भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 221240

निष्क्रामत रभध्वं तत् सद्धर्मं बुद्धशासने ।
मारचर्यां परित्यज्य चरत भद्रचारिकां ॥ र्म्_22.48{48} ॥
यो ऽप्रमत्तश् चरत्य् अत्र संबुद्धशासने व्रतं ।
स विहाय पुनर्जातिं दुःखस्यांतं करिष्यति ॥ र्म्_22.49{49} ॥
इति मत्वात्र संसारे परिशुद्धत्रिमण्डलाः ।
त्रिरत्नं शरणं कृत्वा भजध्वं श्रद्धया सदा ॥ र्म्_22.50{50} ॥
एतद् घोषं समाकर्ण्य सर्वे देवाः प्रमोदिताः ।
त्रिरत्नस्मरणं कृत्वा प्राचरन् सर्वदा शुभे ॥ र्म्_22.51{51} ॥
ततस् ते रश्मयः सर्वे भासयन्तः समंततः ।
प्रत्यागता मुनीन्द्रस्य पुरतः समुपाश्रयन् ॥ र्म्_22.52{52} ॥
तत्र ते रश्मयः सर्वे ऽप्य् एकीभूताः सुपिण्डिताः ।
शास्तुः प्रदक्षिणीकृत्य भ्रुवो ऽन्तरे तिरोदधौ ॥ र्म्_22.53{53} ॥
तद् दृष्ट्वा ते सभासीनाः सर्वे लोकाः सविस्मयाः ।
शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समाश्रयन् ॥ र्म्_22.54{54} ॥
तत्रानंदः समालोक्य सर्वांल् लोकान् सविस्मयान् ।
सांजलिस् तं जगन्नाथं प्रणत्वैवं समब्रवीत् ॥ र्म्_22.55{55} ॥
भगवन् हेतुना केन स्मितं मुंचति सांप्रतं ।
नाहेतुप्रत्ययं बुद्धाः स्मितं मुंचंति सर्वदा ॥ र्म्_22.56{56} ॥
यद् भवतः स्मिते वक्त्रान् नानावर्णाः सुरश्मयः ।
निर्गताः सर्वलोकेषु प्रसृता अवभास्यत ॥ र्म्_22.57{57} ॥
इमे सर्वत्र भद्राणि कृत्वा सत्वांश् च भद्रितान् ।
प्रत्यागता भवदुर्णामध्ये चान्तर्दधन्ति हि ॥ र्म्_22.58{58} ॥
एतद् अद्भुतम् आलोक्य सर्वे लोका इमे ऽधुना ।
शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समास्थिताः ॥ र्म्_22.59{59} ॥
भवद्धर्मामृतं पातुं सर्वे सद्धर्मवांछिनः ।
भवन्तम् एव संवीक्ष्य संतिष्ठन्ते समाहिताः ॥ र्म्_22.60{60} ॥
भगवंस् तद् यद् अर्थे त्वं स्मितं मुंचसि सांप्रतं ।
तद् अर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय ॥ र्म्_22.61{61} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्चरः ।
तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_22.62{62} ॥
एवम् एतन् महानंद सर्वे ऽपि सुगता जिनाः ।
नाहेतुप्रत्ययं क्वापि स्मितं मुंचंति सर्वदा ॥ र्म्_22.63{63} ॥
यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं ।
तदर्थं संप्रवक्ष्यामि सर्वे शृण्वंतु सादरं ॥ र्म्_22.64{64} ॥
पश्यानंदानया नार्य्या दारिकया मम पदोः ।
लोहितचंदनेनैवं प्रलिप्य सत्कृतिः कृता ॥ र्म्_22.65{65} ॥
एतत्पुण्यविपाकेन दारिकेयं भविष्यति ।
प्रत्येकसुगतो गन्धमादनो नाम सर्ववित् ॥ र्म्_22.66{66} ॥
यथेयं मयि संबुद्धचित्तं प्रसाद्य मोदिता ।
प्रणिधानं करोत्य् एवं प्रत्येकबोधिम् आप्स्यति ॥ र्म्_22.67{67} ॥

एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजम् आदरात् ॥ र्म्_22.68{68} ॥
त्रिरत्नभजनोद्भूतं पुण्यमहत्तरं बहु ।
यथेछाबोधिसंभारपूरणं निर्वृतिं प्रदं ॥ र्म्_22.69{69} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽनुमोदिताः ।
त्रिरत्नभजनं कर्तुं प्राभ्यनन्दन् सदापि ते ॥ र्म्_22.70{70} ॥
तदा सा दासिकाप्य् एवं शास्त्रा व्याकृतम् आत्मनः ।
श्रुत्वाभिनंदिता भूयो ननाम तं मुनीश्वरं ॥ र्म्_22.71{71} ॥
ततः सा स्वामिना दत्तं द्रव्यम् आदाय सत्वरा ।
तद् अर्हभोजनैः पूर्णं पात्रं कृत्वा मुदाचरत् ॥ र्म्_22.72{72} ॥
तत्र सा मुदिता तस्मै मुनीन्द्राय प्रदापयत् ।
सांजलिः प्रणतिं कृत्वा स्वगेहं समुपाचरत् ॥ र्म्_22.73{73} ॥
ततः स भगवान् पृष्टे पिण्डपात्रं तयार्चितं ।
ससंघं स्वाश्रमे गत्वा व्यहरद् धर्मम् आदिशत् ॥ र्म्_22.74{74} ॥
तत्र सा दासिका भद्रा त्रिरत्नं शरणं गता ।
सत्कृत्य श्रद्धया नित्यं प्राभजन् सर्वदा मुदा ॥ र्म्_22.75{75} ॥
एवं मे गुरुणाख्यातं श्रुतं मयात्र कथ्यते ।
तथा त्वम् अपि राजेंद्र त्रिरत्नं सर्वदा भज ॥ र्म्_22.76{76} ॥
तथा राजं प्रजाश् चापि बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ र्म्_22.77{77} ॥
तथा तं मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_22.78{78} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_22.79{79} ॥
इदं नरा ये चि च गंधमादनावदानम् अत्र प्रथितं प्रसादिताः ।
शृण्वन्ति ये चापि निशामयन्ति सर्वे सुखाढ्याः प्रचरन्ति सद्गतौ ।
++ इति रत्नावदानतत्वे गंधमादनावदानं समाप्त ++
xxइइइ प्रेतिकायाः कथा
अथाशोको महाराजः सांजलिः संप्रमोदितः ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_23.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_23.2{2} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं महामतिः ।
उपगुप्तो नरेंद्रं तैः समालोक्यैवम् आदिशत् ॥ र्म्_23.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा बुद्धानुमोदय ॥ र्म्_23.4{4} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ र्म्_23.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः ।
उपासकैः शुभाचारैर् उपासिकागणैर् अपि ॥ र्म्_23.6{6} ॥

बोधिसत्वैर् महासत्वैः संबोधिचारिकोद्यमैः ।
तथान्यैस् तीर्थिकैश् चापि संबुद्धगुणवांछिभिः ॥ र्म्_23.7{7} ॥
राजगृहपुरोपान्ते वेणुवने मनोरमे ।
जिनाश्रमे महोद्याने करंदकनिवापके ॥ र्म्_23.8{8} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मदेशनां कुर्वन् विजहार विरोचयन् ॥ र्म्_23.9{9} ॥
तत् सद्धर्मदेशनां श्रोतुं तत्र सर्वे समागताः ।
देवा दैत्याश् च नागेन्द्रा यक्षगंधर्वकिन्नराः ॥ र्म्_23.10{10} ॥
ग्रहा विद्याधराः सिद्धा लोकपालगणा अपि ।
ऋषयो ब्राह्मणाश् चापि राजानः क्षत्रियात्मजाः ॥ र्म्_23.11{11} ॥
वैश्याश् च मंत्रिणो ऽमात्या गृहाधिपा महाजनाः ।
पौरिकाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च ॥ र्म्_23.12{12} ॥
ग्राम्या जानपदाश् चापि तथा कार्पटिकादयः ।
सर्वे ते समुपायातास् तत्राश्रमे उपाविशन् ॥ र्म्_23.13{13} ॥
तत्र सभासनासीनं श्रीघनं तं मुनीश्वरं ।
व्यामप्रभाविरोचं तं भिक्षुसंघैः पुरस्कृतं ॥ र्म्_23.14{14} ॥
दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपागताः ।
कृत्वा प्रदक्षिणान्य् एनं समानर्चु यथाक्रमं ॥ र्म्_23.15{15} ॥
ततस् सर्वे ऽपि ते लोकाः परिवृत्य समंततः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_23.16{16} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपाशृतान् ।
आर्य्यसत्यं समार्गांगं सद्धर्मं समुपादिशन् ॥ र्म्_23.17{17} ॥
तात् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः ।
धर्मविशेषम् आज्ञाय बोधिचर्यां समीछिरे ॥ र्म्_23.18{18} ॥
तदैकस्मिन् दिने भिक्षुर् आयुष्मान् नारदाभिधः ।
भिक्षार्थं पात्रम् आदाय राजगृहपुरे ययौ ॥ र्म्_23.19{19} ॥
तत्र स नारदो भिक्षुः पिंडार्थं समुपाचरन् ।
गृहस्थेन समालोक्य नीत्वा गेहे मुदासने ॥ र्म्_23.20{20} ॥
प्रतिस्थाप्य समभ्यर्च्य सुप्रणीतरसान्वितैः ।
तीलोदनैः सुधाकल्पैः पानैश् च प्रतिपूजितः ॥ र्म्_23.21{21} ॥
तद् भुक्त्वा स यतिस् तुष्टो दत्वा तस्मै शुभाशिषं ।
समुत्थाय ततो ऽरण्ये विहर्त्तुं निर्जने ऽचरत् ॥ र्म्_23.22{22} ॥
तत्र स नारदो योगी गृध्रकूटनगान्तिके ।
ददर्श प्रेतिकाम् एकां राक्षसीम् इव भीषणां ॥ र्म्_23.23{23} ॥
वृक्षमूले स्थितां रक्तविन्दुव्याप्ताम्वरावृतां ।
अस्थिशकलसंकीर्णे प्रेतालये निवासिनीं ॥ र्म्_23.24{24} ॥
स्वात्मजान् अपि भक्षन्तीं क्षुत्पिपासाग्निदाहिनां ।
कृशाङ्गीं विकृताकारां कर्वुरमुक्तकेशिनीं ॥ र्म्_23.25{25} ॥
दृष्ट्वा स नारदस् तत्र समुपासृत्य तत् पुरः ।
प्रेतिकां तां समालोक्य पप्रछैवं पुराकृतं ॥ र्म्_23.26{26} ॥

किं त्वया प्रकृतं घोरं पातकं पूर्वजन्मसु ।
येनैवं दुःसहम् अनुभवसि सांप्रतं ॥ र्म्_23.27{27} ॥
इति तेनार्हता पृष्टे प्रेतिका सा रुदन्त्य् अपि ।
नारदं तं यतिं दृष्ट्वा शनैर् एवम् अभाषत ॥ र्म्_23.28{28} ॥
भदन्त किं मया ह्य् अत्र वक्ष्यते यत् पुराकृतं ।
दिवारात्रौ पंचपुत्रान् प्रसूता मे प्रभक्षिता ॥ र्म्_23.29{29} ॥
तेनापि न संतुष्टा बुभुक्षिता प्रवर्द्धते ।
तद् भवांस् तं जगद्विज्ञं पृछता मत्पुराकृतं ॥ र्म्_23.30{30} ॥
स मुनीन्द्रो जगच्छास्तादिशेत् ते ऽस्मत्पुराकृतं ।
आदित्ये हि समुद्याते दीपेन किं प्रयोजनं ॥ र्म्_23.31{31} ॥
तथास्मत्प्रकृतं पापं श्रुत्वान्येन नरादयः ।
सत्वाः संत्रसिता एवं कुर्यु न के चन ॥ र्म्_23.32{32} ॥
सर्वे ते ऽपि दिशेत् पापान् विरम्य शीलसंवृताः ।
त्रिरत्नशरणं कृत्वा प्रभजेयुः सदाद्रिताः ॥ र्म्_23.33{33} ॥
इति तयोदितं श्रुत्वा नारदः स प्रबोधितः ।
तथेति सहसा गत्वा तत्र वेणुवने ऽसरत् ॥ र्म्_23.34{34} ॥
तदा स भगवांस् तत्र ध्यानालयात् समुत्थितः ।
सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ र्म्_23.35{35} ॥
तस्मिन्न् अवसरे तत्र नारदः सत्वरान्वितः ।
दूरात् तं श्रीघनं पश्यन् सहसा समुपाचरन् ॥ र्म्_23.36{36} ॥
तम् एव समुपायातं नारदं स मुनीश्वरः ।
दृष्ट्वारात् समुपामंत्र्य पुनर् एवम् अभाषत ॥ र्म्_23.37{37} ॥
एहि ते स्वागतं भिक्षो कुतस् त्वं समुपागतः ।
किम् अर्थम् इह येनैवं प्रायासि तद् वदस्व मे ॥ र्म्_23.38{38} ॥
इत्य् आदिष्टे मुनीन्द्रेण नारदः स कृतांजलिः ।
समुपेत्य मुनीन्द्रं तं प्रणत्वैवं न्यवेदयत् ॥ र्म्_23.39{39} ॥
भगवन् भवतां पादौ द्रष्टुम् इह समाचरे ।
अद्याहं निर्जने ऽरण्ये विहर्तुं समुपाचरे ॥ र्म्_23.40{40} ॥
तत्राहं प्रेतिकाम् एकां राक्षसीम् इव भीषणां ।
कृशाङ्गीं विकृताकारां रक्तविन्दुऽन्वितांवरां ॥ र्म्_23.41{41} ॥
अनेका अस्थिषंकीर्णे प्रेतालये इव स्थितां ।
पश्यामि ताम् उपासृत्य परिपृछामि तत् कृतं ॥ र्म्_23.42{42} ॥
किं त्वया प्रकृतं पापं पूर्वजन्मसु दारुणं ।
येनेदृग् महादुःखम् अनुभवसि सांप्रतं ॥ र्म्_23.43{43} ॥
इति पृष्टे मयाथासौ प्रेतिका दुःखतापिनी ।
रुदन्ती मां समालोक्य शनैर् एवम् अभाषत ॥ र्म्_23.44{44} ॥
भदन्त किं वदिष्यामि यन् मया पातकं कृतं ।
येनेदृशं महादुःखम् अनुभवामि सांप्रतं ॥ र्म्_23.45{45} ॥
पंचपुत्रान् अहं रात्रौ दिवा पंच तथापरान् ।
प्रसूय तां प्रभक्ष्यामि नास्ति तृप्तिस् तथापि मे ॥ र्म्_23.46{46} ॥

एवं क्षुत्पिपासाग्नितीव्रतापाभिदाहिता ।
दिवारात्रिं महद्दुःखं भुक्त्वा तिष्ठामि जंगले ॥ र्म्_23.47{47} ॥
तत् पुरा किं कृतं घोरं पातकम् अतिदारुणं ।
मयापि ज्ञायते नात्र परिपृछ मुनीश्वरं ॥ र्म्_23.48{148} ॥
सर्वज्ञस् त्रिजगच्छास्ता भगवान् स मुनीश्वरः ।
यन् मया प्रकृतं पापं तत् सर्वम् समुपाविशेत् ॥ र्म्_23.49{49} ॥
इति तयोदितं श्रुत्वा तथेति परिबोधितः ।
भवन्तम् अत्र संप्रष्टुं समागछामि सांप्रतं ॥ र्म्_23.50{50} ॥
किं तया प्रकृतं घोरं पातकम् अतिदारुणं ।
येनैवं दुःसहं दुःखं भुक्त्वा चरति साधुना ॥ र्म्_23.51{51} ॥
तत् सर्वं समुपादिश्य प्रबोधयितुम् अर्हति ॥ र्म्_23.52{52} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
नारदं तं महाभिज्ञं समालोक्यैवम् आदिशेत् ॥ र्म्_23.53{53} ॥
नारद प्रेतिका सातितीव्रपातकसाधिनी ।
यदीच्छेस् तत् कृतं श्रोटुं शृणु वक्ष्यामि ते ऽधुना ॥ र्म्_23.54{54} ॥
तद्यथाभूत् पुरा पुर्य्यां वाराणस्यां महाजनः ।
श्रेष्ठी प्राढ्यो महच्छ्रीमाच् छ्रीदोपमो धनाधिपः ॥ र्म्_23.55{55} ॥
स कुलधर्मिणीं भार्याम् उपयेमे यथाविधिं ।
ततः स कांतया सार्द्धं तया रेमे प्रमोदयन् ॥ र्म्_23.56{56} ॥
तस्यैवं रममाणस्य क्रीडतः सुचिराद् अपि ।
तस्याम् एको ऽपि पुत्रो वा पुत्री वा नाभ्यजायत ॥ र्म्_23.57{57} ॥
ततः स गृहभृच् छ्रेष्ठी सन्ततिदर्शनोत्सुकः ।
तन् निराशाभिसंतप्तमूर्छितो ऽभूद् यथातुरः ॥ र्म्_23.58{58} ॥
कपोलं स्वभुजे स्थाप्य शोकागारे व्यवस्थितः ।
संपच्चिन्ताविषण्णास्यो मनसैवं व्यचिंतयत् ॥ र्म्_23.59{59} ॥
हा दैव किं मया पापं सुकृतं दुःकृतं पुरा ।
यन् ममैवं विधं दुःखं सुखं चात्र प्रजायते ॥ र्म्_23.60{60} ॥
अनेकद्रव्यसंपत्तिसमुदितं गृहं मम ।
तत्र भोक्ता तु नैको ऽपि पुत्रो ऽस्ति दुहितापि न ॥ र्म्_23.61{61} ॥
तत् सर्वं स्वापतेयं हि ममात्ययान् नराधिपः ।
अपुत्रकम् इति कृत्वा सर्वस्वं सर्वथा हरेत् ॥ र्म्_23.62{62} ॥
यन् मयानेकयत्नेन साधितं रक्षितं च तत् ।
सर्वम् एव निरर्थेन विनष्टं मे भविष्यति ॥ र्म्_23.63{63} ॥
तद् अत्र किं करिष्यामि यस्योपायं न मन्यते ।
सर्वथाहं विनष्टो ऽस्मि को मां रक्षेद् इहाधुना ॥ र्म्_23.64{64} ॥
एवं चिन्ताविषण्णास्यं स्वामिनं तं गृहाधिपं ।
दृष्ट्वा सा रमणी भार्या समालोक्यैवम् अब्रवीत् ॥ र्म्_23.65{65} ॥
स्वामिन्न् अत्र किम् एव त्वं तिष्ठसे दुःखचिन्तया ।
किं तव जायते दुःखं तद् वदस्व ममाग्रतः ॥ र्म्_23.66{66} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो विनिश्वसन् ।

तं भार्यां रमणीकान्तां समालोक्यैवम् अब्रवीत् ॥ र्म्_23.67{67} ॥
प्रिये ऽत्र किं वदिष्यामि यस्योपायं न मन्यते ।
यन् मे ऽस्ति महती संपद् अस्या भोक्ता न विद्यते ॥ र्म्_23.68{68} ॥
नूनं मदत्ययाद् राजा ममैताः सर्वसंपदः ।
अपुत्रस्य नृपाधीना इति कृत्वा हरिष्यति ॥ र्म्_23.69{69} ॥
यन् ममैता महायत्नैः साधिता वन्दिता अपि ।
तत् सर्वं हि निरर्थेन विनक्ष्यति निरत्ययात् ॥ र्म्_23.70{70} ॥
एतन् मे जायते दुःखं तद् अत्र किं वदेय हि ।
को ममैतन् महच् छल्यं हृदये ऽत्र समुद्धरेत् ॥ र्म्_23.71{71} ॥
इति चिन्ताविषण्णात्र हृदयं दह्यते मम ।
तेनैवम् अत्र तिष्ठामि विषदग्धो यथातुरः ॥ र्म्_23.72{72} ॥
इति भर्त्रोदितं श्रुत्वा सा भार्या रमणी प्रिया ।
स्वामिनं तं समालोक्य बोधयितुं समब्रवीत् ॥ र्म्_23.73{73} ॥
एतदर्थे विषादत्वं मा कृथाः सर्वथा प्रिये ।
उपायां कुरु तत् प्राप्त्यै यदि संततिम् इछसि ॥ र्म्_23.74{74} ॥
उपायम् अपि सिद्ध्येत देवतानां प्रसादतः ।
तद् देवताः समाराध्य याचस्व सन्ततिं मुदा ॥ र्म्_23.75{75} ॥
तदा देवप्रसादेन जयेन् नौ सन्ततिः खलु ।
पुत्रो वा यदि वा पुत्री जाता स्यात् सफलं भवे ॥ र्म्_23.76{76} ॥
इति मे वचनम् श्रुत्वा कुलस्थितिं यदीछसि ।
देवताराधनं कृत्वा भजस्व संततीछया ॥ र्म्_23.77{77} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रबोधितः ।
तथेत्य् अभ्यनुमोदित्वा तथा कर्त्तुं समैछत ॥ र्म्_23.78{78} ॥
ततः स गृहभृच् छ्रेष्ठी भार्यया सह मोदितः ।
स्वकुलेशं समभ्यर्च्य सन्तानं समयाच तत् ॥ र्म्_23.79{79} ॥
तथापि श्रेष्ठिनस् तस्य भार्याभून् नैव गर्भिणी ।
ततः स परिखिन्नात्मा तस्थाव् एवं निराशया ॥ र्म्_23.80{80} ॥
ततः सा रमणी भार्या निराशाखिन्नमानसं ।
स्वामिनं तं समालोक्य पुनर् एवम् अभाषत ॥ र्म्_23.81{81} ॥
स्वामिन् मात्र विषादत्वं कृथा धैर्यं समाश्रय ।
विषादो क्लीयते चित्तं क्षीणद्त्तो न वीर्यभाक् ॥ र्म्_23.82{82} ॥
वीर्यं विनात्र संसारे किं चित् कार्यं न सिद्ध्यते ।
तस्माद् वीर्यं समालम्ब्य भज देवान् समाहितः ॥ र्म्_23.83{83} ॥
यदि पुत्रो न जाताः स्यात् पुत्री वापि न जायते ।
पुण्यं तु वर्द्ध्यते नूनं देवताराधनाद् अपि ॥ र्म्_23.84{84} ॥
इति मत्वात्र संसारे सदा सौख्यं यदीछसि ।
सर्वान् देवान् समभ्यर्च्य भजस्वा श्रद्धयादरात् ॥ र्म्_23.85{85} ॥
इति भार्योदितं श्रुत्वा भर्त्ता श्रेष्ठी स बोधितः ।
तथेति प्रतिभाषित्वा देवान् अर्चितुम् ऐछत ॥ र्म्_23.86{86} ॥
तथा सन्तानम् इछेन् स गृहस्थो भर्य्यया मुदा ।

विधिं स्रष्टारम् आराध्य संततिं समयाचत ॥ र्म्_23.87{87} ॥
तथापि तस्य भार्या सा गर्भिणी नो ऽभवच् चिरं ।
ततश् च स विभग्नाशस् तस्थौ शोकविषादितः ॥ र्म्_23.88{88} ॥
तटो ऽपि भार्यया भूयः प्रेर्य्यमाणः स बोधितः ।
विश्वंभरं समभ्यर्च्य ययाच संततिं तथा ॥ र्म्_23.89{89} ॥
तथापि साभवन् नैव दोहदलक्षणाङ्किता ।
ततश् चासौ गृहस्थो ऽभून् निराशापरिखेदितः ॥ र्म्_23.90{90} ॥
तथा स भार्यया भूयः प्रेरितः परिबोधितः ।
महेश्वरं समभ्यर्च्य संततिं समयाचत ॥ र्म्_23.91{91} ॥
तथेन्द्रं च समाराध्य प्रार्थयत् संततिं मुदा ।
एवं लोकाधिपान् सर्वान् ग्रहान् सर्वान् अहूर् अपि ।
समाराध्य समभ्यर्च्य प्रार्थयत् सन्ततिं तथा ॥ र्म्_23.92{92} ॥
ततश् चैवं महाकालं कुमारं च गणाधिपं ।
भैरवं मातृकाश् चापि प्रार्थयद् वंशम् अर्चयन् ॥ र्म्_23.93{93} ॥
एवम् अन्यान् अपि देवान् विहारमण्डपाश्रयान् ।
मठसत्राश्रमारामशृंगाटकप्रतिष्ठितान् ॥ र्म्_23.94{94} ॥
उद्यानपर्वतारण्याक्षत्रसीमादिसंस्थितान् ।
सर्वजलाश्रयस्थांश् च सर्वान् नागाधिपान् अपि ॥ र्म्_23.95{95} ॥
रथ्याचत्वरमार्गादिप्रतिस्थितान् समुत्सुकः ।
सर्वान् देवान् समाराध्य ययाचैवं स संततिं ॥ र्म्_23.96{96} ॥
तथापि श्रेष्ठिनस् तस्य भार्यायां सुचीराद् अपि ।
तस्यां नैवाभवत् किं चिद् दोहदोत्पत्तिलक्षणं ॥ र्म्_23.97{97} ॥
ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा वंशनिरन्तरं ।
निराशाप्रतिखिन्नात्मा तस्थाव् एवं यथातुरः ॥ र्म्_23.98{98} ॥
एतद् दुःखविभिन्नास्यं दृष्ट्वा सा रमणी प्रिया ।
स्वामिनं तं समीक्षन्ती पुनर् एवम् अभाषत ॥ र्म्_23.99{99} ॥
स्वामिन्न् अत्र विषादेन किं चित् कार्यं न सिद्ध्यते ।
इति मत्वा यथाकामं सौख्यं भुक्त्वा समाचर ॥ र्म्_23.100{100} ॥
यद् आवाभ्यां कृतं पापं तत् फलं भुज्यते ऽधुना ।
तद् अत्र किं करिष्यावो दैवं हि वलवान् भवे ॥ र्म्_23.101{1} ॥
यद् अभावि भवेन् नैव भावि चेन् नान्यथा क्वचित् ।
अवश्यं भाविनो भावा भवन्ति सर्वथा भवे ॥ र्म्_23.102{2} ॥
इति मत्वात्र संसारे भुक्त्वा सौख्यं यथेछया ।
त्रिरत्नभजनं कृत्वा चर सत्यं समाहितः ॥ र्म्_23.103{3} ॥
तेहैव सर्वदा भद्रम् इहामुत्रापि सर्वतः ।
क्रमाद् बोधिपदं प्राप्य निर्वृतिं समवाप्स्यति ॥ र्म्_23.104{4} ॥
इति भार्यासमाख्यातं श्रुत्वा श्रेष्ठी स बोधितः ।
त्रिरत्नभजनं कृत्वा कञ्चित् कालं व्यलंघयत् ॥ र्म्_23.105{5} ॥
ततस् तस्य सुहृन् मित्रम् उपागत्य पुरः स्थितः ।
तत् संतानसमुत्पत्यै तन् मित्रम् एवम् अब्रवीत् ॥ र्म्_23.106{6} ॥

भो मित्र शृणु मे वाक्यं यत् ते हितं मयोच्यते ।
सर्वथास्यां प्रियायां ते संतानं विद्यते न हि ॥ र्म्_23.107{7} ॥
तद् उपायं तु कर्त्तव्यं संततिं प्रतिपत्तये ।
निर्वंशस्य हि संसारे निरर्थं सर्वसाधनं ॥ र्म्_23.108{8} ॥
तत् संतानसमुत्पत्यै द्वितीयं पुत्रभाविनीं ।
अपरां युवतीं भार्यां विवह विधिना पुनः ॥ र्म्_23.109{9} ॥
कदा चित् तव भाग्येन सा पुत्रं जनयेद् अपि ।
तदा ते सफलं जन्मः कुलस्थितिर् भवेद् अपि ॥ र्म्_23.110{10} ॥
इति मित्रोदितं श्रुत्वा स गृहस्थः प्रबोधितः ।
तथा हीति प्रतिज्ञाय तं मित्रम् अभ्यमानयत् ॥ र्म्_23.111{11} ॥
ततः स गृहभृच् छ्रेष्ठी निरीक्ष्य पुत्रभाविनीं ।
अपरां युवतीं कांताम् उपयेमे यथाविधिः ॥ र्म्_23.112{12} ॥
ततः स कुलिकः श्रेष्ठी तया सार्द्धं प्रमोदितः ।
यथाकामं सुखं भुक्त्वा रराम परिचारयन् ॥ र्म्_23.113{13} ॥
ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः ।
समये सा प्रिया भार्या वभूव गर्भिणी ऽचिरात् ॥ र्म्_23.114{14} ॥
ततः क्रमात् प्रवृद्धो ऽभूद् गर्भस् तस्या दिने दिने ।
तदा सा गर्भसंजातं परिज्ञायाभ्यनन्दत ॥ र्म्_23.115{15} ॥
ततः सा भद्रिका कान्ता स्वामिनं तं प्रमोदिता ।
रहसि समुपामंत्र्य समालोक्यैवम् अब्रवीत् ॥ र्म्_23.116{16} ॥
दिष्ट्यार्य्यपुत्र वृद्धो ऽसि गर्भे मे जायते शिशुः ।
दक्षिणपार्श्वसंस्थायत् तद् अयं दारको भवेत् ॥ र्म्_23.117{17} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो ऽभिनंदितः ।
सव्यवाहुं समुत्सार्य मुदैवं समुदाहरत् ॥ र्म्_23.118{18} ॥
हा मे ऽभिलषितं सिद्ध्येत् पश्येयं संततेर् मुखं ।
सांप्रतं नावजातो ऽस्मि कुलस्थितिर् भवेद् अपि ॥ र्म्_23.119{19} ॥
कृत्यानि मे प्रकुर्वीत विभृयाच् च भृतः प्रति ।
दायाद्यं प्रतिपद्येत वंशो पि स्याच् चिरस्थितः ॥ र्म्_23.120{20} ॥
यन् मया प्रकृतं दानं यच् च पुण्यं प्रसाधितं ।
एतद् विपाककौशल्यम् एतयोर् अनुगछतु ॥ र्म्_23.121{21} ॥
एवं स मुदितः श्रेष्ठी तां भार्यां भद्रिकां प्रियां ।
सुपथ्योपचारसंयुक्तैर् आहारैः समपोषयत् ॥ र्म्_23.122{22} ॥
दूष्यैश् चीनांशुकैः पट्टैः कोमलैस् सौरभान्वितैः ।
नानारत्नाभ्यलंकारैर् मण्डयित्वाभ्यमोदयत् ॥ र्म्_23.123{23} ॥
एवं तां भद्रिकां कान्तां पथ्योपचारभूषणैः ।
पोषितां मण्डितां कृत्वा प्रामाणयत् प्रसादयन् ॥ र्म्_23.124{24} ॥
एवं तां गर्भिणीं भर्तुर् बहुमानाभिनंदितां ।
दृष्ट्वा सा प्रथमा भार्या भूय एवं व्यचिंतायत् ॥ र्म्_23.125{25} ॥
यद्य् एषा युवती कांता जनयेद् अतिसंततिं ।
तद् एतत् सर्वसंपत्तिर् अधीनास्या भवेद् अपि ॥ र्म्_23.126{26} ॥

एषैव हि प्रधाना स्यात् सर्वलोकप्रमाणिका ।
को ऽपि प्रमाणयेन् नैव जरतीं माम् अपुत्रितां ॥ र्म्_23.127{27} ॥
तद् अत्रास्याः सपत्न्या मे यथा स्याद् गर्भशातनं ।
तथोपायं प्रकर्त्तव्यं सुगुप्तेन मयाधुना ॥ र्म्_23.128{28} ॥
कामरागाग्नितप्तस्य नास्ति किं चिद् धि पातकं ।
सर्वम् अपि प्रकर्त्तव्यं भोक्तव्यं सर्वतो ऽपि च ॥ र्म्_23.129{29} ॥
ततः सा प्रमदा दुष्टा तस्या गर्भाभिशातनं ।
द्रयं पानाभिसंयुक्तं ददौ विश्रम्भवादिनी ॥ र्म्_23.130{30} ॥
तत् सपत्न्यार्पितं पानं दृष्ट्वा सा भद्रिकार्जवा ।
हस्ताभ्यां सहसादाय पपौ तृष्णार्दिता यथा ॥ र्म्_23.131{31} ॥
तद् एतत् पीतमात्रेण तस्या गर्भो विघूर्णितः ।
सहसाभिद्रवीभूतः प्रसश्रावाभ्यशोषतः ॥ र्म्_23.132{32} ॥
ततः सा भद्रिका नारी भर्त्तारं तं सबांधवं ।
सहसा समुपामंत्र्य पुनर् एवं न्यवेदयत् ॥ र्म्_23.133{33} ॥
स्वामिंस् तवानया पत्न्या प्रियया गर्भशातनं ।
पानम् औषधसंयुक्तं सादरं मे प्रदीयते ॥ र्म्_23.134{34} ॥
तत् तद् दत्तं सविश्वासं गृहीत्वा पीयते मया ।
तत्पानपीतमात्रेण गर्भो मे स्रस्यते ऽधुना ॥ र्म्_23.135{35} ॥
तद् अत्र किं करिष्यामि यतो मे नश्यते शिशुः ।
यद् अर्थं प्रकृतं दानं तत् सर्वं निस्फलं तव ॥ र्म्_23.136{36} ॥
इत्य् आख्यातं तया पत्न्या श्रुत्वा श्रेष्ठी स रोषितः ।
तां सहसाहूय परिभाष्यैवम् आलपत् ॥ र्म्_23.137{37} ॥
हा रे रे दुर्मते दुष्टे घोरपातकसाधिनी ।
एवम् अपि महाघोरं पातकं प्रकृतं त्वया ॥ र्म्_23.138{38} ॥
यदर्थे देवताः सर्वास् समाराध्याभियाचिताः ।
नानाविधानयत्नानि प्रकृतानि ममानिशं ॥ र्म्_23.139{39} ॥
सर्वाण्य् एतानि यत्नानि त्वया व्यर्थीकृतानि हि ।
तद् अत्र किं त्वया पत्न्या पापिष्ठया व्रजाधुना ॥ र्म्_23.140{40} ॥
मया त्वं पापिनी त्यक्ता मा तिष्ठेह गृहे मम ।
इत्य् उक्तं स्वामिना तेन श्रुत्वा सा दुरिताशया ।
सज्ञातेः स्वामिनस् तस्य पुरर् एवम् अभाषत ॥ र्म्_23.141{41} ॥
किम् एवं वदसे स्वामिन् न मयेदं कृतं खलु ।
मया न मन्यते नूनं तद् इदं त्वं विचारय ॥ र्म्_23.142{42} ॥
यदि दत्तं मया द्रव्यम् अस्या गर्भाभिशातनं ।
प्रेतीभूतात्मजान् पुत्राञ् जातां जातान् दिवानिशं ॥ र्म्_23.143{43} ॥
प्रभुक्त्वैवं महद्दुःखे चिरेयु दुर्गतौ सदा ।
इत्य् एवं शपथं कृत्वा स्वामिनं तम् अबोधयत् ॥ र्म्_23.144{44} ॥
इति प्रोक्तं तया पत्न्या श्रुत्वा श्रेष्ठी स बोधितः ।
चिराशापरिमुक्तात्मा मृता प्रेतालये यायौ ॥ र्म्_23.145{45} ॥
एषैव प्रेतिका श्रेष्ठिभार्या दुराशया ।

स्वकृतकर्मभोग्यानि भुक्त्वैवं भ्रमते ऽधुना ॥ र्म्_23.146{46} ॥
यद् ईर्ष्यया तया तस्याः प्रकृतं गर्भशातनं ।
तेन सा दुष्कृताकारा प्रेतीभूता चरत्य् अपि ॥ र्म्_23.147{47} ॥
यच् च तया मृषावाचा शपथः प्रकृता यथा ।
तथा तत्कर्मपाकेन दुर्गतौ भ्रमते सदा ॥ र्म्_23.148{48} ॥
पंचपुत्रान् दिवारात्रिं प्रसूय सा क्षुधान्विता ।
सर्वांस् तां स्वात्मजान् वालान् अपि भुक्त्वा न तृप्यते ॥ र्म्_23.149{49} ॥
एवं सा पापिनी प्रेती जातां जतांस् तथात्मजान् ।
भुक्त्वा क्षुधाग्निसंदगधा भ्रमेत् प्रेतालये सदा ॥ र्म्_23.150{50} ॥
एवं नारद विज्ञाय विरम्य पातकात् सदा ।
मृषावादाच् च सद्धर्मे चरितव्यं शुभार्थिभिः ॥ र्म्_23.151{51} ॥
सद्धर्मस्य विपाके हि सर्वदा मंगलं भवे ।
पातकस्य सदा दुःखं विश्रिते स्य तथोभयं ॥ र्म्_23.152{52} ॥
इति मत्वा सदा यूयं त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभजध्वं समाहिताः ॥ र्म्_23.153{53} ॥
ये बुद्धशरणं कृत्वा भजन्ति श्रद्धया मुदा ।
ते सर्वे दुर्गतिं हित्वा संप्रयान्ति जिनालये ॥ र्म्_23.154{54} ॥
ये च शृण्वन्ति सद्धर्मं मानयन्ति च सादरं ।
ते ऽपि क्लेशान् विनिर्जित्य संयांति सौगतालये ॥ र्म्_23.155{55} ॥
ये संघं शरणं कृत्वा सत्कृत्य प्रभजन्ति ते ।
सर्वे ऽपि दुर्गतेर् मुक्त्वा संप्रयान्ति सुखावतीं ॥ र्म्_23.156{56} ॥
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_23.157{57} ॥
इत्य् आदिष्टं मुनींद्रेण श्रुत्वा स नारदः सुधीः ।
ससंघः सर्वदा लोकाश् च तथेति प्रत्यपद्यत ॥ र्म्_23.158{58} ॥
ततः स नारदो भिक्षुः कृतांजलिः पुरोगतः ।
भगवंतं प्रणत्वा च पप्रछ तद् विशोधनं ॥ र्म्_23.159{59} ॥
भगवन् सा पापिनी प्रेती ततः प्रेतालयात् कदा ।
तद्घोरपातकान् मुक्ता संयायात् सद्गतौ कथं ॥ र्म्_23.160{60} ॥
तद् उपायं जगच्छास्त समुपादेष्टुम् अर्हति ।
येनासौ दुर्गातेर् मुक्ता सहसा सद्गतिं व्रजेत् ॥ र्म्_23.161{61} ॥
इति संप्रार्थिते तेन नारदेन स सर्ववित् ।
भगवांस् तं सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_23.162{62} ॥
शृणु नारद तस्यास् तत् पातकपरिशोधनं ।
उपायं समयं चापि प्रवक्ष्याम्य् अधुना तथा ॥ र्म्_23.163{63} ॥
यदा लोकेश्वरो नाथः सर्वसत्वानुकंपकः ।
बोधिसत्वो महासत्वस् त्रैधातुकाधिपेश्वरः ॥ र्म्_23.164{64} ॥
सुखावत्या विनिर्गत्य सर्वाल् लोकान् प्रभासयन् ।
सर्वान् सत्वान् समुद्धर्तुं प्रेतलोके समाचरेत् ॥ र्म्_23.165{65} ॥
तदा तत्प्रभया स्पृष्टा सातिसौख्यसमन्विता ।

किम् अद्य मे महत्सौख्यम् इति प्रोक्त्वाभ्यचिंतयत् ॥ र्म्_23.166{66} ॥
अहो सौख्यं समुत्पन्नं प्रभावेयं प्रसारिता ।
नूनम् अत्र महासत्वः सत्वान् उद्धर्तुम् आगताः ॥ र्म्_23.167{67} ॥
यस्येदृक् सत्कृपादृष्टिः सत्वेष्व् एवं प्रसर्य्यति ।
तस्यैव शरणं गत्वा भजेयं सर्वदादरात् ॥ र्म्_23.168{68} ॥
इति ध्यात्वा विनिश्चित्य सा प्रेती प्रतिविस्मिता ।
तस्यैवा स्मरणं कृत्वा तिष्ठे दृष्टं समुत्सुका ॥ र्म्_23.169{69} ॥
तदा स भगवांस् तत्र लोकनाथः कृपामयः ।
प्रेतलोकान् समूद्धर्तुम् उपाचरेत् प्राभासयः ॥ र्म्_23.170{70} ॥
तं प्रभासंतम् आयातं दृष्ट्वा सर्वे ऽपि प्रेतकाः ।
सहसा समुपेत्यैवं प्रार्थयेयुः समादरात् ॥ र्म्_23.171{71} ॥
स्वागतं भगवन् नाथ प्रसीद परमेश्वर ।
कृपयास्मान् समालोक्य प्रेतलोकान् समुद्धर ॥ र्म्_23.172{72} ॥
सर्वदा भवताम् एव शरणं संव्रजामहे ।
तत् कृत्वा परिशुद्धान् नः सर्वा प्रेरय सद्गतौ ॥ र्म्_23.173{73} ॥
इति तत् प्रार्थिते सर्वे लोकनाथः कृपानिधिः ।
सद्धर्मं समुपादिश्य पुनर् एवम् उपादिशेत् ॥ र्म्_23.174{74} ॥
यदीछथ सदा सौख्यं यूयं सर्वे समाहिताः ।
त्रिरत्नं स्मरणं कृत्वा भजत श्रद्धया मुदा ॥ र्म्_23.175{75} ॥
तदैतत् पातकैर् मुक्तास् सर्वे यूयं पवित्रिताः ।
सहसा सद्गतिं प्राप्ता भवेत बोधिचारिणः ॥ र्म्_23.176{76} ॥
इत्य् आदिष्टं जगच्छास्त्रा लोकनाथेन तेन ते ।
सर्वे ऽपि प्रेतिकाः श्रुत्वा तथा कर्तुं समीछिरे ॥ र्म्_23.177{77} ॥
तदा ते प्रेतिकाः सर्वे परिशुद्धाशया मुदा ।
त्रिरत्नं शरणं कृत्वा स्मृत्वा भजेयुर् आनताः ॥ र्म्_23.178{78} ॥
तदा तत्स्मृतिपुण्येन सर्वे ते प्रेतिकास् ततः ।
प्रेतलोकात् समुत्थाय संयास्यन्ति सुखावतीं ॥ र्म्_23.179{79} ॥
तत्रामिताभनाथस्य सर्वे ते शरणं गताः ।
भजन्तो धर्मम् आकर्ण्य चरिष्यंति शुभाचरिं ॥ र्म्_23.180{80} ॥
ततः सर्वे ऽपि ते सत्वा बोधिसत्वाः शुभंकराः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयुः ॥ र्म्_23.181{81} ॥
तदा सा पापिनी प्रेती सर्वपापविमोचिता ।
प्रेतलोकात् समुत्थाय सद्गतिं समवाप्स्यति ॥ र्म्_23.182{82} ॥
एवं मत्वात्र संसारे सद्गतिं सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ र्म्_23.183{83} ॥
त्रिरत्नभजनोद्भूतं पुण्यं न क्षिणुयात् क्वचित् ।
सर्वक्लेशान् विनिर्दह्य प्रापयेत् सौगतं पदं ॥ र्म्_23.184{84} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नारदो यतिः ।
ससांघिकसभालोकस् तथेति प्राभ्यनंदत ॥ र्म्_23.185{85} ॥
इति मे गुरुणादिष्टं मयात्र वक्ष्यते ।

मत्वा राजंस् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा ॥ र्म्_23.186{86} ॥
प्रजाश् चापि तथा धर्मं श्रावायित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ र्म्_23.187{87} ॥
ततस् ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं शिवां प्राप्य संबुद्धपदं आप्नुयाः ॥ र्म्_23.188{88} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोको नराधिपः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः ॥ र्म्_23.189{89} ॥
ये चेदं प्रेतिकायाः सुगतकथितम् इदं श्रद्धया ये ऽवदानं शृण्वंति श्रावयन्ति प्रमुदितमनसस् ते नराः सर्व एवं ।
कृत्वा रत्नत्रयस्य प्रभजनम् अनिशं बोधिचित्तं समाप्य कृत्वा लोकेषु भद्रं सकलगुणभरा बौद्धलोके प्रयान्ति ।
++ इति रत्नावदानतत्वे प्रेतिकायाः कथा समाप्तम् ++
xxइव् प्रेतीभूतमहर्द्धिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयच् च तथादरात् ॥ र्म्_24.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथा मे समुपादिश ॥ र्म्_24.2{2} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं सुधीर् यतिः ।
नृपतिं तं महीपालं संपश्यन्न् एवम् आदिशत् ॥ र्म्_24.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं संप्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ र्म्_24.4{4} ॥
तद्यथा भगवाञ् छास्ता श्रीघनः स मुनीश्वरः ।
सर्वज्ञः सुगतो नाथो धर्मराज विनायकः ॥ र्म्_24.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः ।
उपासकैः शुभाचारैर् उपासिकागणैर् अपि ॥ र्म्_24.6{6} ॥
बोधिसत्वैर् महासत्वैस् तथान्यैर् बोधिवांछिभिः ।
ब्रह्मदेवासुरेन्द्रैश् च यक्षगंधर्वकिंनरैः ॥ र्म्_24.7{7} ॥
सिद्धैर् विद्याधरैश् चापि नागेन्द्रै गरुडैर् अपि ।
सर्वै लोकाधिपैश् चापि तथान्यैश् च महर्षिभिः ॥ र्म्_24.8{8} ॥
ब्राह्मणै राजभि राजकुमारैश् च शुभार्थिभिः ।
वैश्यै मंत्रिगणैश् चापि तथामात्यगणैर् अपि ॥ र्म्_24.9{9} ॥
श्रेष्ठिभिः पौरिकैश् चपि गृहस्थैश् च महाजनैः ।
वणिग्भिः सार्थवाहैश् च तथा शिल्पिगणैर् अपि ॥ र्म्_24.10{10} ॥
ग्राम्यै जानपदैश् चापि कार्पटिकैः सतीर्थिकैः ।
तथान्यैः सुजनै विज्ञैः सद्धर्मगुणवांछिभिः ॥ र्म्_24.11{11} ॥
सेविताभ्यर्चितस् तत्र वेणुवने मनोरमे ।
करंदकनिवापाख्ये विहारे सौगताश्रमे ॥ र्म्_24.12{12} ॥
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ।
सर्वसत्वहितार्थेन रत्नराशिम् इवोज्वलन् ॥ र्म्_24.13{13} ॥
तदैव समये तत्र राजगृहे पुरोत्तमे ।
आसीद् गृहपते श्रेष्ठी महाजनो महाधनः ॥ र्म्_24.14{14} ॥
श्रिमां श्रीदोपमः सर्वद्रव्यसंपत्समान्वितः ।

स सदृशात् कुला भार्यां स्वकुलधर्मचारिणीं ॥ र्म्_24.15{15} ॥
सुभद्रांगां समानीय विधिनोदवहन् मुदा ।
ततः स गृहभृत् कन्ता भार्यया कांतया तथा ॥ र्म्_24.16{16} ॥
यथाकामं रतिं भुक्त्वा चक्रीड परिचारयन् ।
ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः ॥ र्म्_24.17{17} ॥
समये सा प्रिया भार्या बभूव गर्भधारिणी ॥ र्म्_24.18{18} ॥
ततः सा समये ऽसूत दारकं सुंदरांशिकं ।
तच् छ्रुत्वा स पिता श्रेष्ठी मुदा द्रष्टुम् उपाचरन् ॥ र्म्_24.19{19} ॥
तत्र स समुपेत्याशु दारकं तं शुभांशिकं ।
दृष्ट्वा संमुदितः पश्यन्न् एव तस्थाव् अतृप्तितः ॥ र्म्_24.20{20} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं शिशोः ।
अस्य नामप्रसिद्धेन क्रियताम् इत्य् अभाषत ॥ र्म्_24.21{21} ॥
तच् छ्रुत्वा ज्ञातयः सर्वे ते कृत्वा समतं तथा ।
तं श्रेष्ठिनं समाहूय पुर एवं समब्रुवन् ॥ र्म्_24.22{22} ॥
यद् अयं दारको जातो नक्षत्र उत्तराभिधे ।
तेनोत्तर इति ख्यातो भवतु भवदात्मजः ॥ र्म्_24.23{23} ॥
इति तैर् ज्ञातिभिः ख्यातं श्रुत्वा स गृहभृत् तथा ।
तेनैव नामधेयेन प्राख्यापयत् तम् आत्मजं ॥ र्म्_24.24{24} ॥
ततः स दारको ऽष्टाभि धात्रिभिः प्रतिपालितः ।
दिने दिने प्रवृद्धो ऽभू ह्रदस्थम् अम्बुजं यथा ॥ र्म्_24.25{25} ॥
ततः प्रवर्द्धमानः स गुरुभिः शिक्षितः क्रमात् ।
लिप्यादि सर्वविद्यानां द्रुतं पारं समाययौ ॥ र्म्_24.26{26} ॥
तदा स उत्तरो विज्ञः सवयोभिः सहान्वितः ।
चरमानः पुरे तत्र लोकमनोहरो वभौ ॥ र्म्_24.27{27} ॥
यदा स उत्तरः प्रौढयौवनमदनाश्रयः ।
तदा तस्य पिता श्रेष्ठी दैवात् कालं समाययौ ॥ र्म्_24.28{28} ॥
ततस् तस्य गृहे तत्र स उत्तरस् तदात्मजः ।
स्वामी संपत्तिसंप्राप्तो गृहि लोकाधिपो ऽभवत् ॥ र्म्_24.29{29} ॥
ततः स कुलवृत्तिस्थो व्यवहारविचक्षणः ।
क्रयविक्रयकार्याणि कृत्वा द्रव्यं समर्जयत् ॥ र्म्_24.30{30} ॥
स एकस्मिन् दिने तत्र वेणुवने जिनाश्रमे ।
संबुद्धं श्रीघनं द्रष्टुं धर्मार्थी समुपाचरत् ॥ र्म्_24.31{31} ॥
तत्र स समुपासृत्याद्राक्षीत् तम् श्रीघनं मुनिं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितं ॥ र्म्_24.32{32} ॥
व्यामप्रभाविरोचंतं समंतभद्ररूपिणं ।
रत्नराशिम् इवोज्वालं रत्नाद्रिम् इव जंगमं ॥ र्म्_24.33{33} ॥
सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं ।
धर्मामृतप्रवर्षन्तं सर्वलोकैर् नमस्कृतं ॥ र्म्_24.34{34} ॥
दृष्ट्वा स मुदितस् तत्र सांजलिः पुरतो व्रजन् ।
पादौ तस्य मुनीन्द्रस्य प्रणत्वैकान्त आश्रयन् ॥ र्म्_24.35{35} ॥

तत्र तस्याशयं शुद्धं दृष्ट्वा स भगवांस् तथा ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_24.36{36} ॥
तत् सद्धर्मामृतं पीत्वा स उत्तरः प्रमोदितः ।
पुनः पादौ मुनेर् नत्वा प्रत्याययौ स्वम् आलयं ॥ र्म्_24.37{37} ॥
एवं स उत्तरो विज्ञः प्रतिदिनं जगद्गुरोः ।
द्रष्टुं धर्मामृतं वापि पातुम् नित्यम् उपाचरत् ॥ र्म्_24.38{38} ॥
तथा तस्य मुनीन्द्रस्य पीत्वा धर्मामृतं तदा ।
संबुद्धशासने तत्र प्रव्रजितुं समैछत ॥ र्म्_24.39{39} ॥
ततः स उत्तरस् तस्य मुनीन्द्रस्य पुरोगतः ।
पादाब्जौ सांजलिर् नत्वा प्रव्रज्यां समयाचत ॥ र्म्_24.40{40} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत् प्रव्रज्यां व्रतं मह्यं दातुम् अर्हति सांप्रतं ॥ र्म्_24.41{41} ॥
इति संप्रार्थिते तेन भगवान् मुनीश्वरः ।
उत्तराख्यं कुमारं तं समालोक्यैवम् आदिशत् ॥ र्म्_24.42{42} ॥
कुमार शासने बौद्धे प्रव्रजितुं यदीछसि ।
अनुज्ञां मातुर् आसाद्य प्रागछ दास्यते तदा ॥ र्म्_24.43{43} ॥
इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः प्रबोधितः ।
तथेति चरणौ तस्य मुनेर् नत्वा गृहं ययौ ॥ र्म्_24.44{44} ॥
तत्र गृहे समासाद्य स उत्तरः प्रमोदितः ।
जनन्याश् चरणौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_24.45{45} ॥
मातर् अद्य विहारे ऽहं गछामि सौगताश्रमे ।
तत्र शास्तु मुखाब्जोत्थम् आर्यधर्मामृतं पिबे ॥ र्म्_24.46{46} ॥
तत् सद्धर्मामृतं पीत्वा तृष्णा मे वर्द्ध्यते पुनः ।
तत् सद्धर्मं समालब्धुम् इछामि परितुष्टये ॥ र्म्_24.47{47} ॥
धन्यास् ते हि शुभात्मानः परिशुद्धत्रिमंडलाः ।
संबुद्धशासने स्थित्वा सदा धर्मं पिबन्ति ये ॥ र्म्_24.48{48} ॥
अहम् अपि सदा तत्र संबुद्धशासने चरन् ।
तत् सद्धर्मामृतं लब्धुम् इछामि जननी ध्रुवं ॥ र्म्_24.49{49} ॥
तत् प्रव्रज्याव्रतं धृत्वा चरितुं सौगताश्रमे ।
इछामि सांप्रतं मातस् तद् अनुज्ञां प्रदेहि मे ॥ र्म्_24.50{50} ॥
इति पुत्रादितं श्रुत्वा मता सा प्रहताशया ।
चिरं तम् आत्मजं दृष्ट्वा रुदन्त्यैवम् अभाषत ॥ र्म्_24.51{51} ॥
किम् एव वदसे पुत्र मैवं मे पुरतो वदः ।
किम् अर्थं स्वगृहं त्यक्त्वा प्रव्रजितु त्वम् इछसि ॥ र्म्_24.52{52} ॥
किं ते दुःखं कुतो जातं मया किं चिन् न दृश्यते ।
त्वया तु दृश्यते यत् तद् वक्तव्यं पुरतो मम ॥ र्म्_24.53{53} ॥
अद्यापि तव तातस्य शोकाधिः शाम्यते न मे ।
तथापि मां कथं त्यक्तुम् इछसि सांप्रतं सुते ॥ र्म्_24.54{54} ॥
इति मात्रोदितं श्रुत्वा स उत्तरः कुमारकः ।
मातरं तं समालोक्य बोधयितुं समब्रवीत् ॥ र्म्_24.55{55} ॥

मातस् त्वत्कृपया मे ऽत्र किं चिद् दुःखं न विद्यते ।
गृहे ऽपि महती संपद् अस्ति भोग्यं यथेछया ॥ र्म्_24.56{56} ॥
अनित्यं खलु संसारं क्षणध्वंसि शरीरकं ।
अनित्यं जीवितं विद्युत्संपातम् इव न ध्रुवं ॥ र्म्_24.57{57} ॥
संपच् चापि स्थिरा नैवं कस्य श्री सर्वदा स्थिरा ।
सर्वेषाम् अपि जंतूनां सर्वत्र मरणं ध्रुवं ॥ र्म्_24.58{58} ॥
सर्वे ऽपि प्राणिनः काले त्यक्त्वा सर्वान् परिग्रहान् ।
ज्ञातिवंधुसुहृत्मित्रान्न् अपि यांति यमालयैः ॥ र्म्_24.59{59} ॥
एको ऽपि विद्यते नैव मृत्युप्राप्ते सहानुगः ।
धर्म एव तदैकः स्यात् त्रातानुगो यमालये ॥ र्म्_24.60{60} ॥
धर्मेण रक्ष्यते तत्र यमदूतैर् अधिष्ठिते ।
तद् अत्र सर्वथा नित्यं कर्त्तव्यं धर्मम् एव हि ॥ र्म्_24.61{61} ॥
धर्मवान्न् अत्र संसारे भ्रमन्न् अपि सदा सुखी ।
सर्वत्र सत्सुखान्य् एव प्रभुक्त्वा याति सद्गतिं ॥ र्म्_24.62{62} ॥
तत्रापि सर्वदा सौख्यं भुक्त्वा कृत्वा च मंगलं ।
सर्वसत्वहितार्थेन सद्धर्माण्य् एव साधयेत् ॥ र्म्_24.63{63} ॥
एतत्पुण्यविपाकैः स सद्गुरुं समुपाश्रयेत् ।
सद्गुरोस् तु प्रसादेन बोधिचित्तं लभेत् तदा ॥ र्म्_24.64{64} ॥
ततो बोधिचरीं प्राप्य बोधिसत्वो भवेत् सुधीः ।
ततः सत्वहितार्थेन बोधिचर्यां समाचरेत् ॥ र्म्_24.65{65} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं ।
त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_24.66{66} ॥
इत्य् आदिष्टं मुनीन्द्रेण सर्वज्ञेन हितार्थिना ।
श्रुतं मया परिज्ञाय तथा चरितुम् इछ्यते ॥ र्म्_24.67{67} ॥
एतत्पुण्यविभागत्वम् अपि प्राप्तुं यदीछसि ।
तद् अनुज्ञां प्रदत्वा मे चित्तं मातः प्रतोषय ॥ र्म्_24.68{68} ॥
इति पुत्रोदितं श्रुत्वा माता सा विहताशया ।
वियोगदुःखसंकार्त्ता विलपन्त्य् एवम् अब्रवीत् ॥ र्म्_24.69{69} ॥
हा पुत्र कथम् एकान्ते मां विहातुं त्वम् इछसि ।
नान्यो मे विद्यते पुत्रस् त्वम् एवैको ऽस्ति नंदनः ॥ र्म्_24.70{70} ॥
पितापि तव मां त्यज्य दैवाद् यातो यमालयं ।
त्वम् अपि मां परित्यक्त्वा कुत्र गंतुं तथेछसि ॥ र्म्_24.71{71} ॥
हा पुत्र कथम् अज्ञो ऽसि केनात्र त्वं प्रवंच्यसे ।
किं पश्यन् हेतुना केन प्रव्रजितुं त्वम् इछसि ॥ र्म्_24.72{72} ॥
हा पुत्र केन मूढो ऽसि यद् एता द्रव्यसंपदः ।
त्यक्त्वा परगृहे भिक्षां याचित्वा भोक्तुम् इछसि ॥ र्म्_24.73{73} ॥
हा पुत्र त्वं कुमारो ऽसि तत् प्रव्रज्यां चरेः कथं ।
प्रव्रजितो गृहं त्यक्त्वा बहिर् देशे सदाश्रयेः ॥ र्म्_24.74{74} ॥
तत् कथं त्यक्त्वा बहिर् देशे समाश्रयेः ।
शाणकंटावृतो मुंदो मृत्वात्र धरेश्वरः ॥ र्म्_24.75{75} ॥

शीतवातातपाक्रान्ते कथं दुःखं सहेः सुत ।
क्षुत्पिपासाग्निसंतप्तः दुःखं कस् ते ऽभिशामयेत् ॥ र्म्_24.76{76} ॥
श्मशानेषु शवान्य् अस्यन् कथम् एकश् चरेः सुत ।
जंगले निर्जने ऽरण्ये एकाकी निवसेः कथं ॥ र्म्_24.77{77} ॥
तथा भूतालये शून्यगेहेव निवसेः कथं ।
तथामित्रेषु देशेषु कथम् एकोर् इव च्चरे ॥ र्म्_24.78{78} ॥
ज्वरादि रोगसंतप्ते कस् तव परिचारयेत् ।
को वा ते कृपया दद्यात् पथ्यम् आहारम् औषधं ॥ र्म्_24.79{79} ॥
यदि दैवाद् विपत्तिः स्यात् तदा कः परिशोधयेत् ।
इति समीक्ष्य मा पुत्र प्रव्रज्याव्रत उत्सह ।
ममात्र वचनं श्रुत्वा सुखं भुक्त्वा गृहे वस ॥ र्म्_24.80{80} ॥
इति मात्रोदितं श्रुत्वा स पुत्रश् चैवम् अब्रवीत् ।
दैवभावा भवन्त्य् एव सर्वत्रापि जगत्स्व् अपि ॥ र्म्_24.81{81} ॥
एको ऽपि विद्यते नात्र सुहृन्मित्रसहानुगः ।
धर्म एव सहायः स्यात् सर्वत्र मरणे ध्रुवं ॥ र्म्_24.82{82} ॥
इति सद्धर्मसंप्राप्त्यै प्रव्रज्याव्रतम् उत्तमं ।
चरितव्यं भवेद् विज्ञैर् निर्वृतिपदवांछिभिः ॥ र्म्_24.83{83} ॥
इति तेन मुनीन्द्रेण समादिष्टं निशम्यते ।
मात तस्मा तथात्रैतद् व्रतं चरितुम् इछ्यते ॥ र्म्_24.84{84} ॥
तद् अत्र सौगते धर्मे मां नियोक्तुं यदीछसि ।
तद् अनुज्ञां प्रदानं मे कृपया दातुम् अर्हति ॥ र्म्_24.85{85} ॥
इति पुत्रार्थितं श्रुत्वा माता सा गद्गदस्वरा ।
स्नेहदुःखाग्निसंतप्ता दृष्ट्वैवं सुतम् अब्रवीत् ॥ र्म्_24.86{86} ॥
हा पुत्र कथम् एव त्वं निर्दयास्य् अतिनिष्ठुरः ।
यद् वृद्धां जननीं दृष्ट्वा कारुण्यं नास्ति ते हृदि ॥ र्म्_24.87{87} ॥
तद् अत्र यदि ते पुत्र दयास्ति मयि मातरि ।
यावज् जीवाम्य् अहं तावद् गृहे वस मया सह ॥ र्म्_24.88{88} ॥
यावच् चैतन् महत् संपत् स्वगृहे स्थिरा तव ।
तावद् यथेप्सितं सौख्यं भुक्त्वा रमं समाचर ॥ र्म्_24.89{89} ॥
अवश्यं मरणं यायां कस्य मृत्युर् भवे न हि ।
तदा मयि मृतायां तु प्रव्रजस्व यथेछया ॥ र्म्_24.90{90} ॥
संपच् चापि भवेत् क्षीणा कस्य संपत् सदा स्थिरा ।
तदा संपत् परिक्षीणे भिक्षान्नादो व्रतं चर ॥ र्म्_24.91{91} ॥
यद्य् एवं प्रार्थिते ऽपि त्वं विलंघ्य वचनं मम ।
निर्दयानिष्ठुरस्वान्तः प्रव्रजसि हठाद् अपि ॥ र्म्_24.92{92} ॥
तदाहं ते पुरोगत्वा सौगतशासने ऽपि हि ।
त्यक्त्वाहारं विषं भुक्त्वा यास्यामि मरणं ध्रुवं ॥ र्म्_24.93{93} ॥
इति मे वचनं सत्यं विज्ञायेह त्वम् आत्मज ।
मया सह गृहे सौख्यं भुक्ष्व कुत्रापि मा व्रज ॥ र्म्_24.94{94} ॥
इति मे वचनं श्रुत्वा यथाकामं सुखं गृहे ।

भुक्त्वा नित्यं सदोत्साहैश् चरं रम स्वम् आत्मज ॥ र्म्_24.95{95} ॥
इति मात्रोदितं श्रुत्वा स उत्तरो ऽभिशंकितः ।
तथेति प्रतिबुद्धित्वा तस्थौ गेहे निराशितः ॥ र्म्_24.96{96} ॥
ततश् चैकदिने प्रातः समुत्थाय स उत्तरः ।
संबुद्धं तं मुनिं द्रष्टुं विहारे समुपाचरत् ॥ र्म्_24.97{97} ॥
तत्र तं श्रीघनं दृष्ट्वा स उत्तरः प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य सांजलिस् समुपाश्रयत् ॥ र्म्_24.98{98} ॥
ततः स भगवांच् छास्ता दृष्ट्वा तस्य मनोगतं ।
बोधयितुं समालोक्य तम् एवं समुपालपत् ॥ र्म्_24.99{99} ॥
कुमार किं विषण्णो ऽसि यन् मनो ऽन्तर्गतं तव ।
तन् ममाग्रे समाख्याहि पूरयामि यदीहितं ॥ र्म्_24.100{100} ॥
इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः समुत्थितः ।
पादौ तस्य मुनेर् नत्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_24.101{1} ॥
सर्वज्ञ भगवञ् छास्तर् विजानीयाद् भवान् मम ।
यन् मनो ऽन्तर्गतं सर्वं यथाप्य् अहं निवेदये ॥ र्म्_24.102{2} ॥
भगवन् नाथ सर्वज्ञ न मे माता प्रबोधिता ।
तद् अनुज्ञां न मे दातुम् इछति प्रार्थितापि सा ॥ र्म्_24.103{3} ॥
तद् भवान् मे यथा योग्यं व्रतं संबोधिसाधनं ।
अन्यथापि प्रदत्वात्र प्रबोधयितुम् अर्हति ॥ र्म्_24.104{4} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तं विशुद्धाशयं दृष्ट्वा समाश्वास्यैवम् आदिशत् ॥ र्म्_24.105{5} ॥
मा कुमार विषादत्वं कृथा धैर्यं समाश्रय ।
अवश्यं समये प्राप्ते ब्रह्मचारी भविष्यसि ॥ र्म्_24.106{6} ॥
तावद् गृहे सदा दानं कृत्वार्थिभ्यो यथेप्सितं ।
त्रिरत्नस्मरणं कृत्वा शुभे चर समाहितः ॥ र्म्_24.107{7} ॥
एतत्पुण्यविपाकेन समये समुपागते ।
प्रव्रज्याव्रतम् आसाद्य निर्वाणपदम् आप्स्यसि ॥ र्म्_24.108{8} ॥
इति मत्वा कुमारात्र यावज् जीवति सा प्रसूः ।
तावद् गृहे सदा दानं कृत्वा शुभे चरन् वस ॥ र्म्_24.109{6} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स उत्तरः सुधीः ।
तथेति प्रतिविज्ञप्य प्रससाद प्रबोधितः ॥ र्म्_24.110{10} ॥
ततः स उत्तरो नत्वा सांजलिस् तं मुनीश्वरं ।
सुप्रसन्नमुखाम्भोजस् तन् मनाः स्वगृहं ययौ ॥ र्म्_24.111{11} ॥
तत्र स स्वगृहे स्थित्वा स्वकुलवृत्तिसाधनैः ।
प्रतिसार्यापणं तत्र चकार क्रयविक्रयं ॥ र्म्_24.112{12} ॥
तत्र मुलाधिकं लाभं यल् लब्धं गणवन्धनं ।
तत् सर्वं स सुतस् तस्या मातुर् हस्ते समर्पयत् ॥ र्म्_24.113{13} ॥
ततः स उत्तरः पुत्रो मातरं तां प्रसादयन् ।
तल् लब्धं सकलं द्रव्यं दत्वैवं प्रत्यबोधयत् ॥ र्म्_24.114{14} ॥
शृणु मातर् ममानेन द्रव्येन स्वजनां जनान् ।

अर्थिनः कृपणान् विप्रान् मानयित्वाभितोषय ॥ र्म्_24.115{15} ॥
इति पुत्रोदितं श्रुत्वा माता सा अतिकुंचिका ।
लुब्धा मत्सराक्रांतहृदयैवम् अभाषत ॥ र्म्_24.116{16} ॥
पुत्र पित्रा प्रयत्नेन संपदस् ते समर्जिताः ।
त्वम् एताः संपदः सर्वा दत्वार्थिभ्यो व्ययिष्यसि ॥ र्म्_24.117{17} ॥
यावत् पित्रार्जितं द्रव्यं तावन् मया न दास्यते ।
तावत् मात्रं तवाधीनं यावत् त्वया समर्जितं ॥ र्म्_24.118{18} ॥
यावज् जिवाम्य् अहं तात न ते दास्यामि किं चन ।
मृतायां मयि तत् सर्वं तवाधीनं भवेत् तदा ॥ र्म्_24.119{19} ॥
इत्य् उक्त्वा सा प्रसूस् तस्य मात्सर्य्यकलुषाशया ।
सर्वद्रव्यं प्रयत्नेन गुप्तीकृत्यात्यरक्षत ॥ र्म्_24.120{20} ॥
किं चिद् अर्थिभ्यो सा कुधी ददौ ।
गुप्तीकृत्य प्रयत्नेन तद् द्रव्यं समगोपयत् ॥ र्म्_24.121{21} ॥
दृष्ट्वा च सार्थिनः सर्वान् स्वगृहं समुपागतान् ।
सहसा समुपाश्रित्य परिभाष्याभ्यनिन्दयत् ॥ र्म्_24.122{22} ॥
अरे माया न गेहे ऽस्मिं यूयं प्रेता इवागताः ।
नित्यं परगृहे पिंडं भोक्तुं भ्रमथ भूतवत् ॥ र्म्_24.123{23} ॥
एवं तान् अर्थिनः सर्वान् सा नारी दुरिताशया ।
नैकधा विप्रलापेन परिभाष्याभ्यनिंदयत् ॥ र्म्_24.124{24} ॥
एवं मात्रा प्रतिक्रुष्य विप्रलापाभिनिंदितान् ।
श्रुत्वा स उत्तरः पुत्रो मातरं ताम् अभाषत ॥ र्म्_24.125{25} ॥
अरे मात किम् एव त्वम् अर्थिनः परिभाषसे ।
धिक् त्वां धर्मपरिभ्रष्टां कथं न नरके पतेः ॥ र्म्_24.126{26} ॥
यदि त्वं वांछसे सौख्यम् इहामुत्रापि सर्वदा ।
कृपणान् अर्थिनः सर्वान् संप्रदानैः प्रमोदय ॥ र्म्_24.127{27} ॥
यद्य् एवं क्रियते मातः संगतिः सर्वदावयोः ।
अन्यथा चेत् ततो नौ स्याद् विभिन्नभोजनाश्रयः ॥ र्म्_24.128{28} ॥
यद्य् अस्ति ते मया सार्द्धं सर्वदा भोजने रतिः ।
यथेप्सितं सदार्थिभ्यो दत्वा चर शुभे वृषे ॥ र्म्_24.129{29} ॥
इति तेनात्मजेनापि प्रत्याख्यतं निशम्य सा ।
माता लज्जाविभिन्नास्या तम् आत्मजम् अभाषत ॥ र्म्_24.130{30} ॥
यद्य् एवं नन्दनार्थिभ्यः सर्वस्वम् अपि दित्ससि ।
तत् स्वद्रव्याणि सर्वाणि दास्यामि तद् यथेप्सितं ॥ र्म्_24.131{31} ॥
इत्य् उक्त्वा सा प्रसू नारी तम् आत्मजं मृषागिरा ।
बोधयित्वा गृहे तानि द्रव्याणि समगोपयेत् ॥ र्म्_24.132{32} ॥
ततः सा प्रमदा दुष्टा मिथ्यावाचा तम् आत्मजं ।
अद्य यतो ऽर्थिनो भिक्षून्स् तोषयामीत्य् अबोधयत् ॥ र्म्_24.133{33} ॥
एवं मिथ्यया वाचा बोधयन्ती तम् आत्मजं ।
स्वयम् एव प्रभुक्त्वा च तद् द्रव्यं सर्वं गोपयत् ॥ र्म्_24.134{34} ॥
कस्मै चिद् अर्थिने किं चिद् अपि सा न ददौ कुधीः ।

सा केभ्यो ऽपि वलिं दातुं नैवोत्सेहे कदा चन ॥ र्म्_24.135{35} ॥
एवं सा दुर्मतिर् लुब्धा मत्सराक्रान्तचेतसा ।
परिभाष्यार्थिनः सर्वान् निंदयन्त्य् अशुभे ऽचरत् ॥ र्म्_24.136{36} ॥
एवं केवलपापानि प्राचित्वा सा दुराशया ।
काले निराशया दुःखार्त्ता मृता प्रेतालये ययौ ॥ र्म्_24.137{37} ॥
तत्र प्रेतगतिप्राप्ता प्रेतीभूता दुराकृतिः ।
स्वकेशप्रतिछन्नांगा शूचीमुखा कृशांगिका ॥ र्म्_24.138{38} ॥
अस्थियंत्रवद् उच्छ्राया पर्वतसंनिभोदरा ।
क्षुत्पिपासाग्निसंतप्ता दग्धस्थूणासमांगिका ॥ र्म्_24.139{39} ॥
आर्त्तस्वरा विरावन्ती क्रंदन्ती सा समंततः ।
अन्नपान हि मार्गन्ती पर्यभ्रमद् इतस् ततः ॥ र्म्_24.140{40} ॥
ततः स उत्तरो मातुः कृत्वाग्निसंस्कृतिं तदा ।
स्नानशौचादि कर्मां कुर्वञ् छोकं व्यनोदयत् ॥ र्म्_24.141{41} ॥
ततः स उत्तरो विजो मातृशोकं व्यनोदयत् ।
अर्थिभ्यो वांछितं दत्वा बहुपुण्याण्य् उपार्जयत् ॥ र्म्_24.142{42} ॥
ततः कामविरक्तः स संसारभोगनिस्पृहः ।
निर्वृतिपदसंप्रात्यै प्रव्रजितुं समैछत ॥ र्म्_24.143{43} ॥
ततः स मुदितो गत्वा वेणुवने जिनाश्रमे ।
दृष्ट्वा तं श्रीघनं नत्वा सांजलिः समुपाचरत् ॥ र्म्_24.144{44} ॥
तत्र प्रदक्षिणीकृत्वा ससंघं तं मुनीश्वरं ।
प्रणत्वा पुरतः स्थित्वा सांजलिर् एवम् अब्रवीत् ॥ र्म्_24.145{45} ॥
भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि ।
यन् मे सा जननी विघ्ना सांप्रतं प्रलयं गता ॥ र्म्_24.146{46} ॥
तद् अत्र भगवच् छास्तर् भवतां शरणं व्रजे ।
तन् मे ऽनुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति ॥ र्म्_24.147{47} ॥
इति संप्रर्थिते तेन भगवान् स मुनीश्वरः ।
सव्यकरेण तन्मूर्द्ध्नि संस्पृश्यैवं समादिशत् ॥ र्म्_24.148{48} ॥
एहि चर कुमारात्र ब्रह्मचर्यं समाहितः ।
इत्य् उक्त्वा भगवां छास्ता सांघिके तं समग्रहीत् ॥ र्म्_24.149{49} ॥
एहीत्य् उक्ते मुनीन्द्रेण मुंडितो ऽभूत् स उत्तरः ।
खिक्खिरीपात्रभृच् छुद्धकाषायचीवरावृतः ॥ र्म्_24.150{50} ॥
ततः शास्तुः प्रसादात् स परिशुद्धस् त्रिमंडलः ।
निःक्लेशयविशुद्धात्मा संसारविरतोत्सवः ॥ र्म्_24.151{51} ॥
समाधिधारणीविद्याघटमानो विचक्षणः ।
हित्वाविद्यागणं सर्वविद्यागुणान्तम् आप्तवान् ॥ र्म्_24.152{52} ॥
विदित्वा सर्वसंसारगतिं विद्युत्क्षणस्थितिं ।
मत्वा च सर्वसंस्कारगतिर् ऽनेकविघातिनिं ॥ र्म्_24.153{53} ॥
सर्वक्लेशगणां जित्वा सर्वान् मारगणान् अपि ।
साक्षाद् अर्हत्वम् आसाद्य श्रावकबोधिम् आप्तवान् ॥ र्म्_24.154{54} ॥
ततः स सुविशुद्धात्मा वीतरागो जितेंद्रियः ।

आकाशनिर्मलस्वान्तः सर्वलोष्टककांचनः ॥ र्म्_24.155{55} ॥
वासीचंदनकल्पांशो निर्विकल्पो निरंजनः ।
सर्वसत्वहिताधानः संबुद्धगुणसाधकः ॥ र्म्_24.156{56} ॥
सदेवासुरलोकानां सर्वेषां प्राणिनाम् अपि ।
वंद्यः पूज्यो ऽभिमान्यश् च ब्रह्मचारी बभूव सः ॥ र्म्_24.157{57} ॥
ततः सो ऽर्हन् महाभिज्ञो गंगातिरे शुभस्थले ।
पर्णकुट्यां समाश्रित्य तस्थौ ध्यानसमाहितः ॥ र्म्_24.158{58} ॥
तत्रैकस्मिन् दिने तस्य माता सा प्रेतिका सती ।
नग्न स्वरोमसंछन्ना दघस्थूणाविवर्णिता ॥ र्म्_24.159{59} ॥
सूचीमुखास्थियंत्रेव पर्वतसन्निभोदरा ।
क्षुत्पिपासाग्निदग्धांगा पानाहारगवेषिनी ॥ र्म्_24.160{60} ॥
आर्तस्वरं विरावन्ती क्रंदन्ती समुपागता ।
आयुष्मन्तं तम् अर्हन्तं पश्यन्ती समुपाश्रयत् ॥ र्म्_24.161{61} ॥
एवं तां समुपासीनां दृष्ट्वा स उत्तरो यतिः ।
का त्वम् एवंविधायाता वदस्वेत्य् अन्वपृछत ॥ र्म्_24.162{62} ॥
इति तेनोदितं श्रुत्वा सा प्रेती पुरतः स्थिता ।
उत्तरं तं यतिं पुत्रं समालोक्यैवम् अब्रवीत् ॥ र्म्_24.163{63} ॥
अहं ते जननी स्निग्धा ययासि जनितः सुतः ।
अन्नपानविविक्तास्मि प्रेतीभूता ऽधुना चरे ॥ र्म्_24.164{64} ॥
पंचविंशति वर्साणि यांति कालगता ह्य् अहं ।
नाभिजानामि पाणीयं कुतो भक्तस्य दर्शनं ॥ र्म्_24.165{65} ॥
सफलां पुष्पितां वृक्षं दृष्ट्वा गछामि दूरतः ।
सर्वे ऽपि निष्फला शुष्का विपुष्पाश् च भवन्ति ते ॥ र्म्_24.166{66} ॥
सरांसि चाम्बुपूर्णाणि दृष्ट्वा गछामि दूरतः ।
तानि सर्वाणि शुष्कानि भवन्ति तत् क्षणाद् अपि ॥ र्म्_24.167{67} ॥
भेदं तस्य महासौख्यं वृक्षमूलश्रितस्य ते ।
विद्यते सर्वदाप्य् अत्र किं त्वया प्रकृतं शुभं ॥ र्म्_24.168{68} ॥
तद् अत्र कृपया पश्यन् कारुण्यं जनयन् सुत ।
मात्रे तृषार्दितायै मे शीताम्बु दातुम् अर्हसि ॥ र्म्_24.169{69} ॥
इति तयार्थितम् श्रुत्वा स उत्तरः सविस्मयः ।
तां प्रेतीं सुचिरं दृष्ट्वा शंकितश् चैवम् अब्रवीत् ॥ र्म्_24.170{70} ॥
मातस् तर्हि क्षणं प्राप्ते त्वया पारुष्यभूतया ।
दानानि न कृतान्य् एव पुण्यानि वा चितानि न ॥ र्म्_24.171{71} ॥
अन्यकृतानि दानानि पुण्यानि भाषितानि च ।
दृष्ट्वा श्रुत्वापि ते चित्ते क्रोधाग्निर् ज्वलितस् तदा ॥ र्म्_24.172{72} ॥
किं चिन् नापि शुभं कर्म कृत्वापुण्यं त्वयार्जितं ।
परेणापि कृतं दृष्ट्वा श्रुत्वापि नानुमोदितं ॥ र्म्_24.173{73} ॥
एतत्कर्मविपाकेन जननी त्वं मृताधुना ।
प्रेतीभूतान्नपानेन वियुक्ता भ्रमसे भवे ॥ र्म्_24.174{74} ॥
इदानिं किं करिष्यामि त्वं चात्र किं करिष्यसि ।

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc