रत्नमालावदान · भाग 241260
तदा सर्वाहितं प्रोक्तं त्वया तत्र श्रुतं न तत् ॥ र्म्_24.175{75} ॥
इति तेनात्मजेनोक्तं श्रुत्वा सा प्रतिबोधिता ।
विगलदश्रुरुक्षाक्षा तं पुत्रम् एवम् अब्रवीत् ॥ र्म्_24.176{76} ॥
न मया हि कृतं दानं पुण्यं न चाभिसाधितं ।
दृष्ट्वानुमोदितं नापि मात्सर्यपरिभूतया ॥ र्म्_24.177{77} ॥
यद् यद् द्रव्यं त्वया पुत्र मम हस्ते समर्पितं ।
तत् तत् सर्वं मया वंधिखदायां परिगोपितं ॥ र्म्_24.178{78} ॥
तद् इदानिं समुद्धृत्य ज्ञातिहस्ते समर्पय ।
तेन तं सुगतं बुद्धं ससंघं भोजयात्मज ॥ र्म्_24.179{79} ॥
दक्षिणादेशनां चापि मम नाम्नाभिकारय ।
तदा प्रेतगतेर् मुक्ता यायाम् अहं सुरालयं ॥ र्म्_24.180{80} ॥
इति तयोदितं श्रुत्वा स उत्तरो ऽनुबोधितः ।
एवम् अस्त्व् इति संश्रुत्य पुनस् ताम् एवम् अब्रवीत् ॥ र्म्_24.181{81} ॥
ससंघं सुगतं तेन भोजयिष्यामि सांप्रतं ।
किं तु त्वयाम्व तत्रापि स्थातव्यं सुगतांतिके ॥ र्म्_24.182{82} ॥
इति तेनोदितं श्रुत्वा सा प्रेती लज्जयान्विता ।
तम् अर्हन्तं समालोक्य पुर एवम् अभाषत ॥ र्म्_24.183{83} ॥
यद् अहं पुत्र नग्नास्मि प्रेती विभ्रन्सिताकृती ।
तत् कथं समुपाश्रित्य स्थास्यामि श्रीघनांतिके ॥ र्म्_24.184{84} ॥
इति तयोदितं श्रुत्वा स उत्तरो महामतिः ।
तां प्रेतीं समुपालोक्य पुनर् एवम् अभाषत ॥ र्म्_24.185{85} ॥
क्रियमाने यदा पापे लज्जा नास्ति तदा तव ।
फलभोजनकाले ऽत्र किम् एवं लज्जसे ऽधुना ॥ र्म्_24.186{86} ॥
इति तद् वचनं श्रुत्वा सा प्रेती प्रतिबोधिता ।
तथा गमिष्यामीति प्रोक्त्व त्वरितं विज्ञालयं ययौ ॥ र्म्_24.187{87} ॥
ततः स उत्तरो गत्वा ज्ञातीन् आहूय तद् वृतिं ।
यथामात्रोदितं ख्याय सर्वम् एव न्यवेदयत् ॥ र्म्_24.188{88} ॥
तच् छ्रुत्वा ज्ञातिवर्गास् ते सर्व ऽतिविस्मयान्विताः ।
तथा तद् द्रव्यम् आदाय सर्वं तस्यान् उपाहरन् ॥ र्म्_24.189{89} ॥
तद् द्रव्यं सर्वम् आलोक्य स उत्तरः प्रमोदितः ।
सर्वेषाम् अपि गोत्राणां पुनर् एवं समब्रवीत् ॥ र्म्_24.190{90} ॥
भवन्तो ज्ञातयः सर्वे द्रव्येनैतेन सांप्रतं ।
ससांघिकं मुनीन्द्रं तं भोजयिष्यामि पूजयन् ॥ र्म्_24.191{91} ॥
तद् एतत् सर्वम् आदाय यदा प्रकंपिताशयाः ।
संघभोज्यार्हसामग्रीं साधयित्वा प्रदत्त मे ॥ र्म्_24.192{92} ॥
इति संप्रार्थितं श्रुत्वा सर्वे ते ज्ञातयस् तथा ।
संघभोज्यार्हसामग्रीं सर्वद्रव्यैर् असाधयत् ॥ र्म्_24.193{93} ॥
तद् दृष्ट्वा मुदितः सो ऽर्हन् उत्तरः संप्रसन्नधीः ।
शास्तुर् निमंत्रणं कर्तुं विहारे समुपाचरत् ॥ र्म्_24.194{94} ॥
तत्र स समुपाश्रित्य तं मुनीन्द्रं ससांघिकैः ।
प्रणत्वा साञ्जलिस् तत्र पुरः स्थित्वा न्यमंत्रयत् ॥ र्म्_24.195{95} ॥
भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं ।
पूजयितुं समिछामि श्वो ऽनुगृहीतुम् अर्हति ॥ र्म्_24.196{96} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तम् उत्तरं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_24.197{97} ॥
ततः स उत्तरो मत्वा भगवताधिवासितं ।
तं मुनीन्द्रं पुनर् नत्वा ज्ञातीनां पुरतो ययौ ॥ र्म्_24.198{98} ॥
तत्र स उत्तरस् तेषां च निमंत्रणं ।
कृत्वा तत्र पुनस् तेषां पुर एवम् अभाषत ॥ र्म्_24.199{99} ॥
संघभोज्ये प्रवृत्ते ऽत्र यूयं सर्वे समागताः ।
प्रेतीभूतां ममाम्बां ताम् अवलोकितुम् अर्हथ ॥ र्म्_24.200{100} ॥
इत्य् उक्त्वा स्वाश्रमं गत्वा स उत्तरः प्रसादितः ।
ध्यानागारसमासीनस् तस्थौ ध्यानसमाहितः ॥ र्म्_24.201{1} ॥
ततः प्रातः समुत्थाय ज्ञातीनां पुरतो गतः ।
पूजोपचारसामग्रीं सहसा समसाधयत् ॥ र्म्_24.202{2} ॥
ततः स उत्तरः प्राह्ने विहारे समुपासरन् ।
भगवंतं मुनीन्द्रं तं प्रणत्वैवम् अभाषत ॥ र्म्_24.203{3} ॥
भगवन् सर्वविच् छास्तः समयो वर्त्तते ऽधुना ।
तत् ससंघो भवान् अत्र विजयितुं समर्हति ॥ र्म्_24.204{4} ॥
इति संप्रार्थिते तेन गंडीम् आकोटयन् मुनिः ।
तच् छब्दचोदितास् तत्र स च संघा उपासरन् ॥ र्म्_24.205{5} ॥
तत्र ते ज्ञातयः सर्वे लोका अन्ये ऽपि हर्षिताः ।
तत्र प्रेतां समायातां तां द्रष्टुं समुपागताः ॥ र्म्_24.206{6} ॥
तदा स भगवांस् तत्र ससांघिकः समागताः ।
तद् दत्तं पाद्यम् आदाय शुद्धासने समाश्रयत् ॥ र्म्_24.207{7} ॥
तां दृष्ट्वा ज्ञातयः सर्वे लोका अन्ये ऽपि खेटिताः ।
हा पापम् इति भाषन्ते तस्थुः सद्धर्मवांछया ॥ र्म्_24.208{8} ॥
तदा ते ज्ञातयः सर्वे भगवंतं ससांघिकं ।
यथाक्रमं समभ्यर्च्य भोजनैः समतोषयत् ॥ र्म्_24.209{9} ॥
ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि ।
तत् प्रणीतरसं भोज्यं भुक्त्वा तृप्तिं समाययुः ॥ र्म्_24.210{10} ॥
ततो ऽपनीय पात्राणि शोधयित्वा भुजादिकं ।
तेषां पूगादि ताम्बूलगणं ते प्रददुर् मुदा ॥ र्म्_24.211{11} ॥
तत्र स उत्तरो भिक्षुर् ज्ञातिभिस् तै सहान्वितः ।
भगवंतं ससंघं तं प्रणत्वा समुपाश्रयत् ॥ र्म्_24.212{12} ॥
तत्र स भगवान् दृष्ट्वा तम् उत्तरम् उपाश्रितं ।
दाक्षिणादेशनां तस्याः प्रेत्या नाम्ना समादिशत् ॥ र्म्_24.213{13} ॥
इतो दानाद् धि यत् पुण्यं तत् प्रेतीम् उपगछतु ।
उत्तिष्ठताम् इयं प्रेती प्रेतलोकात् ततो द्रुतं ॥ र्म्_24.214{14} ॥
इति शुभाशिषं दत्वा भगवान् स मुनीश्वरः ।
आर्य्यसत्यं समारभ्य सद्धर्मं च समादिशत् ॥ र्म्_24.215{15} ॥
तद् आर्य्यधर्मम् आकर्ण्य सर्वे लोकाः प्रबोधिताः ।
धर्मविशेषम् आज्ञाय बभूवुः सत्यदर्शिनः ॥ र्म्_24.216{16} ॥
सापि प्रेती समानीय तत् सद्धर्मामृतं मुदा ।
सुप्रसन्नाशया स्मृत्वा त्रिरत्नं शरणं ययौ ॥ र्म्_24.217{17} ॥
ततः सा भूतलोके ऽभूज् जाता भूतमहर्द्धिका ।
तत्रापि साभवद् दुष्टा मात्सर्य्यरुक्षिताशया ॥ र्म्_24.218{18} ॥
ततः स भगवांस् तस्मात् ससांघिकः प्रभासयन् ।
गत्वा स्वाश्रमम् आश्रित्य तस्थौ धर्मम् उपादिशन् ॥ र्म्_24.219{19} ॥
ततः स बुद्धिमान् विज्ञ आयुष्मान् यतिर् उत्तरः ।
कुत्रासौ जायते माताधुनेति समपश्यत ॥ र्म्_24.220{20} ॥
एवं स उत्तरो विज्ञः समभीक्ष्य समंततः ।
ददर्श तां संप्रजातां भूतमहर्द्धिकालये ॥ र्म्_24.221{21} ॥
दृष्ट्वा स उत्तरः पुत्रो मातरं तां च भौतिकां ।
सहसा समुपाश्रित्य समामंत्र्यैवम् अब्रवीत् ॥ र्म्_24.222{22} ॥
किम् अम्बास्ति त्वया शक्तिर् अपि दानेषु सांप्रतं ।
यदीछसि सदा भद्रं कुरु दानम् इहाधुना ॥ र्म्_24.223{23} ॥
इति तेनोदितं श्रुत्वा सा च भूतमहर्द्धिका ।
उत्तरं तं सुतं दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_24.224{24} ॥
नाद्यापि विद्यते दाने ऽभिलाषं मम नंदन ।
तत् किं चिद् अपि वा द्रव्यं प्रदातुं नाहम् उत्सहे ॥ र्म्_24.225{25} ॥
इति तेनोदितं श्रुत्वायुष्मान् स उत्तरो यतिः ।
दृष्ट्वा तां मातरं भूतमहर्द्धिकाम् अभाषत ॥ र्म्_24.226{26} ॥
अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मान्सत्वगस्थिचर्मा लोभांधकारावृतलोचनाया निवर्तितं यत् तव प्रेतलोके ।
धिक् त्वां प्रदुष्टाम् इह किं वदेयम् अद्यापि यत् त्वं दुरिताशयासि ।
केनात्र ते पापनिमग्नचित्तं संशोधितं पुण्यकरोद्धृतं स्यात् ॥ र्म्_24.227{27} ॥
सदापि चैवं नरके निवासा भवेत् कदा त्वं परिमोक्ष्यसे ऽतः ।
अहो हि दुर्बुद्धिदुराशयानां मनो न केनापि विशुद्ध्यते वै ॥ र्म्_24.228{28} ॥
एवं बहुप्रकारेण परिभाष्योत्तरः स तां ।
तदङ्गात् यमलीम् एकाम् आकृष्यापहरद् वलात् ॥ र्म्_24.229{29} ॥
ततस् तां यमलीं सो ऽर्हं संघाय समकल्पयत् ।
तत्र मूल्येन तां क्रीत्वा भिक्षुमानवके न्यसेत् ॥ र्म्_24.230{30} ॥
तत्रापि निशि सा गत्वा यमलीं ताम् उपाहरत् ।
तथापहृतां भिक्षुर् उत्तराय न्यवेदयत् ॥ र्म्_24.231{31} ॥
तच् छ्रुत्वा चोत्तरो गत्वा परिभाष्य वलेन तां ।
अपहृत्य पुनस् तस्मै भिक्षवे समकल्पयत् ॥ र्म्_24.232{32} ॥
भूयो ऽपि निशि सा गत्वा यमलीं ताम् उपाहरत् ।
तथा स उत्तरश् चापि तस्याश् च ताम् अपाहरत् ॥ र्म्_24.233{33} ॥
एवं त्रिधा निशायां सा तत्र गत्वाहरच् च तां ।
उत्तरश् चापहृत्यैव तां तस्मै भिक्षवे ददौ ॥ र्म्_24.234{34} ॥
तेनापि भिक्षुणादाय चतुदिक्सांघिकाय सा ।
पाद्यलेपानिकायां संसीवित्वा प्रतिपादिता ॥ र्म्_24.235{35} ॥
तत्र तां सीवितां दृष्ट्वा सा च भूतमहर्द्धिता ।
अपहृतविभग्नाशा रुदन्ती स्वालयं ययौ ॥ र्म्_24.236{36} ॥
तच्चित्ताग्निप्रतप्ता सा स्मृत्वा तं सुतम् उत्तरं ।
कालं गता ततो ऽन्यत्र यक्षलोके ऽलभज् जनुः ॥ र्म्_24.237{37} ॥
एवं मत्वा महत्पापमूलं मात्सर्य्यम् एव हि ।
तत् मात्सर्यं परित्यज्य कर्त्तव्यं दानम् आदरात् ॥ र्म्_24.238{38} ॥
दानेन शुद्ध्यते चित्तः शुद्धचित्तः सुधीकृतिः ।
क्रमाद् बोधिचरिं धृत्वा संबुद्धपदम् आप्नुयात् ॥ र्म्_24.239{39} ॥
एवं विज्ञाय सर्वत्र यदीछन्ति सदा शुभं ।
मात्सर्यं विषवत् त्यक्त्वा चरितव्यं सदा शुभे ॥ र्म्_24.240{40} ॥
इति मे गुरुणाख्यातं श्रुतं तथा मयोच्यते ।
त्वं चाप्य् एवं परिज्ञाय चरितव्यम् शुभे सदा ॥ र्म्_24.241{41} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयितुं सदार्हसि ॥ र्म्_24.242{42} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_24.243{43} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिभाषित्वा प्राभ्यनंदत् सपार्षदः ॥ र्म्_24.244{44} ॥
इदं नरा ये मुदिताश् च भूतमहर्द्धिकायानुवदानम् अत्र ।
मुदा निशम्य प्रतिमोदयन्ते प्रयांति ते श्रीघनसंनिवासे ॥ र्म्_24.245{45} ॥
++ इति रत्नावदानत्वे प्रेतीभूतमहर्द्धिकावदानं समाप्तम् ++
xxव् दूतावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अवोचत् ॥ र्म्_25.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_25.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् ॥ र्म्_25.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुभाषितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चात्रानुमोदय ॥ र्म्_25.4{4} ॥
तद्यथा भगवान् बुद्धः श्रीघनः स मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ र्म्_25.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चेलकैः ।
उपासकगणैश् चापि तथा चोपासिकागणैः ॥ र्म्_25.6{6} ॥
राजगृहपुरोपान्ते गृद्धकूटे नगोत्तमे ।
वेणुवने महोद्याने करंदकनिवापके ॥ र्म्_25.7{7} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ र्म्_25.8{8} ॥
तत् सद्धर्मामृतं पातुं सर्वे लोका उपागताः ।
देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ र्म्_25.9{9} ॥
ग्रहा विद्याधराः सिद्धा राक्षसा गरुडा अपि ।
लोकपालगणाश् चापि तीर्थिकाश् च महर्षयः ॥ र्म्_25.10{10} ॥
ब्राह्मणाः क्षत्रिया भूपा वैश्याश् च मांत्रिणो ऽपि च ।
अमात्याः श्रेष्ठिनश् चापि गृहस्थाश् च महाजनाः ॥ र्म्_25.11{11} ॥
वणिजः सार्थवाहाश् च शिल्पिनः पौरिकास् तथा ।
ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ र्म्_25.12{12} ॥
तथान्ये ऽपि जनाश् चैवं सर्वे तत्र समागताः ।
दृष्ट्वा तं श्रीघनं नत्वा समभ्यर्च्य यथाक्रमं ॥ र्म्_25.13{13} ॥
कृतांजलिपुटाः सर्वे परिवृत्योपतस्थिरे ।
ततः स भगवां दृष्ट्वा सर्वांस् तां समुपस्थितान् ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ र्म्_25.14{14} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
धर्मवैशेषम् आज्ञाय बभूवुर् बोधिसाधिनः ॥ र्म्_25.15{15} ॥
एवं स भगवांस् तत्र नित्यं सद्धर्मम् आदिशन् ।
वर्षासु व्यहरल् लोकहितं कृत्वा ससांघिकः ॥ र्म्_25.16{16} ॥
तस्मिंस् तु समये तत्र श्रावस्त्यां पुरि सत्तमः ।
अनाथपिंडदः श्रेष्ठी गृहपतिर् महाजनः ॥ र्म्_25.17{17} ॥
त्रिरत्नभक्तिमान् दाता संबुद्धदर्शनोत्सुकः ।
प्रसेनजिन् महीपालं प्रणत्वा प्रार्थयत् तथा ॥ र्म्_25.18{18} ॥
जय देव महारज जानीयात् तद् भवान् अपि ।
यद् अस्माभि मुनीन्द्रो ऽसौ सुचिरं नाभिदृश्यते ॥ र्म्_25.19{19} ॥
तत् तस्मात्र मुनीन्द्रस्य दर्शने तृषिता वयं ।
भगवंतं मुनीन्द्रं तं द्रष्टुम् इछामहे ऽधुना ॥ र्म्_25.20{20} ॥
तद् भवान् समुपामंत्र्य भगवंतं जगद्गुरुं ।
अत्र लोकहितार्थाय विजयितुं समर्हति ॥ र्म्_25.21{21} ॥
इति संप्रार्थितं तेन गृहाधिपतिना सदा ।
श्रुत्वा स भूपती राजा तं गृहपतिम् अब्रवीत् ॥ र्म्_25.22{22} ॥
किं त्वया श्रूयते साधो भगवान् स मुनीश्वरः ।
एतर्हि तिष्ठते कुत्र वर्षासु सह सांघिकैः ॥ र्म्_25.23{22!} ॥
इति राज्ञोदितं श्रुत्वा सो ऽनाथपिण्डदो गृही ।
तं नरेंद्रं समालोक्य पुनर् एवम् अभाषत ॥ र्म्_25.24{23} ॥
श्रुतं मया महाराज भगवान् स ससांघिकं ।
राजगृहे ऽधुना प्रावृत्समये ऽप्य् अवतिष्ठते ॥ र्म्_25.25{24} ॥
इति तेन समाख्यातं श्रुत्वा स नृपतिस् ततः ।
दूतम् एकं समाहूय पुर एवम् उपालपत् ॥ र्म्_25.26{25} ॥
एहि त्वं भो महासाधो श्रुत्वा मे वचनं द्रुतं ।
तत्र राजगृहे गत्वा भगवत उपाचर ॥ र्म्_25.27{26} ॥
अस्माकं वचनैस् तस्य शास्तुः पादाम्बुजे नमः ।
नत्वा देहादि सर्वत्र कौशल्यं परिपृछ च ॥ र्म्_25.28{27} ॥
एवं चापि मुनेस् तस्य पुरो विज्ञापयादरात् ।
कौशल्ये नृपती राजा भगवंतं द्रष्टुम् इछति ॥ र्म्_25.29{28} ॥
तथा सर्वे ऽपि लोकाश् च श्रावस्त्यायाश् च पौरिकाः ।
त्रिरत्नदर्शनं कर्तुम् अभिवांछन्ति सांप्रतं ॥ र्म्_25.30{29} ॥
भवद्धर्मामृतं चापि पातुम् इछंति सर्ववित् ।
तत् ससंघो भवांस् तत्र कृपयागंतुम् अर्हति ॥ र्म्_25.31{30} ॥
इति रज्ञोदितं श्रुत्वा तथेति प्रतिमोदितः ।
तं नृपं सांजलिर् नत्वा द्रुतं राजगृहं ययौ ॥ र्म्_25.32{31} ॥
तत्र राजगृहे गत्वा स दूतः प्रतिनंदितः ।
विलोक्य सुप्रसन्नात्मा गृध्रकूटे उपाचरत् ॥ र्म्_25.33{32} ॥
तत्र स दूरतो दृष्ट्वा भगवंतं प्रमोदितः ।
उपेत्य सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_25.34{33} ॥
भगवन् नाथ सर्वज्ञ वंदे ते चरणाम्बुजे ।
यदर्थे ऽहम् इहायामि तज् जानीयाद् भवां जिनः ॥ र्म्_25.35{34} ॥
तथाप्य् अहं जगच्छास्तुः पुरो विज्ञापयामि तत् ।
भगव सर्वविद् राजा प्रसेनजित् सुकौशलः ॥ र्म्_25.36{35} ॥
भवतां वंदते पादौ कुशलं चापि पृछते ।
तथा च भगवन् सर्वे श्रावस्त्येयाश् च पौरिकाः ॥ र्म्_25.37{36} ॥
वंदंते भवतां पादौ पृछंते चापि कौशलं ।
नृपादि सर्वलोकाश् च भवतां दर्शनोत्सुकाः ॥ र्म्_25.38{37} ॥
त्रिरत्नं द्रष्टुम् इछाम इत्य् एवं प्रवदन्ति ते ।
भवद्धर्मामृतं चापि पातुम् इछंति ते ऽधुना ॥ र्म्_25.39{38} ॥
नृपतिप्रमुखाः सर्वे तृष्णार्दिता इवामृतं ।
तत् साधु भगवांस् तत्र श्रावस्त्यां पुरि सांप्रतं ।
अनुकम्पाम् उपादाय विजयतां ससांघिकः ॥ र्म्_25.40{39} ॥
इत्य् उक्ते तेन दूतेन भगवान् स मुनीश्वरः ।
तं दूतं पुरुषं दृष्ट्वा समामंत्र्येवम् आदिशत् ॥ र्म्_25.41{40} ॥
भो पुरुष महाराजो बिम्बिसारो नृपाधिपः ।
यद्य् अनुज्ञां ददात्य् अत्र तदा यास्याम्य् अहं ध्रुवं ॥ र्म्_25.42{41} ॥
तत् साधु नृपतेस् तस्य बिम्बिसारस्य भूभृतः ।
अनुज्ञाप्रार्थनां कृत्वा गछायास्याम्य् अहं तदा ॥ र्म्_25.43{42} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स दूत आदरात् ।
तथेति तं मुनिं नत्वा राज्ञो ऽन्तिकम् उपाचरत् ॥ र्म्_25.44{43} ॥
तत्र स समुपाश्रित्य बिम्बिसारं नराधिपं ।
सांजलिः पुरतो गत्वा प्रणत्वैवं न्यवेदयत् ॥ र्म्_25.45{44} ॥
जय देव महाराज प्रसीदानुग्रहं कुरु ।
प्रसेनजिन्महीभर्तुर् दूतो ऽहं समुपागतः ॥ र्म्_25.46{45} ॥
महाराज महीपाल प्रसेनजित् स कौशलः ।
भगवतो मुनीन्द्रस्य दर्शनम् अभिवांछति ॥ र्म्_25.47{46} ॥
तथा सर्वे ऽपि लोकाश् च श्रावस्त्र्येयाः सपौरिकाः ।
त्रिरत्नस्य जगद्भर्तुः प्रष्टुम् इछन्ति सांप्रतं ॥ र्म्_25.48{47} ॥
तद् अस्य त्रिजगच्छास्तुर् भगवतो भवान् प्रभो ।
तत्रानुगमने ऽनुज्ञां कृपया दातुम् अर्हति ॥ र्म्_25.49{48} ॥
इति तेनार्थितं श्रुत्वा बिम्बिसारः स भूपतिः ।
तं दूतं समुपालोक्य चिरेणैवम् अभाषत ॥ र्म्_25.50{49} ॥
सधो स भगवान्स् तत्र यदि गंतुं समिछति ।
तद् अत्र किं वदिष्यामि यत्रेछेत् तत्र गछतु ॥ र्म्_25.51{50} ॥
इति राज्ञा समादिष्टं श्रुत्वा दूतः स मोदितः ।
बिम्बिसारं नरेंद्रं तं नत्वा ययौ जिनान्तिके ॥ र्म्_25.52{51} ॥
तत्र स सहसा गत्वा श्रीघनं तं मुनीश्वरं ।
कृतांजलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_25.53{52} ॥
भगवंस् तेन भूपेन ह्य् अनुज्ञातो ऽसि सांप्रतं ।
तत् ससंघो भगवांस् तत्र विजयितुं समर्हति ॥ र्म्_25.54{53} ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
एनं दूतं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_25.55{54} ॥
ततः स भगवान् वर्षात्रिमासान्त ससांघिकः ।
सर्वत्र मंगलं कृत्वा प्रतस्थे संप्रभासयन् ॥ र्म्_25.56{55} ॥
तदा स पुरुषो दूतस् तद्विहाराद् विनिर्गतः ।
सहसा रथम् आरुह्य संप्रतस्थे पुरः पथि ॥ र्म्_25.57{56} ॥
तत्र स भगवंतं पद्भ्यां संप्रस्थितं पथि ।
दृष्ट्वैव सहसा तस्माद् रथात् स्वयम् अवातरत् ॥ र्म्_25.58{57} ॥
तत्र स सहसोपेत्य भगवन्तं मुनीश्वरं ।
सांजलिः पुरतो गत्वा प्रणत्वैवम् अवोचत ॥ र्म्_25.59{58} ॥
प्रसीदतु जगन्नाथ ममानुकम्पया भवान् ।
इदं रथं समारुह्य विजयतां ससांघिकः ॥ र्म्_25.60{59} ॥
इति तेनोदितं श्रुत्वा भगवान् स जगद्गुरुः ।
तं दूतं पुरुषं दृष्ट्वा तत्रैवं समुपादिशत् ॥ र्म्_25.61{60} ॥
ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्त्तिना ।
प्रचरामि महीं कृत्स्नाम् अक्षतः क्लेशकष्टकैः ॥ र्म्_25.62{61} ॥
इत्य् आदिष्टं मुनीन्द्रेण स दूतः प्रतिबोधितः ।
भूयो ऽपि सांजलिर् नत्वा प्रार्थयत् तं मुनीश्वरं ॥ र्म्_25.63{62} ॥
यद्य् अपि भगवान् ऋद्धियानयायी तथापि तु ।
ममानुग्रहम् आधातुं गृह्यताम् अनुकम्पया ॥ र्म्_25.64{63} ॥
इति तेनार्थितं श्रुत्वा भगवान् ससांघिकः ।
ऋद्ध्या रथोपरि स्थित्वा संप्रतस्थे प्रभासयन् ॥ र्म्_25.65{64} ॥
तत्र मार्गेषु सर्वत्र भगवान् ससांघिकः ।
भासयन् मंगलं कृत्वा श्रावस्तीपुरम् आययौ ॥ र्म्_25.66{65} ॥
तत्र स पुरुषो दूतः सहसा प्रचरन् पुरः ।
प्रसेनजिन्नरेन्द्रस्य गत्वैवं संन्यवेदयत् ॥ र्म्_25.67{66} ॥
जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतं ।
यद् असौ भगवांच् छास्ता ससंघो ऽत्र समागतः ॥ र्म्_25.68{67} ॥
इति तेनोदितं श्रुत्वा प्रसेनजित् स भूपतिः ।
तत्र सर्वत्र मार्गेषु शोधयित्वाभ्यशोधयत् ॥ र्म्_25.69{68} ॥
छत्रध्वजवितानैश् च समंततो ऽभ्यमंडयत् ।
ततः स नृपति राजा तूर्यसंगीतिवादनैः ।
सजनो भगवन्तं तं प्रत्युद्ययौ महोत्सवैः ॥ र्म्_25.70{69} ॥
तत्र समुदितो राजा समंत्रिजनपौरिकः ।
दूरात् तं श्रीघनं दृष्ट्वा पद्भ्यां चरन्न् उपाचरत् ॥ र्म्_25.71{70} ॥
तत्रोपेत्य स भूपालः ससंघन् तं मुनीश्वरं ।
प्रणत्वा सांजलिः स्थित्वा पुरो दृष्ट्वैवम् अब्रवीत् ॥ र्म्_25.72{71} ॥
भगवन् नाथ सार्वज्ञ कच्चिच् च कुशलं तनौ ।
भवतां विषये ह्य् अत्र विहरस्व ससांघिकः ॥ र्म्_25.73{72} ॥
तथा सर्वे ऽपि लोकाश् च समंत्रिजनपौरिकाः ।
सांजलयः प्रणत्वैवं प्रार्थयंस् तं मुनीश्वरं ॥ र्म्_25.74{73} ॥
स्वागतं भगवंच् छास्त विजयस्व कृपानिधे ।
सदात्र स्वाश्रमे स्थित्वा विहरस्वानुकम्पया ॥ र्म्_25.75{74} ॥
इत्य् उक्त्वा सर्वलोकास् ते नृपतिप्रमुखा मुदा ।
पूजादि मंगलोत्साहैः प्रावेशयंस् ततः पुरे ॥ र्म्_25.76{75} ॥
ततः स भगवान् दृष्ट्वा सर्वांस् तान् संप्रमोदितान् ।
नृपतिप्रमुखान् दत्वा भद्राशिषं समाचरत् ॥ र्म्_25.77{76} ॥
तत्र स भगवांस् तस्याः श्रावस्त्या गोपुरान्तिके ।
अवतीर्य यथा पद्भ्यां प्रचक्राम ससांघिकः ॥ र्म्_25.78{77} ॥
तत्र स श्रीघनो नाथः प्रभासयन् समंततः ।
सर्वेषां भद्रतां कुर्वन् प्रविवेश ससांघिकः ॥ र्म्_25.79{78} ॥
प्रविष्टे नगरे तत्र संबुद्धे सुगते जिने ।
तत्पुण्यसुप्रभाव्याप्ते सर्वत्राप्य् अभवच् छुभं ॥ र्म्_25.80{79} ॥
अंधा रूपाणि प्राद्राक्षुर् वधिराः शुश्रुवु रवं ।
ये च हीनेंद्रियास् ते ऽपि सर्वे पूर्णेन्द्रिया वभुः ॥ र्म्_25.81{80} ॥
क्षुधाग्निपरितप्तांगास् ते ऽभवन् परितृप्तिताः ।
पिपासापरिदग्धांगास् ते ऽप्य् आसन् संप्रतर्पिताः ॥ र्म्_25.82{81} ॥
कुचेला दुर्भगांशा ये शुद्धांशुकाः शुभांशिकाः ।
चिररोगातुरा येन नीरोगा वलिनो ऽभवन् ॥ र्म्_25.83{82} ॥
उन्मत्ताः स्मृतिमंतश् च दरिद्रा धनिनो ऽभवन् ।
चिरवैरानुवद्धा ये ते ऽप्य् आसन् मैत्रभाविनः ॥ र्म्_25.84{83} ॥
चंडालाश् च दयावन्तः क्रोधिनः क्षान्तिभाविनः ।
लब्धाश् च निःस्पृहा आसन् ईर्ष्यालवश् च साधवः ॥ र्म्_25.85{84} ॥
मत्सरिणश् च दातारः कृपणाः संतोषिताशयाः ।
अधर्मकामसंरक्तास् ते धर्मकामसाधिनः ॥ र्म्_25.86{85} ॥
मृषावादरता ये च ते ऽप्य् आसन् सत्यभाषिणः ।
पैशुन्याभिरता ये च ते ऽपि विश्रम्भभोजनाः ॥ र्म्_25.87{86} ॥
संभिन्नलापिनो दुष्टास् ते ऽपि संतः समार्जवाः ।
पारुष्यंवादिनः क्रूरास् ते आसन् प्रियवादिनः ॥ र्म्_25.88{87} ॥
ये ऽभिध्यालवस् ते ऽपि सज्जना कीर्तिमानिनः ।
व्यापादनिरता ये च ते ऽपि सत्वहितार्थिनः ॥ र्म्_25.89{88} ॥
मिथ्यादृष्टिचरा ये च ते धर्मसत्यदृष्टयः ।
बोधिचर्यासमुत्साहाः सर्वे पुण्यार्थिनो ऽभवन् ॥ र्म्_25.90{89} ॥
एवम् अन्ये ऽपि ये सत्वा दुःखिनः पापसंरताः ।
सर्वे ते सुखिनः संतः सद्धर्मवांछिनो ऽभवन् ॥ र्म्_25.91{90} ॥
सुगंधिनः सुखस्पर्शाः शीतला वायवो ववुः ।
प्रसेदिरे दिशः सर्वाः पुष्पाणि ववृषुर् घनाः ॥ र्म्_25.92{91} ॥
सुरदुंदुभयो नेदुः प्रससार महोदधिः ।
प्रचचार मही षड्धा प्रजुज्वलुः शुभाग्नयः ॥ र्म्_25.93{92} ॥
बभूवुः पादपाः सर्वे फलपुष्पाभरानत्ताः ।
अष्टांगगुणयुक्ताम्बुपरिपूर्णजलाश्रयाः ॥ र्म्_25.94{93} ॥
अनेकधातुरत्नादि निधयः प्रचकासिरे ।
निस्पन्नशस्यसंपन्ना बह्हूव वसुधा तदा ॥ र्म्_25.95{94} ॥
बहुक्षीरप्रदा गाव औषधयो गुणान्विताः ।
रसाश् च सुगुणा आसन् फलानि सुरसानि च ॥ र्म्_25.96{95} ॥
एवं तत्र सुभद्राणि सर्वत्राप्य् अभवंस् तदा ।
उपद्रवाश् च सर्वे ऽपि सर्वत्र विलयं गताः ॥ र्म्_25.97{96} ॥
सर्वे विघ्नगणा दुष्टा ते ऽप्य् अत्र विलयं ययुः ।
सर्वे सत्वाः सुखाढ्याश् च प्रचेरिरे प्रहर्षिताः ॥ र्म्_25.98{97} ॥
एवं तदा मुनीन्द्रस्य प्रभावेन समंततः ।
सद्धर्ममंगलोत्साहं बभूव निरुपद्रवं ॥ र्म्_25.99{98} ॥
एवं स भगवांस् तत्र कृत्वा भद्रं प्रभासयन् ।
प्रदक्षिणक्रमेणैवं प्रचक्राम नृपालये ॥ र्म्_25.100{99} ॥
तत्र शोधान्तरे रम्ये प्रासादे परिशोधिते ।
छत्रध्वजवितानैश् च मण्डिते विसृतासने ॥ र्म्_25.101{100} ॥
प्रविश्य पाद्यम् आदाय नृपदत्तं ससांघिकः ।
भगवान् भासयंस् तत्र शुद्धासने समाश्रयन् ॥ र्म्_25.102{1} ॥
तथा ते सांघिकाश् चापि सर्वे दत्तं महीभुजा ।
स्वयं समादाय स्वस्वासने समाश्रयत् ॥ र्म्_25.103{2} ॥
एवं तत्र समासीनं श्रीघनं तं ससांघिकं ।
नृपतिप्रमुखाः सर्वे लोका दृष्ट्वा प्रमोदिताः ॥ र्म्_25.104{3} ॥
सर्वपूजोपहारांगैः समभ्यर्च्य यथाविधिः ।
यथार्हभोजनैश् चापि प्रणीतैः समतोषयन् ॥ र्म्_25.105{4} ॥
ततस् तं सुगतं तृप्तं ससमहं स नराधिपः ।
दृष्ट्वापनीय पात्राणि तद् धस्तादीन् अशोधयत् ॥ र्म्_25.106{5} ॥
ततः क्रमुकताम्बूलमहौषद्धिरसायनं ।
दत्वा क्षमार्थनां कृत्वा ननाम तं ससांघिकं ॥ र्म्_25.107{6} ॥
तत्र समुदितो राजा तस्य शास्तुर् जगद्गुरोः ।
पुरो नीचासनासीनो तस्थौ श्रोतुं वृषं मुदा ॥ र्म्_25.108{7} ॥
तथा मंत्रिजनाद्याश् च सर्वे लोकाः प्रमोदिताः ।
नत्वा तं श्रीघनं तत्र धर्मम् श्रोतुम् उपाश्रयन् ॥ र्म्_25.109{8} ॥
ततः स भगवां दृष्ट्वा सर्वांस् तान् समुपाश्रितान् ।
नृपतिं तं समामंत्र्य सद्धर्मं समुपादिशत् ॥ र्म्_25.110{9} ॥
शृणु राजन् महाभाग सर्वदारोग्यम् अस्तु वः ।
सर्वे सत्वाश् च सद्धर्मनिरता सन्तु सर्वदा ॥ र्म्_25.111{10} ॥
एवं त्वं भो महाराज साधयित्वा प्रयत्नतः ।
सर्वां सत्वां शुभे धर्मे योजयित्वाभिपालय ॥ र्म्_25.112{11} ॥
एवं लोके शुभं कृत्वा बोधिचर्यां समाहितः ।
त्रिरत्नभजनं कृत्वा चिनु धर्मं समादरात् ॥ र्म्_25.113{12} ॥
अनित्यं खलु संसारं क्षणध्वंसि शरीरकं ।
जीवितं च क्षणस्थायि धर्म एव सहानुगः ॥ र्म्_25.114{13} ॥
इति मत्वा महाराज क्लेशान् दुर्जयान् वलैः ।
जित्वा सत्वांच् छुभे स्थाप्य पालय सद्वृषं चिनुः ॥ र्म्_25.115{14} ॥
धर्मेण सद्गतिं यायाः सद्गतौ सर्वदा सुखं ।
भुक्त्वा बोधिचरिं धृत्वा चरं बोधिम् अवाप्नुयाः ॥ र्म्_25.116{15} ॥
एवं विज्ञाय राजेंद्र स्वयं धर्मे समाहितः ।
सर्वसत्वहितं कृत्वा चर नित्यं समाहितः ॥ र्म्_25.117{16} ॥
इत्य् आदिश्य नरेंद्राय सलोकाय शुभाशिषं ।
ससंघो भगवान् बुद्धः स्वाश्रमे गंतुम् उत्थितः ॥ र्म्_25.118{17} ॥
भासयं सकलांल् लोकां भद्रं कृत्वा समंततः ।
स्वाश्रमाभिमुखस् तस्मात् प्रतस्थे क्रमतः पुरात् ॥ र्म्_25.119{18} ॥
तत्र सर्वे ऽपि लोका नृपतिप्रमुखा अपि ।
शास्तुस् तस्य ससंघस्य प्रानुययुः सहोत्सवैः ॥ र्म्_25.120{19} ॥
तथा स भगवान् गत्वा ससांघिको नृपादिभिः ।
लोकैः सह महोत्साहैः स्वाश्रमं समुपाययौ ॥ र्म्_25.121{20} ॥
तत्र जेतवनोद्याने विहारे समुपाश्रितः ।
ससांघिकः सभासीनः स शास्ता धर्मम् आदिशत् ॥ र्म्_25.122{21} ॥
तद् धर्मदेशनां श्रुत्वा तत्रैव ते नृपादयः ।
सर्वे लोकाः प्रमोदन्तो रात्रौ न्यूषुः सहोत्सवैः ॥ र्म्_25.123{22} ॥
तस्याम् एव निशायां स दूतो ऽल्पायूर् ज्वरान्वितः ।
त्रिरत्नस्मरणं कुर्वन् देहं त्यक्त्वा दिवं ययौ ॥ र्म्_25.124{23} ॥
तत्र स्वर्गे समुत्पन्नः स दूतो विस्मयान्वितः ।
कुतश् च्युतः कुहोत्पन्नः कथम् इति व्यचिंतयत् ॥ र्म्_25.125{24} ॥
तदा स मनसाद्राक्षीन् मनुष्येभ्यश् च्युतास्म्य् अहं ।
इह स्वर्गे समुत्पन्नः संबुद्धभजनाद् इति ॥ र्म्_25.126{25} ॥
अथ स दूतपूर्वी स देवपुत्रः प्रसादितः ।
संबुद्धस्य गुणान् स्मृत्वा पुनर् एवं व्यचिंतयत् ॥ र्म्_25.127{26} ॥
अहो ह्य् अहं मुनीन्द्रस्य प्रसादाद् दिवि सांप्रतं ।
जातो ऽस्मि तन् मुनीन्द्रस्य कुर्यां संदर्शनं पुनः ॥ र्म्_25.128{27} ॥
इति हि दूतपुर्वी स देवपुत्रो विचिंतयन् ।
स्नात्वा सुगंधिलिप्तांगं शुद्धाम्वरावृतः सुधीः ॥ र्म्_25.129{28} ॥
मौलिकुण्डलमालादि दिव्यालंकारभूषितः ।
दिव्यपूजोपचारां धृत्वा देवं सहाचरत् ॥ र्म्_25.130{29} ॥
तस्याम् एव निशायां स देवपुत्रः सुरैः सह ।
अवभास्य प्रभास् तस्मिज् जेतारण्ये उपाचरत् ॥ र्म्_25.131{30} ॥
तत्रोद्याने विहारे तं भगवंतं मुनीश्वरं ।
आलोक्य सांजलिर् नत्वा पुरतः समुपाचरत् ॥ र्म्_25.132{31} ॥
ततस् तं श्रीघनं नाथं समभ्यर्च्य यथाविधिः ।
नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रयत् ॥ र्म्_25.133{32} ॥
अथ स भगवांस् तस्य दृष्ट्वा चित्तं विशोधितं ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_25.134{33} ॥
तद् आर्य्यधर्मम् आकर्ण्य देवपुत्रः स बोधितः ।
धर्मविशेषम् आज्ञाय दृष्टसत्यो ऽभवंस् ततः ॥ र्म्_25.135{34} ॥
सत्कायदृष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं ।
प्रभित्वा ज्ञानवज्रेण सद्धर्मं साधनोत्सुकः ॥ र्म्_25.136{35} ॥
परिशुद्धाशयः श्रोतआपत्तिफलम् आप्तवान् ।
शास्तुस् तस्य पदौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_25.137{36} ॥
भगवन्न् इदम् अस्माकं गुरुभिर् न कृतं खलु ।
न मात्रा नापि पित्रा वा न ज्ञातिमित्रवांधवैः ॥ र्म्_25.138{37} ॥
न चेष्टैर् ब्राह्मणैर् वापि न चापि पूर्वप्रेतकैः ।
न राज्ञा श्रमणैश् चान्यैर् देवैर् अपि कृतं खलु ॥ र्म्_25.139{38} ॥
यद् अस्माकं कृतं भद्रं भवतास्थिशिरोच्चयाः ।
लंघिता रुधिरा चाब्धिर् उछोषिताश् च सांप्रतं ॥ र्म्_25.140{39} ॥
पिहितो पापमार्गश् च स्वर्गमार्गश् च वैवृतः ।
दर्शितो मोक्षमार्गो ऽपि तीर्णो दुःखार्णवापि च ॥ र्म्_25.141{40} ॥
प्रसादाद् भवताम् अद्य प्राप्तं शुद्धेंद्रियं मया ।
शान्तम् आर्यपदं कांतं संबोधिगुणसाधनं ॥ र्म्_25.142{41} ॥
अद्य मे सफलं जन्म भवतां दर्शनाद् इह ।
सद्धर्मश्रवणाद् अद्य बुद्धपुत्रो ऽस्मि सांप्रतं ॥ र्म्_25.143{42} ॥
इत्य् उक्त्वा दूतपुर्वी स देवपुत्रः प्रमोदितः ।
तस्य शास्तुर् जगद्वंधोः पादौ नत्वा कृतांजलिः ॥ र्म्_25.144{43} ॥
त्रिधा प्रदक्षिणीकृत्य समभिनंदिताशयः ।
ततो ऽनुज्ञां समासाद्य सुरैः सह दिवं ययौ ॥ र्म्_25.145{44} ॥
तत्र स्वर्गे स सम्यातः सुरम्ये स्वालये स्थितः ।
त्रिरत्नभजनं कृत्वारमं देवैः सहावसत् ॥ र्म्_25.146{45} ॥
तत्र दृष्ट्वावभासं तं प्रसेनजित् स कौशलः ।
विस्मितः प्रातर् उत्थाय विहारे समुपाचरत् ॥ र्म्_25.147{56!} ॥
तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रितः ॥ र्म्_25.148{57} ॥
ततः स नृप उत्थाय सूत्तरासङ्गम् उद्वहन् ।
जानुभ्यां भुवि संस्थित्वा प्रार्थयत् तं मुनीश्वरं ॥ र्म्_25.149{58} ॥
भगवन्न् अत्र निशायां को भवतां समुपागतः ।
तद् भवतां समुपादिश्या मां बोधयितुम् अर्हति ॥ र्म्_25.150{59} ॥
इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः ।
नृपतिं तं महीपालं समालोक्यैवम् आदिशत् ॥ र्म्_25.151{60} ॥
अन्यो न हि स राजेंद्र यो ऽद्य रात्राव् इहागातः ।
अपि तु तावको दूतो देवभूतः स आगतः ॥ र्म्_25.152{61} ॥
इत्य् आदिष्टे मुनीन्द्रेण नृपतिः स सविस्मयः ।
भगवंतं पुनर् नत्वा तत् कर्म पर्यपृछतः ॥ र्म्_25.153{62} ॥
भवन् किं कदा तेन दूतेन सुकृतं कृतं ।
येनासौ दिवि संजातो दृष्टसत्यो भवत्य् अपि ॥ र्म्_25.154{63} ॥
तद् भवान् भगवंच् छास्त यत् तेन सुकृतं कृतं ।
तत् सर्वं समुपाख्याय बोधयितुम् अनाशयं ॥ र्म्_25.155{64} ॥
इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः ।
कौशलं तं महाराजं समालोक्यैवम् आदिशत् ॥ र्म्_25.156{65} ॥
शृणु राजन् महाभाग तेन देवेन यत् कृतं ।
तद् अत्र संप्रवक्ष्यामि तव चित्तप्रबोधने ॥ र्म्_25.157{66} ॥
यत् त्वया प्रेषितो दूतो मयि राजगृहे स्थिते ।
येन संप्रार्थितं श्रुत्वा तथा ह्य् अहं समागतः ॥ र्म्_25.158{67} ॥
स साधुस् तावको दूतो मया सार्द्धम् इहागतः ।
सद्धर्मदेशनां श्रुत्वा श्रद्धाभक्तिसमन्वितः ॥ र्म्_25.159{68} ॥
त्रिरत्नभजनं कृत्वा प्राचरच् छासने मम ।
आल्पायुष्को ह्य् असौ भद्री विहारे ऽत्र निवासितः ॥ र्म्_25.160{69} ॥
कालधर्माभिसंयुक्ते त्यक्त्वा देहं दिवं ययौ ॥ र्म्_25.161{70} ॥
स ह्य् असौ तावको दूतो रात्राव् अद्येह भासयन् ।
मम संदर्शनं कर्तुं देवलोकैः सहागतः ॥ र्म्_25.162{71} ॥
मम पूजां विधायासौ कृत्वा चापि प्रदक्षिणां ।
नत्वा सादरम् आश्रित्य सद्धर्मं श्रद्धयाशृणोत् ॥ र्म्_25.163{72} ॥
मत्सद्धर्मामृतं पीत्वा दृष्टसत्यः प्रमोदितः ।
नत्वा मां स पुनः स्वर्गे देवलोकैः सहाचरत् ॥ र्म्_25.164{73} ॥
तत्र स स्वालये रम्ये स्थित्वा देवैः सहारमन् ।
त्रिरत्नभजनं कुर्वन् प्राचरं वसते सुखं ॥ र्म्_25.165{74} ॥
एतत्पुण्यविपाकेन दूतः स तावकः कृती ।
स्वर्गे सौख्यं चिरं भुक्त्वा क्रमाद् बोधिम् अवाप्स्यति ॥ र्म्_25.166{75} ॥
एवं विज्ञाय राजेंद्र संसारे ऽत्र महत्सुखं ।
यदीछसि सदा भद्रे चरितव्यं त्वयादरात् ॥ र्म्_25.167{76} ॥
भद्रं तु जायते शीघ्रं त्रिरत्नभजनोद्यमात् ।
तत् त्रिरत्नम् उपाश्रित्य भज नित्यं समाहितः ॥ र्म्_25.168{77} ॥
त्रिरत्ने यत् कृतं कर्मं तन् नैव क्षिणुया क्वचित् ।
यावद् बोधिपदं दद्या एवं महत्तरं वृषं ॥ र्म्_25.169{78} ॥
ये त्रिरत्नं भजन्त्य् अत्र न ते गछन्ति दुर्गतिं ।
सदैव सद्गतिं यान्ति बोधिं च समवाप्नुयुः ॥ र्म्_25.170{79} ॥
तिस्रो हीमाः समाख्याता अग्राः प्रज्ञप्तयो नृप ।
यत्र किं चित् कृतं कर्म तद्विपाको महान् स्मृताः ॥ र्म्_25.171{80} ॥
तद्यथा कतमास् तिस्रो अग्राः प्रज्ञप्तयः स्मृताः ।
त्रिरत्ने प्रकृता यास् ता अग्राः प्रज्ञप्तयः स्मृताः ॥ र्म्_25.172{81} ॥
तद्यथा सर्वसत्वानां त्रैधातुकनिवासिनां ।
बुद्ध एव महान् अग्रो ज्येष्ठः श्रेष्ठो वरोत्तमः ॥ र्म्_25.173{82} ॥
ये बुद्धश्रद्धया भक्त्या प्रभजंति प्रसादिताः ।
सर्वे ऽत्यग्रप्रसन्नास् ते ज्येष्ठाः श्रेष्ठा वरोत्तमाः ॥ र्म्_25.174{83} ॥
तदग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उत्तमः ।
तथा धर्माश् च ये सर्वे संस्कृता वाप्य् असंकृताः ॥ र्म्_25.175{84} ॥
तेषाम् अपि च सर्वेषां बुद्धधर्माग्र उच्यते ।
तत्र धर्मे प्रसन्ना ये ते ऽग्रे हि संप्रसन्निताः ।
तद् अग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उच्यते ॥ र्म्_25.176{85} ॥
ये च संघा गणास् तेषां बुद्धसंघो ऽग्र उच्यते ।
तत्र संघे प्रसन्ना ये ते ऽग्रे ऽभिसंप्रसादिनः ॥ र्म्_25.177{86} ॥
तेषाम् अग्रप्रसन्नानां विपाको ऽप्य् अग्र उच्यते ।
एताः प्रज्ञप्तयस् तिस्रो ह्य् अग्राः ख्यातो मुनीश्वरैः ॥ र्म्_25.178{87} ॥
तद् अत्र श्रद्धया राज त्रिरत्ने संप्रसन्नधीः ।
सत्कारैः समुपाश्रित्य भज नित्यं समादरात् ॥ र्म्_25.179{88} ॥
एतत्पुण्यम् असंख्येयम् अप्रमेयं महत्तरं ।
सर्वसत्वमहासौख्यगुणसंपत्तिदायकं ॥ र्म्_25.180{89} ॥
एवं मत्वा महत्पुण्यं सर्वान् सत्वान् प्रबोधयत् ।
त्रिरत्नभजनोत्साहैश् चारयस्व शुभे नृप ॥ र्म्_25.181{90} ॥
एवं ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_25.182{91} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नृपतिर् मुदा ।
तथेति हि प्रतिज्ञाय प्राभ्यनंदत् प्रसादितः ॥ र्म्_25.183{92} ॥
ततः स नृप उत्थाय नत्वा तं जगदीश्वरं ।
महानंदमहोत्साहैः स्वपुरं सजनो ययौ ॥ र्म्_25.184{93} ॥
तत्र स नृपती राजा प्रासादतलम् आश्रितः ।
स मंत्रिपौरिकान् सर्वान् समामंत्र्यैवम् आदिशत् ॥ र्म्_25.185{94} ॥
मंत्रिणः पौरिकाः सर्वे शृणुध्वं वचनं मम ।
यदि वांछास्ति वो भद्रे त्रिरत्नं भजतादरत् ॥ र्म्_25.186{95} ॥
यवद् अयं जगच्छास्ता विहरत्य् अत्र सांघिकः ।
तावद् अस्य मुनीन्द्रस्य भजत सर्वदोत्सवैः ॥ र्म्_25.187{96} ॥
विहारे सर्वदा गत्वा श्रद्धया समुपाश्रिताः ।
तत् सद्धर्मामृतं पीत्वा मुदा चरत सद्वृतौ ॥ र्म्_25.188{97} ॥
सर्वांश् च सौगतान् भिक्षून् सर्वोपकरणैर् अपि ।
सत्कृत्य श्रद्धयामंत्र्य मानयध्वं सदादरात् ॥ र्म्_25.189{98} ॥
एतन् मे वचनं श्रुत्वा त्रिरत्नशरणं गताः ।
संबोधिप्रणिधानेन चरत बोधिचारिकां ॥ र्म्_25.190{99} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य लभत सौगतिं गतिं ॥ र्म्_25.191{100} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते मंत्रिणो जनाः ।
सर्वे वीरादयो लोकास् तथेति प्रतिशुश्रुवुः ॥ र्म्_25.192{1} ॥
तदा सर्वे ऽपि ते लोकाः सद्धर्मसाधनोद्यताः ।
त्रिरत्नभजनं कृत्वा प्रचेरिरे समोदिताः ॥ र्म्_25.193{2} ॥
तदारभ्य सदा तत्र मंगलं निरुपद्रवं ।
सर्वत्र सर्वदाप्य् आसीत् त्रिरत्नस्यानुभावतः ॥ र्म्_25.194{3} ॥
इति मे गुरुणादिष्टं तथा ते कथ्यते मया ।
त्वम् अप्य् एवं सदा राजन् त्रिरत्नं शरणं गतः ॥ र्म्_25.195{4} ॥
सद्धर्मं समुपाश्रित्य चर नित्यं सदा शुभे ।
लोकाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
त्रिरत्नशरणे स्थाप्य पालनीयाः सदा त्वया ॥ र्म्_25.196{5} ॥
एवं ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_25.197{6} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ र्म्_25.198{7} ॥
दूतावदानं यद् इदं मुदा ये शृण्वंति ये चापि निशामयन्ति ।
ते सर्व एवं त्रिदिवे व्रजन्ति संबुद्धलोके ऽपि सरन्ति चान्ते ॥ र्म्_25.199{8} ॥
++ इति श्रिरत्नावदानतत्वे दूतावदानं समाप्तम् ++
xxवि तैर्थिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं तम् अर्हन्तं प्रणत्वैवम् अब्रवीत् ॥ र्म्_26.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_26.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा स सुगतात्मजः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् ॥ र्म्_26.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथात्राहं प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ र्म्_26.4{4} ॥
तद्यथा भगवांच् छास्ता श्रीघनो ऽर्हन् मुनीश्वरः ।
सर्वज्ञः सुगतो नाथो धर्मराजो विनायकः ॥ र्म्_26.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं तथा सर्वैश् च सांघिकैः ।
तत्रैव जेतकोद्याने विहारे व्यहरत् पुरा ॥ र्म्_26.6{6} ॥
तद् धर्मदेशनां श्रोतुं सर्वे लोकैः समागतैः ।
देवदानवगंधर्वैर् यक्षकिन्नरराक्षसैः ॥ र्म्_26.7{7} ॥
सिद्धैर् विद्याधरैश् चापि नागेन्द्रैर् गरुडैर् अपि ।
लोकपालैः ससैन्यैश् च ब्राह्मणैश् च महर्षिभिः ॥ र्म्_26.8{8} ॥
योगिभिर् यतिभिश् चापि निर्ग्रन्थिभिश् च तापसैः ।
राजभिः क्षत्रियैश् चापि तथा राजकुमारकैः ॥ र्म्_26.9{9} ॥
वैश्यैश् च मंत्रिभिः श्रेष्ठैर् गृहस्थैश् च महाजनैः ।
वणिग्भिः सार्थवाहैश् च शिल्पिभिः पौरिकैर् अपि ॥ र्म्_26.10{10} ॥
ग्राम्यैर् जानपदैश् चापि कार्पटिकैस् तथापरैः ।
त्रिरत्नदर्शनोत्साहैः सद्धर्मगुणवांछिभिः ॥ र्म्_26.11{11} ॥
सत्कृतो मानितो नित्यं पूज्यमानो ऽभिवंदितः ।
सर्वसत्वहितार्थेन वर्षं धर्मामृतं सदा ॥ र्म्_26.12{12} ॥
तदा तत्र पुरे राजा प्रसेनजिन् नृपाधिपः ।
संबुद्धशासनं धृत्वा त्रिरत्नम् अभजन् मुदा ॥ र्म्_26.13{13} ॥
तद् दृष्ट्वा तीर्थिकाः सर्वे ईर्ष्यारोषाहताशयाः ।
संमील्य सौगतं धर्मं प्रतिक्षिप्यैवम् अब्रुवन् ॥ र्म्_26.14{14} ॥
भवन्तो यद् अयं बुद्धः सर्वज्ञ ऋद्धिमान् कृती ।
तत्सर्वान् इमां लोकान् स्वं धर्मे संनियोजयेत् ॥ र्म्_26.15{15} ॥
तदास्मद्वचनं श्रोतुम् अपीछेन् नात्र कश्चन ।
सर्वे नः श्रावकाश् चापि भजेयुः सुगतं जिनं ॥ र्म्_26.16{16} ॥
तदा सर्वे वयं लोकै निंद्यमानः समंततः ।
कथम् अत्र चरिष्यामस् तद् अन्यत्र चरेमहि ॥ र्म्_26.17{17} ॥
इति सर्वैर् अपि प्रोक्ते तीर्थिकोपासको द्विजः ।
सर्वान्स् तान्स् तीर्थिकं दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_26.18{18} ॥
भवंतो म विषीदत्वं कर्तुं अर्हति सर्वथा ।
तद् उपायं करिष्यामि येनान्यत्र चरेज् जिनः ॥ र्म्_26.19{19} ॥
इति तान्स् तीर्थिकान् सर्वान् बोधयित्वा स दुर्मतिः ।
नृपतेर् अन्तिके गत्वा सादरम् एवम् अब्रवीत् ॥ र्म्_26.20{20} ॥
शृणु राजन् महाभाग यद् धितं ते तद् उच्यते ।
तथा त्वया समाधाय चरितव्यं सदादरात् ॥ र्म्_26.21{21} ॥
यद् अयं मुण्डितो भिक्षुः कुलधर्मविनाशकृत् ।
जातिधर्मपरिभ्रष्टः संसारवृत्तिनिंदकः ॥ र्म्_26.22{22} ॥
मायावी कुत्सिताचारो दुःशीलो लोकवंचकः ।
स्वयं नष्टः परांश् चापि नाशयितुम् इहागतः ॥ र्म्_26.23{23} ॥
तद् अस्य दर्शनं राजं कर्त्तव्यं न कदा चन ।
ग्रहीतव्यं न नामापि श्रोतव्यं नापि तद् वचः ॥ र्म्_26.24{24} ॥
सत्कारं न च कर्त्तव्यं दातव्यं नापि किं चन ।
आश्रमे ऽपि न गन्तव्यं स्थातव्यं न तदन्तिके ॥ र्म्_26.25{25} ॥
दर्शनं ये प्रकुर्वन्ति तस्य भिक्षोर् दुरात्मनः ।
ते सर्वे नरके यायुः सद्गतिं न कदा चन ॥ र्म्_26.26{26} ॥
ये च शृण्वन्ति तद् वाक्यं सर्वे ते निलयं गताः ।
तीव्रदुःखाभिसंतप्ता वसेयुर् अनुतापिताः ॥ र्म्_26.27{27} ॥
सत्कारं ये च कुर्वंति सर्वे ते विलयं गताः ।
दरिद्रा दुर्गतिं गत्वा भ्रमेयुर् निहताशयाः ॥ र्म्_26.28{28} ॥
ये च दानं प्रकुर्वन्ति तत्राशिर्लुहिताशयाः ।
ते ऽपि च नरके याता दुःखान्य् एवम् अवाप्नुयुः ॥ र्म्_26.29{29} ॥
तदाश्रमे च गछंति सर्वे ते दुरिताङ्किताः ।
कुष्ठादि रोगसंतप्ता यायुश् च निरये ऽचिरात् ॥ र्म्_26.30{30} ॥
ये च तैः सह तिष्ठन्ति ते सर्वे पापसंगिताः ।
तीव्रदुःखाग्निसंदग्धा चरेयु निरये सदा ॥ र्म्_26.31{31} ॥
गृह्नन्ति ये च मन्नाम तेषां गेहेषु सर्वदा ।
लक्ष्मीर् मैव श्रयेत् तत्र नैरृतिर् एव संश्रयेत् ॥ र्म्_26.32{32} ॥
ये बुद्धं भजन्त्य् अत्र ते ते सर्वे ऽप्य् अधर्मिणः ।
कदापि सद्गतिं नैव यांति दूरगतिम् एव हि ॥ र्म्_26.33{33} ॥
इति मत्वा महाराज सदा भद्रं यदीछसि ।
सत्कारं दर्शनं तस्य कर्त्तव्यं नैव के चन ॥ र्म्_26.34{34} ॥
किं धर्मं सौगतं धर्मं यन् मिथ्या परिकल्पितं ।
तत् तस्य दुर्यतेर् धर्मं श्रोतव्यं नैव केन चित् ॥ र्म्_26.35{35} ॥
यस्य धर्मो हि सर्वत्र वेदशास्त्रे न गण्यते ।
स किं धर्मात्मको बुद्धस् तत् तत्र मंगलं न हि ॥ र्म्_26.36{36} ॥
इति तेनोदितं श्रुत्वा स परिबोधितः ।
त्रिरत्नभजनोत्साहशैथिल्यक्षुभितो ऽभवत् ॥ र्म्_26.37{37} ॥
ततस् तस्य वचः श्रुत्वा तीर्थिकोपासकस्य सः ।
नृपतिस् तैर्थिके धर्मे ऽभिललाष प्रसादितः ॥ र्म्_26.38{38} ॥
तत्रैको गृहभृच् छ्रेष्ठी संबुद्धोपासकः सुधीः ।
तं तीर्थ्योपासकं दृष्ट्वा बोधयितुम् अभाषत ॥ र्म्_26.39{39} ॥
किम् एवं दुर्मते बुद्धो धर्मराजो ऽपि निंद्यते ।
मा मैवं वदताम् अत्र त्वम् एव नरकं व्रजेः ॥ र्म्_26.40{40} ॥
यो लोके समुत्पन्नः सर्वक्लेशान् विनिर्जयन् ।
जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्तवान् ॥ र्म्_26.41{41} ॥
सर्वै ब्रह्मादिभिर् लोकैः संस्तुतो वंदितो ऽर्चितः ।
मानितः सत्कृतो बुद्धस् त्वयैव निंद्यते कथं ॥ र्म्_26.42{42} ॥
येनैव त्रिजगल्लोकां पुत्रवत् प्रतिपालितं ।
पूजनीयः कथं नाथं धर्मराजो मुनीश्वरः ॥ र्म्_26.43{43} ॥
बुद्ध एव जगन्नाथो दयालुः सद्गुणाकरः ।
सर्वसत्वहिताधानो ऽद्वयवादी विनायकः ॥ र्म्_26.44{44} ॥
सर्वज्ञः सुगतो भद्ररूपः सर्वहितार्थभृत् ।
सर्वविद्याधिपः शास्ता संबोधिमार्गदेशकः ॥ र्म्_26.45{45} ॥
निर्जितक्लेश आत्मज्ञः षडभिज्ञो जगद्गुरुः ।
संबुद्धो ऽर्हञ् जिनस् त्रायी धर्मराजो मुनीश्वरः ॥ र्म्_26.46{46} ॥
ततः स भगवान्न् एव सर्वत्रैधातुकेष्व् अपि ।
अग्रः श्रेष्ठो महाञ् जेष्ठो नान्यः कश्चिद् अतो ऽधिकः ॥ र्म्_26.47{47} ॥
तस्माद् अस्य मुनीन्द्रस्य सत्कारं श्रद्धया सदा ।
शरणगमनं कृत्वा श्रोतव्यं धर्मम् आदरात् ॥ र्म्_26.48{48} ॥
ये बुद्धे शरणं यान्ति न ते गछंति दुर्गतिं ।
सर्वदा सद्गतौ सौख्यं भुक्त्वा यान्ति जिनालये ॥ र्म्_26.49{49} ॥
शृण्वन्ति ये च तद् धर्मं ते ऽपि नो यान्ति दुर्गतिं ।
सदा स्वर्गे सुखं भुक्त्वा यायुश् चान्ते सुनिर्वृतिं ॥ र्म्_26.50{50} ॥
भजन्ति ये च संघेषु ते ऽपि न यान्ति दुर्गतिं ।
सदा धर्मरताः सौख्यं भुक्त्वा यान्ति सुखावतिं ॥ र्म्_26.51{51} ॥
एवं ये ये त्रिरत्नानां सर्वदा शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजन्ति बोधिमानसाः ॥ र्म्_26.52{52} ॥
सर्वे ते सद्गुणाधाराः सर्वसत्वहितार्थिनः ।
क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयुः ॥ र्म्_26.53{53} ॥
तेनायं भगवान्न् एव जगन्नाथो जगद्गुरुः ।
धर्मराजो जगद्भर्त्ता जगत्त्रायी विनायकः ॥ र्म्_26.54{54} ॥
तेनास्य सद्गुरोः शास्तुः श्रद्धया शरणं गताः ।
सद्धर्मं सर्वदा श्रुत्वा कर्तुम् अर्हति सत्कृतिं ॥ र्म्_26.55{55} ॥
ये चाप्य् अस्य मुनीन्द्रस्य प्रतिक्षिपन्ति शासनं ।
सद्गतिं नैव ते यान्ति दुर्गतिम् एव सर्वदा ॥ र्म्_26.56{56} ॥
इति मत्वा न कर्त्तव्या बुद्धे निंदा कथं चन ।
त्रिरत्नभजनान्य् एव कर्त्तव्यानि शुभार्थिभिः ॥ र्म्_26.57{57} ॥
ये त्रिरत्नं भजन्त्य् अत्र सर्वे ते बोधिभागिनः ।
बोधिसत्वा महासत्वा भवेयुः सुगतात्मजाः ॥ र्म्_26.58{58} ॥
तेन ते ऽपि महासत्वास् त्रिरत्नोपासका अपि ।
श्रद्धया प्रणतिं तेसां कर्त्तुम् अर्हन्ति सर्वदा ॥ र्म्_26.59{59} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासकश् च सः ।
तं बुद्धोपासकं दृष्ट्वा पुनर् एवम् अभाषत ॥ र्म्_26.60{60} ॥
आ किम् एवं त्वया प्रोक्तं किं बुद्धो ऽतापसा ऽयतिः ।
पूरणो ब्रह्मविज्ञस् तपस्वी संयमी सुधीः ॥ र्म्_26.61{61} ॥
तत् तस्य पूरणस्याग्रे बुद्धः किं वक्तुम् उत्सहेत् ।
बालकान् एव वञ्चित्वा ह्य् असद्धर्म्मे युनक्ति सः ॥ र्म्_26.62{62} ॥
पूरण एव सर्वेषां यतीनां ब्रह्मचारिणां ।
ऋद्धिमतां महान् अग्रो मात्रैकश् चित् ततो ऽधिकः ॥ र्म्_26.63{63} ॥
इति तेनोदितं श्रुत्वा स बुद्धोपासकस् ततः ।
तीर्थिकोपासिकं दृष्ट्वा पुनर् एव तम् अब्रवीत् ॥ र्म्_26.64{64} ॥
अरे किं ज्ञायते तस्य संबुद्धस्य गुणस् त्वया ।
येनैव कृपया दृष्ट्वा पालितं पुत्रवज् जगत् ॥ र्म्_26.65{65} ॥
यस्य लोके दया नास्ति तेन किं पाल्यते जगत् ।
केवललोभसत्कारं हेतुनादोम्भिको हि सः ॥ र्म्_26.66{66} ॥
तपस्वी योगवित् प्राज्ञ ऋद्धिमान् सिद्धिमान् अपि ।
यस्य नास्ति दया सत्वे स किम् शास्ता जगद्गुरुः ॥ र्म्_26.67{67} ॥
यो दृष्ट्वा सकलान् सत्वान् कृपया संप्रबोधयन् ।
सद्धर्मे योजयत्य् अत्र स एव जगतां गुरुः ॥ र्म्_26.68{68} ॥
तस्माद् अत्र जगच्छास्ता सर्वसत्वहितार्थभृत् ।
बुद्ध एव जगन्नाथो जगत्त्रायी जगद्गुरुः ॥ र्म्_26.69{69} ॥
नास्ति बुद्धसमः कश् चित् सर्वसत्वहितंकरः ।
तेन ब्रह्मादिदेवैः स वंदनीयो मुनीश्वरः ॥ र्म्_26.70{70} ॥
यतो ऽयं श्रीघनः त्रायी षडभिज्ञो विनायकः ।
मुनीन्द्रो ऽर्हं सुभद्रांशस् तेन तस्याधिको हि कः ॥ र्म्_26.71{71} ॥
तेनायं सुगतो बुद्धो धर्मराजस् तथागतः ।
सत्कृत्य श्रद्धया सर्वे भजनीयः शुभेछुभिः ॥ र्म्_26.72{72} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽथ सः ।
रोषाग्निपरिदग्धास्यस् तं बौद्धम् एवम् अब्रवीत् ॥ र्म्_26.73{73} ॥
आ एवम् उच्यते को ऽत्र पूरणात् पर उत्तमः ।
यतीर् विज्ञो महाभिज्ञः स एव त्रिजगद्गुरुः ॥ र्म्_26.74{74} ॥
इति तेनोदितं श्रुत्वा संबुद्धोपासको ऽपि सः ।
सांजलिः प्रणतिं कृत्वा भूमाव् एवं तम् अब्रवीत् ॥ र्म्_26.75{75} ॥
बुद्धाद् अन्यो विशिष्टः कस् त्रैधातुभुवनेष्व् अपि ।
बहुधा किं प्रवादेन बुद्ध एव जगत्प्रभुः ॥ र्म्_26.76{76} ॥
तेनेत्य् उक्ते स रुष्टात्मा तीर्थिकोपासकस् तदा ।
कोपाग्निपरिदग्धांगस् तं बुद्धम् एवम् अब्रवीत् ॥ र्म्_26.77{77} ॥
यदि बुद्धो विशिष्टः स्यात् पूरणाद् अर्हतो यतेः ।
सर्वस्वं मे तवाधीनं दासश् चापि भवाम्य् अहं ॥ र्म्_26.78{78} ॥
यदि बुद्धाद् विशिष्टो हि पूरणो ऽर्हं महामतिः ।
सर्वस्वं ते ममाधीनं दासश् चापि भवेः खलु ॥ र्म्_26.79{79} ॥
इति तेनोदिते तत्र संबुद्धोपासको ऽपि सः ।
तथेति वंधनिक्षेपं कृत्वा स्वीकरणं व्यधात् ॥ र्म्_26.80{80} ॥
तयोर् एतत् प्रवादत्वं प्रसेनजिन् नराधिपः ।
मत्वामात्यान् समाहूय पुरर् एवम् अभाषत ॥ र्म्_26.81{81} ॥
गछध्वं मंत्रिणः सर्वे बुद्धतैर्थिकयोर् अपि ।
निर्णयित्वा विवादत्वे मिमांसा क्रियताम् इह ॥ र्म्_26.82{82} ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः ।
सहसा तज् जनान् सर्वान् समाहूयैवम् आदिशत् ॥ र्म्_26.83{83} ॥
भवन्तो नृपतेर् एवम् आज्ञां श्रुत्वा समाहिताः ।
सर्वत्र विजिते घण्टानादैश् चोदय तद् द्रुतं ॥ र्म्_26.84{84} ॥
इति तैर् मंत्रिभिः प्रोक्तैः श्रुत्वा ते सजनास् तथा ।
घण्टावघोषनं कृत्वा सर्वत्रैवं घोषयन् ॥ र्म्_26.85{85} ॥
शृण्वन्तु पौरिकाः सर्वे इतो ऽह्नि सप्तमे ऽहनि ।
बौद्धतैर्थिकसंवादे मिमांसात्र भविष्यति ॥ र्म्_26.86{86} ॥
ये ये ऽत्र द्रष्टुम् इछन्ति सर्वे ते समुपागताः ।
बुद्धस्य तीर्थिकस्यापि प्रभावं द्रष्टुम् अर्हत ॥ र्म्_26.87{87} ॥
एवं ते विजिते तत्र सर्वत्र विषयेष्व् अपि ।
घण्टावघोषणं कृत्वा मंत्रिणां पुर आययुः ॥ र्म्_26.88{88} ॥
ततस् ते सजनाः सर्वे राज्ञो ऽन्तिकम् उपागताः ।
प्रणत्वैतत् प्रवृत्तांतं पुरतः संन्यवेदयन् ॥ र्म्_26.89{89} ॥
ततो ऽह्नि सप्तमे प्राप्ते सर्वे लोकाः समागताः ।
विस्तीर्णे भूतले रम्ये तद् द्रष्टुम् उपतस्थिरे ॥ र्म्_26.90{90} ॥
तथा देवा अनेके च तद्दर्शनकुतूहलाः ।
अन्तरीक्षे समाश्रित्य संतस्थुः प्रतिमोदिताः ॥ र्म्_26.91{91} ॥
एवं सर्वेषु लोकेषु नृपमंत्रिजनादिषु ।
नैकशतसहस्रेषु सन्निपातेषु सर्वतः ॥ र्म्_26.92{92} ॥
तीर्थिकोपासकस् तत्र स गोमये प्रलेषिते ।
मंडले गंधपुष्पादिपूजांगैः समपूजयत् ॥ र्म्_26.93{93} ॥
ततः स सांजलिर् नत्वा जानुभ्यां भुवि संस्थितः ।
उद्वहन्न् उत्तरासंगं प्रार्थयद् एवम् आदरात् ॥ र्म्_26.94{94} ॥
येन सत्येन षड्विज्ञाः शास्तारः पूरणादयः ।
भगवंतो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ र्म्_26.95{95} ॥
अनेन सत्यभावेन सर्वान् एतान् यतीश्वरान् ।
एतत्पूजोपहाराणि प्रानुगंछंतु संमुखं ॥ र्म्_26.96{96} ॥
एवं संप्रार्थनां कृत्वा तीर्थिकोपासको मुदा ।
तानि पंचोपहाराणि प्रादाय गगणे ऽक्षिपत् ॥ र्म्_26.97{97} ॥
तेन क्षिप्रक्षिप्तमात्राणि तानि सर्वाणि भूतले ।
पतितान्य् अस्तंगतान्य् एव सहसादर्शने ययुः ॥ र्म्_26.98{98} ॥
तद् दृष्ट्वा ससुरा लोकाः सर्वे ते भूमिपादयः ।
उच्चैर् नादैर् हसन्तस् तं तैर्थिकम् एव मेनिरे ॥ र्म्_26.99{99} ॥
तद् दृष्ट्वा धिक्प्रवादं च श्रुत्वा स तैर्थिको ऽपतत् ।
ततश् चिरात् समुत्थाय लज्जाभिन्नमुखाशयः ॥ र्म्_26.100{100} ॥
त्रसितो ऽधोमुखोद्रष्टो निष्प्रभः परिकंपितः ।
भ्रस्तस्कंधः करे कण्डं स्थाप्य तस्थौ विमुर्छितः ॥ र्म्_26.101{1} ॥
तद् दृष्ट्वा स प्रसन्नात्मा बुद्धोपासको मुदा ।
प्रकृत्वा मण्डलं तत्र गोमयप्रतिलेपिते ॥ र्म्_26.102{2} ॥
पंचोपहारपूजंगैः समभ्यर्च्य यथाविधिः ।
उद्वहन्न् उत्तरासङ्गं जानुभ्यां भुवि संस्थितः ॥ र्म्_26.103{3} ॥
सांजलिः पुरतः स्थित्वा संबुद्धं तं मुनीश्वरं ।
स्मृत्वा नत्वा तथा सत्यं प्रार्थयद् एवम् आदरात् ॥ र्म्_26.104{4} ॥
यतो ऽयं भगवान् बुद्धः सर्वलोकविनायकः ।
तेन सत्येन सर्वाणि पुष्पाणीमानि सूदकं ॥ र्म्_26.105{5} ॥
इदं सौरभ्यधूपं च भगवन्तं मुनीश्वरं ।
संबुद्धं श्रीघनं नाथं प्राभियान्तु विहायसा ॥ र्म्_26.106{6} ॥
इति संप्रार्थनां कृत्वा स बुद्धोपासको मुदा ।
तानि सर्वोपहाराणि प्रादाय गगणे ऽक्षिपत् ॥ र्म्_26.107{7} ॥
तानि तेन प्रक्षिप्तानि सर्वाणि गगणे ऽसरन् ।
तानि सर्वाणि पुष्पाणि छत्रीभूत्वाचरन् क्रमात् ॥ र्म्_26.108{8} ॥
धूपो मेघवद् अम्भो ऽपि वैडूर्य्यवत् तदाचरत् ।
तद् दृष्ट्वा जनता सर्वा महाश्चर्य्यं प्रलेहिरे ॥ र्म्_26.109{9} ॥
क्रमेण तानि सर्वाणि प्रचरन्ति विहायसा ।
झटिति जेतकारण्ये विहारे संमुखं ययुः ॥ र्म्_26.110{10} ॥
दृष्ट्वा सजनकायो ऽपि प्रतिहार्यं तद् अद्भुतं ।
जयशब्दं प्रकुर्वन्तः पश्यन्तो ऽनुययुर् मुदा ॥ र्म्_26.111{11} ॥
तत्र सर्वाणि पुष्पाणि छत्रीभूत्वा जगद्गुरोः ।
संबुद्धस्य जगच्छास्तुर् उपरि समुपाश्रयन् ॥ र्म्_26.112{12} ॥
तद् धूपम् अग्रतस् तस्य तस्थौ कृत्वा प्रदक्षिणां ।
पदाम्बुजं तद् अम्भो ऽपि पपात वियतः सरत् ॥ र्म्_26.113{13} ॥
तत् समालोक्य सर्वे ते द्विजादि पौरिका जनाः ।
प्रसादिता मुनीन्द्रस्य सभायां समुपाचरन् ॥ र्म्_26.114{14} ॥
सर्वे प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ।
भगावन्तं मुनिं नत्वा सर्वे ते समुपाश्रयन् ॥ र्म्_26.115{15} ॥
स बुद्धोपासकश् चापि नत्वा तं श्रीघनं मुदा ।
तत् सद्धर्मामृतं पातुम् उपतस्थौ कृतांजलिः ॥ र्म्_26.116{16} ॥
तीर्थिकोपासकः सो ऽपि तद् दृष्ट्वा विस्मयान्विताः ।
महद् बुद्धानुभावत्वं मत्वा द्रष्टुम् उपाश्रयत् ॥ र्म्_26.117{17} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
आर्यसत्यम् उपादिश्य पुनर् एवम् उपादिशत् ॥ र्म्_26.118{18} ॥
शृणुध्वं साधवः सर्वे आर्यधर्मं समुच्यते ।
यत् त्रिरत्नं समाख्यातं तत् त्रिलोक्ये महत्तरं ॥ र्म्_26.119{19} ॥
तद्यथा सर्वलोकानां त्रैधातुकनिवासिनां ।
सर्वेषाम् अपि भद्रार्थं सद्धर्मं संप्रकाशये ॥ र्म्_26.120{20} ॥
स संबुद्धो जगच्छास्ता सर्वसत्वहितंकरः ।
जगन्नाथो जगत्त्राता बुद्धरत्नम् इदं वरं ॥ र्म्_26.121{21} ॥
अत्र यैः श्रद्धया कर्मं दानादि सुकृतं कृतं ।
तेषाम् अग्रप्रसन्नानां विपाकैः फलम् उत्तमं ॥ र्म्_26.122{22} ॥
अप्रमेयम् असंख्येयं संबोधिपददायकं ।
एवं मत्वात्र संबुद्धं भजत सर्वदा मुदा ॥ र्म्_26.123{23} ॥
यावतश् चात्र संसारे संस्कृता वाप्य् असंस्कृताः ।
धर्मास् तेषां महान् अग्रो विरागो धर्मं उत्तमः ॥ र्म्_26.124{24} ॥
धर्मरत्नम् इदं ये ऽत्र प्रभजन्ति प्रसादिताः ।
तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं ॥ र्म्_26.125{12} ॥
अप्रमेयम् असंख्येयं संबोधिज्ञानदायकं ।
तद् एतत् सौगतं धर्मं श्रुत्वा भजंति संवरं ॥ र्म्_26.126{13} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0