो ऽपि शाक्यमुनिर् बोधिसत्वो द्विजोत्तमः सुधीः ।
तस्य पुष्यस्य सद्भक्त्य शरणस्थः सदाभजत् ॥ र्म्_32.147{46} ॥
तत्र तस्मिन् स्थिते बुद्धे देवी गुहानिवासिनी ।
तद्गुहायां प्रवेष्टुम् ऽसौ न शशाक कथं चन ॥ र्म्_32.148{47} ॥
ततः सातिविरूपाक्षा विकृतांशा दुराकृतिः ।
भूत्वा तं सुगतं पुष्यं ध्यानालीनम् अभीषपत् ॥ र्म्_32.149{48} ॥
तथा सा सुचिरेणापि भीषपीत्वापि दुर्मतिः ।
किञ्चित् तस्य मुनेश् चित्तं चारयितुं शशाक न ॥ र्म्_32.150{49} ॥
तदा सा शंकिताखिन्ना विस्मयाहतमानसा ।
स्वरूपेणैव तं द्रष्टुं प्रणता समुपाचरत् ॥ र्म्_32.151{50} ॥
तत्र तं सुगतं पुष्यं तथागतम् मुनीश्वरं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमण्डितं ॥ र्म्_32.152{51} ॥
सर्वातिक्रांतसौम्याभं शतसूर्याधिकप्रभं ।
शान्तरूपं सुभद्रांगं ध्यानालीनम् अपश्यत ॥ र्म्_32.153{52} ॥
दृष्ट्वैव सा प्रसादन्ती पुण्यात्मायं सुसिद्धिमान् ।
इति ध्यात्वा सुरूपेण तदन्तिकम् उपाचरत् ॥ र्म्_32.154{53} ॥
तत्र सा सांजलिर् नत्वा पादौ तस्य मुनेः पुरः ।
स्थित्वा क्षमार्थनां कर्त्तुं प्रार्थयद् एवम् आनता ॥ र्म्_32.155{54} ॥
भगवन् नाथ सर्वज्ञ यन् मया प्रकृतं त्वयि ।
तत् क्षमस्व जगन्नाथ क्षान्तिधर्माधिपो ऽसि हि ॥ र्म्_32.156{55} ॥
तद् अत्राहं जगच्छास्तर् भवतां शरणं गता ।
सर्वदा समुपाश्रित्य भजेयं श्रद्धया मुदा ॥ र्म्_32.157{56} ॥
यद् अत्र ते ससंघस्य यथाविधि समर्चितुं ।
इछाम्य् अहं जगन्नाथ तद् अध्युषितुम् अर्हति ॥ र्म्_32.158{57} ॥
इति तेनार्थिते पुष्यो भगवान् स मुनीश्वरः ।
तां विशुद्धाशयां दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ र्म्_32.159{58} ॥
तथाधिवासितं शास्त्रा मत्वा साभ्यनुमोदिता ।
आशु तद्भोज्यसामग्रीं सहसा समसाधयत् ॥ र्म्_32.160{59} ॥
ततः सा मुदितोपेत्य पूजांगैस् तं मुनीश्वरं ।
अभ्यर्च्य भोजनैर् दिव्यैः ससंघं समतोषयत् ॥ र्म्_32.161{60} ॥
ततः सा भोजनान्ते ऽपि प्रणत्वा साञ्जलिर् मुदा ।
भूत्वा क्षमापयित्वा च प्रार्थयद् एवम् आनता ॥ र्म्_32.162{61} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणे स्थिता ।
सदोपस्थानम् आधाय भजिष्यामि समाहिता ॥ र्म्_32.163{62} ॥
तत् क्षमस्व जगन्नाथ यन् मयापकृतं वृथा ।
प्रसीदतु भवाञ् छास्ता संबुद्धो हि क्षमाकरः ॥ र्म्_32.164{63} ॥
इति तयार्थितं श्रुत्वा पुष्यः स भगवान् मुनिः ।
देवतां तां समालोक्य सद्धर्मं समुपादिशत् ॥ र्म्_32.165{64} ॥
शृणुष्व देवते धर्मम् इहामुत्र शुभाप्तये ।
धर्मेण रक्षिता लोके सर्वत्रापि सुखी भवेत् ॥ र्म्_32.166{65} ॥
तद् आदौ श्रद्धया धर्मं श्रोतव्यं सौगतं वरं ।
ततस् त्रिरत्नम् अभ्यर्च्य दातव्यं दानम् अर्थिने ॥ र्म्_32.167{66} ॥
ततः शुद्धत्रिकायः स्याच् छुद्धशीलः शुभाशयः ।
ततः सत्यसमाधानः सर्वसत्वक्षमाकरः ॥ र्म्_32.168{67} ॥
संबोधिसाधनोद्योगात् सर्वक्लेशान् विनिर्जयेत् ।
ततो ध्यानसमाधिस्थः प्रज्ञारत्नम् अवाप्नुयात् ॥ र्म्_32.169{68} ॥
तत् सुरत्नानुभावेन सर्वमारान् विनिर्जयन् ।
सर्वसत्वहितार्थेन संबुद्धपदम् आप्नुयात् ॥ र्म्_32.170{69} ॥
एवं मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः ।
धर्मं श्रुत्वा सदा दानं प्रकर्त्तव्यं यथेप्सितं ॥ र्म्_32.171{70} ॥
त्वं चाप्य् एवं सदा सौख्यं यदीछसि शुभान्वितं ।
त्रिरत्नं भजनं कृत्वा कुरु दानं यथेप्सितं ॥ र्म्_32.172{71} ॥
एतत् पुण्यं तु संबोधिप्राप्तये परिणामय ।
एतत्पुण्यविपाकेन नूनं बोधिं समाप्नुयाः ॥ र्म्_32.173{72} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा देवता मुदा ।
तथा हीतिप्रतिज्ञाय प्राभ्यनन्दत् प्रबोधिता ॥ र्म्_32.174{73} ॥
ततः स सुगतः पुष्यस् तथागतः ससांघिकः ।
प्रभासयन् समुत्थाय स्वाश्रमे समुपाश्रयत् ॥ र्म्_32.175{74} ॥
एष ह्य् अयं विरूपो ऽसौ देवता या गुहाश्रिता ।
युष्माभिः सत्यम् एवेति मन्यतां नान्यथा खलु ॥ र्म्_32.176{75} ॥
एवं मत्वात्र संसारे सर्वदा सुखवाञ्छिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_32.177{76} ॥
शुभस्य कर्मणः पाके शुभतैवं सदा भवे ।
कृष्णस्य दुःखतैवं हि मिश्रितस्यापि मिश्रितं ॥ र्म्_32.178{77} ॥
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ।
येनैव यत् कृतं कर्म तेनैव भुज्यते फलं ॥ र्म्_32.179{78} ॥
नाग्निभिर् दह्यते कर्म क्लिद्यते नापि चोदकैः ।
शुष्यते वायुभिर् नैव क्षीयते च न भूमिषु ॥ र्म्_32.180{79} ॥
नान्यथापि भवे नैव कर्म क्वापि कथं चन ।
यद् यथा प्रकृतं कर्मं तत् तथैव कुलेद् ध्रुवं ॥ र्म्_32.181{80} ॥
यद् असौ देवता तत्र गुहाश्रिता दुराशया ।
विकृताङ्गा विरूपाक्षा भूत्वा पुष्यं व्यभीषपत् ॥ र्म्_32.182{81} ॥
एतत्पापविपाकेन पंचजन्मशतान्य् अपि ।
विकृताङ्गो विरूपाक्षो बभूवायं भवे सदा ॥ र्म्_32.183{82} ॥
एतत्पापाविमुक्तो ऽयं विरूपो विकृताकृतिः ।
विभ्रन्स्यो दुर्भगाकारो भवत्य् अत्रापि सांप्रतं ॥ र्म्_32.184{83} ॥
यच् चासौ देवता पश्चात्तापसंतपिताशया ।
तस्य पुष्यस्य बुद्धस्य प्रसन्ना शरणं गता ॥ र्म्_32.185{84} ॥
श्रद्धया भोजनैर् दिव्यैः सत्कृत्य प्राभजन् मुदा ।
एतत्पुण्यविपाकेन लेभे ऽनन्तं सुखं भवे ॥ र्म्_32.186{85} ॥
अत्रापि शासने बौद्धे श्रद्धया समुपागतः ।
प्रव्रज्यासंवरप्राप्तः साक्षाद् अर्हत्वम् आप्तवान् ॥ र्म्_32.187{86} ॥
इति यूयं परिज्ञाय चरध्वं सर्वदा शुभे ।
ततो बोधिं समासाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_32.188{87} ॥
इत्य् आदिष्टं मुनीन्द्रेण सर्वे ते सांघिका अपि ।
श्रुत्वानुमोदिताः सत्यम् इत्य् उक्त्वा परिमेनिरे ॥ र्म्_32.189{88} ॥
इति मे गुरुणादिष्टं मयात्र कथ्यते ।
त्वयाप्य् एवं महाराज चरितव्यं शुभे सदा ॥ र्म्_32.190{89} ॥
प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालनीयः सदादरात् ॥ र्म्_32.191{90} ॥
तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_32.192{91} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् प्रबोधितः ॥ र्म्_32.193{92} ॥
शास्त्रादिष्टं प्रसन्ना इदम् अपि मनुज ये विरूपावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो ये च पुण्याभिरागाः ।
सर्वे ते श्रीसमेताः सकलगुणधराः सत्सुखानि प्रभुक्त्वा संबुद्धभक्तिरक्ताः सुगतवरगृहे संप्रयान्ति प्रमोदं ॥ र्म्_32.194{93} ॥
++ इति रत्नावदानतत्वे विरूपावदानं समाप्तम् ++
xxxइं क्षेमावदान
अथाशोको महाराजः कृतांजलिः पुरः स्थितः ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_33.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं समर्हसि ॥ र्म्_33.2{2} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
अशोकं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ र्म्_33.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितं ।
तथाहं तत् प्रवक्ष्यामि तव धर्मविवृद्धये ॥ र्म्_33.4{4} ॥
तद्यथाभूत् पुरा पूर्य्यां श्रावस्त्यां कौशलाधिपः ।
प्रसेनजिद् इति ख्यातो महाराजा महीपतिः ॥ र्म्_33.5{5} ॥
वाराणस्यां तदाचारो ब्रह्मदत्ताभिधो नृपः ।
महाराजो महीपालनृपाधिपस् तदाभवत् ॥ र्म्_33.6{6} ॥
तदा तयोर् महीभोक्त्रोः परस्परविरुद्धयोः ।
महाहवसमारंभाद् बभूव क्षुभिताशयं ॥ र्म्_33.7{7} ॥
तत्र स क्षत्रियो राजा प्रसेनजिन् नराधिपः ।
स्वस्त्ययनविधिं कृत्वा सर्वान्तःपुरिकान्वितः ॥ र्म्_33.8{8} ॥
चतुरंगवलैः सार्द्धं महोत्साहं प्रणादयन् ।
वैजयन्तीं समुच्छ्राय कोशलाविषयान्ततः ॥ र्म्_33.9{9} ॥
पर्यन्ते सहसा गत्वा वीर्योत्साहसमन्वितः ।
वध्वा काष्टपटं तत्र प्रावतस्थे पुरे यथा ॥ र्म्_33.10{10} ॥
तच् छ्रुत्वा ब्रह्मदत्तो ऽपि क्षत्रियो भूपतिर् नृपः ।
स्वस्त्ययनविधिं धृत्वा स्वान्तःपुरसमन्वितः ॥ र्म्_33.11{11} ॥
चतुरंगवलैः सार्द्धं जयोत्साहं निनादयन् ।
वैजयन्तीं समुच्छ्राय नद्या तीरम् उपाचरत् ॥ र्म्_33.12{12} ॥
तत्रैव समुपाश्रित्य वीर्योत्साहसमन्वितः ।
वध्वा काष्टपटं तत्र संतस्थे नगरे यथा ॥ र्म्_33.13{13} ॥
तत्र स भूपती राजा ब्रह्मदत्तो नराधिपः ।
अग्रराज्ञ्या सहारक्तः संरेमे परिचारयन् ॥ र्म्_33.14{14} ॥
तदा स महिषी राज्ञा सह क्रीडारता सती ।
स्वल्पाहाररता गौरा दोहदलक्षणं दधौ ॥ र्म्_33.15{15} ॥
तथा तस्मिन् क्षणे सो ऽपि प्रसेनजिन् नराधिपः ।
महिष्या सह संरक्तः प्ररेमे परिचारयन् ॥ र्म्_33.16{16} ॥
तदा सापि महाराज्ञी स्वामिक्रीडानुचारिणी ।
स्वल्पाहारोत्सहा गौरा दधौ दोहदलक्षणं ॥ र्म्_33.17{17} ॥
क्रमात् तो ऽपि महाराज्ञ्यां प्रवृद्धगर्भहारिते ।
पीनस्तने हरिद्राभवर्णे ऽभूतां कृशाङ्गिके ॥ र्म्_33.18{18} ॥
ततो ऽग्रमहिषी राज्ञो ब्रह्मदत्तस्य भूपतेः ।
सा सूत समये पुत्रं दिव्यांशम् अतिसुंदरं ॥ र्म्_33.19{19} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0