रत्नमालावदान · भाग 281300
पुष्पैर् अभ्यर्चितः श्रीमान् शरण्यः सर्वदेहिनां ।
समृद्धितः स स्याद् आरामं यः प्रयछति ॥ र्म्_28.146{12} ॥
विद्यादानेन पण्डित्यं प्रज्ञाभ्यासेन चाप्यते ।
भैषज्याभयदानेन रोगमुक्तस् तु जायते ॥ र्म्_28.147{13} ॥
दीपदानेन चक्षुष्मान् वाद्यदानेन सुस्वरः ।
शयनासनदानेन सुखी भवति मानवः ॥ र्म्_28.148{14} ॥
गवादीन्न् यो ददातीह भोज्यं रससमन्वितं ।
बलवान् वर्णवान् भोगी दीर्घायुः स भवेन् नरः ॥ र्म्_28.149{15} ॥
कन्यादानेन समान्यां लाभी स्यात् परिवारवान् ।
धनधान्यसमृद्धस् तु भूमिदानेन जायते ॥ र्म्_28.150{16} ॥
पत्रं पुष्पं फलं तोयम् अभयं वचनं प्रियं ।
यद् यद् एवेप्सितं शक्त्या दातव्यं तत् तद् अर्थिनः ॥ र्म्_28.151{17} ॥
क्लेशयित्वा ददातीह स्वकार्थं वा ह येन वा ।
यशःसौख्याभिलाखाद् वा स क्लिष्टं लभते फलं ॥ र्म्_28.152{18} ॥
स्वकार्यं निरपेक्षेण कृपाविष्टेन चेतसा ।
परार्थं यो ददातीह सो ऽक्लिष्टं फलम् अश्नुते ॥ र्म्_28.153{19} ॥
यत् किञ्चिद् दीयते ऽन्यस्मै यथाकालं यथाविधिं ।
तेन तेन प्रकारेण तत् सर्वम् उपतिष्ठते ॥ र्म्_28.154{20} ॥
परान् अन्वपहत्य् एवं सर्वकालं यथेप्सितं ।
अक्लेशयित्वा दातव्यं हितं धर्माविरोधियत् ॥ र्म्_28.155{21} ॥
एवं हि दीयमानस्य दानस्यैव फलादयः ।
दानं हि सर्वसौख्यानाम् अनन्यत् कारणं मतं ॥ र्म्_28.156{22} ॥
विरजः परदारेभ्यो दारान् इष्टान् अवाप्नुयात् ।
स्वेभ्यो ऽप्य् अदेशकालौ च वर्जयेत् पुंस्त्वम् अर्छति ॥ र्म्_28.157{23} ॥
परदारेषु संसक्तं चित्तं यो न नियछति ।
अनंगेषु चक्ष्येत स पुमां स्त्रीत्वम् अर्छति ॥ र्म्_28.158{24} ॥
स्त्रीत्वं जुगुप्सते या तु सुशीलमन्दरागिणी ।
पुंस्त्वम् आकांक्षते नित्यं सा नारी नरतां व्रजेत् ॥ र्म्_28.159{25} ॥
यस् तु सम्यग्निरातङ्कं ब्रह्मचर्यं निषेवते ।
तेजस्वी सद्गुणः श्रीमान् देवैर् अपि स लक्ष्यते ॥ र्म्_28.160{26} ॥
दृढस्मृतिर् असंमूढो मघवानो निषेवनात् ।
जायते सत्यवादी च यशःसौख्यान्वितः पुमान् ॥ र्म्_28.161{27} ॥
भिन्नानाम् अपि सत्वानां भेदं नैव करोति यः ।
अभेद्यपरिवारो ऽसौ जायते स्थिरमानसः ॥ र्म्_28.162{28} ॥
यस् त्व् आज्ञां कुरुते नित्यं गुरूणां हृष्टमानसः ।
हिताहिताभिधायी च स स्याद् आदेयवाक्कृती ॥ र्म्_28.163{29} ॥
नीचापरायमानेन विपर्यासेन चोद्गतः ।
भवन्ति सुखिनः सौख्यं दुःखं दत्वा च दुःखिनः ॥ र्म्_28.164{30} ॥
परप्रपञ्चाभिरताः शठाश् चानृतवादिनः ।
कुब्जवामनतां यान्ति ये च रूपाभिमानिनः ॥ र्म्_28.165{31} ॥
जडो विज्ञानमात्सर्याद् भवेन् मूकः प्रियाप्रियः ।
वाधिर्यं याति मूढात्मा हितवाक्याभिगूढकः ॥ र्म्_28.166{32} ॥
दुःखम् पापस्य पुण्यस्य सुखं मिश्रस्य मिश्रितं ।
सर्वं सादृश्यनिःस्यन्दम् अभ्युह्यं कर्मणः फलं ॥ र्म्_28.167{33} ॥
++इति मनुष्य कांदं समाप्तम् ++
शठ्येन मायया नित्यं चरत्य् अकृतकिल्बिषः ।
कलिप्रियः प्रदाता च स भवेद् असुरेश्वरः ॥ र्म्_28.168{1} ॥
++ इत्य् असुरकाण्डम् ++
नात्मना यः सुखाकांक्षी न च कृव्येत परिग्रहं ।
ग्रहाणाम् अग्रणी चासौ महाराजिकतां व्रजेत् ॥ र्म्_28.169{1} ॥
मातापितृकुलज्येष्ठपूजकस्यागवान् कृती ।
हृष्यमे यो न कलहैस् त्रिदशेषु स जायते ॥ र्म्_28.170{2} ॥
न विग्रहे रता नैव कलहे हृष्टमानसाः ।
एकान्तकुशलोद्युक्ता ये च मोयापगास् तु ते ॥ र्म्_28.171{3} ॥
बहुश्रुता धर्मधराः सुप्रज्ञा मोक्षकांक्षिणः गुणैर् ।
ये परिहृष्णाश् च नरास् ते तुषितोपगाः ॥ र्म्_28.172{4} ॥
शीलप्रदानविनये प्रवृत्ता ये स्वयं नराः ।
महोत्साहाश् च ते ऽवश्यं निर्माणरतिगामिनः ॥ र्म्_28.173{5} ॥
अदीनसत्वा मे श्रेष्ठाः प्रदाने दमसंयमैः ।
गुणाधिकाश् च ये यान्ति परनिर्मिततां ध्रुवं ॥ र्म्_28.174{6} ॥
शीलेन स्वर्गम् आप्नोति ध्यानेन च विशेषतः ।
यथाभूतपरिज्ञानात् पर्यन्ते वो पुनर्भवः ॥ र्म्_28.175{7} ॥
शुभाशुभफलं कर्म यद् एतत् कथितं स्फुटं ।
शुभेन लभ्यते सौख्यं दुःखं त्व् अशुभसंभवं ॥ र्म्_28.176{8} ॥
मृत्युर् व्याधिर् जरा चैव चिन्तनीयम् इदं त्रयं ।
विप्रयोगा प्रियैः सार्द्धं कर्मणां च स्वकं फलं ॥ र्म्_28.177{9} ॥
एवं विरागम् आप्नोति विविक्तः पुण्यम् अर्छति ।
पापं च नार्जयेद् एवं तच् च संक्षेपतः शृणु ॥ र्म्_28.178{10} ॥
सम्यक्परार्थकरणं परानर्थविवर्जनं ।
पुण्यं विपर्ययात् पापभुक्तम् एव मुनीश्वरैः ॥ र्म्_28.179{11} ॥
++ इति देवकाण्डं समाप्तम् ++
एवं मत्वा महाराज षड्गतिकारिकां भवे ।
संबोधिधर्मम् आधाय चरितव्यं सदा शुभे ॥ र्म्_28.180{1} ॥
ये संबोधिव्रतं धृत्वा प्रचरन्ति समाहिताः ।
सर्वसत्वहितार्थेन बोधिसत्वा भवन्ति ते ॥ र्म्_28.181{2} ॥
एवं विज्ञाय राजेन्द्र सदा भद्रं यदीछसि ।
त्रिरत्नं शरणं कृत्वा भज नित्यं समादरात् ॥ र्म्_28.182{3} ॥
एतत्पुण्यविपाकेन सर्वक्लेशन् विनिर्जयन् ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_28.183{4} ॥
इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः ।
राजाप्य् उत्तरपांचालः प्रव्रजितुं समैछत ॥ र्म्_28.184{5} ॥
ततः स नृपती राजा समुत्थाय कृतांजलिः ।
भगवन्तम् आनत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_28.185{6} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं गतः ।
संबोधिव्रतम् आधाय प्रेछामि चरितुं सदा ॥ र्म्_28.186{7} ॥
यद् भवाञ् जगतां शास्ता संबोधिधर्मदेशिकः ।
तन् मे ऽनुग्रहतां कृत्वा प्रव्रज्यां दातुम् अर्हति ॥ र्म्_28.187{8} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः ।
तस्य राज्ञो मनःशुद्धं विज्ञायैवम् उपादिशत् ॥ र्म्_28.188{9} ॥
साधु राजन् महाभाग यदीछसि शुभां गतिं ।
एहि चर समाधाय चर मे शासने व्रतं ॥ र्म्_28.189{10} ॥
इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् ।
संबुद्धे शासने धर्मे तं नरेंद्रं समग्रहीत् ॥ र्म्_28.190{11} ॥
एहीति तेन शास्त्रोक्ते नृपतिः स प्रबोधितः ।
खिक्खिरीपात्रधरो भिक्षु ऽभूच् चीवरावृतः ॥ र्म्_28.191{12} ॥
ततः स भूपतिश् चापि विरक्तो भोग्यनिस्पृहः ।
निःक्लेशः परिशुद्धात्मा बभूव विजितेंद्रियः ॥ र्म्_28.192{13} ॥
साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी निरंजनः ।
संबोधिपदम् आसाद्य संबुद्धः श्रावको ऽभवत् ॥ र्म्_28.193{14} ॥
ततः स ब्रह्मविद् योगी त्रैधातुवासिनाम् अपि ।
सदेवासुरलोकानां वन्द्यो मान्यो ऽभवद् गुरुः ॥ र्म्_28.194{15} ॥
ततो दक्षिणपांचालराजा स प्रतिमोदितः ।
उत्थाय सांजलिर् नत्वा प्रार्थ्यत् तं मुनीश्वरं ॥ र्म्_28.195{16} ॥
भगवन् नाथ सर्वज्ञ कृपया मे प्रसीदतु ।
त्रैमास्यं भक्तुम् इछामि तत् कुरुताम् अनुग्रहं ॥ र्म्_28.196{17} ॥
इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः ।
नृपतिं तं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_28.197{18} ॥
ततः स नृपती राजा भगवताध्युवासितं ।
विदित्वा सर्वसामग्रीं सहसा समसाधयत् ॥ र्म्_28.198{19} ॥
ततः स राजा भगवंतं ससांघिकं ।
यथार्हभोजनैर् नित्यं समभ्यर्च्य ऽभ्यतोषयत् ॥ र्म्_28.199{20} ॥
विचित्रचीवरैश् चापि श्रीघनं तं ससांघिकं ।
आछाद्य सांजलिर् नत्वा प्रणिधानं मुदा व्यधात् ॥ र्म्_28.200{21} ॥
एतत्पुण्यविपाकेन लोके ऽंधे ऽपरिनायके ।
सद्धर्मभास्करः शास्ता संबुद्धो ऽर्हं भवेय हि ॥ र्म्_28.201{22} ॥
एवं तेन नरेन्द्रेण प्रणिधानं कृतं मुदा ।
मत्वा स भगवान् स्मितं प्रामुञ्चच् छुभरोचिषं ॥ र्म्_28.202{23} ॥
तत् स्मितसमुत्पन्नाः पंचवर्णाः सुरश्मयः ।
प्रसारितास् त्रिलोकेषु भासयन्त्यः प्रचेरिरे ॥ र्म्_28.203{24} ॥
तद्रस्मिसंपरिस्पृष्टाः सर्वे ऽपि नारकाश्रिताः ।
निर्मुक्तवेदनाखेदा महत्सौख्यं प्रलेभिरे ॥ र्म्_28.204{25} ॥
तदा ते विस्मिताः सर्वे नारकीयाः प्रमोदिताः ।
किम् एवं जायते सौख्यम् इति ध्यात्वा निषेदिरे ॥ र्म्_28.205{26} ॥
ततः स भगवांस् तेषां विस्मयाक्रांतचेतसां ।
मनांसि परिबोधार्थं प्रैषयत् तत्र नैर्मितं ॥ र्म्_28.206{27} ॥
तदा ते नारकाः सर्वे दृष्ट्वा तं सुगतं मुदा ।
उपेत्य प्रणतिं कृत्वा प्राभजञ् छरणं गताः ॥ र्म्_28.207{28} ॥
ततस् तत् पुण्यलिप्तास् ते सर्वे विमुक्तपापकाः ।
परिशुद्धाः शुभात्मानः सद्गतिं समुपाययुः ॥ र्म्_28.208{29} ॥
ततस् ता रश्मयः सर्वा अवभास्य समंततः ।
अकनिष्ठालयं यावत् प्रसृताः समभासयन् ॥ र्म्_28.209{30} ॥
गाथाघोषैश् च सर्वत्र सर्वान् देवान् प्रमोदिनः ।
बोधयित्वा शुभे धर्मे प्रतिष्ठाप्य पचेरिरे ॥ र्म्_28.210{31} ॥
ततस् ता रश्मयः सर्वा पिण्डीभूता मुनेः पुरः ।
त्रिधा प्रदक्षिणीकृत्वा महोष्णीषे समाविशत् ॥ र्म्_28.211{32} ॥
तद् दृष्ट्वा ते सभालोकाः सर्वे ऽतिविस्मयोद्धताः ।
शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे ॥ र्म्_28.212{33} ॥
इति तेषां मनस्तर्कं मत्वानंदः समुत्थितः ।
उपेत्य सांजलिर् नत्वा प्रार्थयेत् तं मुनीश्वरं ॥ र्म्_28.213{34} ॥
भगवन् हेतुना केन स्मितं मुंचति सांप्रतं ।
नाहेत्वप्रत्ययं स्मितं न मुंचंति मुनीश्वराः ॥ र्म्_28.214{35} ॥
तद् यदर्थे भवान् स्मितं मुंचतीमे सभाजनाः ।
श्रोतुम् इछंति सर्वे तद् अर्थम् आदेष्टुम् अर्हति ॥ र्म्_28.215{36} ॥
इत्य् आनंदोदितं श्रुत्वा भगवान् स जगद्गुरुः ।
सर्वांल् लोकान् समालोक्य तम् आनंदं समब्रवीत् ॥ र्म्_28.216{37} ॥
एवम् एव सदानंद सर्वे बुद्धा मुनीश्वराः ।
नाहेतुप्रत्ययं स्मितं विमुंचन्ति कदा चन ॥ र्म्_28.217{38} ॥
पश्यताम् अयम् आनंद राजातिसंप्रसादितः ।
सत्कृत्य श्रद्धयास्माकं त्रैमास्यं भजते मुदा ॥ र्म्_28.218{39} ॥
एतत्पुण्यविपाकेन राजायं सद्गुणाकरः ।
क्रमात् पारमिताः सर्वाः परिपूर्य बलान्वितः ॥ र्म्_28.219{40} ॥
सर्वक्लेशगणाञ् जित्वा माराञ् चापि विनिर्जयन् ।
बोधिम् आसाद्य सर्वज्ञस् तथागतो मुनीश्वरः ॥ र्म्_28.220{41} ॥
सर्वविद्याधिपः शास्ता धर्मराजो विनायकः ।
विजयो नाम संबुद्धो भविष्यति भवान्तरे ॥ र्म्_28.221{42} ॥
एवम् आनंद विज्ञाय बुद्धक्षेत्रशुभंकृतं ।
तद्विपाके महत्सौख्यं भद्रं संबोधिसाधनं ॥ र्म्_28.222{43} ॥
त्रिरत्नशरणं कृत्वा सत्कारैः श्रद्धया सदा ।
संबोधिवाञ्छिभिर् लोकैश् चरितव्यं शुभे मुदा ॥ र्म्_28.223{44} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादयो ऽपि ते ।
सर्वे लोकास् तथेत्य् उक्त्वा प्राभ्यनन्दन् प्रसादिताः ॥ र्म्_28.224{45} ॥
सो ऽपि दक्षिणपांचालो राजा श्रुत्वा प्रमोदितः ।
त्रिरत्नभजनं कृत्वा प्रचचार शुभे सदा ॥ र्म्_28.225{46} ॥
तदारभ्य सदा तत्र मंगलं निरुपद्रवं ।
समंततो महोत्साहं कृतयुग इवाभवत् ॥ र्म्_28.226{47} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथा ऽधुना ।
कथ्यते ऽत्र त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ र्म्_28.227{48} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालनीयाः सदा त्वया ॥ र्म्_28.228{49} ॥
तथा ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_28.229{50} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_28.230{51} ॥
राज्ञो पाञ्चालयोर् यन् मुनिकथितम् इदं तत् प्रसिद्धावदानं ।
शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः ।
सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्सुखाढ्याः ।
कृत्वा लोकेषु भद्द्रं मुनिवरनिलये संप्रयान्ति प्रमोदाः ॥ र्म्_28.231{52} ॥
++ इति रत्नावदानतत्वे पांचालराजावदनं समाप्तम् ++
xxइx उपपादुकावदान
अथाशोको महीपालः समुपेत्य कृतांजलिः ।
उपगुप्तं यतिं नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_29.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथाख्यातुं च मे ऽर्हति ॥ र्म्_29.2{2} ॥
इति संप्रर्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवम् आदिशत् ॥ र्म्_29.3{3} ॥
साधु शृणु महराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ र्म्_29.4{4} ॥
तद्यथा भगवान् बुद्धा शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ र्म्_29.5{5} ॥
एकस्मिन् समये मातुर् मायादेव्या हितेछया ।
सद्धर्मं समुपादेष्टुं प्राचरत् त्रिदशालये ॥ र्म्_29.6{6} ॥
तत्र स भगवान् गत्वा सुरम्ये नंदने वने ।
पारिजाततले पाण्डुसच्छिलायाम् उपाश्रयत् ॥ र्म्_29.7{7} ॥
तत्र शक्रादयो देवाः सर्वे तं सद्गुणाकरं ।
शाक्यमुनिं समालोक्य मुदिताः समुपाचरन् ॥ र्म्_29.8{8} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे देवाः प्रमोदिताः ।
त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ र्म्_29.9{9} ॥
ततो देवाधिपः शक्रो दिव्यरत्नमयासनं ।
संबुद्धस्य जगच्छास्तुः प्राज्ञापयच् छुभोज्ज्वलं ॥ र्म्_29.10{10} ॥
तत्र स भगवान् दृष्ट्वा दिव्यरत्नमहोज्वले ।
आरुह्य समुपाश्रित्य समातस्थौ प्रभासयन् ॥ र्म्_29.11{11} ॥
तदा सा जननी माता मायादेवी समागता ।
तम् आत्मजं जगन्नाथं संदृष्ट्वा समुपाचरत् ॥ र्म्_29.12{12} ॥
तत्र स भगवान् दृष्ट्वा मातरं तां समागतां ।
उत्थाय समुपासृत्य प्रणत्वैवम् अभाषत ॥ र्म्_29.13{13} ॥
स्वागतं कुशलं मातर् आरोग्यम् अस्तु ते सदा ।
त्वत्मुखं द्रष्टुम् आयामि तत् प्रसादितुम् अर्हसि ॥ र्म्_29.14{14} ॥
अत्रासने समाश्रित्य निषीदैकाग्रमानसा ।
उपदिक्ष्यामि सद्धर्मं तच् छृणुष्व समाहिता ॥ र्म्_29.15{15} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा जननी सती ।
मायादेवी समालोक्य तम् आत्मजं समव्रावीत् ॥ र्म्_29.16{16} ॥
प्रायामि ते मुखं द्रष्टुं कुशलं ते सदात्मज ।
तन् ममानुग्रहार्थेन धर्मम् आदेष्टुम् अर्हसि ॥ र्म्_29.17{17} ॥
इत्य् उक्त्वा सा सती मायादेवी माता जगद्गुरोः ।
उपासनं समाश्रित्य निससाद समाहिता ॥ र्म्_29.18{18} ॥
ततः शक्रादयो देवाः सर्वे ते संप्रहर्षिताः ।
पूजांगैस् तं जगन्नाथं मायादेवीं च प्रार्चयन् ॥ र्म्_29.19{19} ॥
ततः पादान्स् तयोर् नत्वा कृत्वा च त्रिप्रदक्षिणं ।
परिवृत्य पुरस्कृत्वा धर्मं श्रोतुम् उपाश्रयन् ॥ र्म्_29.20{20} ॥
ततस् त भगवान् दृष्ट्वा तान् देवान् समुपस्थितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_29.21{21} ॥
ततश् च भगवांस् तेषां देवानां सुखमानिनं ।
संबोधिसाधनं पुनर् एवम् उपादिशत् ॥ र्म्_29.22{22} ॥
अनित्यं खलु संसारे दुःखं शून्यं ह्य् अनात्मकं ।
कामे किंचित् सुखं नात्र क्लेशसंघे समाकुले ॥ र्म्_29.23{23} ॥
इति मत्वात्र संसारे सदा सौख्यं यदीछथ ।
बोधिचर्याव्रतं धृत्वा संचरध्वं सदा शुभं ॥ र्म्_29.24{24} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
मारचर्य्यां परित्यज्य चरध्वं बोधिचारिकां ॥ र्म्_29.25{25} ॥
यः सत्वहितार्थेन बोधिचर्यां चरिष्यति ।
स सम्यग् बोधिम् आसाद्य संबुद्धपदम् आप्स्यति ॥ र्म्_29.26{25} ॥
एवं मत्वात्र संसारे सर्वे यूयं समाहिताः ।
त्रिरत्नभजनं कृत्वा चरध्वं बोधिसंवरं ॥ र्म्_29.27{26} ॥
ये त्रिरत्नं भजन्त्य् अत्र न ते गछंति दुर्गतिं ।
सदा सद्गतिसंयाताः क्रमाद् बोधिम् अवाप्नुयुः ॥ र्म्_29.28{27} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि ते ऽमराः ।
सत्यम् एव परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_29.29{28} ॥
ततः शक्रः समुत्थाय कृतांजलिः ।
भगवंतं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ र्म्_29.30{29} ॥
भगवन् नाथ सर्वज्ञ सर्वदेह सुरालये ।
सद्धर्मं नः समादिश्य भवन् विहर्तुम् अर्हति ॥ र्म्_29.31{30} ॥
वयं सर्वे सुरा नित्यं भवतां शरणं गताः ।
सद्धर्मं सर्वदाकर्ण्य चरिष्यामः शुभां चरिं ॥ र्म्_29.32{31} ॥
ततः सापि महामायादेवि माता समुत्थिता ।
उपेत्य सांजलिर् नत्वा भगवन्तं तम् अब्रवीत् ॥ र्म्_29.33{32} ॥
धन्यो ऽसि यत् त्वया पुत्र प्रतिज्ञातं यथापुरा ।
तथा त्वं पूर्यते सर्वं सर्वार्थसिद्धिर् अस्तु ते ॥ र्म्_29.34{33} ॥
सदात्र देवलोकानां हितार्थे च प्रबोधयन् ।
सद्धर्मं समुपादिश्य विहर संप्रभासयन् ॥ र्म्_29.35{34} ॥
इति मात्रार्थितं श्रुत्वा भगवान् स जगद्गुरुः ।
जननीं तां सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_29.36{35} ॥
मातर् नैकहितार्थेनबोधिचर्यां दधामि हि ।
सर्वेषाम् अपि सत्वानां हितार्थे ऽहं जिनो भवे ॥ र्म्_29.37{36} ॥
तद् अत्र सर्वदा नैवं तिष्ठेयं त्रिदशैः सह ।
वर्षा मासत्रयं स्थातुम् इछामि धर्मम् आदिशन् ॥ र्म्_29.38{37} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा जननी मुदा ।
तथास्त्व् इति प्रभाषित्वा प्राभ्यनंदत् प्रबोधिता ॥ र्म्_29.39{38} ॥
तथा स भगवान्स् तत्र बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य तस्थौ मासत्रयं दिवि ॥ र्म्_29.40{39} ॥
सर्वशक्रादयो देवास् त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं धर्मं श्रुत्वा प्रभेजिरे ॥ र्म्_29.41{40} ॥
तदा तत्र सदा स्वर्गे मंगलं निरुपद्रवं ।
सद्धर्मसाधनोत्साहं प्रावर्त्तते समंततः ॥ र्म्_29.42{41} ॥
तस्मिंश् चा समये तत्र स्रावस्त्या वहिर् आश्रमे ।
जेतोद्याने विहारे स मौद्गल्यायन आश्रयत् ॥ र्म्_29.43{42} ॥
तदा ते सांघिकाः सर्वे तं मौद्गल्यायनं यतिं ।
विहारे संस्थितं दृष्ट्वा धर्मं श्रोतुं समीछिरे ॥ र्म्_29.44{43} ॥
ततस् ते सांघिकाः सर्वे लोकाश् चान्ये ऽपि सज्जनाः ।
तत् सद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ र्म्_29.45{44} ॥
तत्र सर्वे ऽपि ते लोकास् तं मौद्गल्यायनं गुरुं ।
समभ्यर्च्य समानम्य धर्मं श्रोतु]म् उपाश्रयन् ॥ र्म्_29.46{45} ॥
तान् दृष्ट्वा समुपासीनान् स मौद्गल्यो जिनात्मजः ।
आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_29.47{46} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाश् च सांघिकाः ।
सद्धर्म्मसाधनोद्युक्ता वभूवुः परिबोधिताः ॥ र्म्_29.48{47} ॥
अथ ते भिक्षवः सर्वे कृतांजलिः पुटो मुदा ।
तं मौद्गल्यायनं नत्वा पप्रछुर् एवम् आदरात् ॥ र्म्_29.49{48} ॥
भदन्त भगवं छास्ता कुत्रेदानीं समाश्रितः ।
सद्धर्मं समुपादिश्य विहरति न मन्यते ॥ र्म्_29.50{49} ॥
तद् अस्माकं मनान्स्य् अत्र भगवाञ् छास्ता यतः स्थितः ।
तत् सत्यं समुपादिश्य प्रबोधयितुम् अर्हति ॥ र्म्_29.51{50} ॥
इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनः सुधीः ।
सर्वान्स् तान् संघिकान् भिक्षून् समालोक्यैवम् अब्रवीत् ॥ र्म्_29.52{51} ॥
श्रुतं मया भवन्तो ऽसौ भगवाञ् छास्ता ऽधुना दिवि ।
ततो मातुः सुराणां चा तिष्ठते धर्मम् आदिशत् ॥ र्म्_29.53{52} ॥
ततो वर्षात्रिमासान्ते भगवान् स जगद्गुरुः ।
अत्र लोकहितं कर्तुम् अवतरेत् स्वयं खलु ॥ र्म्_29.54{53} ॥
इति तेनार्हताख्यातं श्रुत्वा ते सांघिका जनाः ।
सर्वे ऽप्य् ऽभ्यनुमोदन्तः स्वस्वालयं समाचरन् ॥ र्म्_29.55{54} ॥
सदा ते सांघिकास् तस्य मौद्गल्यस्य महामतेः ।
सद्धर्मं सर्वदाकर्ण्य भजन्तः समुपाश्रयन् ॥ र्म्_29.56{55} ॥
ततो वर्षात्रिमासान्ते सर्वे ते सांघिका जनाः ।
अपि तं मौद्गल्यम् आनत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_29.57{56} ॥
भवन्तात्र भवाञ् छास्ता विजानीयाज् जगद्गुरोः ।
द्रष्टुम् इछामहे शास्तुः सद्धर्मं तृषिता वयं ॥ र्म्_29.58{57} ॥
चिरदृष्टो यद् अस्माभिर् भगवां स मुनीश्वरः ।
तद् अस्याग्रमुनीन्द्रस्य दर्शनं दातुम् अर्हति ॥ र्म्_29.59{58} ॥
तद् अस्मदनुकम्पार्थं भवन् ऋद्धिप्रभावतः ।
गत्वा स्वर्गे मुनीन्द्रस्य सहसा समुपक्रमेत् ॥ र्म्_29.60{59} ॥
तत्र गत्वा भवाच् छास्तुर् मुनीन्द्रस्य जगद्गुरोः ।
अस्माकं वचनैश् चापि वंदतां चरणाम्बुजौ ॥ र्म्_29.61{60} ॥
देहे च कौशलं सौख्यं पृछतां वचनैश् च नः ।
एवं चापि पुरः शास्तुर् निवेदितुं समर्हति ॥ र्म्_29.62{61} ॥
भगवं नाथ सर्वज्ञ ते जाम्बूद्वीपिका नराः ।
भवन्तं द्रष्टुम् इछन्ति सद्धर्मामृतलालसाः ॥ र्म्_29.63{62} ॥
यद् भवान् सर्वसत्वानां हितं कर्तुं समुद्यतः ।
तद् भगवान् मनुष्याणां धर्मम् आदेष्टुम् अर्हति ॥ र्म्_29.64{63} ॥
नराः स्वर्गे समागंतुं शक्नुवन्ति न के चन ।
देवास् तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ र्म्_29.65{64} ॥
तद् भगवान् मनुष्याणां हितार्थायानुकम्पया ।
सद्धर्मं समुपादेष्टुं जम्बुद्वीपम् अवातरेत् ॥ र्म्_29.66{65} ॥
वयं सर्वे सदा नित्यं भवतां शरणं गताः ।
सत्कृत्य श्रद्धया धर्म्मं श्रुत्वा संप्रभजेमहि ॥ र्म्_29.67{66} ॥
एवं शास्तर् महाविज्ञ गत्वा तत्र सुरालये ।
भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ र्म्_29.68{67} ॥
इति तैः प्रार्थितैः श्रुत्वा स मौद्गल्यो महार्द्धिमान् ।
एवम् इति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ र्म्_29.69{68} ॥
अथ ते सांघिकाः सर्वे लोकाश् चापि महात्मना ।
तेनाधिवासितं मत्वा मुदिताः स्वस्वालयं ययुः ॥ र्म्_29.70{69} ॥
अथ सो ऽर्हं महाभिज्ञो मौद्गल्यन आत्मवित् ।
स्वर्गे गंतुं समाधाय समाधिं विदधे क्षणं ॥ र्म्_29.71{70} ॥
ततः स ऋद्धिवीर्येण सुपर्ण इव खे ऽगमत् ।
भासयन् सहसा गत्वा दिवि शास्तुर् उपाचरत् ॥ र्म्_29.72{71} ॥
तत्र तं समुपायातं दृष्ट्वा स भगवान् मुदा ।
स्वागतं प्रेहि मौद्गल्य निषीदेति समब्रवीत् ॥ र्म्_29.73{72} ॥
इत्य् आदिष्टे मुनीन्द्रेण स मौद्गल्यः प्रमोदितः ।
साञ्जलिः पादयोः शास्तुः प्रणत्वैवं समब्रवीत् ॥ र्म्_29.74{73} ॥
भगवन् नाथ सर्वज्ञ प्रागतो ऽहं मुदा दिवि ।
भवतां दर्शनं कर्तुं तत् प्रसीद दयानिधे ॥ र्म्_29.75{74} ॥
कच्चित् ते कुशलं शास्तः किञ्चिद् वाधापि नैव हि ।
यात्रा सुखं वलं वीर्यं कच्चित् काये न चान्यथा ॥ र्म्_29.76{75} ॥
भवान् अपि विजानीयाद् यदर्थे ऽहम् इहागतः ।
तथापि भगवन्न् अत्र विज्ञापयेय सर्वथा ॥ र्म्_29.77{76} ॥
भवतां सांघिकैः सर्वैर् लोकैश् चापि महाजनैः ।
भवन्तं द्रष्टुम् इछद्भिः प्रेषितो ऽहम् इहागतः ॥ र्म्_29.78{77} ॥
ते सर्वे सांघिका लोका भवतां चरणाम्बुजे ।
वन्दन्ति कौशलं काये परिपृछन्ति चादरात् ॥ र्म्_29.79{78} ॥
एवं चापि वदन्ते ते सर्वे लोकाश् च सांघिकाः ।
सद्धर्मश्रवणोत्साहरहिता विकलाशयाः ॥ र्म्_29.80{79} ॥
भगवान् सर्वसत्वानां हितार्थे बोधिम् आप्तवान् ।
तत् तथात्र मनुष्याणां धर्मम् आदेष्टुम् अर्हति ॥ र्म्_29.81{80} ॥
ततः स्वर्गे समागंतुं शक्नुवन्ति न के चन ।
देवास् तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ र्म्_29.82{81} ॥
तद् भगवान् मनुष्यानां हितार्थायानुकम्पया ।
सद्धर्मं समुपादेष्टुं जम्बूद्वीपम् अवातरेत् ॥ र्म्_29.83{82} ॥
वयं सर्वे सदा नित्यं भवतां शरणं गताः ।
सत्कृत्य श्रद्धया धर्मं श्रुत्वा संप्रभजेमहि ॥ र्म्_29.84{83} ॥
एवम् अस्मद्वचोभिस् त्वं गत्वा तत्र सुरालये ।
भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ र्म्_29.85{84} ॥
इति तैः प्रार्थ्यमाने ऽहं तथेति प्रतिबोधितः ।
भवतां विज्ञापनां कर्तुं सहसा समुपाचरे ॥ र्म्_29.86{85} ॥
तद् भगवन् मनुष्याणां हितानुकम्पयाधुना ।
सद्धर्मं समुपादेष्टुं भुव्य् एव तर्त्तुम् अर्हति ॥ र्म्_29.87{86} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तं मौद्गल्यायनं दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ र्म्_29.88{87} ॥
तस्मिंश् च समये तत्र सर्वे शक्रादयो ऽमराः ।
सद्धर्मम् श्रवणोत्साहाः समागाताः समंततः ॥ र्म्_29.89{88} ॥
कृत्वा पूजां मुनीन्द्रस्य प्रणत्वा चरणाम्बुजे ।
परिवृत्य पुरस्कृत्य धर्मं श्रोतुम् उपाश्रयन् ॥ र्म्_29.90{89} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वन् समुपाश्रितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_29.91{90} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे शक्रादयो ऽपि ते ।
देवाः संहर्षिता बोधिचर्याभिवाञ्छितो ऽभवन् ॥ र्म्_29.92{91} ॥
तत् समीक्ष्य स मौद्गल्यः किञ्चिद् विहसितो मुदा ।
भगवंतं मुनीन्द्रं तं दृष्ट्वैवं समचिंतयत् ॥ र्म्_29.93{92} ॥
इहापि भगवान्न् एवं समाकीर्णसभाश्रितः ।
सद्धर्मं समुपादिश्य विहरति यथाभुवि ॥ र्म्_29.94{93} ॥
अथ स भगवांस् तस्य मौद्गल्यस्य महामतेः ।
मनश्चिन्तितम् आज्ञाय तं मौद्गल्यं समब्रवीत् ॥ र्म्_29.95{94} ॥
न मे मौद्गल्य सत्कारवंधितं भवते मनः ।
अपि त्व् अहं यथेछामि तथा सर्वं समृद्ध्यति ॥ र्म्_29.96{95} ॥
आयान्त्व् इहामराः सर्वे इति मया यदेच्छ्यते ।
तदा सर्व इमे देवा आगछंति समंततः ॥ र्म्_29.97{96} ॥
गछन्तु च सुराः सर्वे इति मया यदेह्यते ।
तदा सर्व इमे देवा गछंति च स्वम् आलयं ॥ र्म्_29.98{97} ॥
एवं मे सर्वकार्येषु मनो ऽभिलषितं यथा ।
तथात्र सर्वकार्याणि सिद्ध्यंते हि सदा तदा ॥ र्म्_29.99{98} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् ।
शास्तुः पादाम्बुजौ नत्वा सांजलिः समुपाश्रयत् ॥ र्म्_29.100{99} ॥
ततः सभां सुरां कीर्णां स मौद्गल्यायनो यतिः ।
तार सर्वां संनिरीक्ष्यैवं भगवन्तम् अभाषत ॥ र्म्_29.101{100} ॥
विचित्रा भगवन् देवापर्षद् इयं विराजते ।
नूनम् इमे सुराः सर्वे संबुद्धपदलाभिनः ॥ र्म्_29.102{1} ॥
सन्ति ह्य् अस्यां सभायां ये संबुद्धे संप्रसादिताः ।
कायभेदाद् इहोत्पन्नास् ते संबोधिलाभिनः ॥ र्म्_29.103{2} ॥
सन्ति धर्मे प्रसन्ना ये आर्यशीलैः समन्विताः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.104{3} ॥
सन्ति संघे प्रसन्ना ये आर्यधर्मानुचारिणः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.105{4} ॥
इति मौद्गल्यसंप्रोक्तं श्रुत्वा स भगवांस् तथा ।
तं मौद्गल्यायनं दृष्ट्वानुवर्णयन् सामादिशत् ॥ र्म्_29.106{5} ॥
एवम् एतद् धि मौद्गल्य विचित्रेयं महासभा ।
सुरेन्द्रप्रमुखा देवा यत्र सन्ति प्रमोदिताः ॥ र्म्_29.107{6} ॥
सन्ति बुद्धे प्रसन्ना ये संबोधिसाधनोत्सहाः ।
कायभेदाद् इहोत्पन्नास् ते संबोधिपदोन्मुखाः ॥ र्म्_29.108{7} ॥
सन्ति धर्मे प्रसन्ना ये आर्यशीलसमाचराः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिगामिनः ॥ र्म्_29.109{8} ॥
संति संघे प्रसन्ना ये आर्यसत्यसमन्विताः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.110{9} ॥
एवं शास्त्रा समाख्यातं श्रुत्वा देवाधिपो ऽपि सः ।
भगवंतं समालोक्य मौद्गल्यं च तथाब्रवीत् ॥ र्म्_29.111{10} ॥
विचित्रा भगवन् देवपर्षद् इयं विराजते ।
यत्र सन्ति महासत्वाः संबोधिसाधनोद्यताः ॥ र्म्_29.112{11} ॥
सन्ति बुद्धे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदाद् इहोत्पन्नास् ते संबुद्धपदलाभिनः ॥ र्म्_29.113{12} ॥
संति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदाद् इहोत्पन्नास् ते संबुद्धपदलाभिनः ॥ र्म्_29.114{13} ॥
सन्ति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.115{14} ॥
संति संघे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.116{15} ॥
इति देवाधिपाख्यातं श्रुत्वान्यापि सुरात्मजः ।
मौद्गल्यं श्रीघनं चापि शक्रं चैक्ष्यैवम् अब्रवीत् ॥ र्म्_29.117{16} ॥
विचित्रेयं महासत्व देवसभा विराजते ।
सन्ति यत्र महात्मानः संबोधिसाधोद्यताः ॥ र्म्_29.118{17} ॥
सन्ति संघे प्रसन्ना ये सत्कृत्य प्रभजन्ति ते ।
देहभेदाद् इहोत्पन्ना भवंति बोधिलाभिनः ॥ र्म्_29.119{18} ॥
सन्ति धर्मे प्रसन्ना ये भजन्ति श्रद्धया मुदा ।
देहभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.120{19} ॥
सन्ति बुद्धे प्रसन्ना ये भजंति शरणं गताः ।
देहभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ र्म्_29.121{20} ॥
एवम् एतत् समाख्यातं मौद्गल्येन महात्मना ।
मुनीन्द्रशक्रदेवैश् च श्रुत्वा सर्वे सुरा मुदा ॥ र्म्_29.122{21} ॥
प्रबोधिताः परिज्ञाय संबुद्धशरणं ययुः ।
तत्र सर्वे ऽपि ते देवास् त्रिरत्नभजनोद्यताः ॥ र्म्_29.123{22} ॥
तत्पुण्यैः श्रोतआपत्तिफलं साक्षात् समाययुः ॥ र्म्_29.124{23!} ॥
ततस् तां श्रीघनं नात्वा मौद्गल्यं च प्रसादिताः ।
ते शक्रादयो देवाः सर्वे स्वस्वालयां ययुः ॥ र्म्_29.125{24} ॥
अथ सो ऽर्हन् महाभिज्ञो मौद्गल्यायन आत्मवित् ।
भगवन्तं तम् आनम्य सांजलिर् एवम् अब्रवीत् ॥ र्म्_29.126{25} ॥
भगवन् नाथ सर्वज्ञ भवत्कार्य्यं प्रसिद्ध्यति ।
अत्र सर्वे सुरा भद्रैश् चरन्ति बोधिमानसाः ॥ र्म्_29.127{26} ॥
तत् तत्रापि मनुष्याणां हिताय भगवान् अपि ।
जम्बुद्वीपे ऽधुना शास्तः समवतर्त्तुम् अर्हति ॥ र्म्_29.128{27} ॥
इति संप्रार्थिते तेन मौद्गल्येन महात्मना ।
भगवांस् तं महासत्वं मौद्गल्यम् एवम् आदिशत् ॥ र्म्_29.129{28} ॥
साधु गछाधुना तत्र जम्बुद्वीपे निजाश्रमे ।
गत्वा लोकसभामध्ये स्थित्वैवं संप्रबोधय ॥ र्म्_29.130{29} ॥
अवतरेज् जगद्वन्धुर् इतो ऽह्नि सप्तमे दिवः ।
सांकाशे नगरे ह्य् आपज्जुरे वन उदुम्वरे ॥ र्म्_29.131{30} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् ।
तथेति प्रतिविज्ञप्य तथा कर्तुं समैछत ॥ र्म्_29.132{31} ॥
अथ स ऋद्धिमान् योगी मौद्गल्यायन आत्मवित् ।
सांजलिस् तं मुनिं नत्वा समाधिं विदधे तदा ॥ र्म्_29.133{32} ॥
ततः सो ऽर्हं महाभिज्ञो मौद्गल्यो ऽन्तर्हितो दिवि ।
क्षणात् पक्षी यथाकाशाज् जम्बुद्वीपम् अवातरत् ॥ र्म्_29.134{33} ॥
तत्र जेताश्रमे सो ऽर्हन्न् अवतार्य निजाश्रमे ।
शुभासनसमासीनः प्रभासयन् न्यषीदत ॥ र्म्_29.135{34} ॥
तं दृष्ट्वासन आसीनं मौद्गल्यं समुपागतं ।
मत्वा ते सांघिकाः सर्वे मुदिताः समुपाचरन् ॥ र्म्_29.136{35} ॥
तच् छ्रुत्वा मुदिताः सर्वे लोकाश् चापि नृपादयः ।
विहारे जेतकारामे सहसा समुपाचरन् ॥ र्म्_29.137{36} ॥
तत्रासनसमासीनं मौद्गल्यं तं महर्द्धिकं ।
दृष्ट्वा सर्वे ऽपि ते नत्वा परिवृत्योपतस्थिरे ॥ र्म्_29.138{37} ॥
ततस् ते भिक्षवः सर्वे मौद्गल्यं तं महर्द्धिकं ।
कृतांजलिपुटा नत्वा पप्रछुर् एवम् आदरात् ॥ र्म्_29.139{38} ॥
भदन्त कुशलं कच्चिद् भवतो ऽपि जगद्गुरोः ।
कुत्र स भगवान् धर्मम् आदिशंस् तिष्ठते दिवि ॥ र्म्_29.140{39} ॥
कदा स भगवांच् छास्ता स्वर्गाद् इह समाचरेत् ।
कथं चापि समाख्याति तत् सर्वं समुपादिश ॥ र्म्_29.141{40} ॥
इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनो यतिः ।
तां सर्वान् संघिकाल् लोकांश् चापि दृष्ट्वैवम् अब्रवीत् ॥ र्म्_29.142{41} ॥
भवन्तः कुशलं शास्तु मुनीन्द्रस्य ममापि च ।
युष्माकम् अपि नाम्नो ऽहम् अवन्दं तं मुनीश्वरं ॥ र्म्_29.143{42} ॥
परिजातम् उपाश्रित्य सेन्द्रदेवैः समर्चितः ।
मातुः स भगवान् धर्मम् आदिशंस् तिष्ठते दिवि ॥ र्म्_29.144{43} ॥
यथा युष्माभिर् आख्यातं तथा निवेदितं मया ।
श्रुत्वा स भगवांच् छास्ता ममैवं समुपादिशत् ॥ र्म्_29.145{44} ॥
इतो ऽह्नि सप्तमे स्वर्गाद् अवतरेय भूतले ।
सांकाशनगरोपापज्जुरे वने उदुम्वरे ॥ र्म्_29.146{45} ॥
इत्य् आदिश्य मुनीन्द्रेण प्रेषितो ऽहम् इहाचरे ।
एतद् यूयं परिज्ञाय प्राभ्यनन्दत सांप्रतं ॥ र्म्_29.147{46} ॥
इति तेनार्हताख्यातं श्रुत्वा ते संघिका मुदा ।
सेवं नृपादि लोकाश् च प्राभ्यनन्दन् प्रमोदिताः ॥ र्म्_29.148{47} ॥
ततस् ते सांघिकाः सर्वे लोका भूपादयो ऽपि च ।
सांकाशनगरोपापज्जुरे वने उपाचरन् ॥ र्म्_29.149{48} ॥
तदा स भगवांस् तत्र स्वर्गे सेन्द्रान् सुरान् अपि ।
मातरं समुपामंत्र्य पुर एवम् उपादिशत् ॥ र्म्_29.150{49} ॥
मातः सेन्द्रादि देवाश् च यूयं सर्वे समादरात् ।
त्रिरत्नभजनं कृत्वा प्रचरध्वं सदा शुभे ॥ र्म्_29.151{50} ॥
गछेयं सांप्रतं धर्मम् उपदेष्टुं महीतले ।
नृणाम् अपि हितार्थेन गन्तुम् इछामि नान्यथा ॥ र्म्_29.152{51} ॥
इत्य् आदिष्टं मुनीन्द्रेण सर्वे सेन्द्राः सुरा अपि ।
मातापि सांजलिर् नत्वा प्रार्थयत् तं मुनीश्वरं ॥ र्म्_29.153{52} ॥
भगवन् नाथ सर्वज्ञ को ऽस्माकं धर्मम् आदिशेत् ।
तद् अत्र कृपया धर्मम् आदेष्टुं स्थातुम् अर्हति ॥ र्म्_29.154{53} ॥
इति तैः प्रार्थिते भूयो भगवान् स मुनीश्वरः ।
मातरं तान् सुरान् सर्वान् दृष्ट्वैवं च समादिशत् ॥ र्म्_29.155{54} ॥
मातर् नाहं सदैकत्र तिष्ठेयं धर्मम् आदिशन् ।
सर्वसत्वहितार्थेन संबुद्धो ऽस्मि जगद्गुरुः ॥ र्म्_29.156{55} ॥
तन् मातर् अहम् आलोक्य मर्त्यानां हितकाम्पया ।
सद्धर्मामृतसंदानं दातुं गछामि सांप्रतं ॥ र्म्_29.157{56} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा माता सुरा अपि ।
सेन्द्राः सर्वे ऽपि ते शास्तुः पादाम्बुजे प्रणेमिरे ॥ र्म्_29.158{57} ॥
ततस् ते त्रिदशाः सर्वे मातापि तस्य तायिनः ।
त्रिधा प्रदक्षिणीकृत्य नत्वा स्वस्वालयं ययुः ॥ र्म्_29.159{58} ॥
ततः स भगवांस् तत्र देवालये समाहितः ।
तत् समाधिं समाधाय क्षणाद् अन्तर्हितो ऽचरत् ॥ र्म्_29.160{59} ॥
ततः स भगवांस् तत्र जम्बुद्वीपे प्रभासयन् ।
सांकाशनगरोपापज्जुरे दावे उदुम्वरे ॥ र्म्_29.161{60} ॥
अवतीर्य क्षणात् तत्र शुद्धासने सुरास्तृते ।
समाधाय समासीनस् तस्थौ ध्यानसमाहितः ॥ र्म्_29.162{61} ॥
तं दृष्ट्वा स्वासनासीनं श्रीघनं समुपागतं ।
सर्वे ते सांघिका लोका भूपादयो ऽप्य् उपाचरन् ॥ र्म्_29.163{62} ॥
तत्र तं श्रीघनं नत्वा सर्वे ते संप्रमोदिताः ।
त्रिधा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ र्म्_29.164{63} ॥
ब्रह्मशक्रादि देवाश् च यक्षगंधर्वकिन्नराः ।
दैत्या विद्याधरा नागा गरुडाः सिद्धादयो ऽपि च ॥ र्म्_29.165{64} ॥
श्रीघनं समायातं द्रष्टुं सर्वे समागताः ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ र्म्_29.166{65} ॥
तत्रोपपादुको भिक्षुर् भगवन्तं ससांघिकं ।
देवादि सर्वलोकांश् च भोजयितुं न्यमंत्रयत् ॥ र्म्_29.167{66} ॥
भगवान् अपि देवादि लोकाः सर्वे प्रसादिताः ।
तस्यानुग्रहम् आधातुं तथेति प्रत्यमोदयन् ॥ र्म्_29.168{67} ॥
अथ स भगवांस् तत्र भोजनसमयागते ।
संघमेलापने गण्डीम् आकोटयन् प्रनादिनीं ॥ र्म्_29.169{68} ॥
तद्गण्डीदेशनाकाले तस्य भिक्षोर् यथेहितं ।
तथासनां वस्त्राणि दिव्यानि रुचिरानि च ॥ र्म्_29.170{69} ॥
पूजाङ्गान्य् अपि दिव्यानि भोज्यपानामृतान्य् अपि ।
सर्वाण्य् उपचारवस्तूनि पुनः प्रादुर्बभूविरे ॥ र्म्_29.171{70} ॥
तदा स भिक्षुर् आलोक्य सर्वसामग्रसंयुतं ।
भगवंतं ससंघं तं नत्वैवं प्रार्थयन् मुदा ॥ र्म्_29.172{71} ॥
भगवन् भोजनस्यात्र समयो वर्त्तते ऽधुना ।
तत् ससंघो भवान् अत्र स्वस्वासने निषीदतु ॥ र्म्_29.173{72} ॥
ततः स भगवांस् तत्र पाद्यं गृह्य ससांघिकः ।
स्वस्वासने समारुह्य समाश्रयद् यथाक्रमं ॥ र्म्_29.174{73} ॥
तथा देवादि लोकाश् च सर्वस्वस्वासनेषु तत् ।
यथाक्रमं समाश्रित्य संनिषेदुः प्रसादिताः ॥ र्म्_29.175{74} ॥
तान् बुद्धप्रमुखान् सर्वान् स्वस्वासनसमाश्रितान् ।
दृष्ट्वा स मुदितो भिक्षुर् यथाविधिं समर्चयत् ॥ र्म्_29.176{75} ॥
ततो दिव्योपचारैस् तैर् भोज्यपानामृतादिभिः ।
तान् बुद्धप्रमुखान् सर्वन् यथेछैः समतोषयत् ॥ र्म्_29.177{76} ॥
संबुद्धप्रमुखाः सर्वे संघा लोकाः सुरादयः ।
तद् दिव्यभोजनं भुक्त्वा विस्मितास् तृप्तिम् आययुः ॥ र्म्_29.178{77} ॥
ततः स भिक्षुर् आलोक्य सर्वान्स् तान् संप्रतोषितान् ।
तत्पात्राण्य् अपनीत्वा तद्धस्तादीन् समशोधयत् ॥ र्म्_29.179{78} ॥
ततः स भिक्षुर् ओषध्यताम्बूलादि रसायनैः ।
तान् बुद्धप्रमुखान् सर्वान् संमोदितान् अकारयत् ॥ र्म्_29.180{79} ॥
तत्रोपपादुको भिक्षुः सांजलिः संप्रमोदितः ।
ससांघिकं मुनीन्द्रं तं नत्वा तत्पुर आश्रयत् ॥ र्म्_29.181{80} ॥
ततः स भगवांस् तस्य भिक्षोर् मत्वा शुभाशयं ।
आर्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_29.182{81} ॥
तद्धर्मदेशनां श्रुत्वा स उपपादुको यतिः ।
भित्वा ऽविद्यागणं प्राप्तविद्याभिज्ञापदो भवन् ॥ र्म्_29.183{82} ॥
पंचगण्डमयं देहं संसारम् अतिचञ्चलं ।
विदित्वा सर्वसंस्कारगतीश् चापि विघातिनीः ॥ र्म्_29.184{83} ॥
क्लेशान् मारगणाञ् चापि जित्वार्हत्वम् अवाप्तवान् ।
ततः सो ऽर्हं महाभिज्ञः परिशुद्धत्रिमंडलः ॥ र्म्_29.185{84} ॥
जितेंद्रियो विशुद्धात्मा निर्विकल्पो निरंजनः ।
संसारलाभसत्कारनिस्पृहस् त्रिजगत्स्व् अपि ॥ र्म्_29.186{85} ॥
वंद्यः पूज्यो ऽभिमान्यो ऽभूद् ब्रह्मचारी जिनात्मजः ॥ र्म्_29.187{86} ॥
तद् दृष्ट्वा भिक्षवः सर्वे विस्मयाकुलिताशयः ।
भगवंतं तम् आनम्य पप्रछुस् तत् पुराकृतं ॥ र्म्_29.188{87} ॥
भगवन् किं पुरानेन भिक्षुणा सुकृतं कृतं ।
येनोपपादुको ऽर्हं च भवत्य् अयं महासुधीः ॥ र्म्_29.189{88} ॥
यच् चाप्य् अस्य यतेर् भिक्षोः प्रार्थितं तत् समृध्यति ।
एतत् सर्वं समाख्याय सर्वान् अस्मान् प्रबोधय ॥ र्म्_29.190{89} ॥
एवं तैर् भिक्षुभिः प्रार्थिते स मुनीश्वरः ।
तान् सर्वान् सांघिकाल् लोकान् समालोक्यैवम् आदिशत् ॥ र्म्_29.191{90} ॥
शृणुध्वं भिक्षवानेन भिक्षुणा यत् पुराकृतं ।
तत् सर्वं संप्रवक्ष्यामि युष्मच्चित्तप्रबोधने ॥ र्म्_29.192{91} ॥
पुरासीन् भगवान् बुद्धो विपश्ची नाम सर्ववित् ।
धर्मराजो जगच्छास्ता तथागतो मुनीश्वरः ॥ र्म्_29.193{92} ॥
स संबुद्धो जगन्नाथो वन्धुमतो महीपतेः ।
वन्धुमत्या महापूर्य्या राजधान्या उपाश्रये ॥ र्म्_29.194{93} ॥
जिनाश्रमे महोद्याने सर्वसत्वहितेछया ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ र्म्_29.195{94} ॥
तस्य विपश्चिनः शास्तुः सांघिकाः पंचभिक्षवः ।
अन्यस्मिन् महोद्याने वर्षासु व्यहरन्स् तदा ॥ र्म्_29.196{95} ॥
तत्रैकभिक्षुणा तेषां चतुर्णां ब्रह्मचारिणां ।
वैयावृत्यकृतं कर्म सुप्रसन्नानुचारिणा ॥ र्म्_29.197{96} ॥
ततस् ते भिक्षवस् सर्वे चत्वारस् तत्प्रसाधनात् ।
सर्वविद्यासमुद्युक्ताः समाधिसाधनोद्यताः ॥ र्म्_29.198{97} ॥
क्लेसान् मारगणाञ् जित्वा परिशुद्धत्रिमण्डलाः ।
साक्षाद् अर्हत्त्वसंप्राप्ता बभूवु ब्रह्मवित्तमाः ॥ र्म्_29.199{98} ॥
तान् अर्हतो महाभिज्ञान् दृष्ट्वा स पंचमो यतिः ।
मुदितस् तच्चरणान् नत्वा प्रणिधानं तथा व्यधात् ॥ र्म्_29.200{99} ॥
यद् एतेभिर् ममागम्य साक्षाद् अर्हत्त्वम् आगतं ।
एतद्धर्मविपाकेन प्रव्रज्यार्हत्त्वम् आप्नुयां ॥ र्म्_29.201{100} ॥
सर्वोपकरणैर् द्रव्यैर् अवैकल्यं यथेहितं ।
तत् तथा सर्वम् अप्य् एव सर्वत्रापि समृद्ध्यतु ॥ र्म्_29.202{1} ॥
एतत्पुण्यविपाकेन स भिक्षुः पंचमः सुधीः ।
अयम् एव महाभिज्ञो भवति हीति मन्यतां ॥ र्म्_29.203{2} ॥
पुनर् अपि भवत्य् अत्र येनायम् उपपादुकः ।
तत् कर्मं प्रवक्ष्यामि शृणुत यूयम् आदरात् ॥ र्म्_29.204{3} ॥
पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
अर्हन् नाथो जगच्छास्ता धर्मराजस् तथागतः ॥ र्म्_29.205{4} ॥
स संबुद्धो महापूर्या वाराणस्या उपाश्रमे ।
मृगदावे ऽदिशद् धर्मं विजहार ससांघिकः ॥ र्म्_29.206{5} ॥
तस्मिंश् च समये तत्र वाराणस्यं गृहाधिपः ।
आसीत् तस्य प्रिया भार्य्या गर्भिणी गर्भपीडिता ॥ र्म्_29.207{6} ॥
प्रसूतिसमये ऽक्रन्दद् आर्त्तस्वरा विलापिता ।
तस्या आर्त्तरवं श्रुत्वा स भर्त्ता करुणार्दितः ।
शोकालये समुद्विग्नः निश्रित्यैवं व्यचिंतयत् ॥ र्म्_29.208{7} ॥
हा दुःखं गर्ब्भपीडास्या जायते किं करिष्यते ।
एवं दुःखं हि संसारे रोगिणां भवचारिणां ॥ र्म्_29.209{8} ॥
मातुर् एवं महद् दुःखं गर्ब्भस्थस्य शिशोर् न किं ।
एतद् दुःखम् अहं सोढुं न शक्नुयां कथं चन ॥ र्म्_29.210{9} ॥
तद् अत्र काश्यपस्याहं शासने शरणं गतः ।
प्रव्रज्य संवरं धृत्वा चरेयं संवृतिं सदा ॥ र्म्_29.211{10} ॥
इति निश्चित्य स श्रेष्ठी गत्वा काश्यपशासने ।
प्रव्रज्य संवरं धृत्वा चचार संवृतिं सदा ॥ र्म्_29.212{11} ॥
ततः काले समाघ्राते श्रेष्ठी स परिखेदितः ।
त्रिरत्नस्मरणं कृत्वा प्रणिधानं व्यधात् तदा ॥ र्म्_29.213{12} ॥
एतत्पुण्यविपाकेन सर्वदात्र पुनर्भवे ।
मातुर् गर्भे ह्य् अजायेयं भवेयम् उपपादुकः ॥ र्म्_29.214{13} ॥
एतेन प्रणिधानेन काश्यपशरणं गतः ।
त्रिरत्नभजनैः कृत्वा प्रचचार समाहितः ॥ र्म्_29.215{14} ॥
एतत्पुण्यविपाकेन सार्थवाहः स सन्मतिः ।
भवत्य् अयं महाभिज्ञः सांप्रतम् उपपादुकः ॥ र्म्_29.216{15} ॥
यथानेन तदा तत्र प्रणिधानं कृतं मुदा ।
तथात्र शासने बौद्धे प्रव्रज्यार्हत्त्वम् आप्यते ॥ र्म्_29.217{16} ॥
एवं हि मन्यतां सर्वे संसारे कर्म यत् कृतं ।
तत् फलं भुज्यते नूनं यथेहितं तथा ध्रुवं ॥ र्म्_29.218{17} ॥
येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं ।
अभुक्तं क्षीयते नैव कृतकर्मफलं क्वचित् ॥ र्म्_29.219{18} ॥
नाग्निभिर् दह्यते कर्मं क्रियते नापि चोदकैः ।
वायुभिः शुष्यते नापि क्षीयते नैव भूमिषु ॥ र्म्_29.220{19} ॥
अन्याथापि भवेन् नैव यत् कृतं तत् फलं खलु ।
सर्वत्र भुज्यते सर्वैर् जन्तुभिर् भवचारिभिः ॥ र्म्_29.221{20} ॥
कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे ।
शुभस्य सुखता नित्यं मिश्रितस्यापि मिश्रितं ॥ र्म्_29.222{21} ॥
एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_29.223{22} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवस् तथा ।
सत्यम् इति परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_29.224{23} ॥
सो ऽपि भिक्षुः परिज्ञाय श्रुत्वैवं सुगतोदितं ।
प्रबोधितः प्रसन्नात्मा प्राचरन् सर्वदा शुभे ॥ र्म्_29.225{24} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
श्रुत्वा राजन्स् त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ र्म्_29.226{25} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
प्रेरयित्वा शुभे धर्मे पालनीयास् त्वयादरात् ॥ र्म्_29.227{26} ॥
एवं ते सर्वदा राजन् सर्वत्रापि शुभं भवेत् ।
क्रमेण बोधिम् आसद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_29.228{27} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनंदत् सपार्षदः ॥ र्म्_29.229{28} ॥
यदावदानं ह्य् उपपादुकस्य शृण्वंति ये चापि निशामयंति ।
सर्वे ऽपि ते क्लेशविमुक्तदेहा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ र्म्_29.230{29} ॥
++ इति श्रीरत्नावदानतत्वे उपपादुकावदानं समाप्तम् ++
xxx अनित्यतासूत्र
अथाशोको महीपालः कृतांजलिः पुरोगतः ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_30.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_30.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हं सुधीर् यतिः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_30.3{3} ॥
साधु शृणु महाराज तव पुण्यप्रवृद्धये ।
याथा मे गुरुणाख्यातं तथा मया प्रवक्ष्यते ॥ र्म्_30.4{4} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो महामुनिः ।
एकस्मिन् समये तत्र श्रावस्त्या बहिर् आश्रमे ॥ र्म्_30.5{5} ॥
जेतोद्याने मनोरम्ये विहारे मणिमण्डिते ।
सर्वलोकहितार्थेन विजहार ससांघिकः ॥ र्म्_30.6{6} ॥
तत्र स भगवांच् छास्ता सभास्थितः प्रभासयन् ।
तां सर्वान् सांघिकान् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ र्म्_30.7{7} ॥
अनित्या भिक्षवः सर्वे संस्कारा अध्रुवाः क्षणाः ।
विपरिणामधर्माणो ऽस्थिरा नास्वासिका अपि ॥ र्म्_30.8{8} ॥
यावन्तो भिक्षवः सत्वाश् चतुर्योनिसमुद्भवाः ।
भौतिकाः प्राणिनः सर्वे जंगमा अचला अपि ॥ र्म्_30.9{9} ॥
एते ऽपि प्राणिनः सर्वे संस्कारभवचारिणः ।
स्वकृतकर्मभुंजानो भ्रमन्ति षड्गतिष्व् अपि ॥ र्म्_30.10{10} ॥
यावन्तः प्राणिनः सत्वाः सर्वेषु नरकेष्व् अपि ।
स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः ॥ र्म्_30.11{11} ॥
ते सर्वे ऽपि स्वदैवांत्ते काले मृत्युं व्रजन्त्य् अपि ।
कृतकर्मानुसारेण पुनर्भवे भ्रमंति ते ॥ र्म्_30.12{12} ॥
कस्य न जन्म मृत्युश् च मरणांतं हि जीवितं ।
यावंतः प्रेतिकाः सत्वाः सर्वे प्रेतालयेष्व् अपि ॥ र्म्_30.13{13} ॥
स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः ।
ते च सर्वे ऽपि कर्मांते काले मृत्युं प्रयांत्य् अपि ॥ र्म्_30.14{14} ॥
कृतकर्मानुसारेण पुनर्जन्म लभंति ते ।
सर्वेषाम् अपि जन्तूनां संस्कारगतिचारिणां ॥ र्म्_30.15{14!} ॥
कस्य न जन्म मृत्युश् च मरणांतं हि जीवितं ।
तिर्यग्गतिषु यावंतस् तिर्यञ्चुः प्राणिनश् च ते ॥ र्म्_30.16{15} ॥
सर्वे ऽपि कर्मभुंजानो भ्रमंति स्वकृतानुगाः ।
ते च सर्वे ऽपि कर्मान्ते काले मृत्युं व्रजंत्य् अपि ॥ र्म्_30.17{16} ॥
ते च कर्मानुसारेण पुनर्जन्म लभन्त्य् अपि ।
सर्वेषाम् अपि जंतूनां संस्कारगतिचारिणां ॥ र्म्_30.18{17} ॥
कस्य न जन्म मृत्युश् च मरनांतं हि जीवितं ।
यावन्तो मनुजाः सत्वा मर्त्यलोकेषु भूमिषु ।
स्वकृतकर्मभुंजाना भ्रमंति सुखदुःखिताः ॥ र्म्_30.19{18} ॥
ते च सर्वे ऽपि कर्मान्ते काले मृत्युं प्रयांत्य् अपि ।
ते च कर्मानुसारेण पुनर्जन्म लभंत्य् अपि ॥ र्म्_30.20{19} ॥
ये चापि ब्राह्मणा धीराः सर्वे शास्त्रविचक्षणाः ।
षट्कर्मनिरता विज्ञाश् चतुर्ब्रह्मविहारिणः ॥ र्म्_30.21{20} ॥
ते ऽपि सर्वे स्वकर्मानुभुंजानो भवचारिणः ।
प्रयांति समये मृत्युं कस्य मृत्युर् भवे न हि ॥ र्म्_30.22{21} ॥
यावन्तो ऋषयो धीराः पंचाभिज्ञागुणाब्धयः ।
ते सर्वे समये मृत्युं प्रयांति भवचारिणः ॥ र्म्_30.23{22} ॥
ये चापि तीर्थिका धीरा महत्कष्टतपोधराः ।
ते ऽपि च समये मृत्युं गछंति भवगामिनः ॥ र्म्_30.24{23} ॥
ये धीरा योगिनश् चापि योगध्यानसमाहिताः ।
ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ र्म्_30.25{24} ॥
ये चाप्य् उपासका धीराः शुद्धशीला व्रतंधराः ।
ते चापि समये सर्वे प्रयांति मरणं ध्रुवं ॥ र्म्_30.26{25} ॥
ये चापि क्षत्रिया वीरा राजानो लोकपालकाः ।
ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ र्म्_30.27{26} ॥
ये चापि मंत्रिणो विज्ञा हितार्थं मंत्रदेशकाः ।
ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ र्म्_30.28{27} ॥
ये चाप्य् एवं महामात्या राज्यपालनतत्पराः ।
ते सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ र्म्_30.29{28} ॥
ये च भट्टा महावीरा दुष्टमर्दनतत्पराः ।
ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ र्म्_30.30{29} ॥
ये चापि धनिनः श्रेष्ठाः साधवो भद्रकारकाः ।
ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ र्म्_30.31{30} ॥
ये चापि वणिजो धीराः सार्थवाहा धनाधिपाः ।
ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ र्म्_30.32{31} ॥
ये चापि शिल्पिनो विज्ञा हितार्थं गुणसाधकाः ।
ते ऽपि सर्वे प्रगछंति समये मरणं ध्रुवं ॥ र्म्_30.33{32} ॥
ये चापि कृषिकर्त्तारः प्राणहितार्थसाधकाः ।
ते ऽपि सर्वे व्रजन्त्य् एव मरणं समये ध्रुवं ॥ र्म्_30.34{33} ॥
ये च वैश्याः प्रजानाथाः सर्वद्रव्यहितंकराः ।
ते ऽपि सर्वे व्रजन्त्य् एव समये मरणं ध्रुवं ॥ र्म्_30.35{34} ॥
ये चापि सद्गुणाधाना दैवज्ञा विधिवित्तमाः ।
ते चापि समये सर्वे प्रयांति मरणं ध्रुवं ॥ र्म्_30.36{35} ॥
ये च वैद्या महाविज्ञाः सर्वरोगशमंकराः ।
ते ऽपि सर्वे व्रजन्त्य् एव मरणं समये ध्रुवं ॥ र्म्_30.37{36} ॥
ये चपि भौतिका विज्ञाः सर्वभूतप्रशांतकाः ।
ते ऽपि सर्वे विसंयोगाद् व्रजंति मरणं ध्रुवं ॥ र्म्_30.38{37} ॥
ये चापि मंत्रिणो वीराः सर्वे कर्मार्थसाधकाः ।
ते ऽपि सर्वे विसंयोगात् प्रयांति मरणं ध्रुवं ॥ र्म्_30.39{38} ॥
एवम् अन्ये ऽपि लोकाश् च निहीनमध्यमोत्तमाः ।
सर्वे मृत्युं प्रयान्त्य् एव कस्य मृत्युर् वशे खलु ॥ र्म्_30.40{39} ॥
गंधर्वाश् च महावीरा देवाधिका महर्द्धिकाः ।
ते ऽपि सर्वे व्रजन्त्य् एव निस्सारा मरणं ध्रुवं ॥ र्म्_30.41{40} ॥
कुम्भाण्डाश् च महावीरा महाभीमा महावलाः ।
ते ऽपि काले प्रयान्त्य् एव सर्वत्र मरणं ध्रुवं ॥ र्म्_30.42{41} ॥
नागाश् चापि महाभिमा गरुडाश् चा महर्द्धिकाः ।
ते ऽपि सर्वे प्रयान्त्य् एव काले मृत्युं भवेद् ध्रुवं ॥ र्म्_30.43{42} ॥
यक्षाश् चापि महावीरा देवासुरमहर्द्धिकाः ।
ते ऽपि सर्वे प्रयान्त्य् एव काले मृत्युं निरुद्यमाः ॥ र्म्_30.44{43} ॥
किन्नराश् च महावीराः खगामिनो महर्द्धिकाः ।
ते ऽपि सर्वे निरुत्साहाः काले यान्ति यमालयं ॥ र्म्_30.45{44} ॥
सिद्धाश् चापि महावीराः सर्वकार्यार्थसाधकाः ।
ते ऽपि सर्वे व्रजन्त्य् एव काले मृत्युं निरुद्यमाः ॥ र्म्_30.46{45} ॥
साध्याश् चापि महाधीरः सर्वहितार्थसाधकाः ।
ते ऽपि सर्वे प्रयान्त्य् एव मरणं सर्वदा ध्रुवं ॥ र्म्_30.47{46} ॥
राक्षसाश् च महाभीमा महावीर्यपराक्रमाः ।
ते ऽपि सर्वे प्रयान्त्य् एव निवीर्या मरणं ध्रुवं ॥ र्म्_30.48{47} ॥
एवम् अन्ये ऽपि सत्वाश् च सिंहव्याघ्रादि जंतवः ।
पशवः पक्षिणश् चापि क्रिमिकीटादयो ऽपि च ॥ र्म्_30.49{48} ॥
अण्डजाः स्वेदजाश् चैव सर्वे ऽपि प्राणिनो ऽपि ते ।
काले दैवानुभोक्तारो व्रजन्ति मरणं ध्रुवं ॥ र्म्_30.50{49} ॥
दैत्याश् चापि महावीरा माहावीर्या महर्द्धिकाः ।
ते ऽपि सर्वे प्रयांत्य् एवं समये मरणं ध्रुवं ॥ र्म्_30.51{50} ॥
शक्रादयो ऽपि देवेन्द्राः सार्वे देवाः सुधांशिनः ।
ते ऽपि काले दिवश् च्युत्वा भ्रमंति षड्गतिष्व् अपि ॥ र्म्_30.52{51} ॥
अप्सरसो ऽपि दिव्यांगा यथाकाम सुखंचराः ।
ताश् चापि समये सर्वाश् च्युत्वा यांति यमालयं ॥ र्म्_30.53{52} ॥
विद्याधरा महाभिज्ञा यथेछा सुखचारिणः ।
ते ऽपि सर्वे निरुत्साहाः काले यांति यमान्तिके ॥ र्म्_30.54{53} ॥
एवम् अन्ये ऽपि लोकाश् च जन्मिनो भवचारिणः ।
सर्वे ऽपि कर्मभुंजानः काले मृत्युं व्रजन्त्य् अपि ॥ र्म्_30.55{54} ॥
रसातलचरा ये स्वकृतकर्मभोजिनः ।
तेषां अपि च सर्वेषां मरनांतं हि जीवितं ॥ र्म्_30.56{55} ॥
कामधातुचरा ये च स्वकृते कर्मचारिणः ।
तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ॥ र्म्_30.57{56} ॥
रूपधातुगता ये चा ध्यानभोगसमाहिताः ।
तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ॥ र्म्_30.58{57} ॥
ये चाप्य् आरूपिणो देवा निरालोक्या निरंजनाः ।
तेषाम् अपि च सर्वेषां मरनांतं हि जीवितं ॥ र्म्_30.59{58} ॥
ये चापि भिक्षवो ऽर्हन्तो वीतक्लेशा जितेंद्रियाः ।
मारचर्याविनिर्मुक्ता निर्विकल्पा निरंजनाः ॥ र्म्_30.60{59} ॥
तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ।
कस्य मृत्युर् भवे नास्ति जन्मिनो मरणं ध्रुवं ॥ र्म्_30.61{60} ॥
प्रत्येकसुगता ये च निःक्लेशा विजितेंद्रियाः ।
निर्विकल्पा निरासंगा एकांतध्यानचारिणः ॥ र्म्_30.62{61} ॥
तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ।
कस्य नास्ति भवे मृत्युर् जातस्य मरणं ध्रुवं ॥ र्म्_30.63{62} ॥
बोधिसत्वा महासत्वाः सर्वसत्वहितंकराः ।
महाभिज्ञा महाधीराश् चतुर्ब्रह्मविहारिणः ॥ र्म्_30.64{63} ॥
दशभूमीश्वरा नाथा दशपारमितारताः ।
सत्वार्थवशिताप्राप्ता धारणीबलसंयुताः ॥ र्म्_30.65{67} ॥
तेषाम् अपि च सर्वेषां मरनांतं हि जीवितं ।
कस्य नास्ति भवे मृत्युर् जन्मिनो मरणं ध्रुवं ॥ र्म्_30.66{68} ॥
तथागताश् च संबुद्धाः सर्वज्ञाः सुगता जिनाः ।
मारजितो जगन्नाथाः षडभिज्ञा मुनीश्वराः ॥ र्म्_30.67{69} ॥
धर्मराजाः सुशास्तारो दशवला विनायकाः ।
समंतभद्रकर्त्तारश् चतुर्ब्रह्मविहारिणः ॥ र्म्_30.68{70} ॥
ते सर्वे भगवन्तो ऽपि त्रैधातुभुवनेष्व् अपि ।
बोधिचर्यां कृत्वा समादिश्य सद्धर्मं च समंततः ॥ र्म्_30.69{71} ॥
सर्वत्र मंगलं कृत्वा कृत्वा धर्ममयं जगत् ।
बोधिमार्गे प्रतिष्ठाप्य सर्वसत्वाञ् छुभान्वितान् ॥ र्म्_30.70{72} ॥
सर्वसंबुद्धकार्याणि समाप्य परिनिवृताः ।
सुपरिशुद्धनिर्वाणं समये संव्रजन्त्य् अपि ॥ र्म्_30.71{73} ॥
एवं मत्वात्र संसारे सर्वेषां मरणं ध्रुवं ।
सर्वान् संस्कारजान् दुःखान्स् त्यक्तुं प्रारभतोद्यमं ॥ र्म्_30.72{74} ॥
अनित्या वत संस्कारा अविद्याकल्पनोद्भवाः ।
क्लेशाश्रया महादुःखमूला विध्वंसिनो ऽशुभाः ॥ र्म्_30.73{75} ॥
तस्मात् संसारदुःखानि त्यक्तुम् इछंति ये नराः ।
ते मायासंरतिं त्यक्त्वा चरंतु बुद्धशासने ॥ र्म्_30.74{76} ॥
ये बुद्धशासने भक्त्या त्रिरत्नं शरणं गताः ।
संबोधिसंवरं धृत्वा संचरंते समाहिताः ॥ र्म्_30.75{77} ॥
ते सर्वे शुभात्मानो निःक्लेशा विमलाशयाः ।
बोधिचर्यां समासाद्य कुर्युस् सत्वहितं सदा ॥ र्म्_30.76{78} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं ।
सम्यक्षंबोधिम् आसाद्य भवेयुः सुगता जिनाः ॥ र्म्_30.77{79} ॥
ततः सर्वत्र लोकेषु कृत्वा लोके सुभद्रतां ।
बोधिमार्गे जगल्लोकं प्रतिष्ठाप्य प्रयत्नतः ॥ र्म्_30.78{80} ॥
ततो निर्वाणम् आसाद्य निर्विशेरं जिनालये ।
तदा ते विमलात्मानो निलीनाः स्यु निजालये ॥ र्म्_30.79{81} ॥
एवं मत्वा निजानंदं प्राप्तुं संबोधिसाधने ।
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0