रत्नमालावदान · भाग 261280
यावन्तश् चात्र त्रैलोक्ये संघाः पूगा गणाः स्मृताः ।
तेषाम् अग्रो महान् ख्यातो बुद्धसंघो जगद्वरः ॥ र्म्_26.127{14} ॥
संघरत्नम् इदं ये ऽत्र भजन्ति श्रद्धया मुदा ।
तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं ॥ र्म्_26.128{15} ॥
अप्रमेयम् असंख्येयं संबोधिमार्गचालकं ।
तद् अत्र सौगते संघे भजत श्रद्धयादरात् ॥ र्म्_26.129{16} ॥
इदं रत्नत्रयं ख्यातं सर्वसत्वशुभंकरं ।
वाञ्छितार्थप्रदं सिद्धं संबोधिज्ञानदायकं ॥ र्म्_26.130{17} ॥
तद् एतत् त्रितयं रत्नं संबोधिपदवांछिभिः ।
सत्कृत्य श्रद्धया नित्यं पूजनीयं समादरात् ॥ र्म्_26.131{18} ॥
ये त्रिरत्नं सदा नित्यं पूजयन्ति प्रसादिताः ।
न ते मारवशं याता भवंति बोधिलाभिनः ॥ र्म्_26.132{19} ॥
इति मत्वा त्रिरत्नं तद् दृष्ट्वा कृत्वानुमोदनां ।
साञ्जलिप्रणतिं कृत्वा दूराद् वन्दितुम् अर्हथ ॥ र्म्_26.133{20} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः ।
सर्वे लोकाः प्रसीदन्तस् त्रिरत्नशरणं ययुः ॥ र्म्_26.134{21} ॥
तत्र के चिज् जना भद्राः संबुद्धशरणं गताः ।
शिक्षापदं समादाय प्राचरत् सौगतं व्रतं ॥ र्म्_26.135{22} ॥
के चिद् भद्राशया विज्ञा संबुद्धशरणं गताः ।
प्रव्रज्याव्रतम् आदाय प्राचरद् ब्रह्मचारिकां ॥ र्म्_26.136{23} ॥
ततः क्लेशान् विनिर्जित्य संसारभोग्यनिस्पृहाः ।
साक्षाद् अर्हत्पदं प्राप्य बभूव ब्रह्मचारिणः ॥ र्म्_26.137{24} ॥
एतत् सर्वं समालोक्य तीर्थिकोपासको ऽपि सः ।
विस्मितः सुप्रसन्नात्मा त्रिरत्नं शरणं ययौ ॥ र्म्_26.138{25} ॥
ततः स तैर्थिकस् तस्य मुनीन्द्रस्य पदाम्बुजे ।
साञ्जलिप्रणतश् चैवं प्रणिधानं व्यधान् मुदा ॥ र्म्_26.139{26} ॥
अद्यारभ्य सदाप्य् अस्य मुनीन्द्रस्य जगद्गुरोः ।
सद्धर्मं समुपाश्रित्य त्रिरत्नोपासको भवे ॥ र्म्_26.140{27} ॥
एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके ।
संबोधिज्ञानम् आसाद्य भवेयं सुगतो जिनः ॥ र्म्_26.141{28} ॥
अतीर्णां तारयिष्यामि मोचयिष्याम्य् अमोचितान् ।
सर्वान् आश्वासयिष्यामि ह्य् अनाश्वस्तान् सुदुःखिनः ॥ र्म्_26.142{29} ॥
सत्वान् निर्वापयिष्यामि भवालयाद् अनिर्वृतान् ।
करिष्यामि सदा भद्रं त्रैधातुभुवनेष्व् अपि ॥ र्म्_26.143{30} ॥
इति तेन कृतं बोधिप्रणिधानं स्वचेतसा ।
मत्वा स भगवान् स्मितं विससर्ज सरश्मिकं ॥ र्म्_26.144{31} ॥
तदा ता रश्मयः पंचवर्णाः सर्वाः समंततः ।
लोकेषु प्रसृता भद्रं सौख्यं कृत्वा प्रसेरिरे ॥ र्म्_26.145{32} ॥
या अधस्ताद् गताभासो सर्वत्र नरकेषु ताः ।
प्रसृता अवभास्यैवं भद्रसौख्यं प्रचक्रिरे ॥ र्म्_26.146{33} ॥
तत्प्रभाभिः परिस्पृष्टा सर्वे ते नरकाश्रिताः ।
निर्दुःखा सौख्यम् आसाद्य विस्मयं समुपाययुः ॥ र्म्_26.147{34} ॥
ततस् ते नारकाः सत्वाः सर्वे ते नरके स्थिताः ।
एकैकनरकेष्व् एवं संमील्य संवभाषिरे ॥ र्म्_26.148{35} ॥
अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते ।
इतश् च्युताः किम् अन्यत्र समुत्पन्ना वयं खलु ॥ र्म्_26.149{36} ॥
इति संवादिनां तेसां सर्वेषां संप्रबोधने ।
भगवान् निर्मितं बुद्धं प्रेरयन् नरके प्रति ॥ र्म्_26.150{37} ॥
तं दृष्ट्वा नारकाः सर्वे विस्मिताः संप्रसादिताः ।
भूय एकत्र संमील्य मिथ एवं वभाषिरे ॥ र्म्_26.151{38} ॥
अहो वयम् इतश् च्युत्वा नैवान्यत्र गताः खलु ।
किं त्व् अस्यापूर्वरूपस्य प्रभावान् नः शुभायते ॥ र्म्_26.152{39} ॥
नूनम् अयं जगन्नाथो बुद्धो ऽस्मान् दुःखपीडितान् ।
समीक्ष्य कृपया दृष्ट्या समुद्धर्त्तुम् इहागतः ॥ र्म्_26.153{40} ॥
तद् अस्यात्र वयं सर्वे सत्कृत्य श्रद्धयादरात् ।
सर्वदा शरणं गत्वा भक्तुम् अर्हामहे ऽधुना ॥ र्म्_26.154{41} ॥
इति संभाषणां कृत्वा सर्वे ते संप्रसादिताः ।
अस्यैव शरणं गत्वा प्रणत्वा संप्रभेजिरे ॥ र्म्_26.155{41!} ॥
ततस् ते नारकाः सर्वे तत्पापपरिमोचिताः ।
परिशुद्धाः शुभात्मानः सद्गतिं सहसा ययुः ॥ र्म्_26.156{42} ॥
एवं तान् नारकान् सर्वाः समुद्धृत्य प्रभाश् च ताः ।
सर्वाः प्रत्यागतास् तत्र संबुद्धस्य पुरो ऽसरन् ॥ र्म्_26.157{43} ॥
एवम् ऊर्द्धं गतायाश् च रश्मयस् ताः समंततः ।
सर्वान् देवालयां लोकान् अवभास्य प्रसेरिरे ॥ र्म्_26.158{44} ॥
यावद् भवाग्रपर्यन्तम् अवभास्य समंततः ।
प्रसारिताः ततो गाथा निसृताः समचोदयन् ॥ र्म्_26.159{45} ॥
अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं ।
पुण्यम् एव जगत्सारं तत् पुण्यं चिनुतादरात् ॥ र्म्_26.160{46} ॥
निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि चरत सौगतं व्रतं ॥ र्म्_26.161{47} ॥
यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_26.162{48} ॥
तत् त्रिरत्नं सदा यूयं संस्मृत्वा शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजत बोधिप्राप्तये ॥ र्म्_26.163{49} ॥
एवं तद् घोषम् आकर्ण्य सर्वदेवाः प्रबोधिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादरात् ॥ र्म्_26.164{50} ॥
एवं ता रश्मयो देवाञ् चोदयित्वा समंततः ।
पुनः प्रत्यागतास् तत्र बुद्धान्तिकम् उपाययुः ॥ र्म्_26.165{51} ॥
तत्र ता रश्मयः सर्वा एकीभूत्वाभिपिण्डिताः ।
त्रिधा प्रदक्षिणीकृत्य सूष्णीषे ऽन्तर्दधुर् मुनेः ॥ र्म्_26.166{52} ॥
तद्दृष्ट्वा ससभालोकाः सर्वे ते विस्मयान्विताः ।
शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे ॥ र्म्_26.167{53} ॥
अथायुष्मान् महानन्दो मत्वा तल् लोकचिंतितं ।
उत्थाय सांजालिर् नत्वा पप्रछ तं मुनीश्वरं ॥ र्म्_26.168{54} ॥
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणे शंखमृणालगौरं स्मितम् उपदेशयन्ति जिना जितारयः ॥ र्म्_26.169{55} ॥
तत् कालं स्वयम् एवम् अधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेंद्र काङ्क्षितानां धीरभिर् ।
मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ र्म्_26.170{56} ॥
नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयंति धीरास् तं श्रोतुं समभिलषन्ति जनोघाः ॥ र्म्_26.171{57} ॥
तद् भवान् सर्वसत्वानां चित्ताभिपरिबोधने ।
यद् अभिलषितं कार्यं तद् उपदेष्टुम् अर्हति ॥ र्म्_26.172{58} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
आयुष्मन्तं तम् आनंदं समालोक्यैवम् आदिशत् ॥ र्म्_26.173{59} ॥
एवम् एतन् महानंद नाहेतुप्रत्ययं जिनाः ।
संबुद्धाः सुगताः सर्वे दर्शयन्ति स्मितं क्वचित् ॥ र्म्_26.174{60} ॥
शृण्व् आनंद यदर्थे ऽहं स्मितं मुञ्चामि सांप्रतं ।
तदर्थं संप्रवक्ष्यामि सर्वसत्वप्रबोधने ॥ र्म्_26.175{61} ॥
पश्यसि यद् अयं श्रेष्ठी तीर्थिकोपासको मुदा ।
ममात्र शरणं गत्वा प्रणिधानं करोति हि ॥ र्म्_26.176{62} ॥
एतत्पुण्यविपाकेन त्रिकल्पान्तम् अनात्मवित् ।
क्रमाद् बोधिचारीः सर्वाः परिपूर्य भवेत् सुधीः ॥ र्म्_26.177{63} ॥
ततः क्लेशगणाञ् जित्वा सर्वान् मारगणान् अपि ।
बोधिं प्राप्याचलो नाम तथागतो भविष्यति ॥ र्म्_26.178{64} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादि भिक्षवः ।
सर्वे ते सुप्रसन्नास्याः प्राभ्यनन्दन् सविस्मयाः ॥ र्म्_26.179{65} ॥
तथा तेन मुनीन्द्रेण व्याख्यातं स तैर्थिकः ।
श्रुत्वानुमोदनां कृत्वा प्राभ्यनन्दन् सविस्मयः ॥ र्म्_26.180{66} ॥
ततः स सर्वदा नित्यं सत्कृत्य श्रद्धया मुदा ।
त्रिरत्नभजानं कृत्वा प्राचरत् सौगतं व्रतं ॥ र्म्_26.181{67} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
त्वम् अप्य् एवं महाराज त्रिरत्नसेवको भव ॥ र्म्_26.182{68} ॥
प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः ।
त्रिरत्नभजनोत्साहे संचारयितुम् अर्हसि ॥ र्म्_26.183{69} ॥
तथा ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_26.184{70} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
सत्यम् इति प्रतिज्ञाय प्राभ्यनान्दत् स पार्थिकः ॥ र्म्_26.185{71} ॥
शृण्वन्तीदं नरा ये मुनिवरकथितं तैर्थिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमानसः श्रद्धया भक्तियुक्ताः ।
ते सर्वे बोधिसत्वाः सकलगुणभरा भद्रचर्या चरन्तो भुक्त्वा सत्सौख्यभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाः ॥ र्म्_26.186{72} ॥
++ इति श्रीरत्नावदानतत्वे तैर्थिकावदानं समाप्तम् ++
xxविइ मालिकावदान
अथाशोको महीनाथः कृतांजलिपुटो मुदा ।
उपगुप्तं तम् अर्हन्तं प्रणत्वा प्रार्थयत् पुनः ॥ र्म्_27.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं त्वं अर्हति ॥ र्म्_27.2{2} ॥
इति तेन नरेन्द्रेण प्रार्थितं स यतीश्वरः ।
उपगुप्तो नरेन्द्रन् तं समालोक्यैवं आदिशत् ॥ र्म्_27.3{3} ॥
शृणु साधु महाराज यथा मे गुरुणोदितं ।
तथाहं तत् प्रवक्ष्यामि तव पुण्यविवृद्धये ॥ र्म्_27.4{4} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ र्म्_27.5{5} ॥
एकस्मिन् समये तत्र श्रावस्त्या उपकण्ठिके ।
जेतारण्ये महोद्याने विहारे श्रावकैः सह ॥ र्म्_27.6{6} ॥
भिक्षुभिश् चैलकैश् चापि भिक्षुणीभिर् उपासकैः ।
उपासिकाभिर् अन्यैश् च बोधिसत्वगणैर् अपि ॥ र्म्_27.7{7} ॥
सर्वसत्वहितार्थेन बोधिचर्यं प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ र्म्_27.8{8} ॥
तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः ।
शक्रादयो ऽपि देवेन्द्रा ब्रह्मादिलोकपालकाः ॥ र्म्_27.9{9} ॥
दैत्येंद्रा गरुडा नागा यक्षगंधर्वकिंनराः ।
सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः ॥ र्म्_27.10{10} ॥
ऋषयो ब्राह्मणा चापि क्षत्रियाश् च नराधिपाः ।
वैश्या राजकुमाराश् च मंत्रिणो ऽमात्यका जनाः ॥ र्म्_27.11{11} ॥
गृहस्थाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च ।
पौरा जानपदा ग्राम्या अन्ये कार्पटिका अपि ॥ र्म्_27.12{12} ॥
सर्वे ते समुपागत्य तत्र तं श्रीघनं मुनिं ।
दृष्ट्वा प्रदक्षिणीकृत्य प्रणत्वा समुपाचरन् ॥ र्म्_27.13{13} ॥
यथाक्रमं समभ्यर्च्य नत्वा सांजलयो मुदा ।
परिवृत्य पुरस्कृत्य सर्वे ते समुपाश्रयन् ॥ र्म्_27.14{14} ॥
तान् सर्वान् समुपासीनां दृष्ट्वा स भगवान् मुनिः ।
आर्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_27.15{15} ॥
तद् धर्मं समुपाकर्ण्य सर्वे ते संप्रबोधिताः ।
धर्मवैशेषम् आज्ञाय बभुवुर् बोधिवांछिताः ॥ र्म्_27.16{16} ॥
तदा तत्र पुरे राजा प्रसेनजित् कौशलः ।
यदा न सुगतस् तत्र तदा तीर्थिकभाग् अभूत् ॥ र्म्_27.17{17} ॥
यदा तु सुगतस् तत्र ससांघिकः समागतः ।
तदा स नृपतिर् नित्यं श्रीघनं तं सदाभजत् ॥ र्म्_27.18{18} ॥
तस्मिंश् च समये तत्र कश्चिद् आरामिको वनात् ।
नवं पद्मैः समादाय राज्ञे दातुं पुरे ऽविशत् ॥ र्म्_27.19{19} ॥
तत्रैकपथि तं दृष्ट्वा तीर्थिकोपासिको मुदा ।
सहसा तस्य पुरो गत्वा प्रार्थयत् तं सरोरुहं ॥ र्म्_27.20{20} ॥
भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछसि ।
उचितं मूल्यम् आदाय मह्यं दातुं त्वम् अर्हसि ॥ र्म्_27.21{21} ॥
इति तेनार्थितं श्रुत्वा मालिकः लुभिताशयः ।
यदीछति भवान् दद्याम् इति तं दातुम् ऐछत ॥ र्म्_27.22{22} ॥
तस्मिन्न् एव क्षणे तत्र गृहस्थो ऽनाथपिण्डदः ।
पुष्पार्थी समुपायातो मालिकं तम् अपृछत ॥ र्म्_27.23{22} ॥
भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछति ।
द्विगुणं मूल्यम् आदाय भवान् मे दातुम् अर्हति ॥ र्म्_27.24{23} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽपि सः ।
तद्द्विगुणेन मूल्येन तद् पद्मं समयाचत ॥ र्म्_27.25{24} ॥
इति तेनार्थितं श्रुत्वा स चाप्य् अनाथपिण्डदः ।
तद्द्वैगुण्येन मूल्येन कमलं तम् अयाचत ॥ र्म्_27.26{25} ॥
तच् छ्रुत्वा तैर्थिकः सो ऽपि मददर्पाभिमानिनः ।
तत्त्रिगुणमूल्येन गृहीतुं तं समैछत ॥ र्म्_27.27{26} ॥
तद् दृष्ट्वा स गृहस्थेणानाथपिण्डदोत्सही ।
चतुर्गुणेन मूल्येन पद्मं तम् अभ्ययाचत ॥ र्म्_27.28{27} ॥
एवं तौ गृहपती सो थ यावच् छतसहर्स्रकैः ।
मूल्य तं पद्मम् आदाय मालिनं तं ययाचतुः ॥ र्म्_27.29{28} ॥
तद् दृष्ट्वारामिकः स ऽपि प्रवर्द्धयन् परस्परं ।
तयोर् द्वयोर् अदत्वैव मनसैवं व्यचिंतयत् ॥ र्म्_27.30{29} ॥
अयं गृहपतिः श्रेष्ठो ह्य् अनाथपिण्डदः सुधीः ।
अचपलो महाधीरः स्थिरसत्वो विचक्षणः ॥ र्म्_27.31{30} ॥
कस्यार्थे न्व् इदं पद्मम् इयन् मूल्येन याचते ।
नूनम् अत्र महद्धेतुर् भविष्यति न संशयः ॥ र्म्_27.32{31} ॥
तद् एतत् परिपृछाव दास्यामि सद्गुणार्थिने ॥ र्म्_27.33{32} ॥
इति ध्यात्वा स्वचित्तेन स आरामिक उत्सुकः ।
तैर्थिकं तं समालोक्य पप्रछैवं समादरात् ॥ र्म्_27.34{33} ॥
भो पुरुष भवान् कस्य कार्यस्यार्थे इदं कजं ।
इयन्मूल्येन विक्रेतुम् इछति तद् वदस्व मे ॥ र्म्_27.35{34} ॥
इति तेनोदितं श्रुत्वा स तैर्थिकः प्रमोदितः ।
आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् ॥ र्म्_27.36{35} ॥
यः श्रीपतिर् जगद्भर्त्ता नारायनो जनार्दनः ।
तस्य पूजां करिष्यामि तद् इदं देहि मे ऽम्बुजं ॥ र्म्_27.37{36} ॥
इति तेनोदितं श्रुत्वारामिको सानुबोधितः ।
अनाथपिण्डदं तं च दृष्ट्वा कार्यम् अपृछत ॥ र्म्_27.38{37} ॥
भो साधो भवंश् चापि किम् अर्थम् इदम् अम्बुजं ।
बहुमूल्यैव समाहर्त्तुम् इछति तद् वदस्व मे ॥ र्म्_27.39{38} ॥
इति तद् वचनं श्रुत्वा सो ऽनाथपिण्डदः सुधीः ।
आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् ॥ र्म्_27.40{39} ॥
साधु साधु महाभाग यद् इदं ते सरोरुहं ।
बहुमूल्येन वांछामि तद् अर्थं कथ्यते शृणु ॥ र्म्_27.41{40} ॥
यो ऽत्र शौद्धोदनी राजा चक्रवर्त्ती नृपाधिपः ।
सर्वसत्वहितार्थेन संबोधिसाधनोद्यतः ॥ र्म्_27.42{41} ॥
सर्वत्र भुवने लोके क्लेशाकुलासमाहिते ।
बोधिचर्याविहीने ऽत्र म्लेछधर्मप्रवर्त्तते ॥ र्म्_27.43{42} ॥
बोधिचर्यां स्वयं धृत्वा प्रकाशयितुम् उद्यतः ।
सर्वराज्यं परित्यज्य सर्वांश् चापि परिग्रहान् ॥ र्म्_27.44{43} ॥
वैराग्यधर्मम् आश्रित्य संसारभोगनिस्पृहः ।
गयाशीर्षे नगे गत्वा कृत्वा तपः सुदुष्करं ॥ र्म्_27.45{44} ॥
ततो लोके हितं कर्तुं समुत्थाय समाहितः ।
बोधिवृक्षतलासीनस् तस्थौ ध्यानसमाहितः ॥ र्म्_27.46{45} ॥
तत्र मारगणान् सर्वाञ् जित्वा क्लेशगणान् अपि ।
संबोधिज्ञानं आसाद्य बुद्धो भवति सांप्रतं ॥ र्म्_27.47{46} ॥
सो ऽयं बुद्धो जगच्छास्ता जगन्नाथो जगद्गुरुः ।
जगद्भर्त्ता जगत्त्रायी धर्मराजा मुनीश्वरः ॥ र्म्_27.48{47} ॥
सर्वज्ञः सुगतः श्रिमान् षडभिज्ञो विनायकः ।
सत्यवादी महाधीरः सत्यधर्मशुभार्थभृत् ॥ र्म्_27.49{48} ॥
समन्तभद्ररूपांशः सौम्यरूपो जितेंद्रियः ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितः ॥ र्म्_27.50{49} ॥
भगवाञ् छ्रीघनो ब्रह्मविहारिको गुणाकरः ।
सर्वत्रैधातुकाधीशःसर्वदुष्टप्रशान्तकृत् ॥ र्म्_27.51{50} ॥
सर्वमारविजेतार्हं संबोधिमार्गदेशकः ।
वाञ्छितार्थप्रदातारश् चिंतामणिगुणाधिकः ॥ र्म्_27.52{51} ॥
शुद्धशीलः शुभाचारः क्षान्तिव्रतधरः सुधीः ।
सर्वसत्वहितोद्योगी निःक्लेशः सर्वजित् कृती ॥ र्म्_27.53{52} ॥
समाधिध्यानसंरक्तः संबोधिधर्मभास्करः ।
प्रज्ञानिधिर् महाविज्ञः सर्वविद्याविशारदः ॥ र्म्_27.54{53} ॥
सर्वोपायविधानज्ञः प्रणिधिपारतारकः ।
त्रैलोकविजयी वीरः संबोधिकार्यपूरकः ॥ र्म्_27.55{54} ॥
विज्ञानोर्मिसमाधिस्थः संबोधिज्ञानरत्नभृत् ।
सर्वसत्वशुभंकारी सर्वाकारस्वरूपिकः ॥ र्म्_27.56{55} ॥
शाक्यमुनिर् महाबुद्धो जिनेश्वरस् तथागतः ।
सर्वसत्वहितार्थेन सर्वत्र समुपाचरन् ॥ र्म्_27.57{56} ॥
भासयन् सकलान् लोकान् भद्रं कृत्वा समंततः ।
इहापि सर्वसत्वानां भद्रं कर्तुं समागतः ॥ र्म्_27.58{57} ॥
सांप्रतं जेतकारामे विहारे सह सांघिकैः ।
सद्धर्मम् आदिशन् नित्यं विहरति प्रभासयन् ॥ र्म्_27.59{58} ॥
तस्य पूजाम् अहं कर्तुम् इछामि सांप्रतं खलु ।
तदर्थे बहुमूल्येन याचामीदं सरोरुहं ॥ र्म्_27.60{59} ॥
तद् भवान् मूल्यम् आदाय देहि मे इदम् अम्बुजं ।
यथाभिलषितं द्रव्यं दास्यामि ते प्रसाणयन् ॥ र्म्_27.61{60} ॥
श्रद्धयेदं प्रदत्तं चेत् त्वयाहं संप्रमोदितः ।
एतत्पुण्यविपाकेन बोधिचित्तम् अवाप्स्यसि ॥ र्म्_27.62{61} ॥
सर्वदा सद्गतिं यायाद् दुर्गतिं न कदा चन ।
क्रमाद् बोधिचरीः पूर्य संबोधिम् अपि प्राप्नुयाः ॥ र्म्_27.63{62} ॥
एवं मत्वा भवान् साधो यदि संबोधिम् इछति ।
यथाभिलषितं द्रव्यम् आदायेदं प्रदेहि मे ॥ र्म्_27.64{63} ॥
इति तेनार्थितं श्रुत्वा स मालिकः प्रमोदितः ।
तं गृहस्थम् अनाथानां भर्त्तारम् एवम् अब्रवीत् ॥ र्म्_27.65{64} ॥
अहो बुद्धो महाभिज्ञो दृश्यते न कदा चन ।
ईदृग् महद् गुणं चापि श्रुयते न क्वचिन् मया ॥ र्म्_27.66{65} ॥
तद् अहं तं जगन्नाथं द्रष्टुम् इछामि सांप्रतं ।
तत् सद्धर्मामृतं पातुं वांछा मे जायते खलु ॥ र्म्_27.67{66} ॥
तस्मात् तत्र स्वयं गत्वा संबुद्धं तं मुनीश्वरं ।
अनेन पुण्डरीकेन पूजयिष्ये ऽहम् आदरात् ॥ र्म्_27.68{67} ॥
तद् भवान् कृपया साधो संबुद्धस्य जगद्गुरोः ।
नीत्वा माम् आश्रमे तत्र सद्धर्मे योक्तुम् अर्हति ॥ र्म्_27.69{68} ॥
इति तेनार्थितं श्रुत्वा सो ऽनाथपिण्डदो मुदा ।
मालिकं तं समालोक्य पुनर् एवम् अभाषत ॥ र्म्_27.70{67} ॥
साधु साधु महाभाग कुरुष्वेवं यदीछसि ।
प्रागछ त्वं मया सार्द्धं पूजये तं मुनीश्वरं ॥ र्म्_27.71{68} ॥
इत्य् उक्त्वा मालिकं तं स गृहपतिः प्रसादयन् ।
आदाय जेतकारामे विहारे समुदाचरत् ॥ र्म्_27.72{69} ॥
तत्र तेन सहायेभ्य सो ऽनाथपिण्डदो गृही ।
सांजलिस् तं जगन्नाथं नत्वैकान्ते समाश्रयत् ॥ र्म्_27.73{70} ॥
ततः स मालिको द्राक्षीच् छ्रीघनं तं मुनीश्वरैः ।
सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं ॥ र्म्_27.74{71} ॥
द्वात्रिंशल्लक्षणाशीतिव्यांजनप्रतिमण्डितं ।
रत्नराशिम् इवोज्वालं व्योमप्रभाभ्यलंकृतं ॥ र्म्_27.75{72} ॥
समंतभद्ररूपांशं सौम्यरूपं शुभेन्द्रियं ।
दृष्ट्वा स मुदितो नत्वा कृत्वा त्रिधा प्रदक्षिणं ॥ र्म्_27.76{73} ॥
तत् पद्मं पुरतः क्षिप्त्वा कृतांजलिः पुरो मुदा ।
नत्वा पादौ मुनेस् तस्य तत्रैकान्ते समाश्रयत् ॥ र्म्_27.77{74} ॥
क्षिप्तमात्रं च तत्पद्मं सहसाकाशं संसरन् ।
छत्रीभूत्वा मुने मूर्द्ध्नर् उपरिस्थं व्यराजत ॥ र्म्_27.78{75} ॥
तद् दृष्ट्वा ते सभालोकः सर्वे ते विस्मयान्विताः ।
अहो बुद्धस्य माहात्म्यम् इति प्रोक्त्वा प्रसेदिरे ॥ र्म्_27.79{76} ॥
तद् दृष्ट्वा मालिकः स ऽतिविस्मयानंदिताशयः ।
उत्थाय सहसा शस्तुः पादयो न्यपतन् नतः ॥ र्म्_27.80{77} ॥
ततः स सांजलिर् नत्वा पादाब्जवोर् जगद्गुरोः ।
संबुद्धपदलाभाय प्रणिधानं व्यधाद् धृदो ॥ र्म्_27.81{78} ॥
एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके ।
क्लेशाकुले विनष्टे ऽहं भूयासं सुगतो जिनः ॥ र्म्_27.82{79} ॥
स्वयं तर्त्तुम् अशक्तानं तारयिता भवोदधिं ।
तथा क्लेशाब्धिमग्नानां समुद्धर्त्ता विमोचाकाः ॥ र्म्_27.83{80} ॥
धर्मे ऽनाश्वसितानं च सादाश्वासयितापि वै ।
अदृष्टबोधिमार्गानां दर्शयिता भवेय हि ॥ र्म्_27.84{81} ॥
इति तेन कृतं मत्वा प्रणिधानम् स सर्ववित् ।
भगवान् मुदितः प्राविरकार्षीत् स स्मितं तदा ॥ र्म्_27.85{82} ॥
तत्र स्मिते मुनीन्द्रस्य मुखपद्माद् विनिर्गताः ।
सुरश्मयः पंचवर्णाः प्रसेस्रुस् त्रिजगत्स्व् अपि ॥ र्म्_27.86{83} ॥
या अधस्ताद् गताभासस् ता सर्वनरकेष्व् अपि ।
अवभास्य शुभं कृत्वा प्रचक्रु दुःखनाशणं ॥ र्म्_27.87{84} ॥
तत्प्रभाभिः परिस्पृष्ट्वा सर्वे ते नरकाश्रिताः ।
दुःखमुक्ता सुखस्पृष्टा विस्मिता एवम् अब्रुवन् ॥ र्म्_27.88{85} ॥
अहो किं नु महासौख्यम् अस्माकं जायते ऽधुना ।
इतश् च्युताः कुहान्यत्र समुत्पन्ना वयं नु किं ॥ र्म्_27.89{86} ॥
इति चिन्तापरितानां तेषां चित्तप्रबोधने ।
भगवान् निर्मितं बुद्धं प्रेषयत् प्रति नैरयं ॥ र्म्_27.90{87} ॥
तद् दृष्ट्वा नरकस्थास् ते सर्वे ऽतिविस्मयान्विताः ।
परस्परं समालोक्य पुनर् एवं वभाषिरे ॥ र्म्_27.91{88} ॥
भवन्तो नो इतश् च्युत्वा नान्यत्र संगता वयं ।
इहैव नरके स्थाः स्म कुत्रापि चलिता न हि ॥ र्म्_27.92{89} ॥
किं त्व् अयं समुपायाता ह्य् अपूर्वदर्शनः पुमान् ।
नूनम् अस्यानुभावेन जायते शुभता ऽधुना ॥ र्म्_27.93{90} ॥
नूनम् अयं महासत्वो दृष्ट्वास्मान् दुःखपीडितान् ।
कृपया सर्वथोद्धर्त्तुं नरके ऽत्र समागतः ॥ र्म्_27.94{91} ॥
तद् अस्य समुपाश्रित्य प्रकृत्वा शरणं सदा ।
प्रणत्वा श्रद्धया नित्यं भजेमहि समादरात् ॥ र्म्_27.95{92} ॥
इति संभाष्य ते सर्वे नारकीयाः प्रबोधिताः ।
तं बुद्धं शरणं गत्वा प्रणत्वा प्राभजन् मुदा ॥ र्म्_27.96{93} ॥
तद्भजनोद्भवैः पुण्यैः सर्वे ते नरकोत्थिताः ।
सहसा सद्गतिं याता बभूवुर् धर्मभाजनाः ॥ र्म्_27.97{94} ॥
एवं ता रश्मयः सर्वाः सर्वांस् तान् नरकाश्रितान् ।
समुद्धृत्य पुनस् तत्र जगच्छास्तुर् उपाययुः ॥ र्म्_27.98{95} ॥
या चाप्य् ऊर्द्ध्वं गताभासस् तावभास्य दिशो ऽष्ट च ।
यावद् भवाग्रपर्यन्तम् अवभास्याभिप्रासरन् ॥ र्म्_27.99{96} ॥
गाथाभिश् च सुरान् सर्वान् दिव्यकायसुखारतान् ।
समन्ततो महच्छब्दं रुच्चैर् एवम् अचोदयन् ॥ र्म्_27.100{97} ॥
अनित्यं सर्वसंसारं दुःखं शून्यम् अनात्मकं ।
इति मत्वा शुभे धर्मं सर्वदा चरतादरात् ॥ र्म्_27.101{98} ॥
निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने ।
त्रिरत्नशरणं कृत्वा भजध्वं सर्वदादरात् ॥ र्म्_27.102{99} ॥
यो ह्य् अस्मिं सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_27.103{100} ॥
एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ र्म्_27.104{1} ॥
एवं ताः रश्मयः पंचः सर्वांल् लोकान् सुरान् अपि ।
त्रिरत्नशरणे स्थाप्य पुनर् मुनेर् उपाययुः ॥ र्म्_27.105{2} ॥
तत्र ता रश्मयः सर्वा एकीभूता च पिण्डिताः ।
जिनं प्रदक्षिणीकृत्य तद् उष्णीषे विशेत् पुनः ॥ र्म्_27.106{3} ॥
तद् दृष्ट्वा ते सभालोकाः सर्वे ते विस्मयान्विताः ।
किम् आदेशेन् मुनीन्द्रो ऽयम् इति ध्यात्वा निषेदिरे ॥ र्म्_27.107{2} ॥
अथा युष्मान् स आनन्दो मत्वा तेषां वितर्कितं ।
उत्थाय सांजलिर् नत्वा भगवन्तं तम् अब्रवीत् ॥ र्म्_27.108{5} ॥
भगवन् भवता केन हेतुना सृज्यते स्मितं ।
नाहेतु सुगताः सर्वे विहसन्ति कदा चन ॥ र्म्_27.109{6} ॥
यदर्थे हेतुना स्मितं भवान् मुंचति सांप्रतं ।
तदर्थं श्रोतुम् इछन्ति सर्वे लोका इमे खलु ॥ र्म्_27.110{7} ॥
यदर्थेन भवान् स्मितं प्रकरोति जगद्गुरो ।
तदर्थं समुपादिश्य सर्वान् लोकान् प्रबोधय ॥ र्म्_27.111{8} ॥
इत्य् आनन्दोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
सर्वान् लोकान् समालोक्य तम् आनंदं चाब्रवीत् ॥ र्म्_27.112{9} ॥
एवम् एतन् महानंद नाहेतुप्रत्ययं क्वचित् ।
सर्वबुद्धाः प्रमुंचन्ति स्मितं किंचित् कदा चन ॥ र्म्_27.113{10} ॥
पश्य त्वं यद् अयं साधु आरामिकः प्रसादितः ।
ममैवं श्रद्धया पूजां करोति श्रद्धया मुदा ॥ र्म्_27.114{11} ॥
एतत्पुण्यविपाकेन मालिको ऽयं सुबुद्धिमान् ।
बोधिचित्तं समासाद्य बोधिचर्यां चरन् क्रमात् ॥ र्म्_27.115{12} ॥
सर्वाः पारमिताः पूर्य्य सर्वान् मारगणान् विनिजयन् ।
सम्यक्षंबोधिम् आसाद्य निःक्लेशो ऽर्हन् मुनीश्वरः ॥ र्म्_27.116{13} ॥
दशबलो जगन्नाथः सर्वसत्वहितार्थभृत् ।
पद्मोत्तमो ऽभिधो बुद्धस् तथागतो भविष्यति ॥ र्म्_27.117{14} ॥
यद् अयं मम सद्धर्मसाधने ऽभिप्रसादितः ।
संबोधिप्रणिधिं धृत्वा करोति श्रद्धयार्चनां ॥ र्म्_27.118{15} ॥
एवं ये श्रद्धया नित्यं त्रिरत्नं शरणं गताः ।
भजन्ति ते जनाः सर्वे भवेयुः सुगतात्मजाः ॥ र्म्_27.119{16} ॥
ततस् ते सर्वसत्वानां हितार्थेषु समुद्यताः ।
बोधिसत्वा महासत्वा भविष्यंति गुणाकराः ॥ र्म्_27.120{17} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं ।
ततः संबोधिम् आसाद्य भवेयुः सुगता अपि ॥ र्म्_27.121{18} ॥
एवं मत्वात्र संसारे संबोधिज्ञानवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ र्म्_27.122{19} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादयो ऽपि ते ।
भिक्षवः सांघिकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ र्म्_27.123{20} ॥
सर्वे लोकाश् च ते सर्वे श्रुत्वैवं श्रीघनोदितं ।
त्रिरत्नशरणं कृत्वा प्रभेजिरे ऽनुमोदिताः ॥ र्म्_27.124{21} ॥
एवं शास्त्रा मुनीन्द्रेण व्याकृतं स्वयम् आत्मनः ।
श्रुत्वा सभान्तिकश् चापि प्राभ्यनन्दत् प्रमोदितः ॥ र्म्_27.125{22} ॥
तदारभ्य सदा नित्यं मालिकः सो ऽनुमोदितः ।
त्रिरत्नभजनं कृत्वा प्राचरद् बोधिचारिकां ॥ र्म्_27.126{23} ॥
ततः सानाथपिण्डो ऽपि तेन सह प्रमोदितः ।
सांजलिस् तं जगन्नाथं नत्वा स्वे निलये ययौ ॥ र्म्_27.127{24} ॥
तत्र स मालिको गेहे भार्यया सह मोदितः ।
त्रिरत्नशरणं कृत्वा प्राचरत् सर्वदा शुभं ॥ र्म्_27.128{25} ॥
ततस् तं सौगते धर्मे ऽनुचरन्तं निशम्य सः ।
तीर्थिकोपासिको रुष्टो उपेत्य पर्यभाषत ॥ र्म्_27.129{26} ॥
अरे रे दुर्मते पापिन् किम् एवं चरसे ऽशुभे ।
सर्वथा त्वं परिभ्रष्टो नरके दुःखम् आप्स्यसि ॥ र्म्_27.130{27} ॥
यद् अपात्रे दुराचारे मिथ्याधर्माभिभाषिनी ।
उपेत्य भजनं कृत्वा विनोषि किल्विषं महत् ॥ र्म्_27.131{28} ॥
भजन्ते ये नरा बुद्धं न ते गछन्ति सद्गतिं ।
दुर्गतिम् एव ते याताश् चरन्त्य् अशुभे सदा ॥ र्म्_27.132{29} ॥
कदा चिद् अपि तद् गेहे भद्रं न जायते क्वचित् ।
लक्ष्मीश् चापि वसेन् नैव यतो धर्मो विनश्यते ॥ र्म्_27.133{30} ॥
किं चिन् नास्ति शुभाचारं तस्य भिक्षाशिनो ऽयतेः ।
किम् एवं श्रद्धया नित्यं भजसे सद्गुरोर् इव ॥ र्म्_27.134{31} ॥
कृपणो यः स्वयं भ्रष्टः परांश् च भ्रंशयेद् इह ।
अधर्मे ये ऽपि सद्धर्मम् इत्य् आख्यायाभिवंचते ॥ र्म्_27.135{32} ॥
स किं शास्ता सुधीर् विज्ञो धर्मराजो मुनीश्वरः ।
सद्भिर् न पूजनीयो ऽसौ निंदनीयो हि दुर्गतिः ॥ र्म्_27.136{33} ॥
इति सत्यं मयाख्यातं हितार्थं ते शुभार्थिनः ।
यदि धर्मे ऽस्ति ते वांछा श्रुत्वास्मद्वचनं चर ॥ र्म्_27.137{34} ॥
तद् बुद्धसंगतिं त्यक्त्वा तीर्थे स्नात्वा समाहितः ।
ब्रह्मणं विष्णुम् ईशानं भज नित्यं यथाविधिं ॥ र्म्_27.138{35} ॥
ब्राह्मणं ये भजंत्य् अत्र सर्वे ते ब्रह्मचारिणः ।
परिशुद्धाशया भद्रा संप्रयान्ति सुरालयं ॥ र्म्_27.139{31} ॥
ये भजन्ति सदा विष्णुं न ते गछंति दुर्गतिं ।
सद्गतिं सर्वदा याता भवन्ति मनुजाधिपाः ॥ र्म्_27.140{32} ॥
ये भजन्ति महारुद्रं न ते गछन्ति नारके ।
सर्वसौख्यानि संभुक्त्वा यान्ति चान्ते शिवालयं ॥ र्म्_27.141{33} ॥
एवं मत्वात्र संसारे यदि सौख्यं सदेछसि ।
तद् एताण् त्रिजगन्नाथान् भज नित्यं प्रपूजयन् ॥ र्म्_27.142{34} ॥
एतन् मे वचनैः श्रुत्वा भज तान् सद्गुरून् यतीन् ।
तेषां सद्धर्मम् आकर्ण्य चर नित्यं शुभे व्रते ॥ र्म्_27.143{35} ॥
तथा ते मंगलं नित्यं सर्वदात्र भवेद् ध्रुवं ।
अन्ते पापविनिर्मुक्ताः प्रयान्ति त्रिदशालयं ॥ र्म्_27.144{36} ॥
इति तेनोदितं श्रुत्वा मालिकः स विरोषितः ।
तैर्थिकं तं समारभ्य परिभाष्यैवम् अब्रवीत् ॥ र्म्_27.145{37} ॥
आ किम् एवं वदस्य् अत्र मा मैवं वदथाः पुनः ।
त्वम् एव नरकं याया निन्दसे यन् मुनीश्वरं ॥ र्म्_27.146{38} ॥
शृण्व् अत्राहं प्रवक्ष्यामि संबुद्धे गुणम् अल्पकं ।
विस्तरेण कथं वक्तुं शक्यते ऽल्पशिया मया ॥ र्म्_27.147{39} ॥
तथापि कथ्यते ऽल्पत्वात् तवाभिबोधने मया ।
श्रुत्वा त्वया विचार्यैव सद् असच् च परीक्ष्यतां ॥ र्म्_27.148{40} ॥
संबुद्ध एव भगवान् सुगुणी न विष्णुः संशस्यते न हिरण्यगर्भः ।
तेषां सुभद्रचरितातिशयप्रभावाञ् छ्रुत्वा विचारयत को गुणवान् न वेति ॥ र्म्_27.149{41} ॥
विष्णुः समुद्यततहो विघृणैः प्रमायी
रुद्रो विभूत्यजकयोलधरः प्रमत्तः ।
एकान्तशान्तचरिताशयस् तु बुद्धः
कं पूजयेमहि सुशान्तम् अशान्तरूपं ॥ र्म्_27.150{36!} ॥
दुर्योधनादि नृपनाशकरः स चक्री हरस् त्रिपूरनाशकः पिनाकी ।
क्रौंचं गुहो ऽपि दृढशक्ति हते चकार बुद्धस्तोकवलमयस् तु जगतां हितेषी ॥ र्म्_27.151{67} ॥
पीड्याममायमयम् एव तु रक्षणीयो वध्यो यम् इत्य् अपि सुरोत्तमनीतिर् एषा ।
निःश्रेयसात्युदयसौख्यहितैकबुद्धिर् बुद्धस्य नैवरिदवोनहिवं ॥ र्म्_27.152{68} ॥
रागादि दोषजनितानि वचान्सि विष्णोर् उन्मत्तचेष्टितकराणि च यानि शम्भोः ।
निःशेषदोषशमकारिततथागतस्य वंद्यत्वम् अर्हति च को ऽत्र विचारयध्वं ॥ र्म्_27.153{69} ॥
यश् चोद्यतः परिवधाय घृणां विहाय त्राणाय यश् च जगतः कृपया प्रवृत्तः ।
रागी च यो भवति यश् च विमुक्तरागः पूज्यंस् तयोः क इह तं वदतानुचिन्त्य ॥ र्म्_27.154{70} ॥
शक्रं वज्रधरं बलं हलधरं कृष्णं च चक्रायुधं स्कंदं शक्तिधरं श्मशानविलयं रुद्रं त्रिशूलायुधं ।
एतान् दुःखभयाङ्कितान् गतघृणान् बालान् विचित्रायुधान् नित्यं प्राणिवधोद्युते प्रहरणान् कस् तान् नमस्येद् बुधः ॥ र्म्_27.155{71} ॥
न यः शूलं धत्ते न च सुरतिम् अङ्के सुवदनां न चक्रं शक्तिं वा न च कुलिशम् उग्रं रव हलं विनिर्मुक्तं क्लेशैः परहितविधानाद्यतधियं ।
शरण्यं लोकानं तम् ऋषिम् उपयातास्मि शरणं ॥ र्म्_27.156{72} ॥
रुद्रो रागवशात् स्त्रियं वहति यो हिंस्या ह्रिया वर्जिता विष्णुः क्रूरतरः कृतघ्नचरितः स्कंधः स्वयंज्ञाति ह ।
क्रूरास्या महिषान्तकृन् नरवशा मान्साशिनी पार्वती पानेप्सी च विनायको दशबलो स्रस्तो ह्य् अदोषः सुहृत् ॥ र्म्_27.157{73} ॥
वंधुर् नभे स भगवान् न रिपुर् न चान्यः शास्ता त्रिलोकगुरुर् एकतमो ऽपि धीरः श्रुत्वा वचःसुचरितातिशयप्रभावं बुद्धं गुणातिशयलोभतयाश्रिताः स्मः ॥ र्म्_27.158{74} ॥
नास्माकं सुगतः पिता न रिपवस् तीर्थ्यांधनं नैव ते ।
दत्तं तेन तथागतेन च हृतं किंचित् कणादादिभिः ।
किं त्व् एकांतजगद्धितः स भगवान् बुद्धो यतश् चामलं वाक्यं सर्वमलापहारिच यतस् तद् भिक्तवंतो वयं ॥ र्म्_27.159{75} ॥
हितेषी यो नित्यं सततम् उपकारीव जगतः कृतं येन स्वास्थ्यं बहुविधरुजार्त्तस्य जगतः ।
गूढं यश् च ज्ञे भयं करतलम् इवावैति सकलं प्रपद्यध्वं सन्तस् तेमृषिवरदरं भक्तिमनसः ॥ र्म्_27.160{76} ॥
असर्वभावेन यदृच्छया वा परानुवृत्य विचिकित्सया वा ।
ये तं नमस्यन्ति मुनीन्द्रचंद्रं ते ऽप्य् आमरीसंपदम् आप्नुवंति ॥ र्म्_27.161{77} ॥
पौराणीश्रुतिनेष लोकमहितो बुद्धः किलायं हरिर् दृष्ट्वा जन्मजराविपत्तिवशगं लोकं कृपाभ्युद्यतः ।
जातः शाक्यकुलेन्दुरच्युतमतिस् त्राता नृणां गौतमः शास्तारं हितम् एव कस् तम् अधुना नावैति मूढो जनः ॥ र्म्_27.162{78} ॥
यदा रागद्वेषाद् असुरसुरदारापहरणं कृतं मायाद्वित्वं धरणिहरणाशक्तमतिना ।
तदा पूज्यो वन्द्यो हरिर् अपरिमुक्तो ऽबुधतया विनिर्मुक्तं बुद्धं न नमति जनो माहवहुलः ॥ र्म्_27.163{79} ॥
चतुर्जलधिमेखलाकुरतम्बभारालसां महीं महतीं विसृज्य हरयेवापकष्टां वलिः ।
प्रदाय मुनये तु पांशुलवम् अप्य् अशोको नृपः क्षितिं सकलचंद्रमण्डलतराञ् च संप्राप्तवान् ॥ र्म्_27.164{80} ॥
यक्षपातो न मे बुद्धेन द्वेषटकपिलादिषु ।
मुक्तिमच् च वचो यस्य कार्यस् तस्य परिग्रहः ॥ र्म्_27.165{81} ॥
अवश्यम् एषां कतमो ऽपि सर्ववित् जगर्द्धितैकान्तविशालसारः ।
स एव मृग्यो ह्य् अतिसूक्ष्मचेतसा जनेन शेषैः किम् अनर्थपण्डितैः ॥ र्म्_27.166{82} ॥
यस्यापि किञ्चिन् न हि दोषलेशं शरद्गुणाः सन्ति जगद्धितार्थे ।
ब्रह्मापि विष्णुतिरिणो हरिर् वा समेहि शास्ता शुभकारिमित्रं ॥ र्म्_27.167{83} ॥
यस्य न विद्यते दोषो विद्यन्ते सकला गुणाः ।
सर्वज्ञः स जगच्छास्ता तम् अहं शरणं व्रजे ॥ र्म्_27.168{84} ॥
यो ऽस्मिन् सुदृष्ट्यात् संरक्ष्यति जगच्छुभे ।
तस्याहं शरणं गत्वा भजामि सततं मुदा ॥ र्म्_27.169{85} ॥
यं दृष्ट्वा सुप्रसन्नास् ते भवन्ति निर्मलाशयाः ।
तम् एव सुगतं नाथं भजामि शरणं गतः ॥ र्म्_27.170{86} ॥
येनैव त्रिजगल्लोकं पुत्रवत् प्रतिपालितं ।
तम् एव त्रिजगन्नाथं भजामि शरणं ततः ॥ र्म्_27.171{87} ॥
यस्मै सुश्रद्धया दत्तं तत् फलं बोधिसाधनं ।
तम् एव श्रीघनं भक्त्या भजामि शरणं गतः ॥ र्म्_27.172{88} ॥
यस्माद् धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिनः ।
तम् एव संति सर्वे ऽपि दुःखछेदनसद्गुणाः ।
तम् एव श्रीप्रदातारं भजामि श्रद्धयादरात् ॥ र्म्_27.173{89} ॥
बुद्ध एव जगच्छास्ता बुद्ध एव जगद्गुरुः ।
बुद्ध एव जगन्नाथो बुद्ध एव मुनीश्वरः ॥ र्म्_27.174{90} ॥
तद् अहं सर्वभावेन बुद्धस्य शरणं गतः ।
श्रद्धया धर्मम् आसाद्य भजामि बोधिप्राप्तये ॥ र्म्_27.175{91} ॥
ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं ।
निर्मुक्तपापकाः सौख्यं भुक्त्वा यांति जिनालयं ॥ र्म्_27.176{92} ॥
शृण्वन्ति सौगतं वाक्यं ये ते न यान्ति दुर्गतिं ।
समन्तभद्रसौख्यानि भुक्त्वा यांति सुखावतिं ॥ र्म्_27.177{93} ॥
भजन्ति लोकनाथं ये ते ऽपि न यान्ति दुर्गतिं ।
पापमुक्ताः सुखान्य् एव भुक्त्वा यांति सुरालयं ॥ र्म्_27.178{94} ॥
एतद् रत्नत्रयं लोके उत्पन्नं सद्गुणाकरं ।
तद् अहं शरणं गत्वा भजामि समुपासिकः ॥ र्म्_27.179{95} ॥
एतत्पुण्यविपाकेन सर्वसत्वहितार्थकः ।
क्रमाद् बोधिचराः पूर्य संबुद्धपदम् आप्नुयात् ॥ र्म्_27.180{96} ॥
तदाहं सुगतो भूत्वा सर्वसत्वशुभार्थभृत् ।
सत्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्नुयात् ॥ र्म्_27.181{97} ॥
एवं विज्ञाय सद्धर्मं यदीछति भवान् अपि ।
त्रिरत्नशरणं गत्वा भज नित्यं समादरात् ॥ र्म्_27.182{98} ॥
एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः ।
बोधिं चापि समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_27.183{99} ॥
इति तेन समाख्यातं श्रुत्वा स परिबोधितः ।
तैर्थ्यधर्मं प्रतिक्षिप्य संबुद्धश्रावको ऽभवत् ॥ र्म्_27.184{100} ॥
तदारभ्य सदा नित्यं सद्धर्मश्रवणोत्सुकः ।
विहारे समुपाश्रित्य प्राभजत् तं मुनीश्वरं ॥ र्म्_27.185{1} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वं चाप्य् एवं महाराज त्रिरत्नं सर्वदा भज ॥ र्म्_27.186{2} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ र्म्_27.187{3} ॥
एतत्पुण्यविपाकेन सदा ते मंगलं भवेत् ।
क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयाः ॥ र्म्_27.188{4} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_27.189{5} ॥
शृण्वन्तीदं मुदा ये जिनवरकथितं मालिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमनसः श्रद्धया भद्रकामाः ।
ते सर्वे लोकनाथास् त्रिमलकलिजिता बोधिसत्वा महेशा भुक्त्वा सौख्यं सदान्ते जिनवरनिलये संप्रयान्ति प्रसन्नाः ।
++ इति रत्नावदानतत्वे मालिकावदानं समाप्तम् ++
xxविइइ पाञ्चालराजावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं भिक्षुं नत्वैवं पुनर् अब्रवीत् ॥ र्म्_28.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_28.2{2} ॥
इति संप्रार्थिते राज्ञा स उपगुप्त आत्मवित् ।
तम् अशोकं महीपालं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_28.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ र्म्_28.4{4} ॥
तद्यथासौ जगच्छास्ता शाक्यसिंहस् तथागतः ।
सर्वज्ञः सुगतो नाथो धर्मराजा मुनीश्वरः ॥ र्म्_28.5{5} ॥
एकस्मिन् समये तत्र श्रावस्त्या बहिर् आश्रमे ।
विहारे जेतकोद्याने विजहार ससांघिकः ॥ र्म्_28.6{6} ॥
तदा स भगवांस् तत्र भिक्षुसंघैः पुरस्कृतः ।
सभामध्यासनासीनो धर्मम् आदेष्टुम् आरभत् ॥ र्म्_28.7{7} ॥
तद् धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः ।
देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ र्म्_28.8{8} ॥
सिद्धा विद्याधराश् चापि गरुडा राक्षसा अपि ।
ऋषयो ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ॥ र्म्_28.9{9} ॥
वैश्या राजकुमाराश् च मंत्रिणश् च महाजनाः ।
वणिजः सार्थवाहाश् च गृहस्थाः शिल्पिनो ऽपि च ॥ र्म्_28.10{10} ॥
ग्राम्या जानपदाश् चापि कार्पटिकादयो ऽपि च ।
तीर्थिका अपि ते सर्वे जेतारामे उपागताः ॥ र्म्_28.11{11} ॥
विहारे तं जगन्नाथं दृष्ट्वा सांजलयो मुदा ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं ॥ र्म्_28.12{12} ॥
ततस् ते मुदिताः सर्वे परिवृत्य समंततः ।
तत् सद्धर्मामृतं पतुम् उपतस्थुः समाहिताः ॥ र्म्_28.13{13} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_28.14{14} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
संबुद्धं शरणं कृत्वा प्रचेरुर् बोधिसंवरं ॥ र्म्_28.15{15} ॥
तस्मिन्न् अवसरे तत्र पंचाल उत्तराधिपः ।
दक्षिणाधिपपंचालं पराजेतुम् उपाक्रमत् ॥ र्म्_28.16{16} ॥
तयोः पंचालयो राज्ञो विरुद्धास्य् अभिमानिनोः ।
महायुद्धम् अभून् नित्यं परस्परविघातनं ॥ र्म्_28.17{17} ॥
प्रवर्त्तिते सदा युद्धे तयो राज्ञो हि मानिनोः ।
दुर्भिक्षम् अपि तत्राभूद् बहुलोकविघातनं ॥ र्म्_28.18{18} ॥
तदा तौ क्षत्रियौ क्रूरौ परस्परविघातिनौ ।
विरुद्धमानसौ वीरौ वैरशाम्यं न जग्मतः ॥ र्म्_28.19{19} ॥
तद् दृष्ट्वा नृपती राजा प्रसेनजिन् स कौशलः ।
तद् वैरशमनोपायं चिरं ध्यात्वा व्यचिंतयत् ॥ र्म्_28.20{20} ॥
यद् एतौ नृपती वीरौ नित्यं युद्धाभिकांक्षिणौ ।
संबोधिसाधनं धर्मं श्रोतुं नैवाभिवांछत ॥ र्म्_28.21{21} ॥
सर्वे ऽपि मंत्रिणो ऽमात्याः सर्वे लोकाश् च योधिनः ।
संबुद्धदर्शने चापि नात्रागछन्ति के चन ॥ र्म्_28.22{22} ॥
एवं तेषां सदा नित्यं हिंसाकर्माभिरागिणां ।
सद्धर्मे श्रवणे वापि गोचरं नैव विद्यते ॥ र्म्_28.23{23} ॥
धर्मं विनात्र संसारे किं सारं जन्म मानुषे ।
परस्परं निहत्यैव यास्यंति नरके ध्रुवं ॥ र्म्_28.24{24} ॥
धिग् जन्म मानुषे तेषां केवलं पापसाधनं ।
ये क्लेशमानदर्प्यान्धा न पश्यंति मुनीश्वरं ॥ र्म्_28.25{25} ॥
ये चात्र सौगतं धर्मं न शृण्वन्ति कदा चन ।
कथं ते भद्रचर्यायां गोचरं समवाप्नुयुः ॥ र्म्_28.26{26} ॥
सदा ते मारचर्यायां स्थित्वा क्लेशाभिमानिनः ।
बोधिचर्यां प्रतिक्षिप्य चरेयुः कामचारिणः ॥ र्म्_28.27{27} ॥
ततः स्वयं परिभ्रष्टा भ्रंशयन्तः परान् अपि ।
यथेछया चरन्तस् ते चिनुयुर् बहुपातकं ॥ र्म्_28.28{28} ॥
ततस् ते क्लेशसंतप्ताः स्वपरार्थाभिघातिनः ।
तीव्रदुःखाग्निसंतप्ताः पतेयुर् नरके ध्रुवं ॥ र्म्_28.29{29} ॥
नरकेषु भ्रमन्तस् ते सदा दुःखाभिभोजिनः ।
पश्चात्तापाग्निसंतप्ताश् चरेयुर् आभवं तथा ॥ र्म्_28.30{30} ॥
तद् एषां सर्वलोकानां भद्रार्थं हितकारणं ।
सर्वथोपायम् आधातुम् अर्हामि सांप्रतं द्रुतं ॥ र्म्_28.31{31} ॥
यावद् एतौ नृपौ वीरौ विरुद्धौ नोपशाम्यतः ।
तावद् अत्र भुवि क्वापि मंगलं न भवेत् सदा ॥ र्म्_28.32{32} ॥
तद् एतौ नृपती तावद् बोधयित्वा प्रयत्नतः ।
मैत्रस्नेहसंबद्धौ कुर्यां निर्वैरभाविनौ ॥ र्म्_28.33{33} ॥
एतौ हि क्षत्रियौ वीरौ पांचालौ मानगर्वितौ ।
अनयोर् मित्रवंधं को बोधयित्वा करिष्यति ॥ र्म्_28.34{34} ॥
बुद्ध एव जगच्छास्ता धर्मराजः प्रबोधयन् ।
अनयोश् चिरवैर्याग्निं शमयितुं प्रशक्नुयात् ॥ र्म्_28.35{35} ॥
तद् अत्र सहसा गत्वा प्रार्थयेयं मुनीश्वरं ।
नूनं बुद्धानुभावात् तौ नृपौ मित्रत्वम् आप्स्यतः ॥ र्म्_28.36{36} ॥
इति निश्चित्य राजा स प्रसेनजित् समुत्थितः ।
विहारे सहसा गत्वा ननाम तं मुनीश्वरं ॥ र्म्_28.37{37} ॥
तत्र स पुरतो गत्वा सांजलिः समुपाश्रयन् ।
एतत् सर्वप्रवृत्तांतं निवेद्यैवम् अभाषत ॥ र्म्_28.38{38} ॥
भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि ।
यत् तौ पांचालभूपालौ विरुद्धौ भवतो ऽधुना ॥ र्म्_28.39{39} ॥
यद् एतयोर् विरुद्धे त सर्वे लोका विरोधिताः ।
तद् अत्र सर्वदा युद्धं प्रवर्त्तते दिवानिशं ॥ र्म्_28.40{40} ॥
तत् तेसां सर्वलोकानां सद्धर्मे गोचरं कदा ।
सदा युद्धाभिसक्तास् ते साधयेयुः शुभं कथं ॥ र्म्_28.41{41} ॥
तद् अत्र भगवाञ्च् छास्ता बोधयंस् तौ नराधिपौ ।
संबोधिमार्गम् आदिश्य शुभे चारयितुम् अर्हति ॥ र्म्_28.42{42} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् मुनिः ।
तस्य राज्ञे नरेंद्रस्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_28.43{43} ॥
ततः स नृपती राजा मत्वा शास्त्राधिवासितं ।
सांजलिस् तं मुनिं नत्वा मुदितः स्वालयं ययौ ॥ र्म्_28.44{44} ॥
ततः स भगवान् पात्रम् आदाय चीवरावृतः ।
भासयन् भद्रतां कुर्वन् प्रतस्थे सह सांघिकैः ॥ र्म्_28.45{45} ॥
एवं सर्वत्र मार्गेषु भासयं स मुनीश्वरः ।
कृत्वा भद्रं क्रमेणैवं वाराणसीम् उपाचरत् ॥ र्म्_28.46{46} ॥
तत्र स भगवां प्राप्तो भाभिः संभासयन् क्रमात् ।
चरं कृत्वा सुभद्रत्वं मृगदावे उपाचरत् ॥ र्म्_28.47{47} ॥
तत्र स भगवान् प्रातः ससंघः सौगताश्रमे ।
सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ र्म्_28.48{48} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे समादरात् ॥ र्म्_28.49{49} ॥
तदा दक्षिणपांचालनृपतिः स प्रमोदितः ।
संबुद्धदर्शनं कर्तुं मृगदावे उपाचरत् ॥ र्म्_28.50{50} ॥
तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः ।
सांजलिः पुरतो गत्वा नत्वैकान्ते उपाश्रयत् ॥ र्म्_28.51{51} ॥
तस्मिन्न् अवसरे तत्र मृगदावे समाश्रितः ।
भगवान्न् इति शुश्राव पांचालौत्तराधिपः ॥ र्म्_28.52{52} ॥
स उत्तरपांचालो नृपतिः प्रतिरोषितः ।
तं नृपं याम्यपांचालं पराजेतुम् उपाचरत् ॥ र्म्_28.53{53} ॥
तत्र स नृपतिर् वीरश् चतुरंगवलैः सह ।
जयवाद्यमहोत्साहैः सहसा समुपाचरत् ॥ र्म्_28.54{54} ॥
तत्र स याम्यपांचालराजा तं रिपुम् आगतं ।
निशम्य सहसोत्थाय नत्वा ह तं मुनीश्वरं ॥ र्म्_28.55{55} ॥
भगवन् नाथ सर्वज्ञ स मे वैरा इहागतः ।
तद् अत्र किं करिष्यामि तद् अनुज्ञां ददातु मे ॥ र्म्_28.56{56} ॥
इति तेन नरेन्द्रेण प्रार्थिते स जिनेश्वरः ।
दृष्ट्वा तं याम्यपांचालं समाश्वास्यैवम् आदिशत् ॥ र्म्_28.57{57} ॥
नृपते मा विभेषी त्वं धैर्य्यम् आलम्ब्य तिष्ठत ।
तद् उपायं करिष्यामि येनासौ ते वशे चरेत् ॥ र्म्_28.58{58} ॥
इत्य् आदिश्य स सर्वज्ञश् चतुरङ्गबलान्वितं ।
महत्सैन्याधिपं वीरं निर्माय ऽप्रेषयत् ततः ॥ र्म्_28.59{59} ॥
स सैन्याधिपतिर् वीरश् चतुरङ्गबलैः सह ।
चरन्न् उत्तरपांचालम् अभियोद्धुम् उपाचरत् ॥ र्म्_28.60{60} ॥
तन् महत्सैन्यं आयातं समालोक्याभ्युपद्रुतं ।
सर्व उत्तरपांचालसैन्या भीताः पराययुः ॥ र्म्_28.61{61} ॥
तद् दृष्ट्वोत्तरपांचालनृपतिश् चापि खेटितः ।
एकाकी रथम् आरुह्य भगवत्संमुखे ऽचरत् ॥ र्म्_28.62{62} ॥
तत्र स दूरतो दृष्ट्वा श्रीघनं तं सभाश्रितं ।
अवतीर्य रथात् तत्र मृगदावे उपाचरत् ॥ र्म्_28.63{63} ॥
तत्र स नृपति राजा समुपेत्य कृतांजलिः ।
त्रिधा प्रदक्षिणीकृत्य ननाम शरणं गतः ॥ र्म्_28.64{64} ॥
ततश् चिरात् समुत्थाप्य स पांचलो नराधिपः ।
तत् सद्धर्मामृतं पातुं तत्रैकान्ते समाश्रयत् ॥ र्म्_28.65{65} ॥
तदा स भगवान् दृष्ट्वा नृपतिं तं समाश्रितं ।
आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_28.66{66} ॥
तद् आर्यसत्यम् आकर्ण्य नृपतिः सो ऽभिबोधितः ।
संसारसाधनं धर्मं पुनः श्रोतुं समैछत ॥ र्म्_28.67{67} ॥
ततः स नृपती राजा समुत्थाय कृतांजलिः ।
प्रणत्वा भगवंतं तं प्रार्थयद् एवम् आदरात् ॥ र्म्_28.68{68} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तन् मे ऽत्रानुग्रहं कृत्वा सम्यग् आदेष्टुम् अर्हति ॥ र्म्_28.69{69} ॥
यद् अत्र भगवन् सत्वाः प्रवर्त्तन्तो भवोदधौ ।
सुखदुःखाभिभुंजानो भ्रमंते षड्गतौ कथं ॥ र्म्_28.70{70} ॥
कर्मणा केन देवाः स्युर् मानुषाः केन कर्मणा ।
दैत्याश् च कर्मणा केन तत् सम्यक् समुपादिश ॥ र्म्_28.71{71} ॥
तिर्यञ्चः कर्मणा केन प्रेताश् च केन कर्मणा ।
नारकाः कर्मणा केन तत् सर्वं समुपादिश ॥ र्म्_28.72{72} ॥
तत्राप्य् अनेकरूपाश् च सर्वे भिन्नाशया अपि ।
निहीनमध्यमोत्कृष्टाः सुखदुःखान्विता अपि ॥ र्म्_28.73{73} ॥
एतत् सर्वं समाख्याय भवाञ् छास्ता जगद् गुरुः ।
संसारगतिसंचारं प्रबोधयितुम् अर्हति ॥ र्म्_28.74{74} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः ।
तं विशुद्धाशयं भूपं दृष्ट्वैवं समुपादिशत् ॥ र्म्_28.75{75} ॥
साधु शृणु महाराज संसारगतिचारणं ।
सम्यग् धर्मं प्रवक्ष्यामि युष्माकं परिबोधने ॥ र्म्_28.76{76} ॥
कायवाग्मानसं कर्मकृतं यच् च शुभाशुभं ।
लोकस् तस्य फलं भुक्ते कर्त्ता नान्यो ऽस्ति कस्य चित् ॥ र्म्_28.77{77} ॥
इति सर्वे कृपाविष्टास् त्रैलोक्ये गुरवो जिनाः ।
उक्तवन्तस् तथा तद् धि कर्मणो यस्य यत् फलं ॥ र्म्_28.78{78} ॥
कर्मं कर्तुं विहातुं च सदसद्गतिहेतुकं ।
लोभमोहभयक्रोधा ये नरा नरघातिनः ॥ र्म्_28.79{79} ॥
संवद्ध्यान्याञ् च हि सन्ति संजीवं यान्ति ते ध्रुवं ।
संवत्सरसहस्राणि बहून्य् अपि हताहताः ॥ र्म्_28.80{80} ॥
संजीवन्ति यतस् तत्र तेन संजीव उच्यते ॥ र्म्_28.81{81!} ॥
मातापितृसुहृद्वंधुमित्रद्रोहकराश् च ये ।
पैशुन्यानृतवत्तारः कालसूत्राभिगामिनः ॥ र्म्_28.82{82} ॥
कालसूत्रेण संसूड्य पाट्यन्ते दारुवद् यतः ।
ज्वलद्भिः क्रकचैस् तत्र कालसूत्रस् ततः स्मृतः ॥ र्म्_28.83{83} ॥
दावादौ दहनैर् दाहं देहिनां विदधाति ये ।
स तीव्रज्वलनैर् जन्तुस् तप्यते तपने रटन् ॥ र्म्_28.84{84} ॥
तीव्रं तपनसंतापं तनोत्य् एव निरंतरं ।
यत् ततो ऽन्वर्थम् आलोके ख्यातस् तपनसंज्ञया ॥ र्म्_28.85{85} ॥
धर्माधर्मविपर्यासं नास्तिको यः प्रकाशयन् ।
संतापयति चान्यांश् च तप्यते स प्रतापने ॥ र्म्_28.86{86} ॥
प्रतापयति तत्रस्थान् सत्वान्स् तीव्रेण वह्निना ।
तपनातिशयनो ऽसौ प्रोक्तस् तस्मात् प्रतापनः ॥ र्म्_28.87{87} ॥
अजैडकशृगालांश् च शशाखुमृगासुकरान् ।
अन्यांश् च प्राणिनो घ्नंति संघातं यान्ति ते नराः ॥ र्म्_28.88{88} ॥
संहतास् तत्र घात्यंते सम्यग्वाहैव वंययः ।
तस्मात् संघात इत्य् एवं विख्यातो ऽन्वर्थसंज्ञया ॥ र्म्_28.89{89} ॥
कायवाग्मानसं तापं ये कुर्वन्तीह देहिनां ।
कटुक्यपटिका ये च रौरवं यान्ति ते नाराः ॥ र्म्_28.90{90} ॥
तीव्रेण वह्निना तत्र दह्यमाना निरंतरं ।
रौद्रं रवं विमुंचन्ति यतस् तस्मात् स रौरवं ॥ र्म्_28.91{91} ॥
देवद्विजगुरोर् द्रव्यं हृतं यैर् दुःखिनाम् इह ।
ते महारौरवं यान्ति ये चान्यस्वापहारिणः ॥ र्म्_28.92{92} ॥
रौद्रत्वाद् वह्निदाहस्य रवस्य च महत्तया ।
रौरवो हि महांस् तस्य मन्त्व रौरवाद् अपि ॥ र्म्_28.93{93} ॥
कृत्वा गुणाधिके तीव्रम् अपकारं निहत्य च ।
मातापितृगुरुन् कल्पम् अवीचौ पच्यते ध्रुवं ॥ र्म्_28.94{94} ॥
अस्थीन्य् अपि विशीर्य्यन्ते रौद्राग्नौ तत्र देहिनां ।
यतो न वीचिः सौख्यस्य नावीचिर् उदाहृतः ॥ र्म्_28.95{95} ॥
मिथोद्रोहरता ये त्रणे घ्नन्तीव देहिनः ।
पापाद् असिनखास् ते तु जायन्ते दुःखभागिनः ॥ र्म्_28.96{96} ॥
नखा एवासयस् तेषाम् आयसा ज्वलिताः खराः ।
तैर् अन्योन्यं निकृन्तन्ति यत् तेनासिनखाः स्मृताः ॥ र्म्_28.97{97} ॥
लोहज्वलिततीक्ष्णाग्राः षोडशाङ्गुलकण्टकाः ।
बलाद् आरोह्यत ह्रंदन् शाल्मलीः पालदारिकः ॥ र्म्_28.98{98} ॥
लोहदम्ष्ट्रा महाकाया ज्वलितास् तीव्रभैरवाः ।
अश्लिष्य भक्षयन्त्य् एनं परदारोपहारिणं ॥ र्म्_28.99{99} ॥
आरटन्तो ऽपि खाद्यन्ते श्वगृध्रोलूकवायसैः ।
अशिवं कुर्वते छिन्ना विश्वासघाटिनो नराः ॥ र्म्_28.100{100} ॥
अयोगुडानि भुज्यन्ते प्रतप्तानि पुनः पुनः ।
याप्यन्ते क्वथितं ताम्रं ये परस्वापहारिणः ॥ र्म्_28.101{1} ॥
क्रूरैः श्वभिर् अयोद्रंष्ट्रैः कृत्यन्ते विवशा भृशं ।
वर्षकोटि रटन्तो ऽपि ये नराः खेटके रताः ॥ र्म्_28.102{2} ॥
मत्स्यादीञ् जलजान् हत्वा ज्वलन्त्य् अम्रद्रवोदकां ।
याति वैतरणीं शश्वद् वह्निना दह्यते नरः ॥ र्म्_28.103{3} ॥
ये स्वार्थलवसंमूढो व्यवहारम् अधार्मिकं ।
करोति नरके क्रदन् स चक्रेणाभिपीड्यते ॥ र्म्_28.104{4} ॥
पीडा वहुभिर् आकारैः कृता यैर् दुःखिनाम् इह ।
पीड्यन्ते ते चिरं तप्तैर् यत्र मुद्गरपर्वतैः ॥ र्म्_28.105{5} ॥
भेदका धर्मसेतूनां ये चासन् मार्गवाहिनः ।
क्षुरधाराचितं मार्गं गत्वा क्रामन्ति ते नराः ॥ र्म्_28.106{6} ॥
नखैः संचूर्ण्य यूकादीञ् चूर्ण्यन्ते मेषपर्वतै ।
भूयो भूयो महाकायाः क्रन्दन्तस् ते शरच्छतं ॥ र्म्_28.107{7} ॥
व्रतं यस् तु समाश्रित्य संपन्नो परिरक्षति ।
शीर्यमानमान्सास्थिः कुकुंले पच्यते ध्रुवं ॥ र्म्_28.108{8} ॥
अणुनापि हि यः कश्चिन् मिथ्याजीवेन जीवति ।
भक्ष्यते क्रिमिभिश् चण्डैः संमग्नो गूथमृत्तिके ॥ र्म्_28.109{9} ॥
दृष्ट्वापि व्रीहिमध्यस्थान् प्राणिनश् चूर्णयन्ति ये ।
आयसै मुखलैस् तप्तैः क्षोभ्यन्ते ते पुनः पुनः ॥ र्म्_28.110{10} ॥
अत्यन्तक्रोधनाः क्रूराः शठाः पापाभिकांक्षिणः ।
परव्यसनकृष्ट्वा च जायन्ते यमराक्षसाः ॥ र्म्_28.111{11} ॥
सर्वेषाम् एव दुःखानां वीजं मृद् वाभिभेदतः ।
कायवाग्मानसं कर्म पापं यत् तद् अण्व् अपि वर्त्तयेत् ।
++ नरककाण्डं समाप्तम् ++
हंसपारावतादीनं खराणाम् अपि रागिणां ।
येन रागेण जायन्ते मूढाः कीटादियोनिषु ॥ र्म्_28.112{1} ॥
सर्प्पाः क्रोधोपनाहाभ्यां मारस्तब्धा मृगाधिपाः ।
अभिमानेन जायन्ते गदामाश्वादियोनिषु ॥ र्म्_28.113{2} ॥
मात्सर्येर्ष्यादि दोषेण वानराः प्रेतदेहिनः ।
जायन्ते मुखरा धृष्टाश् चपलात्मानश् च वायसाः ॥ र्म्_28.114{3} ॥
वधवंधनमात्सर्यैर् गवाश्वादिषु देहिनः ।
जायन्ते क्रूरकर्माणो लूताः खर्ज्जूरवृश्चिकः ॥ र्म्_28.115{4} ॥
व्याघ्रमार्जारगोमायुऋक्षगृध्रवृगादायः ।
जायन्ते प्रेतमन्सादोः क्रोधना मत्सरा नराः ॥ र्म्_28.116{5} ॥
दातारः क्रोधनाः क्रूरा नरा नागमहर्द्धिकाः ।
भवान्तत्यागिनो दर्प्पात् क्रोधाच् च गरुडेश्वराः ॥ र्म्_28.117{6} ॥
कृतं यत् पापकं कर्म स्वयं वाक्कायमानसं ।
तिर्यञ्चस् तेन जायन्ते तन् मनोगतिम् आकृथाः ॥ र्म्_28.118{7} ॥
++ इति तिर्यक्काण्डं समाप्तम् ++
भक्ष्यभोज्यापहर्तारो ये क्षुद्रा दानवर्जि ।
भवन्ति कुणपाहाराः प्रेतास् ते कटपूतनाः ॥ र्म्_28.119{1} ॥
विहेठयन्ति ये बाला वंचयन्त्य् अपि तृष्णया ।
ते ऽपि गर्भमलाहारा जायन्ते कटपूतनाः ॥ र्म्_28.120{2} ॥
हीनाचारातिदीनाश् च मत्सरा नित्यकांक्षिणः ।
जायंते ये नराः प्रेता ऽष्टास् ते गलगण्डकाः ॥ र्म्_28.121{3} ॥
दानं निवारयत्य् एव न हि किं तिद् ददाति यः ।
क्षुत्क्षामासौ महाकुक्षिः प्रेतः शूचिमुखो भवेत् ॥ र्म्_28.122{4} ॥
धनं रक्षति वंशार्थे न भुंक्ते न ददाति यः ।
दत्तादायी ततः प्रेतः श्राद्धभोक्ता स जायते ॥ र्म्_28.123{5} ॥
यः परस्वापहारेप्सुर् दत्वा चैवानुतप्यते ।
भोक्ता विट्श्लेष्मवान्तानां प्रेत्य प्रेतः स जायते ॥ र्म्_28.124{6} ॥
अप्रियं वक्ति यः क्रोधाद् वाक्यं मर्मविभेदतं ।
ब्बवन्त्य् उल्कामुखः प्रेतः सुचिरं तेन कर्मणा ॥ र्म्_28.125{7} ॥
कुरुते कलहं यस् तु निष्कृपः क्रूरमानसः ।
क्रिमिकीटपतङ्गादेः प्रेते ऽसौ ज्योतिको भवेत् ॥ र्म्_28.126{8} ॥
ग्रामकूटौ ददात्य् एव यो जनं पीडयन्त्य् अपि ।
कुम्भाण्डो विकृताकारः पूयाहारश् च जायते ॥ र्म्_28.127{9} ॥
निर्दयाः प्राणिनो घ्नन्ति भक्ष्यार्थं ये ददन्त्य् अपि ।
मांसाहाराश् च ते ऽवश्यं भवन्ति प्रेतराक्षसाः ॥ र्म्_28.128{10} ॥
गंधमालारता नित्यं मंदक्रोधाः प्रदायकाः ।
गंधर्वाः प्रेत्य जायन्ते देवानां रतिहेतवः ॥ र्म्_28.129{11} ॥
क्रोधनाः पिशुनः किञ्चिदर्थार्थं यः प्रयछति ।
स पिशाचं प्रदुष्टात्मा जायते विकृताननः ॥ र्म्_28.130{12} ॥
नित्यप्रदुष्टाश् चपलाः परपीडाकरा नराः ।
संप्रदानरता नित्यं भूताः प्रेत्य भवन्ति ते ॥ र्म्_28.131{13} ॥
क्रूराः क्रूद्धाः प्रदातारः प्रिया सर्वसुरा च ये ।
जायन्ते प्रेत्य यक्षास् तु क्रूरात्मानः सुराप्रियाः ॥ र्म्_28.132{14} ॥
मातापितृगुरून् यानैर् ये नयन्ति यथेप्सितं ।
विमानचारिणो यक्षा जायंते सुसुखान्विताः ॥ र्म्_28.133{15} ॥
तृष्णामात्सर्यदोषेण प्रेता भवन्त्य् अमी सदा ।
यक्षादयः शुभैः क्लिष्टैर् अतस् तान् परिवर्जयेत् ॥ र्म्_28.134{16} ॥
++ इति प्रेतकाण्डं समाप्तम् ++
देवासुरमनुष्येषु दीर्घम् आयुर् अहिंसया ।
जायते हिन्सया स्वल्पाम् अतो हिंसां विवर्जयेत् ॥ र्म्_28.135{1} ॥
कुष्ठरोगज्वरोन्मादा ये चान्ये व्याधयो नृणां ।
भवन्ति भूतप्रयुक्तेस् ते वधवंधनताडनैः ॥ र्म्_28.136{2} ॥
यो न हर्त्ता परस्वानां न वञ्चवित् प्रयछति ।
महतापि प्रयत्नेन स द्रव्यं नाधिगछति ॥ र्म्_28.137{3} ॥
अदत्तं वित्तम् आदाय दानानि च ददाति यः ।
स प्रेत्य द्रव्यवान् भूत्वा भूयो भवति निर्धनः ॥ र्म्_28.138{4} ॥
यो न हर्त्ता न दाता च न चातिकृपणो नरः ।
कृत्स्नेन महता द्रव्यं स्थिरं स लभते ध्रुवं ॥ र्म्_28.139{5} ॥
न हर्त्ता यः परस्वानां त्यागवान् वीतमत्सरः ।
अहार्यं विपुलं वित्तम् इष्टम् च लभते नरः ॥ र्म्_28.140{6} ॥
आयुर्वर्णवलोपेतः श्रीमान् रोगविवर्जितः ।
सुखी च स लभेन् नित्यं यो ददातीह भोजनं ॥ र्म्_28.141{7} ॥
सलज्जो रूपवान् भोगी सुछायः प्राणिनां प्रियः ।
स भवेद् वस्त्रलाभी च यो वासान्सि प्रयछति ॥ र्म्_28.142{8} ॥
आवासं यो ददातीह सुप्रसन्नेन चेतसा ।
प्रासादाः सर्वकामाश् च जायन्ते तस्य देहिनः ॥ र्म्_28.143{9} ॥
उपानत्संक्रमादीनि ये प्रयछन्ति मानवाः ।
भवन्ति सुखिनो नित्यं यानानि च लभन्ति ते ॥ र्म्_28.144{10} ॥
वापीकूपतडागादीन् कारयित्वा जलाश्रयान् ।
सुखिनस् त्यक्तसंतापा निःपिपासा भवन्ति ते ॥ र्म्_28.145{11} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0