रत्नमालावदान · भाग 201220
इत्य् उक्ते ऽनेन भूपेन रैवतः स प्रसादितः ।
हंसराज इवाप्लुत्य भासयन् खे समाययौ ॥ र्म्_19.210{9} ॥
तत्राकाशे समासीनः प्रातिहार्यं प्रदर्शयन् ।
लोकैः संदृश्यमानो ऽसौ ध्यात्वा तस्थौ समुज्वलन् ॥ र्म्_19.211{10} ॥
ततस् तैर् भिक्षुभिः शिष्यैः समन्वितः प्रभासयन् ।
तथाकाशाश् चरं गत्वा स्वाश्रमे समुपाश्रयन् ॥ र्म्_19.212{11} ॥
तद् दृष्ट्वा स नृपो लोकैः सहातिविस्मयान्वितः ।
त्रिरत्नभजनं कुर्वन् प्रचचार सदा मुदा ॥ र्म्_19.213{12} ॥
एवं ह्य् अदोषेन विशेषयुक्त्या प्रत्यक्षणक्ष्यीकृतलक्षणेन ।
अलंकृतः साधुजनः खलेन निघ्नीकृतो ऽपि न विकारम् एति ॥ र्म्_19.214{13} ॥
एवं स्वदैवयोगेन जायते ह्य् अपराधता ।
तन् नान्यस्यापराधत्वं वक्तव्यं केन चित् क्व चित् ॥ र्म्_19.215{14} ॥
इति मे गुरुणाख्यातं तथात्र कथ्यते मया ।
इति मत्वा महाराज सदा धर्मे समाचर ॥ र्म्_19.216{15} ॥
प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदादरात् ॥ र्म्_19.217{16} ॥
तथा ते मंगलं नित्यं सर्वं चापि भवेत् सदा ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_19.218{17} ॥
इति सत्यं परिज्ञाय त्रिरत्नशरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भजस्वात्र समाहितः ॥ र्म्_19.219{18} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_19.220{19} ॥
सत्कृत्येदं नरा ये कलिमतिदरणं रैवतस्यावदनं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो भक्तिश्रद्धाप्रसन्नाः ।
ते सर्वे ऽप्य् एवम् अत्र विमलसुमनसः सर्वदा सत्सुखानि भुक्त्वा कृत्वा सुभद्रं जिनवरनिलये संप्रयान्ति प्रमोदां ॥ र्म्_19.221{20} ॥
++ इति रत्नावदानतत्वे रैवतावदानं समाप्तम् ++
xx महिषावदान
अथ स पार्थिवो ऽसोकः कृताञ्जलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_20.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_20.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवम् आदिशत् ॥ र्म्_20.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि सर्वे लोकप्रबोधने ॥ र्म्_20.4{4} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ र्म्_20.5{5} ॥
षडभिज्ञो जगन्नाथो मारजित् तु तथागतः ।
पुरैकसमये सार्द्धं भिक्षुभिः श्रावकैः सह ॥ र्म्_20.6{6} ॥
चैलकैर् भिक्षुणीभिश् चैवम् उपासिकागणैर् अपि ।
उपासाकैस् तथान्यैश् च सद्धर्मगुणवांछिभिः ॥ र्म्_20.7{7} ॥
बोधिसत्वैर् महासत्वैर् ब्रह्मेन्द्रादिसुराधिपैः ।
सर्वे लोकाधिपैश् चापि दानवेन्द्रैः शुभार्थिभिः ॥ र्म्_20.8{8} ॥
नागेन्द्रैर् गरुडेन्द्रैश् च यक्षगंधर्वकिन्नरैः ।
ग्रहै विद्याधरैश् चापि तथान्यैश् च वृषार्थिभिः ॥ र्म्_20.9{9} ॥
स्तूय मानार्च्यमानश् च वंद्यमानो ऽभिनंदितः ।
सर्वसत्वहितार्थेन जनपदेषु सर्वतः ॥ र्म्_20.10{10} ॥
सद्धर्मं समुपादिश्य प्रचचार ससांघिकः ।
तथा च कोशले राष्ट्रे वरं धर्मम् उपादिशत् ॥ र्म्_20.11{11} ॥
ततो ऽन्यत्रापि सद्धर्मम् उपदेष्टुं ततो ऽचरत् ।
तत्रान्यस्मिन् वने प्राप्तो भगवान् स ससांघिकः ॥ र्म्_20.12{12} ॥
सर्वत्र मंगलं कृत्वा प्रचचार शनैः क्रमात् ।
तत्राराण्ये महान् यूथो महिषीणां समाचरत् ॥ र्म्_20.13{13} ॥
तत्रैको महिषश् चण्डो वलवीर्यसमन्वितः ।
महाशृंगो महाकायः प्रत्यवसन् मदोत्कटः ॥ र्म्_20.14{14} ॥
तत्रासन् पंचमात्राणि महिषपालशतानि च ।
सर्वे तन् महिषीयूथम् अनुरक्ष्याध्युवासत ॥ र्म्_20.15{15} ॥
तदैकस्मिन् दिने तत्र भगवान् स ससंघिकः ।
प्रचरंस् तत्प्रदेशे तं महिषीयुथम् ऐक्षत ॥ र्म्_20.16{16} ॥
तदा ते महिषीपाला तं मुनींद्रं ससंघिकं ।
समुपायातम् आलोक्य दूराद् एवम् अघोषयन् ॥ र्म्_20.17{17} ॥
भगवान् मात्र समायाहि पथान्येन व्रजाधुना ।
अस्त्य् अत्र महिषो दुष्टस् तत् सहसा चरान्यत ॥ र्म्_20.18{18} ॥
इति तैः शब्दितं श्रुत्वा भगवान् स मुनीश्वरः ।
ससंघः समुपाश्रित्य तां दृष्ट्वैवम् अह्हाषत ॥ र्म्_20.19{19} ॥
अल्पोत्सुकाभवत्व् अत्र भगवन्तः किं कुतो भयं ।
कालज्ञो ऽहं जिनेन्द्रो ऽस्मि तदर्थे ऽत्र समाचरे ॥ र्म्_20.20{20} ॥
तदा स महिषो दुष्टस् तं मुनीन्द्रं ससांघिकं ।
दूराद् दृष्ट्वा समुत्थाय प्रदुद्राव तदन्तिके ॥ र्म्_20.21{21} ॥
तत्र तद्गंधम् आघ्राय दृष्ट्वा तं रक्तचीवरं ।
रुषा लांगूलम् उन्नाम्य संमुखः प्राभ्यधावत ॥ र्म्_20.22{22} ॥
तत्र तेन जिनेन्द्रेण पञ्चसिंहा महोद्धताः ।
अभिनिर्माय तत्पृष्ठे स्थापिता भीमरूपिणः ॥ र्म्_20.23{23} ॥
तथा निर्माय तत्राग्निस्कंधौ द्वाव् अतिप्रोज्वलौ ।
उभयोः पार्श्वयोस् तस्य स्थापितो भीमनिस्वनौ ॥ र्म्_20.24{24} ॥
तथात्र कूटसंकाशो निर्माय महती शिला ।
उपरिष्टात् प्रतिष्ठाप्य दर्शिता तस्य भीतये ॥ र्म्_20.25{25} ॥
तत्र स महिषो ऽद्राक्षीत् तान् सिंहान् पृष्ठसंस्थितान् ।
पार्श्वयोर् उभयोर् अग्निस्कंधौर् उपरितां शिलां ॥ र्म्_20.26{26} ॥
एवं स महिषो दुष्टो महाभयम् उपस्थितं ।
समन्ततः समालोक्य प्रविखेटाभिमोहितः ॥ र्म्_20.27{27} ॥
तत्र स त्रसितो दृष्ट्वा परायितुं चतुर्दिशः ।
समन्ततो भयाद् विग्नस् तस्थौ त्राणनिराश्रयः ॥ र्म्_20.28{28} ॥
ततः स चकितस् तस्य मुनीन्द्रस्याभिसंमुखं ।
उपेत्य चरणौ नत्वा शरणं समुपाययौ ॥ र्म्_20.29{29} ॥
तत्र तद्भयभिन्नास्यः परिखिन्नाशयो रुदन् ।
भगवंतं तम् आलोक्य तस्थौ ऽत्राणाश्रयो पुरः ॥ र्म्_20.30{30} ॥
तदा स भगवान् दृष्ट्वा महिष्यं तम् उपस्थितं ।
शरणागतम् आलोक्य धर्मम् एवम् उपादिशत् ॥ र्म्_20.31{31} ॥
भद्रमुखेति संस्काराः सर्वे ऽनित्या भवे ध्रुवाः ।
सर्वधर्मा अनात्मनः शान्तं निर्वाणम् एव हि ॥ र्म्_20.32{32} ॥
इति धर्मरवम् श्रुत्वा स तत् पुण्यानुभावतः ।
पूर्वजन्मप्रवृत्तांतं स्मृत्वा प्ररुरोदानुतापितः ॥ र्म्_20.33{33} ॥
एवं तं रुदितं दृष्ट्वा भगवान् स मुनीश्वर ।
बोधयितुं समाश्वास्य पुनर् गाथे ऽभ्यभाषत ॥ र्म्_20.34{34} ॥
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते ।
अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकं ॥ र्म्_20.35{25} ॥
साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने ।
तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ र्म्_20.36{26} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स महिषस् तदा ।
सर्वं स्मृत्वा पुरावृत्तं मनसैवं व्यचिंतयत् ॥ र्म्_20.37{27} ॥
हा मया दुर्धियाज्ञेन त्यक्त्वा सद्धर्मसंयमं ।
क्रोधाग्निना स्वयं दग्धा संतापरे ऽपि तापिता ॥ र्म्_20.38{28} ॥
येनाहं हा परिभ्रष्टः सद्धर्ममणिना ऽधुना ।
विषरागाग्निसंतप्तः कृष्णाहिर् इव दुर्मतिः ॥ र्म्_20.39{29} ॥
तद् अत्र किं करिष्यामि तिर्यक्जातिर् इहाधुना ।
किं ममानेन कायेन दुःखे पापानुसाधिना ॥ र्म्_20.40{30} ॥
यत्र पुण्यं सुखं नास्ति तत्र किं जीवितेन मे ।
वरम् एवाद्य मे मृत्युर् न त्व् एवं चिरजीवितं ॥ र्म्_20.41{31} ॥
अवश्यं मृत्युम् आप्नुयां सर्वेषां मरणं ध्रुवं ।
तद् अत्र मे शरीरे का स्नेहता जीविते ऽपि वा ॥ र्म्_20.42{32} ॥
धिक् कायं जीवितं चापि येन पुण्यं न साध्यते ।
पुण्यम् एव भवे सारं सर्वत्र सत्सुखप्रदं ॥ र्म्_20.43{33} ॥
पुण्यं विनात्रा संसरे किं श्रीसंपत्सुखान्विते ।
सर्वं विहाय गंतव्यं पुण्याम् एकं तदानुगः ॥ र्म्_20.44{34} ॥
पुण्यम् एव जगन्मित्रं पुण्यम् एव सदानुगः ।
पुण्यम् एव महत्सारं पुण्यम् एव हितार्थदं ॥ र्म्_20.45{35} ॥
तस्मात् पुण्यं प्रयत्नेन साधनीयं भवे सदा ।
सर्वत्र सुखताहेतु पुण्यम् एवेति कथ्यते ॥ र्म्_20.46{36} ॥
तत् पुण्यरत्नसंप्राप्त्यै बुद्धस्य शरणं गतः ।
सर्वथा स्मरणं कृत्वा भजेयेह समाहितः ॥ र्म्_20.47{37} ॥
इत्य् एवं मनसा ध्यात्वा महिषः स प्रबोधितः ।
तं बुद्धं श्रीघनं नत्वानुस्मृत्वाभजान् मुदा ॥ र्म्_20.48{38} ॥
ततः स भगवान्स् तस्य दृष्ट्वाशयविशुद्धतां ।
सद्धर्मं समुपादिश्य ससंघः स्वाश्रमे ययौ ॥ र्म्_20.49{39} ॥
तत्राश्रमे समासीनो भगवान् सससांघिकः ।
सर्वसत्वहितार्थेन संबोधिधर्मम् आदिशत् ॥ र्म्_20.50{40} ॥
तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः ।
ब्रह्मशक्रादयो देवा लोकपालाश् च दानवाः ॥ र्म्_20.51{41} ॥
ग्रहा विद्याधराः सिद्धा यक्षगंधर्वकिन्नराः ।
गरुडा नागराजाश् च राक्षसाश् च शुभार्थिनः ॥ र्म्_20.52{42} ॥
ऋषयो ब्राह्मणाश् चापि नृपा राजकुमारकाः ।
वैश्याच् च मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः ॥ र्म्_20.53{43} ॥
वणिजः सार्थवाहाश् च शिल्पिनः पौरिका अपि ।
ग्राम्या जानपदाश् चापि तीर्थ्याः कार्पटिका अपि ॥ र्म्_20.54{44} ॥
एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवां छिनः ।
सर्वे ते समुपागत्य तत्राश्रमे समाविशत् ॥ र्म्_20.55{45} ॥
तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतं ।
नत्वा प्रदक्षिणीकृत्वा समानर्चुर् यथाक्रमं ॥ र्म्_20.56{46} ॥
ततस् ते प्रणतिं कृत्वा परिवृत्य समंततः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_20.57{47} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितां ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ र्म्_20.58{48} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः ।
धर्मविशेषम् आज्ञाय त्रिरत्नं सर्वदाभजन् ॥ र्म्_20.59{49} ॥
तत्र स महिषः पूर्वजन्मवृत्तिम् अनुस्मरन् ।
तदा तद्देहम् उत्स्रष्टुं मनसैवं व्यचिंतयत् ॥ र्म्_20.60{50} ॥
हा दुष्टेन मया पूर्वम् आचितं घोरपातकं ।
तेनाहं महिषो दुष्टो भवाम्य् अत्र यथोदितं ॥ र्म्_20.61{51} ॥
तद् अत्र किं प्रकुर्वीय पशुस् तत् पापशोधणं ।
तत् त्रिरत्नम् अनुस्मृत्वा चरेयाहम् उपोषधं ॥ र्म्_20.62{52} ॥
दत्वात्राहम् इमं कायं सत्वेभ्यः श्रद्धया ऽधुना ।
मनसा सुगतं ध्यात्वा मर्तुं तिष्ठेय सांप्रतं ॥ र्म्_20.63{53} ॥
तद् इमं देहम् उत्कृत्य त्वग्मान्सरुधिरादिकं ।
अस्थिमज्जादि सर्वं च भुजन्तु प्राणिनो मुदा ॥ र्म्_20.64{54} ॥
ये ये सत्वा इमं देहं भुजन्ति सुरसं मुदा ।
ते ते सर्वे सदा धर्मं कृत्वा यान्तु सुरालायं ॥ र्म्_20.65{55} ॥
तथैतत् पुण्यपाकेन मुक्त्वास्मान् पापकाश्रयात् ।
आसाद्य सद्गतौ जन्म भजेयं सुगतं सदा ॥ र्म्_20.66{56} ॥
इति ध्यात्वा विनिश्चित्य महिषः स प्रसन्नधीः ।
त्यक्त्वाहारं तपश्वीव बुद्धं स्मृत्वाचरत् तपः ॥ र्म्_20.67{57} ॥
तथा स महिषो ध्यात्वा त्रिरत्नं चाभ्यनुस्मरन् ।
देहं त्यक्त्वा विशुद्धात्मा सुरालयं समाययौ ॥ र्म्_20.68{58} ॥
तत्र स्वर्गे स उत्पन्नो महासुखसमन्वितः ।
विस्मिताभिप्रसन्नात्मा तदैवं समचिंतयत् ॥ र्म्_20.69{59} ॥
अहो हि जायते सौख्यं कुतश् च्युत्वा कुहाचरे ।
कस्य पुण्यविपाकेन ममैवं जायते शुभं ॥ र्म्_20.70{60} ॥
इति चिंतयतस् तस्य महिषपूर्विणस् तथा ।
विस्मयाक्रांतचित्तस्य समुत्पन्नाभवन् मतिः ॥ र्म्_20.71{61} ॥
अहो तिर्यग्गतेश् च्युत्वा देवलोक इहासरे ।
संबुद्धस्मृतिपुण्येन देवो भवामि सांप्रतं ॥ र्म्_20.72{62} ॥
तद् अहं तस्य मुनीन्द्रस्य द्रष्टुं गछेय सांप्रतं ।
श्रद्धया समुपाश्रित्य सद्धर्मं शृणुयां पुनः ॥ र्म्_20.73{63} ॥
इति महिषपूर्वी स देवपुत्रः प्रमोदितः ।
तत्र तस्य मुनीन्द्रस्य दर्शने गंतुम् ऐछत ॥ र्म्_20.74{64} ॥
ततः स मुदितः स्नात्वा शुद्धदिव्यांवरावृतः ।
दिव्यगंधानुलिप्तांगो दिव्यालंकारभूषितः ॥ र्म्_20.75{65} ॥
दिव्यपूजोपहाराणि गृहीत्वा देवगणैः सह ।
तस्यां रात्रौ मुनीन्द्रस्य भासयन्न् आश्रमे ययौ ॥ र्म्_20.76{66} ॥
तत्र तं श्रीघनं दृष्ट्वा मुदितः समुपासरन् ।
नत्वा प्रदक्षिणीकृत्य समानर्च्च यथाविधिः ॥ र्म्_20.77{67} ॥
ततस् तस्य मुनीन्द्रस्य सांजलिः स प्रणम्य च ।
सद्धर्मदेशनां श्रोतुं पुरतः समुपाश्रयत् ॥ र्म्_20.78{68} ॥
तथा ते तत् सहायाश् च देवपुत्राः प्रसादिताः ।
भगवंतं सांजलयः उपाश्रयन् ॥ र्म्_20.79{69} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_20.80{70} ॥
तत्सद्धर्मामृतं पीत्वा सह देवैः प्रमोदितः ।
देवो महिषपूर्वि स धर्मविशेषम् आप्तवान् ॥ र्म्_20.81{71} ॥
सत्कायदुष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं ।
निर्भिद्य ज्ञानवज्रेण श्रोतआपत्तिम् आययौ ॥ र्म्_20.82{72} ॥
तातः स दृष्टसत्यस् तं भगवन्तं मुनीश्वरं ।
कृतांजलिः पुटो नत्वा त्रिर् उदानम् उदानयत् ॥ र्म्_20.83{73} ॥
भगवन्न् इदम् अस्माकं कृतं न जनकेन हि ।
न मात्रा न च राज्ञापि नान्येन केन चित् खलु ॥ र्म्_20.84{74} ॥
भवतैव यद् अस्माकं कृतपापविशोधनं ।
तेनाभिशोषिताशेषरुधिराश्रुसारित्परिः ॥ र्म्_20.85{75} ॥
लंघिता अस्थिशैलाश् च पिहिता पापपद्धतिः ।
विवृताः स्वर्गमार्गाश् च मोक्षमार्गश् च दर्शितः ॥ र्म्_20.86{76} ॥
मयाप्तं विमलं चक्षुः शान्तम् आर्यपदं तथा ।
दुःखार्णवः समुत्तीर्णो बोधिमार्गो ऽपि दृश्यते ॥ र्म्_20.87{77} ॥
तद् भवतां कृपादृष्टेः प्रसादान् मम सांप्रतं ।
संसारजन्म साफल्यं बुद्धपुत्रास्म्य् अहं यतः ॥ र्म्_20.88{78} ॥
अद्यारभ्य सदा नित्यं भवतां शरणं गतः ।
बोधौ चित्तं समाधाय चरिष्यामि शुभां चरिं ॥ र्म्_20.89{79} ॥
तद् अत्रानुग्रहं कृत्वा भवाञ् छास्ता जगगुरुः ।
कृपया सर्वदा पश्यन्न् एवं मां त्रातुम् अर्हति ॥ र्म्_20.90{80} ॥
इति संप्रार्थितं तेन सुपर्वणा निशम्य सः ।
शास्ता तस्याशयं शुद्धं समलोक्यैवम् आदिशत् ॥ र्म्_20.91{81} ॥
सधो शृणु हितं वक्ष्ये सदा भद्रं यदीछसि ।
त्रिरत्नं शरणं गत्वा भज नित्यं समादरात् ॥ र्म्_20.92{82} ॥
ये बुद्धशरणं कृत्वा भजंति श्रद्धया सदा ।
मारचर्याभिमुक्तास् ते संप्रयांति जिनालयं ॥ र्म्_20.93{83} ॥
ये धर्मं सौगतं नित्यं शृण्वन्ति श्रद्धया मुदा ।
सर्वपापाभिमुक्तास् ते संप्रयान्ति सुखावतीं ॥ र्म्_20.94{84} ॥
ये च संघे प्रकुर्वन्ति सत्कारं श्रद्धयादरात् ।
ते सर्वे दुर्गतेर् मुक्त्वा संप्रयान्ति सुरालयं ॥ र्म्_20.95{85} ॥
त्रिरत्नशरणं कृत्वा ये भजन्ति सदादरात् ।
दुर्गतिं ते न गछंति सदा गछंति सद्गतिं ॥ र्म्_20.96{86} ॥
सद्गतौ ते सदा स्थित्वा त्रिरत्नं शरणं गताः ।
कृत्वा लोकहितं सौख्यं भुक्त्वा रमन्ति सर्वदा ॥ र्म्_20.97{87} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं ।
त्रिविधां बोधिम् आसद्य निर्वृतिं समवाप्नुयुः ॥ र्म्_20.98{88} ॥
इति निर्वाणसत्सौख्यः प्राप्तुं यदि समिछसि ।
त्रिरत्नं शरणं कृत्वा भज नित्यं समाहितः ॥ र्म्_20.99{89} ॥
एतत्पुण्यानुभावेन परिशुद्धस् त्रिमंडलः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_20.100{90} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधिताः ।
तथेत्य् अभ्यनुमोदित्वा पुनर् एवम् अभाषत ॥ र्म्_20.101{91} ॥
अद्य मे सफलं संपूरितं मनोरथं ।
बोधिरत्नाभिसंपन्नो बुद्धपुत्रो ऽस्मि सांप्रतं ॥ र्म्_20.102{92} ॥
सर्वदा भवताम् एव शरणे ऽहं समास्थितः ।
त्रिरत्नभजनं कुर्वञ् चरिष्ये बोधिसंवरं ॥ र्म्_20.103{93} ॥
इति संप्रार्थनां कृत्वा देवपुत्रः स मोदितः ।
श्रीघनं तैः पुनर् नत्वा ससहायो दिवं ययौ ॥ र्म्_20.104{94} ॥
तत्र स्वर्गे स संप्राप्तो देवैः सह समाश्रितः ।
त्रिरत्नस्मरणं कुर्वन् सौख्यं भुक्त्वा समाचरत् ॥ र्म्_20.105{95} ॥
तस्यां रात्रौ महत्कान्तिं प्रभां दृष्ट्वा सविस्मयाः ।
सर्वे ते महिषीपाला वभूवुः शंकिताशयाः ॥ र्म्_20.106{96} ॥
ततः प्रातः समुत्थाय सर्वे ते कौतुकान्विताः ।
संमील्य सहसा तत्र बुद्धाश्रमे उपाचरन् ॥ र्म्_20.107{97} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे ते प्रतिमोदिताः ।
कृतांजलिपुटो नत्वा समुपतस्थुर् आदरात् ॥ र्म्_20.108{98} ॥
तदा स भगावान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_20.109{9!} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रतिबोधिताः ।
भगवंतं पुनर् नत्वा पप्रछुर् एवम् आदरात् ॥ र्म्_20.110{100} ॥
भगवन्न् अद्य रात्रौ क इहाश्रमे प्रभासयन् ।
भवतां समुपायातस् तत् समादेष्टुम् अर्हति ॥ र्म्_20.111{1} ॥
इति तैर् महिषीपालैः परिपृष्टे स सर्ववित् ।
भगवांस् तान् समालोक्य पुरावृत्तिम् उपादिशत् ॥ र्म्_20.112{2} ॥
यो ऽत्रासौ महिषो दुष्टो दृष्ट्वास्मान् समुपद्रुतः ।
समन्ततो भयं दृष्ट्वा त्रस्तो मे शरणं गतः ॥ र्म्_20.113{3} ॥
तदा मद्धर्मम् आकर्ण्य पूर्वजातिम् अनुस्मरन् ।
मयि चित्तं प्रसाद्यैव त्यक्त्वाहारा त्यजन् तनुं ॥ र्म्_20.114{4} ॥
ततो ऽस्मत्स्मृतिपुण्येन पापमुक्तो विशुद्धधीः ।
स्वर्गलोके समुत्पन्नो देवो भवति सांप्रतं ॥ र्म्_20.115{5} ॥
स एष देवपुत्रो ऽद्य निशायाम् अत्र भासयन् ।
देवलोकैः सहायातो दर्शनाय ममालाये ॥ र्म्_20.116{6} ॥
मत्सद्धर्मं समाकर्ण्य दृष्टसत्यः स हर्षितः ।
देवसंघैः सह स्वर्गे स्वालये प्रगतस् तथा ॥ र्म्_20.117{7} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वातिविस्मयोद्धताः ।
सर्वे ते महिषीपाला मिथ एवं समब्रुवन् ॥ र्म्_20.118{8} ॥
अहो चित्र हि यन् नाम तिर्य्यग्योनिगतो ऽपि सः ।
बुद्धं सद्गुरुम् आसाद्य धर्मं श्रुत्वाभवत् सुधीः ॥ र्म्_20.119{9} ॥
सद्गुरौ सुगते चित्तं प्रसाद्य विरताशनः ।
त्रिरात्नस्मरणं कृत्वा प्राणं त्यक्त्वा दिवं ययौ ॥ र्म्_20.120{10} ॥
ततो ऽपीह समागत्य संबुद्धं शरणं गतः ।
अभ्यर्च्य धर्मम् आकर्ण्य दृष्टसत्यो दिवं ययौ ॥ र्म्_20.121{11} ॥
स्वर्गे ऽपि तत् तथा नित्यं सद्गुरोः शरणं गतः ।
श्रद्धया भजनं कुर्वं छुभे ऽचरत् समाहितः ॥ र्म्_20.122{12} ॥
धन्यो ऽयं सुगतः शास्ता सर्वसत्वशुभंकरः ।
यत्र चित्तं प्रसाद्यैव पशुर् अपि दिवं गतः ॥ र्म्_20.123{13} ॥
वयं तु मानवाः सर्वे कथम् एनं मुनीश्वरं ।
सद्गुरुं समुपासाद्य श्रद्धया न भजेमहि ॥ र्म्_20.124{14} ॥
तथा सद्धर्मम् आकर्ण्य प्रसादाद् अस्य सद्गुरोः ।
अत्कृत्य सर्वदा भद्रं न लाभेम कथं वयं ॥ र्म्_20.125{15} ॥
विशेषधर्मम् आज्ञाय दृष्टसत्याः समाहिताः ।
त्रिरत्नभजनं कृत्वा नूनं गछेम सद्गतिं ॥ र्म्_20.126{16} ॥
तद् अत्र सद्गुरोर् अस्य मुनीन्द्रस्याधुना वयं ।
सर्वे ऽपि श्रद्धयाभ्यर्च्य भजेमहि समादरात् ॥ र्म्_20.127{17} ॥
तत् साद्धर्मं समाकर्ण्य श्रद्धया समुपस्थिताः ।
त्रिरत्नभजनं कृत्वा चरेमहि शुभे सदा ॥ र्म्_20.128{18} ॥
तदादौ सुगतस्यास्य ससंघस्या ऽधुना वयं ।
यथार्हभोजनेनात्र पूजयेम प्रपुष्टये ॥ र्म्_20.129{18!} ॥
इति संभाषणां कृत्वा सर्वे ते प्रतिमोदिताः ।
तथेति संमतं कृत्वा तत्र बुद्धाश्रमे ययुः ॥ र्म्_20.130{19} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं तं प्रमोदिताः ।
सर्वसांजलयो नत्वा प्रार्थयन्न् एवम् आदरात् ॥ र्म्_20.131{20} ॥
भगवन् नाथ सर्वज्ञ भगवंतं ससंघिकं ।
पूजयितुं समिछामस् तन्न् अत्रानुग्रहं कुरु ॥ र्म्_20.132{21} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तेषां पुण्याभिसंवृद्ध्यै तूष्णीभूत्वाध्युवास तत् ॥ र्म्_20.133{22} ॥
तथाध्युवासितं मत्वा सर्वे ते परिहर्षिताः ।
पादौ तस्य मुनीन्द्रस्य नत्वा निजालयं ययुः ॥ र्म्_20.134{23} ॥
तत्र ते मुदिताः सर्वे दधिक्षीरोदनादिकं ।
यथार्हभोज्यसामग्रिं सहसा समसाधयन् ॥ र्म्_20.135{24} ॥
ततस् ते समये गत्वा तत्र बुद्धाश्रमे मुदा ।
ससांघिकं मुनीन्द्रं तं प्रणत्वैवं न्यवेदयन् ॥ र्म्_20.136{25} ॥
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना ।
तत् संघ भगवान् पूजां प्रतिग्रहितुम् अर्हति ॥ र्म्_20.137{26} ॥
इति तैः प्रार्थिते सर्वे भगवान् सससांघिकः ।
उत्थाय भोजनक्षेत्रे उपाचरान् प्रभासयन् ॥ र्म्_20.138{27} ॥
तत्र पाद्यं समादाय संबुद्धप्रमुखाः क्रमात् ।
सर्वे ते सांघिकास् तत्र स्वस्वासने समाश्रयन् ॥ र्म्_20.139{28} ॥
तां बुद्धप्रमुखान् सर्वान् सांघिकान् स्वासनाश्रितान् ।
दृष्ट्वा ते मुदिता सर्वे सामानर्चुर् यथाक्रमं ॥ र्म्_20.140{29} ॥
ततस् ते सुरसैर् भोज्यैः क्षीरोदनैः सव्यंजनैः ।
प्रणीतैर् भगवंतं तं ससंघं समतोषयन् ॥ र्म्_20.141{30} ॥
ततस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य ते ।
तत् पात्राण्य् अपनीयाशु तद् धस्तादि समशोधयन् ॥ र्म्_20.142{31} ॥
ततः सपूगताम्बुरामहौषधरसायनं ।
संबुद्धप्रमुखेभ्यस् ते संघेभ्यः प्रददुर् मुदा ॥ र्म्_20.143{32} ॥
ततस् ते महिषीपालाः कृतांजलिपूटा मुदा ।
श्रीघनं तं ससंघं च नत्वा समुपतस्थिरे ॥ र्म्_20.144{33} ॥
तथा तन् समुपासीनान् सर्वान् दृष्ट्वा स सर्ववित् ।
आर्यधर्मं समादिश्य बोधिमार्गे ऽभ्ययोजयत् ॥ र्म्_20.145{34} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते ऽभ्यनुमोदिताः ।
संबुद्धशासने तत्र प्रव्रजितुं समीक्षिरे ॥ र्म्_20.146{35} ॥
ततास् ते महिषीपालाः सर्वे कृत्वाभिसंमतं ।
कृतांजलिपुटा नत्वा प्रार्थयन् तं मुनीश्वरं ॥ र्म्_20.147{36} ॥
भागवं नाथ सर्वज्ञ भवतां शासने वयं ।
प्रव्रजितुं समिछामस् तन् नो ऽन्वाहर्तुम् अर्हति ॥ र्म्_20.148{37} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तान् विशुद्धाशयान् सर्वान् समालोक्यैवम् आदिशत् ॥ र्म्_20.149{38} ॥
मातापित्रोर् विनानुज्ञां प्रव्रज्यां न ददाम्य् अहं ।
तद् अनुज्ञां समादाय प्रेत दास्यामि वस् तदा ॥ र्म्_20.150{39} ॥
इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते प्रतिनंदिताः ।
तं मुनीन्द्रं प्रणत्वाशु स्वस्वगेहं ययुर् मुदा ॥ र्म्_20.151{40} ॥
तत्र ते सहसा गत्वा समातापितृवांधवान् ।
परिबोध्य प्रयत्नेन प्राप्यानुज्ञां समाचरं ॥ र्म्_20.152{41} ॥
तत्र ते सहसा गत्वा भगवत उपासृताः ।
पादौ सांजलयोर् नत्वा प्रार्थयन्न् एवम् आदरात् ॥ र्म्_20.153{42} ॥
भगवन् सर्ववित् पितृप्राप्तानुज्ञाः समागताः ।
तत्रानुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति ॥ र्म्_20.154{43} ॥
इति तैः प्रार्थिते शास्ता भगवान् सव्यपाणिना ।
तेषां शिरस् सुसंस्पृष्ट्वा समालोक्यैवम् आदिशत् ॥ र्म्_20.155{44} ॥
समेत भिक्षवः सर्वे यूयं श्रद्धासमंगिताः ।
प्रव्रज्याव्रतम् आधाय चरत ब्रह्मचारिकां ॥ र्म्_20.156{45} ॥
इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते मुण्डिता वभुः ।
खिक्खिरीपात्रधर्त्तारः काखायचीवरावृताः ॥ र्म्_20.157{46} ॥
ततः शस्तुः प्रसादेन सर्वे ते विमलाशयाः ।
प्रलब्धबोधिसच्चित्ताः शुद्धशीला जितेंद्रियाः ॥ र्म्_20.158{47} ॥
भित्वाविद्यागुणाः सम्यक् प्राप्तविद्याविशारदाः ।
प्रतिसंवित्सुसंप्राप्ताः सत्यमार्गसमन्विताः ॥ र्म्_20.159{48} ॥
समाधिधारणीविद्या घटमानाः समाहिताः ।
क्षमान्विताः शुभात्मानो योगिनो भिक्षवो ऽभवन् ॥ र्म्_20.160{49} ॥
ततस् ते सर्वसंसारं मत्वानित्यं चालाचलं ।
दृष्ट्वा च सर्वसंस्कारगतीर् अहिविघातिनीः ॥ र्म्_20.161{50} ॥
सर्वक्लेशगणान् हित्वा जित्वा मारगणान् अपि ।
साक्षाद् अर्हत्वम् आसाद्य प्रचेरुर् ब्रह्मचारिकाः ॥ र्म्_20.162{51} ॥
ततस् ते भिक्षवः सर्वे परिशुद्धत्रिमंडलाः ।
वीतसंगा महाभिज्ञा निर्विकल्पा निरंजनाः ॥ र्म्_20.163{52} ॥
समलोष्टकसौवर्णाः सत्कारलाभनिस्पृहाः ।
अकाशसमचित्ताङ्गा भवे लाभपराङ्मुखाः ॥ र्म्_20.164{53} ॥
देवासुरादि लोकानां त्रैधातुकनिवासिनां ।
पूज्या मान्याश् च वंद्याश् च बभूवुर् बोधिचारिणः ॥ र्म्_20.165{54} ॥
तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
भगवंतं मुनिं नत्वा पप्रच्बुस् तत् पुराकृतं ॥ र्म्_20.166{55} ॥
भगवन् कानि कर्माणि तेन महिषपूर्विणा ।
कृतानि देवपुत्रेण यैर् असौ महिषो ऽभवत् ॥ र्म्_20.167{56} ॥
एभिश् च महिषीपालैः किं कर्म प्रकृतैः पुरा ।
येनार्हत्वं समासाद्य भवंति ब्रह्मचारिणः ॥ र्म्_20.168{57} ॥
एतत् सर्वं समादिश्य भवाञ् छास्तात्र सांप्रतं ।
अस्माकं अपि चेतांसि प्रबोधयितुम् अर्हति ॥ र्म्_20.169{58} ॥
इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् सर्वान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ र्म्_20.170{59} ॥
शृणुत भिक्षवः सर्वे तेन महिषपूर्विणा ।
पुरा कृतानि कर्माणि तानि वक्ष्यामि सांप्रतं ॥ र्म्_20.171{60} ॥
एभिश् च महिषिपालैः पुरा यानि कृतान्य् अपि ।
तानि सर्वाणि कर्माणि वक्ष्यामि च तथा ऽधुना ॥ र्म्_20.172{61} ॥
तद्यथाभूत् पुरा बुद्धः काश्यपो ऽर्हन्स् तथागतः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायाकः ॥ र्म्_20.173{62} ॥
भगवान् स तदा पूर्य्यां वराणस्या उपाश्रमे ।
मृगदावे समाश्रित्य विजहार ससांघिकः ॥ र्म्_20.174{63} ॥
तदा तस्य मुनीन्द्रस्य शासने त्रिपिटो यतिः ।
भिक्षुर् एको महाविज्ञो निश्चयार्थविशारदः ॥ र्म्_20.175{64} ॥
तदैकसमये भिक्षुपंचशतैः पुरस्कृतः ।
स सभायां समासीनः सद्धर्मं समुपादिशत् ॥ र्म्_20.176{65} ॥
तस्य ते भिक्षवः शिक्षाः शैक्षाश् च संश्चयान्विताः ।
त्रिपिटार्थं परिज्ञातुं पप्रछुस् तं गुरुं मुहुः ॥ र्म्_20.177{66} ॥
एवं तैर् भिक्षुभिः पृष्टे स गुरुः प्रतिरोषितः ।
तान् सर्वाञ् छ्रावकाञ् छिष्याञ् छैक्षांश् च पर्यभाषत ॥ र्म्_20.178{67} ॥
ततस् ते श्रावकाः सर्वे दृष्ट्वा तं रुषितं गुरुं ।
प्रणत्वा विनयं कृत्वा पुनर् एवम् अभासिरे ॥ र्म्_20.179{68} ॥
भवन्त मा कृथा रोषं प्रसीदस्व कृपानिधे ।
व्याख्यातं भवता सम्यक् तद् अस्माभि न बुध्यते ॥ र्म्_20.180{69} ॥
तद् भूयो ऽपि भवान् एतदर्थं सम्यक् सुविस्तरं ।
अस्मच् चेतं प्रबोधार्थं समुपादेष्टुम् अर्हति ॥ र्म्_20.181{70} ॥
इति तैः प्रार्थिते भूयस् त्रिपिटः सो ऽतिरोषितः ।
तथा ताञ् छ्रावकान् सर्वान् परिभाष्यैवम् अब्रवीत् ॥ र्म्_20.182{71} ॥
अरे रे महिषा यूयं तत् किं जानीथ मद्वचः ।
तद् भूयः किं प्रवक्ष्यामि यच् छ्रुत्वापि न बुध्यते ॥ र्म्_20.183{72} ॥
इति तेनोदितं श्रुत्वा सर्वे ते परिरोषिताः ।
तं गुरुं यतिम् अर्हन्तम् अपि प्रत्यवदस् तथा ॥ र्म्_20.184{73} ॥
यद् वयं महिषाः सर्वे तद् भवान् महिषाधिपः ।
यद् अस्माकं यथा शास्त तथा भवतु पालकः ॥ र्म्_20.185{74} ॥
इति तैः श्रावकैः सर्वैः शिक्षैः शैक्षं च रोषितैः ।
सद्गुरोर् अन्तिके कोपाद् यत् खलं प्रतिभाषितं ॥ र्म्_20.186{75} ॥
एतत् पापाभिशंकार्त्ताः पश्चात्तापाभितापिनः ।
तम् अर्हन्तं गुरुं नत्वा पुनर् एवं वभाषिरे ॥ र्म्_20.187{76} ॥
अहो मूढा वयं सर्वे यत् कोपात् सद्गुरोर् अपि ।
प्रत्याख्याय वयो ऽस्माभिः प्रत्युत्तरं प्रदीयते ॥ र्म्_20.188{77} ॥
तद् एतत् पातकं घोरं कथं वयं शहेमहि ।
तद् भवान् कृपयास्माकं क्षंतुम् अर्हति सर्वथा ॥ र्म्_20.189{78} ॥
तथा जन्मांतरे चापि भवन्तम् एव सद्गुरुं ।
कल्याणमित्रम् आसाद्य प्राप्नुयाम सुसंवरं ॥ र्म्_20.190{79} ॥
इति संप्रार्थनां कृत्वा सर्वे ते भिक्षवस् तथा ।
तस्य गुरोर् उपाश्रित्य धर्मं श्रुत्वाभजन् सदा ॥ र्म्_20.191{80} ॥
ततस् ते समये सर्वे श्रावकास् त्रिपिटो ऽपि सः ।
कालं गताः पुनर् जन्म लेहिरे दुर्गतौ ततः ॥ र्म्_20.192{81} ॥
खलवाक्कर्मपाकेन पंचजन्मशतान्य् अपि ।
स त्रिपिटपतिः शास्ता महिषो ऽयं सभाभवत् ॥ र्म्_20.193{82} ॥
सर्वे ते श्रावकाश् चापि यथा वाक्कर्मदोषतः ।
तथेमे महिषीपला वभूवुः सर्वदा भवे ॥ र्म्_20.194{83} ॥
अत्रापि महिषो दुष्टस् त्रिपिटो ऽसौ भवत्य् अपि ।
इमे ऽपि महिषीपाला भवन्ति भिक्षवो ऽपि ते ॥ र्म्_20.195{84} ॥
यच् चायं महिषो ऽप्य् अत्र काश्यपकृतपुण्यतः ।
दृष्ट्वा मां सुप्रसन्नात्मा नत्वा मे शरणं गतः ॥ र्म्_20.196{85} ॥
एतत्पुण्यविपाकेन देवपुत्रो भवत्य् अयं ।
आर्यसत्यं समासाद्य दृष्टसत्यो सुधीर् अपि ॥ र्म्_20.197{86} ॥
इमे ऽपि महिषीपालाः काश्यपपुण्यपाकातः ।
प्रव्रज्यार्हत्वम् आसाद्य भवन्ति ब्रह्मचारिणः ॥ र्म्_20.198{87} ॥
एवं कर्मविपाकैर् हि सर्वे ऽपि जन्तवो भवे ।
सुखदुःखानि भुंजाना भ्रमन्ति भवचारके ॥ र्म्_20.199{88} ॥
नाग्निभिर् दह्यते कर्मं वायुभिर् वा न शुष्यते ।
क्लिद्यते नोदकैश् चापि क्षीयते नापि भूमिषु ॥ र्म्_20.200{89} ॥
अभुक्तं क्षीयते नैव कर्मं क्वापि कथं चन ।
सर्वत्रापि भवेन् नैव कर्मणो गतिर् अन्यथा ॥ र्म्_20.201{90} ॥
शुभस्य कर्मणः पाके शुभतैव सदा भवे ।
तथा कृष्णस्य पाके च दुःखतैव सदा भवे ॥ र्म्_20.202{91} ॥
मिश्रितानां तथा पाके मिश्रितानि फलान्य् अपि ।
एवं मत्वा शुभेष्व् एव चरितव्यं सदा भवे ॥ र्म्_20.203{92} ॥
येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं ।
अवश्यं परिबोक्तव्यं संसारे कर्मणः फलं ॥ र्म्_20.204{93} ॥
न नस्यंति हि कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ॥ र्म्_20.205{94} ॥
इति मत्वात्र संसारे त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजध्वं सर्वथादरात् ॥ र्म्_20.206{95} ॥
ये भजंति सदा नित्यं त्रिरत्नं शरणं गताः ।
दुर्गतिं ते न गछंति यान्त्य् एव सद्गतिं सदा ॥ र्म्_20.207{96} ॥
इत्य् आदिष्टैः मुनीन्द्रेण श्रुत्वा ते संघिका मुदा ।
सर्वे लोकाश् च सत्कृत्य त्रिरत्नं सर्वदाभजं ॥ र्म्_20.208{97} ॥
एतन् मे गुरुणाख्यातं तथा मयोच्यते ऽधुना ।
त्वयाप्य् एवं महाराज चरितव्यं सदा शुभे ॥ र्म्_20.209{98} ॥
प्रजाश् चापि सदा धार्मं श्रावायित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ र्म्_20.210{99} ॥
तथा ते मंगलम् नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_20.211{100} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति ऽभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_20.212{1} ॥
इदं नरा ये महिषावादानं शृण्वंति ये चपि निशामयंति सुखानि भुक्त्वा खलु ते ऽत्र सर्वे सम्यांति नूनं सुगतालयं ते ॥ र्म्_20.213{2} ॥
++ इत्य् अवदानतत्वे महिषावदानं समाप्तम् ++
xxइ नाविकावदान
अथाशोको महिनाथ उपगुप्तं यतिं गुरुं ।
कृतांजलिपुटो नत्वा पुनर् एवम् अभाषत ॥ र्म्_21.1{1} ॥
भदंत श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_21.2{2} ॥
संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैयम् अब्रवीत् ॥ र्म्_21.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ र्म्_21.4{4} ॥
पुरैकसमये बुद्धो भगवान् स मुनीश्वरः ।
सर्वज्ञः सुगतः शस्ता धर्मराजो विनायकः ॥ र्म्_21.5{5} ॥
ससंघो हासयन् तत्र मगधे चारिकां चरन् ।
सर्वत्र भद्रतां कृत्वा गंगातीरम् उपाश्रयन् ॥ र्म्_21.6{6} ॥
तत्र स भगवान् सर्वै भिक्षुसंघैः पुरस्कृतः ।
सभामध्यासनासीनो धर्मम् आदेष्टुम् ऐछत ॥ र्म्_21.7{7} ॥
तत् सद्धर्मामृतं पातुं सर्वलोकास् तदागताः ।
ब्रह्मशक्रादयो देवा लोकपाला गणादयः ॥ र्म्_21.8{8} ॥
दैत्येंद्रो गरुडा नागा यक्षगंधर्वकिंनराः ।
सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः ॥ र्म्_21.9{9} ॥
ऋषयो ब्राह्मणाश् चापि योगिनो यतयो ऽपि च ।
राजानः क्षत्रिया भूपा राजपुत्राश् च तीर्थिकः ॥ र्म्_21.10{10} ॥
वैश्याश् चा मंत्रिणो ऽमात्याः श्रेष्ठिनः पौरिकाः प्रजाः ।
गृहस्थाः साधवो भद्राः सार्थवाहमहाजनाः ॥ र्म्_21.11{11} ॥
वणिजाः शिल्पिनश् चापि ग्राम्या जानपदा अपि ।
तथान्ये ऽपि समायाताः सद्धर्मश्रवणार्थिनः ॥ र्म्_21.12{12} ॥
तत्र ते समुपायाता दृष्ट्वा तं श्रीघनं मुदा ।
नत्वा प्रदक्षिणीकृत्य समानर्चुर् यथाक्रमं ॥ र्म्_21.13{13} ॥
ततः सर्वे ऽपि ते लोकाः परिवृत्य समंततः ।
समाहिताः समुद्वीक्ष्य धर्मं श्रोतुं समाश्रयन् ॥ र्म्_21.14{14} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_21.15{15} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
धर्माविशेषम् आज्ञाय त्रिरत्नं प्राभजन् सदा ॥ र्म्_21.16{16} ॥
ततः स भगवान् दृष्ट्वा सर्वाल् लोकाञ् छुभाश्रितान् ।
तथान्यत्र शुभं कर्तुं गंगातीरम् उपाचरत् ॥ र्म्_21.17{17} ॥
ससंघो भगावंस् तत्र गंगातीर उपासृतः ।
नविकान् समुपाहूय समालोक्यैवम् अब्रवीत् ॥ र्म्_21.18{18} ॥
नाविका गन्तुम् इछामि गंगापारम् इतो ऽधुना ।
तन् माम् इमां नदीं गंगां समुत्तारयत द्रुतं ॥ र्म्_21.19{19} ॥
इति तत् प्रार्थितं श्रुत्वा सर्वे ते नाविका अपि ॥ र्म्_21.20{20} ॥
ससांघिकं मुनीन्द्रं तन् अनादृत्यैवम् अब्रुवन् ।
तरपण्यं विनास्माभिः कश्चि दिशा न तारितः ॥ र्म्_21.21{21} ॥
यदीछति भवान्स् तर्त्तुं तरपण्यं प्रयछतु ।
इति तैर् भाषितं श्रुत्वा भगवान् स मुनीश्वरः ॥ र्म्_21.22{22} ॥
तान् सर्वान् नाविकान् दृष्ट्वा पुनर् एवम् अभाषत ।
अहम् अपि भवंतो ऽत्र नाविको ऽस्मि ति मन्यतां ॥ र्म्_21.23{23} ॥
मया हि तारितो नंदो महारागनदीकृतः पुरा ।
द्वेषाब्धिपतितो दुष्टो ऽङ्गुलिमालो ऽपि तारितः ॥ र्म्_21.24{24} ॥
मानवो मानकूपारपतितस् तारितो मया ।
मोहोदधिनिमग्नश् चोरुविल्वीकाश्यपस् तथा ॥ र्म्_21.25{25} ॥
एवम् अन्ये ऽपि लोकाश् च क्लेशाब्धे तारिता मया ।
कस्य चिद् अपि सत्वस्य तरपण्यं न किं चन ॥ र्म्_21.26{26} ॥
गृह्यते याच्यते नापि मया क्वापि कदा चन ।
तथा यूयम् अपीहास्मान् सर्वान् भिक्षून् निमांदकी ॥ र्म्_21.27{27} ॥
अगाढां सहसा तार्य पारे नयतुम् अर्हथ ।
एवं तेन मुनीन्द्रेण प्रार्थिते ऽपि न के चन ॥ र्म्_21.28{28} ॥
नाविकास् ते मुनीन्द्रं तं तारयितुं समीछिरे ।
अत्र कश्चित् सुधीः साधुर् नाविकस् तं मुनीश्वरं ॥ र्म्_21.29{29} ॥
महाभिज्ञं परिज्ञाय नत्वोवाच कृतांजलिः ।
भगवन् नाथ सर्वज्ञ भवन्तं सर्वसांघिकान् ॥ र्म्_21.30{30} ॥
अप्य् अहं तारयिष्यामि तत् प्रसीदतु मे सदा ।
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ॥ र्म्_21.31{31} ॥
सर्वान्स् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ।
भिक्षवो नावम् आरुह्य यूयं सर्वे समाहिताः ॥ र्म्_21.32{32} ॥
इमां गंगां समुत्तीर्य तिष्ठत तीरम् आश्रिताः ।
इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते भिक्षुसंघिकाः ॥ र्म्_21.33{33} ॥
सहसा नावम् आरुह्य संनिषेदुः समाहिताः ।
तदा स नाविको दृष्ट्वा सर्वान् नौकासमाश्रितान् ॥ र्म्_21.34{34} ॥
तां नावं सहसा गंगामध्ये संप्रापयन् क्रमात् ।
तदा स भगवान्न् ऋद्ध्या विहायसा स्वयं चरन् ॥ र्म्_21.35{35} ॥
तद् अग्रतः समुत्तीर्य तीरभूमौ समाश्रयन् ।
तद् दृष्ट्वा नाविका सर्वे ते सलोकाः सविस्मयाः ।
पश्चात्तापाग्निसंतप्ताः पश्यन्त एव तस्थिरे ॥ र्म्_21.36{36} ॥
सो ऽपि च नावीको दृष्ट्वा तं मुनीन्द्रं विहायसा ।
सहसा तीरम् आसद्य स्थितं पश्यन् न्यषीदत् ॥ र्म्_21.37{37} ॥
ततः सा निश्चरा नौका स्तम्भितैव जलाश्रिता ।
तद् दृष्ट्वा नाविकः सो ऽतिविस्मयाकुलतो ऽभवत् ॥ र्म्_21.38{38} ॥
ततस् तैः श्रीघनं तीरसमासीनं स नाविकः ।
दृष्ट्वा तत् स्मृतिम् आधाय प्रणनाम कृतांजलिः ॥ र्म्_21.39{39} ॥
ततः सासंचरा नौका वायुसंप्रेरिता द्रुतं ।
सहसा तीरम् आसाद्य तस्थौ तत्र सुनिश्चरा ॥ र्म्_21.40{40} ॥
ततस् ते भिक्षवः सर्वे समुत्तीर्य वहित्रतः ।
सहसा तीरम् आगत्य संबुद्धान्तिकम् आययुः ॥ र्म्_21.41{41} ॥
तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपागतान् ।
सद्धर्मं समुपादेष्टुं तस्थौ सभासनाश्रितः ॥ र्म्_21.42{42} ॥
ततः स नाविकश् चापि दृष्ट्वा तं श्रीघनं मुनिं ।
भिक्षुसंघसभासीनं प्रणतुं समुपाचरन् ॥ र्म्_21.43{43} ॥
तत्र स साञ्जलिर् नत्वा सर्वान् तन् सांघिकान् क्रमात् ।
पादाम्बुजौ मुनीन्द्रस्य प्रणनाम प्रमोदितः ॥ र्म्_21.44{44} ॥
तत्र ते नाविकाश् चापि सर्वे ते विस्मयान्विताः ।
तद् धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ र्म्_21.45{45} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं संप्रमोदिताः ।
नत्वा प्रदक्षिणीकृत्य समुपतस्थुर् आदरात् ॥ र्म्_21.46{46} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_21.47{47} ॥
तत् अद्धर्मामृतं पीत्वा नाविकः संप्रमोदितः ।
विज्ञाय धर्मवैशेष्यं सद्धर्माभिरतो भवेत् ॥ र्म्_21.48{48} ॥
ततः सत्कायभूमीन्ध्रं विंशतिशिखरोद्गतं ।
निर्भिद्य ज्ञानवज्रेण धर्मदृष्टि समाप्तवान् ॥ र्म्_21.49{49} ॥
ततः स श्रोतआपत्तिफलप्राप्तः प्रसन्नधीः ।
तं मुनीन्द्रं समालोक्य त्रिर् उदानम् उदानयत् ॥ र्म्_21.50{50} ॥
भगवन् यत् मया प्राप्तं धर्मचक्षुः सुनिर्मलं ।
शान्तं पदम् आर्यकान्तं तीर्णश् चापि भवार्णवः ॥ र्म्_21.51{51} ॥
सत्कायदृष्टिशैलाश् च लंघिताः सांप्रतं मया ।
पिहितो पापमार्गो मे स्वर्गमार्गः प्रकाशितः ॥ र्म्_21.52{52} ॥
मोक्षमार्गो ऽपि संप्राप्तो भवतां कृपया ऽधुना ।
तथा भवान् सदा नित्यं मां परित्रातुम् अर्हति ॥ र्म्_21.53{53} ॥
एवं हि न कृतं मात्रा नापि पित्रा कृतं मम ।
न सुहृदिष्टमित्रैश् च वांधवैः स्वजनैर् अपि ॥ र्म्_21.54{54} ॥
श्रमणैर् ब्राह्मणैश् चापि गुरुभिश् च न वा नृपैः ।
तथान्यैश् च महाविज्ञैर् न कृतम् आर्यदेशनां ॥ र्म्_21.55{55} ॥
भवतैव कृतं नाथ सत्यमार्गोपदेशनां ।
तदार्यसत्यसंप्राप्त आर्यमार्गं लभाम्य् अहं ॥ र्म्_21.56{56} ॥
अद्य मे सफलं जन्म बुद्धपुत्रो ऽस्मि सांप्रतं ।
इत्य् उक्त्वा स मुनीन्द्रं तं प्रणत्वा प्राभ्यनंदत ॥ र्म्_21.57{57} ॥
ततः स नाविकस् तत्र त्रिरत्नं शरणं गतः ।
सत्कृत्य समुपाश्रित्य प्राभजन् सर्वदा मुदा ॥ र्म्_21.58{58} ॥
तत् समीक्ष्य परश् चापि नाविको ऽत्यनुतापितः ।
तत्र तस्य मुनीन्द्रस्य सत्कारं कर्तुम् ऐछत ॥ र्म्_21.59{59} ॥
ततः स नाविकस् तत्र समुत्थायानुमोदितः ।
भगवंतं प्रणत्वैव संप्रबोधयत् कृतांजलिः ॥ र्म्_21.60{60} ॥
भगवन् यन् मया लोभप्रलुप्तधर्मचेतसा ।
तरपण्यं विना गंगां तारितो न भवान् अपि ॥ र्म्_21.61{61} ॥
तन् महान् अपराधो मे भवत्य् अत्राहि जायते ।
तत् क्षमतां जगन्नाथ क्षमारत्नाकरो भवान् ॥ र्म्_21.62{62} ॥
यच् चात्र भवतां पूजां कर्तुम् इछामि सांप्रतं ।
तान् ममानुग्रहं कृत्वा प्रतिग्रहीतुम् अर्हति ॥ र्म्_21.63{63} ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः ।
तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ र्म्_21.64{64} ॥
तथाधिवाशितं शास्त्रा नाविकः संप्रमोदितः ।
स पूजाभोज्यसामाग्रीम् सहसा समसाधय ॥ र्म्_21.65{65} ॥
ततः स भगवंतं तं ससांघिकं यथाक्रमं ।
अभ्यर्च्य सुरसैः शुद्धैर् भोजनैः समतोषयत् ॥ र्म्_21.66{66} ॥
ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि ।
तद् भोज्यं सुरसं भुक्त्वा समातृप्तिं समाययुः ॥ र्म्_21.67{67} ॥
ततः स नाविको दृष्ट्वा तृप्तं मुनिं ससांघिकं ।
अपनीयाशु पात्राणि तद् धस्तादि व्यशोधयत् ॥ र्म्_21.68{68} ॥
ततः पूगादि तांबूलमहौषधरसायनं ।
दत्वा स नाविकस् तत्र सांजलिः प्रार्थयत् क्षमां ॥ र्म्_21.69{69} ॥
ततः स सांजलिर् नत्वा ससंघं तं मुनीश्वरं ।
बोधिचित्तं समालम्व्य तत् पुरः समुपाश्रयत् ॥ र्म्_21.70{70} ॥
ततः स भगवांस् तस्य नाविकस्य मनोगतं ।
बोध्यभिलाषम् आलोक्य तदा स्मितं व्यमुंचत ॥ र्म्_21.71{71} ॥
ततस् तस्य मुनींद्रस्य नानावर्णा मरीचयः ।
मुखपद्माद् विनिर्याताः प्रसेरुर् भुवनत्रये ॥ र्म्_21.72{72} ॥
या अधस्ताद् गतास् तत्र नरकेषु समंततः ।
ताः सौम्या रश्मयः सर्वाः प्रसृत्य समहासयन् ॥ र्म्_21.73{73} ॥
तत्र ताभिः परिस्पृष्टाः सर्वे ते नरकाश्रिताः ।
महत् सौख्यं समासाद्य विस्मिता एवम् अब्रुवन् ॥ र्म्_21.74{74} ॥
अहो चित्रं महत् सौख्यम् अधुना जायते कथं ।
कुतश् चेयं प्रभा जाता कस्य चेह समागताः ॥ र्म्_21.75{75} ॥
यत् प्रभाभिः परिस्पृष्टा वयं सौख्यसमन्विताः ।
सर्वे दुःखाभिनिर्मुक्तास् तद् इदं महद् अद्भुतं ॥ र्म्_21.76{76} ॥
किं नु च्युता इतो ऽहो स्विद् अन्यत्रोपगता वयं ।
यन् नो दुःखानि शांयंते जायंते ससुखान्य् अपि ॥ र्म्_21.77{77} ॥
इति चिंतासमाक्रान्तहृदयास् ते सविस्मयाः ।
षर्वे ऽप्य् एकत्र संमील्य भाषंत उपतस्थिरे ॥ र्म्_21.78{78} ॥
एवं सर्वे ऽपि ते सत्वाः सर्वत्र नरकेष्व् अपि ।
निर्दुःखा सुखसंपन्ना उपतस्थुः सविस्मयाः ॥ र्म्_21.79{79} ॥
तदा तेषां प्रबोधार्थं निर्माय भगवान् मुनिं ।
प्रत्येकं नराकेष्व् एवं सर्वत्रापि व्यसर्जयत् ॥ र्म्_21.80{80} ॥
तं बुद्धं निर्मितं दृष्ट्वा सार्वे ते नरकाश्रिताः ।
भूयो ऽतिविस्मयाक्रांतहृदयाश् चैवं अब्रुवन् ॥ र्म्_21.81{81} ॥
न ह्य् एवेतच् च्युतास् सर्वे नाप्य् आन्यत्र गता वयं ।
इहैव नरके स्थाने स्थिताः सर्वे वयं खलु ॥ र्म्_21.82{82} ॥
यद् इहायं समायातः पुरुषो पूर्वदर्शनः ।
नूनं अस्य प्रभाकान्तिर् इयम् अत्राभिप्रसृता ॥ र्म्_21.83{83} ॥
तद् अस्माकं हि दुःखानि प्रशान्तां समंततः ।
महत्सौख्यानि जयन्ते नूनम् अस्यानूभावतः ॥ र्म्_21.84{84} ॥
अयं हि सुगतो बुद्धः सर्वसत्वानुकंपकः ।
सर्वान् नो दुःखितान् दृष्ट्वा समुद्धर्तुम् इहागतः ॥ र्म्_21.85{85} ॥
तद् अस्य शरणं गत्वा वयं सर्वे समादरात् ।
सत्कृत्य श्रद्धया नत्वा यथाशक्ति भजेमहि ॥ र्म्_21.86{86} ॥
इति संभाष्य ते सर्वे नारकीयास् तथा मुदा ।
सहसा तं पुरोगत्वा प्रणत्वैवं वभाषिरे ॥ र्म्_21.87{87} ॥
नमस् ते भगवन् नाथ शरणं ते व्रजामहे ।
एवम् अस्मान् सदा दृष्ट्वा कृपया त्रातुम् अर्हसि ॥ र्म्_21.88{88} ॥
इति संप्रार्थनां कृत्वा सर्वे ते प्रतिमोदिताः ।
तस्यैव शरणं कृत्वा प्रभेजिरे समाहिताः ॥ र्म्_21.89{89} ॥
एतत्पुण्यपरीतास् ते सर्वे विमुक्तपापकाः ।
नरकेभ्यः समुत्थाय सहसा सद्गतिं ययुः ॥ र्म्_21.90{90} ॥
एवं ता रस्मयः सर्वा नरकेभ्यः समंततः ।
सर्वान् सत्वान् संउद्धृत्य प्रत्याययुर् मुनेः पुरः ॥ र्म्_21.91{91} ॥
याश् चाप्य् उर्द्धगताभासप्रसृताः ताः समंततः ।
अवभास्य दिशः सर्वान् समहाराजिकालयाः ॥ र्म्_21.92{92} ॥
सर्वान् देवालयान् यावद् अकनिष्ठं भवालयं ।
अवभास्यमरान् सर्वान् गाथाभिः समचोदयत् ॥ र्म्_21.93{93} ॥
अनित्यं खलु संसारे सर्वं शून्यम् अनात्मकं ।
इति मत्वात्र संसारे चरत सर्वदा शुभे ॥ र्म्_21.94{94} ॥
निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि नडागारम् इव द्विपः ॥ र्म्_21.95{95} ॥
यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_21.96{96} ॥
इति तच् छब्दम् आकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ र्म्_21.97{97} ॥
एवं ता रस्मयः सर्वाः सर्वान् देवान् समंततः ।
चोदयित्वा ततस् तत्र प्रत्याययुर् मुनेः पुरः ॥ र्म्_21.98{98} ॥
तत्र ता रस्मयः सर्वा एकीभूता सुपिण्डिताः ।
मुनेः प्रदक्षिणीकृत्य भ्रुमध्ये ऽन्तर्हितो ऽभवत् ॥ र्म्_21.99{99} ॥
तद् दृष्ट्वा ते सांघिकाः सर्वे लोकाश् चान्ये ऽपि विस्मिताः ।
शास्ता किम् आदिशेद् धार्मम् इति ध्यात्वा निषेदिरे ॥ र्म्_21.100{100} ॥
तदानंदः समुत्थाय शास्तारं तं मुनीश्वरं ।
कृतांजलिपुटो नत्वा पप्रछैवं पुरः स्थितः ॥ र्म्_21.101{1} ॥
भगवन् नाथ सर्वज्ञ भवद्वक्त्रात् सुधाकरात् ।
नाना वर्णाः प्रभाः कांता विनिःसृत्य प्रसारिताः ॥ र्म्_21.102{2} ॥
सर्वांस् त्रैधातुकान्न् अवभास्य समंततः ।
पुनः प्रत्यागाताः सर्वा एकीभूता सुपिंडिता ॥ र्म्_21.103{3} ॥
तव प्रदक्षिणीकृत्य भ्रुमध्ये प्रविसंति ताः ।
नाहेतुप्रत्यये बुद्धा दर्शयन्ति स्मितं क्वचित् ॥ र्म्_21.104{4} ॥
तद् भवान् हेतुना केन स्मितं मुंचसि सांप्रतं ।
यद् दृष्ट्वा सांघिकः सर्वे इमे लोकाश् च विस्मिताः ॥ र्म्_21.105{5} ॥
शास्ता किम् आदिशेद् धर्मम् इति संदिग्धमानसाः ।
कुतूहलसमाक्रांतहृदयाः सद्गुणार्थिनः ॥ र्म्_21.106{6} ॥
त्वत्सद्धर्मामृतं पातुम् इछन्ति तृषिता इव ।
यदर्थे ऽत्र भवान् स्मितं दर्शयति सरस्मिकं ॥ र्म्_21.107{7} ॥
तदर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय ।
इत्य् आनंदवच श्रुत्वा भगवान् स मुनीश्वरः ।
तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_21.108{8} ॥
एवम् एतत् तथानंद नाहेतुप्रत्ययं क्वचित् ।
संबुद्धाः सुगताः सर्वे प्रविकुर्वन्ति संस्मितं ॥ र्म्_21.109{9} ॥
यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं ।
तदर्थं समुपाख्यामि शृणुत यूयम् आदरात् ॥ र्म्_21.110{10} ॥
यद् अनेन सतानंद नाविकेन प्रसादिना ।
ससंघो ऽहं समभ्यर्च्य वंदितो बोधिचेतासा ॥ र्म्_21.111{11} ॥
अनेन कुशलेनायं नाविको ऽपि भविष्यति ।
संसारोत्तरणो नाम प्रत्येकबुद्ध आत्मवित् ॥ र्म्_21.112{12} ॥
एवं मत्वा महत्पुण्यं त्रिरत्नं सत्कृतोद्भवं ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ र्म्_21.113{13} ॥
त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ।
व्रतपुण्यविपाकेन संबुद्धपदम् आप्नुयात् ॥ र्म्_21.114{14} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
तथेत्य् अभ्यनुमोदित्वा त्रिरत्नं सर्वदाभजेत् ॥ र्म्_21.115{15} ॥
एवं शास्त्रा मुनीन्द्रेण व्याकृतम् आत्मनस् तदा ।
श्रुत्वा स नाविको बुद्धः प्राभ्यनंदत् प्रसादितः ॥ र्म्_21.116{16} ॥
तदारभ्य सदा नित्यं नाविकः संप्रमोदितः ।
त्रिरत्नशरणं कृत्वा सत्कृत्य श्रद्धयाभजत् ॥ र्म्_21.117{17} ॥
सर्वे लोकाश् च तद् दृष्ट्वा सद्धर्मगुणवांछिनः ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं प्राभजन् मुदा ॥ र्म्_21.118{18} ॥
ततश् च स जगच्छास्ता भगवान् सह सांघिकैः ।
तथान्यत्र शुभं कर्तुं प्रतस्थे सांप्रभासयन् ॥ र्म्_21.119{19} ॥
इति मे गुरुणादिष्टं मया प्रचक्ष्यते तव ।
तथात्र त्वं महाराज त्रिरत्नं सर्वदा भज ॥ र्म्_21.120{20} ॥
प्रजाश् चापि तथा धर्मे बोधयित्वा प्रसादयन् ।
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ र्म्_21.121{21} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_21.122{22} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ र्म्_21.123{23} ॥
यच् छास्त्राख्यातं तथेदं यतिवरकथितं नाविकस्यावदानं
शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः ।
ते सर्वे शुद्धभावा जिनगुणरूचनो बोधिचर्या चरन्ते ।
भुक्त्वा सौख्यानि नित्यं मुनिवरनिलये संप्रयान्ति प्रमोदं ॥ र्म्_21.124{24} ॥
++ इत्य् अवदानतत्वे नाविकावदानं समप्तम् ++
xxइइ गन्धमादनावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा प्रार्थयच् चैवम् आदरात् ॥ र्म्_22.1{1} ॥
भदंत श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_22.2{2} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
तम् अशोकम् महीपालं समालोक्यैवम् आदिशत् ॥ र्म्_22.3{3} ॥
साधु शृणु महाराज यथा मे गुरुभाषितं ।
तथाहं संप्रवक्ष्यामि तव पुण्यविवृद्धये ॥ र्म्_22.4{4} ॥
पुरैकस्मिन् दिने तत्र राजगृहे ससांघिकः ।
भगवान् स जगन्नाथः पिण्डार्थं समुपाविशत् ॥ र्म्_22.5{5} ॥
तदा राजगृहे तत्र गृहपतेः सुतो महान् ।
तस्यैका दासिका भद्रा सत्यधर्मानुचारिणी ॥ र्म्_22.6{6} ॥
सा स्वाम्यङ्गानुलेपार्थं लोहितचंदनं तदा ।
सुरभिगणसंयुक्तं पिपेष प्रस्तरे मुदा ॥ र्म्_22.7{7} ॥
तस्मिन्न् एव क्षणे तत्र स संबुद्धः ससांघिकः ।
भासयं मंगलं कृत्वा तद् गृहं निकषाचरत् ॥ र्म्_22.8{8} ॥
तथायातं मुनीन्द्रं तं श्रुत्वा सा दारिका मुदा ।
सहसा निर्गता गेहात् तत्र द्रष्टुम् उपाचरन् ॥ र्म्_22.9{9} ॥
तत्र सा समुपागत्य प्राद्राक्षीत् तं मुनीश्वरं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितं ॥ र्म्_22.10{10} ॥
शतसूर्याधिकाभासं शतचंद्रामृतप्रभं ।
व्यामप्रभासमुज्वालं रत्नांगम् इव जंगमं ॥ र्म्_22.11{11} ॥
दृष्ट्वा सा दासिका तत्र मुदिता विस्मयान्विता ।
सुचिरं तं समालोक्य तस्थौ निश्चलमानसी ॥ र्म्_22.12{12} ॥
तत्र सा सुचिरं दृष्ट्वा दासिकाभिप्रमोदिता ।
सत्कारं कर्त्तुम् इछन्ती शास्तुर् एवं व्यचिंतयत् ॥ र्म्_22.13{13} ॥
अहो भाग्यं मुनीन्द्रो ऽयं दृश्यते यन् मयाधुना ।
तद् अस्य किं भजिष्यामि दरिद्रा प्रेषिका ह्य् अहं ॥ र्म्_22.14{14} ॥
कुत्र वा द्रक्ष्यते भूयो मुनीन्द्रो ऽयं जगद्गुरुः ।
धिग् मे जन्मापि येनात्र किं चित् पुण्यं न साध्यते ॥ र्म्_22.15{15} ॥
किं ममानेन देहेन येनेदृशं मुनीश्वरं ।
प्राप्य किं चित् प्रदत्वापि पुण्यं प्राप्तुं न शक्यते ॥ र्म्_22.16{16} ॥
अनेन जीवितेनापि किं ममात्र प्रयोजनं ।
येन दुःखानि भुक्त्वैव किं चित् पुण्यं न साध्यते ॥ र्म्_22.17{17} ॥
पुण्यं विनात्र संसारे सौख्यं प्राप्तुं कथं कुह ।
तत् पुण्यं प्राप्यते केन विना दानव्रतः क्वचित् ॥ र्म्_22.18{18} ॥
किं चात्र दास्यते दानं किं चिद् द्रव्यं न मे गृहे ।
व्रतं वा किं करिष्यामि पराधीना हि दासिका ॥ र्म्_22.19{19} ॥
तद् अत्र किं सुखं लप्स्ये किं चिद् दानं व्रतं विना ।
सर्वथाहं विनष्टा स्यां को मां रक्षेद् भवान्तरे ॥ र्म्_22.20{20} ॥
पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा ।
इति हेतोः प्रकर्त्तव्यं दानं किं चिद् अपि व्रतं ॥ र्म्_22.21{21} ॥
तर्ह्य् एतद् विद्यते हस्ते लोहितचंदनं मम ।
एतेनापि मुनीन्द्रस्य भजेयं चरणाम्बुजौ ॥ र्म्_22.22{22} ॥
इति ध्यात्वा विनिश्चित्य दरिका सा प्रसादिता ।
सहसा स्वगृहं गत्वा तच् चंदनं समाग्रहीत् ॥ र्म्_22.23{23} ॥
तच् चंदनं समादाय दासिका सा व्यचिन्तयत् ।
यद् इदं स्वामिनो द्रव्यं तद् अनुज्ञां विना कथं ॥ र्म्_22.24{24} ॥
यदि स्वामि विजानाति तदा मे कुपितो रुषा ।
निर्भत्स्य ताडयित्वा मां गृहान् निष्कासयेद् अप्ल् ॥ र्म्_22.25{25} ॥
तदात्र किं चरिष्यामि दासिकाहम् निराश्रया ।
अवश्यं भाविनो भावा भवन्ति महताम् अपि ॥ र्म्_22.26{26} ॥
यदि मे कुपितः स्वामी परत्र किं करिष्यति ।
प्रसन्नो यदि वा स्वामी कल्याणं स्याद् इहापि मे ॥ र्म्_22.27{27} ॥
कुपितो व प्रसन्नो वा भवत्व् अत्रैव मे प्रभुः ।
स्वामी भर्त्तानुशास्तैव परत्र किं करिष्यति ॥ र्म्_22.28{28} ॥
बुद्धस् तु जगतां स्वामी भर्त्ता नाथो ऽनुकंपकः ।
प्रभु धर्मानुशास्ता मे परत्रेहाप्य् अवेत् सदा ॥ र्म्_22.29{29} ॥
तद् अत्र किं ममानेन स्वामिनापि करिष्यते ।
तद् एतच् चंदनेनापि भजेयं तं मुनीश्वरं ॥ र्म्_22.30{30} ॥
इति ध्यात्वा विनिश्चित्य दासिका सा प्रमोदिता ।
लोहितचंदनेनोभौ पाणौ प्रलिप्य सेत्वया ॥ र्म्_22.31{31} ॥
गृहाद् वहिर् विनिर्गत्वा भगवते ऽन्त उपागता ।
पादयोर् उभयोस् तेन चंदनेन लिलेप सा ॥ र्म्_22.32{32} ॥
ततः सा दारिका नारी कृतांजलिपुटो मुदा ।
पादौ तस्य मुनेर् नत्वा पुरतः समुपाश्रयत् ॥ र्म्_22.33{33} ॥
तत्र स भगवान् दृष्ट्वा तस्या भक्तिरतं मनः ।
तच् चंदनसौरभ्यैस् तत् पुरं समपूरयत् ॥ र्म्_22.34{34} ॥
ततस् तद् गंधम् आघ्राय सर्वे पौराः सविस्मयाः ।
कस्येदं गंधम् आयातम् इति प्रोक्त्वा प्रचेरिरे ॥ र्म्_22.35{35} ॥
ततस् तद् वृत्तिम् आज्ञाय सर्वे लोकाः प्रमोदिताः ।
तद् द्रष्टुं सहसा तत्र भगवतो ऽन्तिकम् उपाययुः ॥ र्म्_22.36{36} ॥
तत्र सर्वे ऽपि ते लोका दृष्ट्वा तं श्रीघनं मुनिं ।
नत्वा प्रदक्षिणीकृत्वा समुपतस्थुर् आदरात् ॥ र्म्_22.37{37} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् ।
आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ र्म्_22.38{38} ॥
तद् धार्मदेशनां श्रुत्वा सर्वे लोकाः प्रबोधितः ।
त्रिरत्नशरणं कृत्वा सदा भजितुम् ईछिरे ॥ र्म्_22.39{39} ॥
तत् सद्धर्मामृतं पीत्वा दासिका सा प्रबोधिता ।
सांजलिस् तं मुनिं नत्वा प्रणिधानं व्यधात् तथा ॥ र्म्_22.40{40} ॥
एतत्पुण्यविपाकेन संसारे ऽत्र पुनर्भवे ।
प्रत्येकां बोधिम् आसाद्य निर्वाणपदम् आप्नुयां ॥ र्म्_22.41{41} ॥
एवं बुद्धपदं प्राप्त्यै प्रणिधानं कृतं तया ।
दृष्ट्वा स भगवांस् तत्र स्मितं प्रादुर्व्यधात् तदा ॥ र्म्_22.42{42} ॥
ततस् तस्य मुनेर् वक्त्रान् नानावर्णाः सुरस्मयः ।
विनिर्गता दिशः सर्वा भासयन्तः प्रसेरिरे ॥ र्म्_22.43{43} ॥
या अधस्ताद् गताभासाः सर्वत्र नरकेष्व् अपि ।
अवभास्य शुभं कृत्वा सर्वत्र संप्रसंसिरे ॥ र्म्_22.44{44} ॥
तत्र सत्वान् परिस्पृश्य कृत्वा सर्वान् सुखान्वितान् ।
संबुद्धदर्शनं दत्वा संप्रेषयन् सुरालायं ॥ र्म्_22.45{45} ॥
याश् चाप्य् उर्द्धं गताभासताः सर्वांश् च सुरालयन् ।
अवभास्यामरान् सर्वान् समुद्घुष्याभ्यचोदयन् ॥ र्म्_22.46{46} ॥
अनित्यं खलु संसारं सर्वं शून्यं निरात्मकं ।
इति मत्वात्र कर्त्तव्यं संबुद्धभजनं सदा ॥ र्म्_22.47{47} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0