रत्नमालावदान · भाग 120
इ कौशीद्यवीर्योत्साहनावदान
++ ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ++
यः श्रीमाञ् छ्रीघनो लोके सद्धर्मं समुपादिशत् ।
शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ र्म्_1.1{1} ॥
अथाशोको महाराजः कृताञ्जलिः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत ॥ र्म्_1.2{2} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद् यथा गुरुणादिष्टं तथा देष्टुं च मे ऽर्हति ॥ र्म्_1.3{3} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ र्म्_1.4{3अ} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ र्म्_1.5{4} ॥
पुरासौ भगवान् बुद्धः शाक्यसिंहो दयानिधिः ।
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ र्म्_1.6{5} ॥
सर्वविद्याकलाभिज्ञः षडभिज्ञो मुनीश्वरः ।
मारजिल् लोकविन् नाथो विनायकस् तथागतः ॥ र्म्_1.7{6} ॥
श्रवस्त्यां जेतकारण्ये महोद्याने मनोरमे ।
अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ॥ र्म्_1.8{7} ॥
नानावृक्षैः समापन्ने नानापुष्पप्रशोभितैः ।
नानाफलभरानम्रैः कल्पपादपसन्निभैः ॥ र्म्_1.9{8} ॥
अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पलादिभिः ।
पुष्पैश् च परिपूर्णाभिः पुष्करिणीभिर् आश्रिते ॥ र्म्_1.10{9} ॥
नानाजन्तुगणैश् चापि मिथस्नेहनिवन्धितैः ।
नानापक्षिगणैश् चापि संरावैर् उपसेविते ॥ र्म्_1.11{10} ॥
तस्मिन् दिव्यमनोरम्य आरामे परिशोभिते ।
पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ॥ र्म्_1.12{11} ॥
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि ।
सर्वसत्वहितार्थेन तस्थौ धर्मं प्रकाशितुं ॥ र्म्_1.13{12} ॥
एवं तत्र समासीनं संबुद्धं धर्मदेशिनं ।
दृष्ट्वा धर्मोत्तमं श्रोतुं सर्वे लोकाः समाययुः ॥ र्म्_1.14{13} ॥
देवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः ।
ग्रहा विद्याधराश् चापि नागाश् च गरुडा अपि ॥ र्म्_1.15{14} ॥
सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः ।
ब्राह्मणाः क्षत्रियाश् चापि वैश्याश् च मंत्रिणो जनाः ॥ र्म्_1.16{15} ॥
अमात्याः साधवः शूद्राः सार्थवाहा महाजनाः ।
धनिनो वणिजश् चापि गृहस्थाः पौरिका अपि ॥ र्म्_1.17{16} ॥
तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि ।
एवम् अन्ये ऽपि सत्वाश् च सद्धर्मश्रवणार्थिनः ॥ र्म्_1.18{17} ॥
पूजापंचोपहाराणि गृहीत्वा भक्तिसंयुताः ।
सद्धर्मं सौगतं श्रोतुम् अनुमोद्य समाययुः ॥ र्म्_1.19{18} ॥
सर्वे तत्र प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं ।
विस्मितानंदिताः पूजां कृत्वा नत्वा यथाक्रमं ॥ र्म्_1.20{19} ॥
सर्वे तत्र समासीनाः परिवृताः पुरस्कृताः ।
तं दृष्ट्वा सद्गुरुं धर्मं श्रोतुं तस्थुः समाहिताः ॥ र्म्_1.21{20} ॥
अथासौ भगवान् दृष्ट्वा लोकान् सर्वान् समाहितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_1.22{21} ॥
एवं नित्यम् असौ नाथः सर्वसत्वहितार्थिकः ।
धर्मं प्रकाशयन् लोके तस्थौ भानुर् इवोदितः ॥ र्म्_1.23{22} ॥
तस्मिंश् च समये तत्र श्रावस्त्यां सन्महाजनः ।
आढ्यः श्रेष्ठी महाभोगो विस्तीर्णसुपरिग्रहः ॥ र्म्_1.24{23} ॥
श्राद्धो भद्राशयो धीमान् सर्वबन्धुसुहृत्प्रियः ।
तीर्थिकश्रावको मानी बभूव धनगर्वितः ॥ र्म्_1.25{24} ॥
तदासौ सुन्दरीं भार्य्यां कुलधर्मसमानिकां ।
नीत्वा कामगुणासक्तो रेमे नित्यं तया सह ॥ र्म्_1.26{25} ॥
तस्यैवं रमतस् तस्यां भार्यायां सुचिराद् अपि ।
पुत्रो न दुहिता वापि नोद्बभूव कथं चन ॥ र्म्_1.27{26} ॥
तद् अपुत्रो गृहस्थो ऽसौ पुत्राभिदर्शनोत्सुकः ।
कपोलं स्वकरे धृत्वा व्यचिन्तयद् रहो गतः ॥ र्म्_1.28{27} ॥
अहो दैवान् न मे पुत्रः पुत्री वाद्यापि नास्ति यत् ।
तन् मे स्युः संपदो व्यर्थायासां भोक्ता न विद्यते ॥ र्म्_1.29{29!} ॥
किं ममैतैर् धनै रत्नैः केवलं दुह्खसाधनैः ।
येषां भोक्ता न विद्येत व्यर्थं मया ह्य् उपार्जितं ॥ र्म्_1.30{30} ॥
ह्य् अपुत्रस्य जगच् छून्यं संसारे निःसुखं मम ।
यतो न वर्द्धते धर्मस् तज् जन्मापि च निस्फलं ॥ र्म्_1.31{31} ॥
किम् उपायं करिष्यामि यतो भाग्यं न विद्यते ।
दैवो हि वलवांल् लोके किम् उपायैर् गुणैर् वलैः ॥ र्म्_1.32{32} ॥
कुत्रात्र शरणं यास्ये ह्य् अपुत्रो ऽहं कुलान्तकः ।
तन् मे स्यात् को ऽत्र सन्मित्रं संकटे यः समुद्धरेत् ॥ र्म्_1.33{33} ॥
नूनं मे पितरः सर्वे पिण्डविछेददर्शिनः ।
मत्परं दुर्लभं मत्वा भविष्यन्ति निराशिताः ॥ र्म्_1.34{34} ॥
सर्वथाहं विनष्टो ऽस्मि कुलधर्मविनाशकः ।
किं परत्र प्रभोक्ष्यामि को मे पिण्डं प्रदास्यति ॥ र्म्_1.35{35} ॥
इति चिन्ताविषण्णं तं दृष्ट्वा सर्वे च बान्धवाः ।
समुपेत्य समामंत्र्य दुह्खहेतुम् अपृछन् ॥ र्म्_1.36{36} ॥
किं दुःस्थितो ऽसि साधो ऽत्र किं चापि दुःखचिन्तया ।
वक्तव्यं चेत् तद् अस्माकं सर्वथा वक्तुम् अर्हसि ॥ र्म्_1.37{37} ॥
इति पृष्टे गृहस्थो ऽसौ दीर्घनिश्वासम् उत्सृजन् ।
सर्वांस् तान् बान्धवान् दृष्ट्वा दुःखहेतुम् उदहरत् ॥ र्म्_1.38{38} ॥
भवन्तः श्रूयतां सर्वैर् मम दुःखस्य कारणं ।
यद् अद्यापि न मे पुत्रः पुत्री वापि न विद्यते ॥ र्म्_1.39{39} ॥
संपदो मे गृहे सन्ति सर्वरत्नसमन्विताः ।
सर्वद्रव्यसमृद्धाश् च तासां भोक्ता न विद्यते ॥ र्म्_1.40{40} ॥
तत् सर्वं नक्ष्यते व्यर्थं मया यात्नैर् उपार्जितं ।
अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्य्ति ॥ र्म्_1.41{[41]} ॥
अपुत्रो ऽहं ह्य् अपुण्यात्मा गन्तव्यं मरणं ध्रुवं ।
प्रेतीभूतस्य मे को ऽन्यः पिण्डदानं प्रदास्यति ॥ र्म्_1.42{[42]} ॥
मया न प्रकृतं पुण्यं संपदर्थप्रसंगिना ।
तन् मे सर्वं निरर्थं स्यात् को मां पापात् समुद्धरेत् ॥ र्म्_1.43{43} ॥
इह भोग्यं प्रभुक्त्वापि किं मे सारम् अवस्थितं ।
केवलं धनसक्तस्य परत्र सद्गतिः कथं ॥ र्म्_1.44{44} ॥
इति चिन्ता हृदि स्थित्वा चित्तं मे तुदते ऽनिशं ।
एवं चित्तव्यथाक्रान्तः शल्यविद्ध इवास्म्य् अहं ॥ र्म्_1.45{45} ॥
तद् व्यथाहरणोपायं दातव्यं मम तद्धितं ।
अन्यथा चेद् इहामुत्र विनष्टः स्यां निराशितः ॥ र्म्_1.46{46} ॥
इति तेनोदितं श्रुत्वा सर्वे ते बान्धवा जनाः ।
करुणाविष्टचित्तास् तं बोधयन्तः समब्रुवन् ॥ र्म्_1.47{47} ॥
मा मा भैष्ठा महाभाग त्यज चिन्तां वचः शृणु ।
तदुपायं वयं ब्रूमस् तत् कुरुष्व समाहितः ॥ र्म्_1.48{48} ॥
देवताराधनां कृत्वा कुरुष्व वंशयाचनां ।
नूनं वंशं प्रदास्यन्ति देवतास् ते प्रसादिताः ॥ र्म्_1.49{49} ॥
एष लोके प्रवादो ऽस्ति यद् आयाचनहेतुतः ।
पुत्रा दुहितरो वापि जाता देवप्रसादतः ॥ र्म्_1.50{50} ॥
तथा नैव प्रमाणं स्याच् छास्त्रे कर्मप्रमाणतः ।
तत् तु देवप्रसादेन कर्मश् शीघ्रं प्रसिद्ध्यते ॥ र्म्_1.51{51} ॥
तद् एव देववैरुद्धे कर्म विघ्नैर् निहन्यते ।
तस्माद् दैवप्रसिद्ध्यर्थं श्रद्धाभक्तिसमाहितः ॥ र्म्_1.52{52} ॥
देवताराधनां कृत्वा सर्वकार्य्यं प्रसाधयेत् ।
इति मत्वा भवांश् चापि सत्पुत्रप्रतिपत्तये ॥ र्म्_1.53{53} ॥
भार्य्यया सह भक्त्या च देवतायाचनां कुरु ।
ततो रक्तैः प्रियां भार्याम् ऋतुस्नातां प्रकामतः ॥ र्म्_1.54{54} ॥
गाढम् आलिंग्य संरक्तो धर्मवीजं प्ररोपय ।
ततो देवप्रभावेन सुनिष्पन्नः प्रसिद्धितः ॥ र्म्_1.55{55} ॥
त्वत्पुत्रः संप्रजायेत सत्यम् एवं प्रमाणय ।
इति तेषां वचः श्रुत्वा गृहस्थो ऽसौ विनोदितः ॥ र्म्_1.56{56} ॥
तथेति च प्रतिश्रुत्य भार्य्यया सह मोदितः ।
शिवब्रह्मादिदेवेशान् इंद्रादिदिगधीश्वरान् ॥ र्म्_1.57{57} ॥
जलाश्रयवनारामचत्वरमण्डपालयान् ।
सूर्य्यादींश् च ग्रहान् सर्वा भैरवाद्याश् च मातृकाः ॥ र्म्_1.58{58} ॥
स्वकुलाधिपतीं देवान् अन्यांश् च त्रिभवस्थितान् ।
सर्वान् एवं समाराध्य पूजयित्वा विधानतः ॥ र्म्_1.59{59} ॥
संतानं प्रार्थयित्वासौ पत्न्या सह तथारमत् ।
तदा कश्चिन् महासत्वः स्वर्गाच् च्युत्वा भुवं गतः ॥ र्म्_1.60{60} ॥
तस्य गृहपतेः पत्न्या गर्भे स समुपाविशत् ।
ततः सा श्रेष्ठिनो भार्य्यापन्नसत्वाशु गुर्विणी ॥ र्म्_1.61{61} ॥
गर्भे सत्वं समुत्पन्नं मत्वा भर्त्तारम् अब्रवीत् ।
स्वामिन् प्रसीद मा भूस् त्वं विषण्नो ऽत्र सुखी भव ॥ र्म्_1.62{62} ॥
तव भाग्याद् धि मे गर्भे नूनं सत्वः प्रवर्त्तते ।
यद् गर्भे दक्षिणे भागे स्थितः संपरिवर्त्तते ॥ र्म्_1.63{63} ॥
तन् नूनं दारको ऽयं स्यात् सत्यम् एव न संशयः ।
इति भार्यावचः श्रुत्वा गृहस्थो ऽसौ प्रमोदितः ॥ र्म्_1.64{64} ॥
भार्याया गर्भम् आलोक्य सत्यम् इत्य् अन्वमन्यत ॥ र्म्_1.65{56!} ॥
ततो ऽसौ सहसा वन्धुसुहृन्मित्रसहायकान् ।
प्राहूय पुरतस् तेषां मुदैवं समुदानयत् ॥ र्म्_1.66{66} ॥
अहो भाग्यान् ममोत्पन्नं यद् अभिवांछितं मया ।
धन्यो ऽस्मि नावगीतः स्याद् देवतानुप्रसादतः ॥ र्म्_1.67{67} ॥
चिराभिलषितं पुत्रमुखं पश्येय सांप्रतं ।
कृत्या मे प्रतिकुर्वीत भृतश् च प्रतिविभृयात् ॥ र्म्_1.68{68} ॥
दायाद्यं प्रतिपद्येत वंशो मे स्थितिको भवेत् ।
सुहृदो मे प्रसन्नाः स्युर् द्विषन्तश् च विषादिताः ॥ र्म्_1.69{69} ॥
मया यावन्ति दानानि पुण्यानि प्रकृतानि च ।
एतत्पुण्यफलैर् नित्यं मंगलं भवतु द्वयोः ॥ र्म्_1.70{70} ॥
एतत्पुण्यानुभावेन भूयान् माता निरातुरा ।
सुखं सुनोतु सत्पुत्रं मा पापं समुदागमत् ॥ र्म्_1.71{71} ॥
इति तेनोदितं श्रुत्वा सर्वे बन्धुसुहृत्सखाः ।
तथास्त्व् इत्य् अनुमोदन्तः स्वस्वालयं समाययुः ॥ र्म्_1.72{72} ॥
ततो ऽसौ गर्भिणी कान्ता क्रमाद् गर्भप्रवर्द्धिता ।
वैद्योपदिष्टम् आहारं भुक्त्वाचरद् यथा सुखं ॥ र्म्_1.73{73} ॥
ततश् च समये ऽसूत पुत्रं कान्तं मनोहरं ।
सर्वलक्षणसंपन्नं भद्रांशं मंगलान्वितं ॥ र्म्_1.74{74} ॥
तच् छ्रुत्वैव गृहस्थो ऽसौ सुप्रसन्नः प्रमोदितः ।
दृष्ट्वा तं दारकं सौम्यं नैव तृप्तिं समाययौ ॥ र्म्_1.75{75} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा ।
पुत्रनामाभिसंस्कर्तुं भूय एतान् समब्रवीत् ॥ र्म्_1.76{76} ॥
भवन्तो दृश्यतां सिद्धं ममभिलषितं चिरात् ।
तन् नामास्य यथायोग्यं प्रसिद्धं क्रियतां शुभं ॥ र्म्_1.77{76!} ॥
इति तस्य वचः श्रुत्वा सर्वे ते ज्ञातयो मुदा ।
दारकं तं समालोक्य नंदिताः समभाषत ॥ र्म्_1.78{78} ॥
यस्मिन् दिने ह्य् अयं जातस् तदा सर्वे ऽपि पौरिकाः ।
नन्दितास् तद् भवत्व् अयं नाम्ना नन्द इति श्रुतः ॥ र्म्_1.79{79} ॥
अथासौ दारको नन्दः सम्यग् देहोपचारणे ।
पित्राष्टासु च धात्रीषु परितोष्य समर्पितः ॥ र्म्_1.80{80} ॥
ततो ऽसौ क्रमशस् तासां धात्रिणाम् उपचारतः ।
दिने दिने प्रवृद्धो ऽभूद् ध्रदस्थं पंकजं यथा ॥ र्म्_1.81{81} ॥
एवं प्रवर्द्धमानो ऽसौ षड्वर्षिको यदाभवत् ।
तदा कुशीदसंवृत्तो बभूव विरतोत्सवः ॥ र्म्_1.82{82} ॥
सदा शय्यासनस्थस् तत् समुत्थातुं न चैछत ।
शय्यासनस्थितश् चैव भुक्त्वा नैवाचरत् क्वचित् ॥ र्म्_1.83{83} ॥
सदा स्वान्तर्गृहस्थो ऽपि सुतीक्ष्णबुद्धिमान् सुधीः ।
अधीत्य सर्वशास्त्राणि सत्यधर्मरतो ऽभवत् ॥ र्म्_1.84{84} ॥
अथ श्रेष्ठी पिता दृष्ट्वा पुत्रम् एवं कुशीदितं ।
सर्वविद्यागुणाधारं दृष्ट्वा चैवं व्यचिन्तयत् ॥ र्म्_1.85{85} ॥
कथं चिद् यो मया प्राप्तो देवतासंप्रसादतः ।
सो ऽपि पुत्रो ममाभाग्याद् भवत्य् एवं कुशीदितः ॥ र्म्_1.86{86} ॥
सर्वविद्यागुणाधारं सर्वशास्त्रविचक्षणः ।
किं ममानेन पुत्रेण दुस्थितेनेव रोगिना ।
यतः स्वस्थशरीरो ऽपि भुक्त्वैवं पशुवत् स्थितः ॥ र्म्_1.87{87} ॥
किम् अत्राहं करिष्यामि यत् पुत्रो ऽयं नि रुद्यमः ।
किम् ईद्रिग्जन्तुना कार्य्यं कुलधर्मोपहारिणा ॥ र्म्_1.88{68!} ॥
धिग् मे दैवं प्रयत्नं च सर्वं तत् स्यान् निरर्थकं ।
किम् उपायं करिष्यामि सर्वथाहं विभग्नितः ॥ र्म्_1.89{78} ॥
एवं चिन्तापरीतो ऽसौ गृहस्थश् च व्यचिन्तयत् ।
पूरणो मे ऽस्ति शास्ता यः पृछेयं तद् उपायकं ॥ र्म्_1.90{79} ॥
इति मत्वा गृहस्थो ऽसौ तद् आश्रमं समागतः ।
पूरणं तं गुरुं नत्वा पप्रच्छ तदुपायतां ॥ र्म्_1.91{80} ॥
भगवन् भो महाभिज्ञ शास्तासि मे प्रसीद तत् ।
यन् मया पृछ्यते कार्य्यं तत् समादेष्टुम् अर्हसि ॥ र्म्_1.92{81} ॥
इति तेनार्थितं श्रुत्वा तीर्थिको मानगर्वितः ।
आशु सिद्धं करिष्यामो यत् कार्य्यं ते ऽत्र तद् वद ॥ र्म्_1.93{82} ॥
इति प्रोक्त्वैवम् आश्वास्य पूरणो ऽत्यभिमानिकः ।
प्रवदंस् तं गृहस्थं वै सर्वथैवम् अबोधयत् ॥ र्म्_1.94{83} ॥
इति तेन समादिष्टं श्रुत्वा गृहपतिर् मुदा ।
कृताञ्जलिपुटो नत्वा तं गुरुं समभाषत ॥ र्म्_1.95{84} ॥
भगवन् भो विजानीया यो मे पुत्रः प्रजायते ।
स प्रवृद्धो निरुत्साही कुशीदो वर्त्तते ऽधुना ॥ र्म्_1.96{85} ॥
सदा शय्यास्थितो भुङ्क्ते भुक्त्वा शेते निरुद्यमः ।
नोत्सहति क्वचिद् गंतुं पशुवत् तिष्ठते गृहे ॥ र्म्_1.97{86} ॥
न शयनात् समुत्थाय श्रोतुं द्रष्टुं समिच्छति ।
गृहे शय्यासनारूढो रोगीव वसते सदा ॥ र्म्_1.98{87} ॥
तदुपायं कथं कुर्य्यां येनायं शयनोत्थितः ।
श्रोतुं द्रष्टुं च गंतुं च कर्त्तुं कार्य्यं यथोत्सहेत् ॥ र्म्_1.99{88} ॥
तथा मे भगवन् पुत्रं कुलधर्मे नियोजय ।
भवान् एव हि मे शास्ता तद् धितं कर्तुम् अर्हसि ॥ र्म्_1.100{89} ॥
इत्य् एवं प्रार्थितं तेन श्रुत्वासौ पूरणो यतिः ।
तस्य गृहपतेश् चित्तं प्रहर्षयन् समब्रवीत् ॥ र्म्_1.101{90} ॥
अरे मा गा विषादं त्वं चिन्तया किं प्रतप्यसे ।
अस्मासु विद्यमानेषु षट्सु विज्ञेषु शास्तृषु ॥ र्म्_1.102{91} ॥
तद् अहं ते महाभाग सार्द्धं सर्वैश् च तीर्थिकैः ।
ऋद्ध्या गत्वा करिष्यामि दारकं विस्तयोत्थितं ॥ र्म्_1.103{92} ॥
यदासौ दारको ह्य् अस्मान् सर्वान् दृष्ट्वा समुत्थितः ।
कृत्वा प्रणामम् अस्माकं धर्म्मं श्रोतुं समुत्सहेत् ॥ र्म्_1.104{93} ॥
श्रुत्वा धर्मसमुत्साहात् कुशलानि समाचरेत् ।
तत्कुशलैः समापन्नो वीर्यवान् स भवेत् सुधीः ॥ र्म्_1.105{94} ॥
ततस् ते सर्वकार्याणि साधयेत् स समुद्यतः ।
स्वकुलधर्मकर्माणि कुशली संचरिष्यते ॥ र्म्_1.106{95} ॥
एवं मे वचनं सत्यं दृष्ट्वा सम्यक् प्रमाणय ।
तद् विषादं परित्यज्य कर्त्तव्यं हि तथा कुरु ॥ र्म्_1.107{96} ॥
इति तेन समादिष्टं श्रुत्वा स गृहभृन् मुदा ।
सहसा स्वगृहं गत्वा तद् भोज्यं समसाधयत् ॥ र्म्_1.108{97} ॥
अथासौ पूरणो ऽन्यैश् च तीर्थिकैः सार्द्धम् आगतः ।
गृहे गत्वा पुरस् तस्य पर्य्यङ्के समुपाश्रयत् ॥ र्म्_1.109{98} ॥
तथासौ तान् समागत्वा क्रमश आसने स्थितान् ।
दृष्ट्वा संहर्षितः श्रेष्ठी सहसा पुत्रम् अब्रवीत् ॥ र्म्_1.110{99} ॥
पुत्र पश्य गृहे ऽस्माकं शास्तारः समुपस्थिताः ।
तत् समुत्थाय नत्वैताञ् छास्तॄन् भोज्यैः प्रवारय ॥ र्म्_1.111{100} ॥
इत्य् उक्त्वा जनकेनासौ दारको न समुत्थितः ।
द्रष्टुम् अपि न चोत्सेहे किं नमेच् च प्रवारयेत् ॥ र्म्_1.112{1} ॥
बहुशः प्रेर्य्यमाणो ऽपि पित्रा स बन्धुभिः सह ।
दारकस् तान् समासीनान् द्रष्टुम् अपि न चैछत ॥ र्म्_1.113{2} ॥
किं पुनर् उत्थितो नत्वा भोजणैः संप्रवारयेत् ।
तथा शय्यासनारूढ एवं तस्थौ निरुत्सवः ॥ र्म्_1.114{3} ॥
ततस् ते तीर्थिकाः सर्वे दृष्ट्वैवं निरुत्सवं ।
नानाविधिप्रयत्नैस् तम् उत्थापयितुम् आरभन् ॥ र्म्_1.115{4} ॥
तथापि नैव शय्याया उदतिष्ठत् स दारकः ।
स्वधर्मदेशकांश् चापि तान् द्रष्टुम् अपि नैहत ॥ र्म्_1.116{5} ॥
एवं चानुत्थितं दृष्ट्वा तं ते सर्वे च तीर्थिकाः ।
हठाच् चैनं समुत्थाप्य वशीकर्त्तुं पराक्रमन् ॥ र्म्_1.117{6} ॥
तथैतांस् तीर्थिकान् सर्वान् एव गर्वाभिवादितान् ।
दृष्ट्वाभिसंमुखायातान् भीतो ऽरौत्सीत् स दारकः ॥ र्म्_1.118{7} ॥
तथा तं रुदितं दृष्ट्वा सर्वे ते लज्जया भिया ।
प्रतिजग्मुर् विभिन्नास्याः स्वस्वालयानि भेदिताः ॥ र्म्_1.119{8} ॥
तथा गृहपतिर् दृष्ट्वा सर्वान् एतान् परायितान् ।
प्रतिभिन्नविषण्नात्मा तस्थौ चिन्ताविमोहितः ॥ र्म्_1.120{9} ॥
अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः ।
पश्यन् सत्वान् समुद्धर्तुं ददर्श तं कुशीदितं ॥ र्म्_1.121{10} ॥
दृष्ट्वा तस्य कुशीदस्य कर्मवृत्तिपरंपरां ।
तत् कुशीदं समुद्धर्तुम् अर्यानंदं समब्रवीत् ॥ र्म्_1.122{11} ॥
पश्यानंद गृहस्थस्य श्रावस्तीपुरवासिनः ।
पुत्रो नंद इति ख्यातः साम्प्रतं संकुशीदिकः ॥ र्म्_1.123{12} ॥
असौ मे दर्शनाद् एव नूनं वीर्य्यं समारभन् ।
सहसोत्थाय स नत्वा धर्मं प्रशृणुयान् मुदा ॥ र्म्_1.124{13} ॥
ततो मे शासने धर्मं प्रचरेत् स सुधीः सदा ।
क्रमाद् बोधिचरीं पूर्य्य संबोधिं चापि लप्स्यति ॥ र्म्_1.125{14} ॥
तस्मात् तस्य गृहे गत्वा तीर्थिकदर्प्पछित्तये ।
सद्धर्मे संप्रतिष्ठाप्य सर्वान् बोधौ नियोजये ॥ र्म्_1.126{15} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानन्दः स हर्षितः ।
कर्त्तव्यं भगवन्न् एवम् इत्य् अनुमोदितो ऽभवत् ॥ र्म्_1.127{16} ॥
ततो भगवता तेन सुवर्णाभा मरीचयः ।
उत्सृष्टास् तैश् च तद् गेहम् अवभास्य व्यशोधयत् ॥ र्म्_1.128{17} ॥
यदा तैर् दारकः स्पृष्टो बुद्धमैत्रीमरीचिभिः ।
तदा प्रह्लादितश् चासाव् इत्य् एवं समचिन्तयत् ॥ र्म्_1.129{18} ॥
अहो कस्य प्रभावो ऽयं येनैवम् अवभासितं ।
प्रह्लादितश् च मे कायस् तन् न जाने कुतः कथं ॥ र्म्_1.130{19} ॥
इति चिन्तां समालम्ब्य कौतुकाक्रान्तमानसः ।
समन्ततो निरीक्ष्यैवं तस्थौ गेहे सुविस्मितः ॥ र्म्_1.131{20} ॥
तथा तं विस्मितं दृष्ट्वा भगवान् भिक्षुभिः सह ।
सहसा तद्गृहं गत्वा प्रादुर् आसीत् प्रभासयन् ॥ र्म्_1.132{21} ॥
तत्र स दारको ऽपश्यद् भगवन्तं तम् आस्थितं ।
कान्तं दिव्यातिरिक्ताभं समन्तभद्ररूपिणं ॥ र्म्_1.133{22} ॥
दृष्ट्वैव सहसोत्थाय नत्वा पादौ प्रमोदितः ।
स्वयम् एवासनं तस्मै प्रज्ञप्यैवम् अभाषत ॥ र्म्_1.134{23} ॥
स्वागतं भगवन् नाथ विजयस्व मुनीश्वर ।
प्रसीदानुग्रहार्थेन निषीदात्र शुभासने ॥ र्म्_1.135{24} ॥
इति तेनोदिते तत्र भगवान् भिक्षुभिः सह ।
तत् प्रज्ञप्तासने स्थित्वा धर्मं देष्टुं समारभत् ॥ र्म्_1.136{25} ॥
तद् दृष्ट्वा दारकस्यैवं धर्मोत्साहं समुत्थितं ।
पितरौ ज्ञातिवर्गाश् च सर्वे ऽप्य् आसन् सुविस्मिताः ॥ र्म्_1.137{26} ॥
तत्रासौ दारको हर्षाद् उत्फुल्लनयनो मुदा ।
नत्वा पादौ मुनेश् चाग्रे धर्मं श्रोतुम् उपाश्रयत् ॥ र्म्_1.138{27} ॥
अथासौ भगवांस् तस्य ज्ञात्वाशयविशुद्धतां ।
आदिमध्यान्तकल्याणं धर्मं देष्टुं तम् अब्रवीत् ॥ र्म्_1.139{27} ॥
शृणु वत्स महाभाग पापपुण्यार्थसाधने ।
हेतुं वक्ष्ये शुभार्थे ते तद् अत्र त्वं समाचर ॥ र्म्_1.140{29} ॥
मानुष्यं दुर्लभं प्राप्य विद्युत्तरंगचंचलं ।
पापक्षये मतिः कार्या पुण्यार्थसाधनेषु च ॥ र्म्_1.141{30} ॥
पापेन दुर्गतिं यायात् पुण्येन सद्गतिं व्रजेत् ।
पापमित्रानुरागेण मतिः पापे प्रवर्त्तते ॥ र्म्_1.142{31} ॥
ततः पापरतः कुर्यात् पापानि दारुणान्य् अपि ।
ततो दुष्टः सुपापिष्ठः सद्धर्माणि विनिन्दयेत् ॥ र्म्_1.143{32} ॥
ततो धर्मविरुद्धत्वात् कुशक्तिः कुत्सितो भवेत् ।
ततः स कुत्सितात्मा हि सर्वसत्वैर् विनिन्द्यते ॥ र्म्_1.144{33} ॥
परिभूतो विषादेन भवेत् मूढो निरुत्सहः ।
उत्साहवर्जिते चित्ते आलस्यं समुपाश्रयेत् ॥ र्म्_1.145{34} ॥
आलस्वी साधयेन् नैव किंचिद् धर्मं गुणानि वा ।
धर्मकर्मविरक्तात्मा निर्गुणी किं करिष्यति ।
भोग्य एव सदासक्तः पशोर् अप्य् अधमो नरः ।
किं तेन पुरुषेणापि निर्गुणेन सुखाशिना ।
यस्य पुण्ये गुणे वापि कदापि नोत्सहेन् मनः ।
पुण्योत्साहविपन्नात्मा दुष्टक्लेशैर् विहन्यते ।
क्लेशितो मारसंघैश् च वशीकृत्य निवद्ध्यते ॥ र्म्_1.146{36} ॥
मारस्य वशगः स्त्रीणां दासत्वं समुपाश्रयेत् ।
स दासनिरतो भुक्त्वा पशुवत् तिष्ठते गृहे ॥ र्म्_1.147{36} ॥
नैव धर्मं क्वचिच् छ्रोतुं द्रष्टुं वापि न चोत्सहेत् ।
धर्मं विना व्रजेन् नैव सद्गतिं हि कदा चन ॥ र्म्_1.148{37} ॥
तस्माद् धर्मे समाचर्तुं पुण्योत्साहं प्रवर्द्धयन् ।
त्रिमण्डलविशुद्धेन दानं दद्याच् छुभाप्तये ॥ र्म्_1.149{39} ॥
दानेन सिद्ध्यते धर्मं धर्माच् चित्तं विशुद्ध्यते ।
शुद्धचित्तश् चरेच् छीले शीलवान् हि भवेत् सुधीः ॥ र्म्_1.150{40} ॥
सुधीरो भावयेत् क्षांतिं क्षान्तिमान् दुष्टजित् कृती ।
कुशली प्रारभेद् वीर्य्यं वीर्य्यवान् पुरुषोत्तमः ॥ र्म्_1.151{41} ॥
महासत्वो लभेद् ध्यानं ध्याता ब्रह्मविहारिकः ।
संस्मृतः साधयेत् प्रज्ञां प्रज्ञावान् हि गुणालयः ॥ र्म्_1.152{42} ॥
गुणज्ञः समुपायैश् च सत्वान् धर्मे नियोजयेत् ।
एतत् पुण्यानुभावेन बोधौ प्रणिधिम् आचरेत् ॥ र्म्_1.153{43} ॥
बोधिप्रणिधिचित्तेन बलानि साधयेद् दश ।
तद् बलैश् च महाघोरां मारसंघान् पराजयेत् ॥ र्म्_1.154{44} ॥
जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्नुयात् ।
ततः सर्वत्र लोकेषु धर्मचक्रं प्रवर्त्तयेत् ॥ र्म्_1.155{45} ॥
एवं प्रवर्त्तयन् धर्मं शास्ता लोकाधिपो भवेत् ।
सर्वलोकहितं कुर्वन् महत्पुण्यैः समृद्धितः ॥ र्म्_1.156{46} ॥
सदैवं सद्गतौ स्थित्वा संबुद्धपदम् आप्नुयात् ।
एवं मत्वा त्वया वत्स चरितव्यं तथा शुभे ॥ र्म्_1.157{47} ॥
इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा स दारको मुदा ।
कृतांजलिः पुनर् नत्वा भगवन्तम् अभाषत ॥ र्म्_1.158{48} ॥
अद्यारभ्य सदा शास्तर् भवतः शरणं व्रजे ।
तद्यथा भवताज्ञप्तं तथा सत्यं चराम्य् अहं ॥ र्म्_1.159{49} ॥
कृपादृष्टिम् उपस्थाप्य समन्वाहर मां सदा ।
भवान् एव हि सर्वज्ञस् त्रैधातुकविनायकः ॥ र्म्_1.160{50} ॥
यदैवं ते दया नास्ति मय्य् उद्यमविवर्जिते ।
क एवं समुपागत्य प्रोद्धरेन् मां कुशीदिकं ॥ र्म्_1.161{51} ॥
पवित्रीभूतम् आत्मानं मन्ये ऽहं ते प्रसादतः ।
धन्यो ऽस्मि तन् महाभद्रो यच् छास्त्रैवं प्रदर्शितः ॥ र्म्_1.162{52} ॥
इति तेनोदिते भूयः सर्वज्ञः स मुनीश्वरः ।
सुचंदनमयीं यष्टिं दत्वैनं समभाषत ॥ र्म्_1.163{53} ॥
वत्सेमां यष्टिम् आधाय प्रकोटय समाहितः ।
ततस् त्वं सर्वदावश्यं लभेः पुण्यमहोत्सवं ॥ र्म्_1.164{54} ॥
इति शास्त्रा प्रदत्तां तां नत्वासौ दारको ऽग्रहीत् ।
यथादिष्टं मुनीन्द्रेण तथा कर्तुम् उदाचरत् ॥ र्म्_1.165{55} ॥
इत्य् एवं तं समादिश्य स संबुद्धः ससांघिकः ।
स्वं विहारम् उपाश्रित्य धर्मं दिशन् समावसत् ॥ र्म्_1.166{56} ॥
अथासौ दारको हर्षात् तां यष्टिं स्वयम् आदधत् ।
यथादिष्टं मुनीन्द्रेण प्राकोटयत् समाहितः ॥ र्म्_1.167{57} ॥
तस्याम् आकोट्यमानायां पुण्यशब्द उदाचरत् ।
गृहे रत्ननिधानानि प्रादुर् आसन् बहूनि च ॥ र्म्_1.168{57} ॥
तच्छब्दश्रवणं कृत्वा दारको ऽसौ प्रमोदितः ।
गृहे रत्ननिधानानि दृष्ट्वाश्चर्य्यं समाययौ ॥ र्म्_1.169{59} ॥
ततश् च विस्मितो हर्षात् पुनर् एवं व्यचिन्तयत् ।
बतेदं सुमहाशौर्य्यं वीर्य्यं प्रारम्भये ततः ॥ र्म्_1.170{60} ॥
तथा रत्नाकरं गत्वा रत्नानि समुपार्जयन् ।
ससंघं सुगतं नित्यं उपतिष्ठेय संभजन् ॥ र्म्_1.171{61} ॥
इति ध्यात्वा समुत्साहं संनिबध्य स दारकः ।
रत्नाकरं समागन्तुं प्रारेभे सह वाणिजैः ॥ र्म्_1.172{62} ॥
ततो ऽसौ दारको वीरस् तस्यां पूर्य्यां समन्ततः ।
सार्थवाहं स्वम् आत्मानं कृत्वा घोषम् अकारयत् ॥ र्म्_1.173{63} ॥
तथा तद् घोषणां श्रुत्वा ये वीरास् ते वणिग्जनाः ।
तेन सार्द्धं महोत्साहैर् महाब्धिं गन्तुम् ऐछन् ॥ र्म्_1.174{64} ॥
ततो ऽसौ पुरुषो वीरः सर्वैस् तैश् च वणिग्जनैः ।
सह रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् ॥ र्म्_1.175{65} ॥
ततः सार्थपतिः सर्वैः सार्थैः सार्द्धं महोदधेः ।
क्षेमेन सहसोत्तीर्य्य स्वदेशं समुपाययौ ॥ र्म्_1.176{66} ॥
अथ सार्थपतिस् तत्र यात्रासिद्धिप्रमोदितः ।
सर्वान् सार्थान् समामंत्र्य दृष्ट्वैवं समभाषत ॥ र्म्_1.177{67} ॥
भवन्तः श्रूयतां सर्वैर् यत् स्वस्ति प्रागता वयं ।
तत् प्रभावं विजानीध्वं जिनेन्द्रस्य प्रसादताः ॥ र्म्_1.178{68} ॥
तस्माद् अस्य मुनीन्द्रस्य कृत्वा दर्शनम् आदरात् ।
पूजयित्वा प्रणत्वा च पश्चाद् गेहं व्रजेम हि ।
इति तस्य वचः श्रुत्वा सर्व्वे ऽपि ते वणिग्जनाः ।
दृष्टसत्यानुमोदन्तः तथेति प्रतिमेनिरे ।
इति संभाषणां कृत्वा सर्व्वसार्थसमन्वितः ।
ततः सार्थपतिः शीघ्रं विहारं समुपाययौ ।
तत्र दृष्ट्वा जिनेन्द्रं तं सर्व्वे ते संप्रहर्षिताः ।
पादौ नत्वा मुनेस् तस्य परिवृत्योपतस्थिरे ॥ र्म्_1.179{69} ॥
अथासौ भगवान् दृष्ट्वा सर्वान् सार्थगणान् अपि ।
धर्मोत्साहप्रावृद्ध्यर्थैः समामंत्र्य समब्रवीत् ॥ र्म्_1.180{70} ॥
आगताः स्थ समायात मा स्थ श्रान्ताश् च खेदिताः ।
यात्रासाफल्यसिद्धिश् च कच्चिद् वः कुशलानि च ॥ र्म्_1.181{71} ॥
एवं पृष्टे जिनेन्द्रेण सर्वे ते संप्रमोदिताः ।
कृताञ्जलिपुटो नत्वा संबुद्धं प्रोचुर् आदरात् ॥ र्म्_1.182{72} ॥
भगवन् भवताम् एवं कृपादृष्टिप्रसादतः ।
यात्रासिद्धिः कथं न स्यात् सर्वत्र कुशलं हि नः ॥ र्म्_1.183{73} ॥
यद् वयं शास्तर् आयाताः शुभरत्नसमन्विताः ।
तत् सर्वं त्वत्प्रभावेन सत्यम् एतत् प्रमाण्यते ॥ र्म्_1.184{74} ॥
तद् भवन्तं सुशास्तारं द्रष्टुं सर्वे समागताः ।
पूजयितुं समिछामस् तत् प्रसीद जगद्गुरो ॥ र्म्_1.185{75} ॥
इति विज्ञापनां कृत्वा सह सार्थैः स सार्थभृत् ।
ससंघं पूजयित्वा च रत्नानि समढौकत ॥ र्म्_1.186{76} ॥
नमस् ते भगवन् नाथ व्रजामः शरणं तव ।
पाहि नः सर्वदाप्य् एवं त्वम् एव जगदीश्वरः ॥ र्म्_1.187{77} ॥
एवं स्तुत्वा मुनीन्द्रं तं सर्वे ते संप्रसादिताः ।
कृताञ्जलिपुटा नत्वा स्वगृहं गन्तुम् ईहिरे ॥ र्म्_1.188{78} ॥
ततश् च भगवान् दृष्ट्वा तान् सर्वान् स्वगृहोत्सुकान् ।
दत्वाशीर्वचनं स्पृष्ट्वा व्रजतेति व्यसर्जयत् ॥ र्म्_1.189{79} ॥
ततः सर्वे ऽपि ते सार्थाः कृत्वा प्रदक्षिणत्रयं ।
शास्तारं सुगतं नत्वा स्वं स्वं गेहं समाययुः ॥ र्म्_1.190{80} ॥
ततो भूयस् तथान्यैश् च प्रार्थ्यमानः स वीर्य्यवान् ।
षड्ढा रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् ॥ र्म्_1.191{81} ॥
ततश् च गृहपतिः श्रेष्ठी सार्थवाहः सुवीर्य्यवान् ।
ससङ्घं सुगतं गेहे प्रणीत्वार्चितुम् आरभत् ॥ र्म्_1.192{[82]} ॥
ततो भोजनसामग्रीं साधयित्वा निवेशने ।
ससंघैः बुद्धम् आमंत्र्य न्यवेशयच् छुभासने ॥ र्म्_1.193{[83]} ॥
ततः पूजोपहारैश् च पूजयित्वा विधानतः ।
प्रत्येकं चीवरं दत्वा भोजनैः समतोषयत् ॥ र्म्_1.194{84!} ॥
ततश् च भोजनान्ते ऽसौ सार्थवाहः कृताञ्जलिः ।
ससंघं सुगतं नत्वा प्रणिधानं तथाकरोत् ॥ र्म्_1.195{85} ॥
यत् किञ्चित् प्रकृतं दानं संबुद्धशासने मया ।
एतत्पुण्यफलेन स्यां संबुद्धो ऽयं जिनो यथा ॥ र्म्_1.196{86} ॥
इति तस्य गृहस्थस्य चित्तं संबोधिवांछितं ।
ज्ञात्वासौ भगवान् बुद्धः स्मितं कृत्वाभ्यनंदत ॥ र्म्_1.197{87} ॥
तदा भगवतो वक्त्रान् निश्चेरुः पंचवर्णिकाः ।
रश्मयस् ताः समन्ताच् च त्रैलोक्यं शामभासयन् ॥ र्म्_1.198{88} ॥
याः काश् चिद् रश्मयो याता अधस्तान् नरकेष्व् अपि ।
ताश् च निश्चरितास् तावत् संजीवं कालसूत्रकं ॥ र्म्_1.199{[89]} ॥
संघातं रौरवं चापि महारौरवविश्रुतं ।
तपनाख्यं तथा चैवं प्रतापनाह्वयं ततः ॥ र्म्_1.200{90} ॥
अवीचिम् अर्बुदं चैवं निरर्बुदं तथाटटं ।
हहवं हुहुवं चैवम् उत्पलं पद्मकं ततः ॥ र्म्_1.201{91} ॥
महापद्माख्यम् एतानि षोडश निलयानि हि ।
तत्रोष्णनरका ये तु तेषु सर्वेषु निःसृताः ॥ र्म्_1.202{92} ॥
शीतीभूता विनिःपत्य प्रभासयन् समंततः ।
ये शीतनरकास् तेषु तूष्णीभूताप्य् अभासयन् ॥ र्म्_1.203{93} ॥
तेषु ये नारकाः सत्वा नानादुःखाभिवेदिनः ।
ते ताभी रश्मिभिः स्पृष्टा महत्सौख्यं प्ररेभिरे ॥ र्म्_1.204{94} ॥
अथ सर्वे ऽपि ते सत्वा महत्सौख्यसमन्विताः ।
विस्मितास् तत्र संमील्य मिथश् चैवं वभाषिरे ॥ र्म्_1.205{95} ॥
अहो भवन्त आश्चर्य्यं किं चास्माकं भवेत् खलु ।
यद् वयं सर्वदापीत्थं नानादुःखैः प्रपीडिताः ।
तन्मुक्ताः सांप्रतं सर्वे वयं सौख्यसमन्विताः ॥ र्म्_1.206{96} ॥
किं ततो हि वयं मुक्ता अन्यत्र चरिता ननु ।
इति विस्मितचित्तानां सर्वेषां चित्तबोधने ॥ र्म्_1.207{97} ॥
भगवान् निर्मितं तेषां पुरस्तात् समदर्शयत् ॥ र्म्_1.208{98} ॥
तत्र तं निर्मितं दृष्ट्वा सर्वे ऽपि ते ऽतिविस्मिताः ।
परस्परं मुखं दृष्ट्वा तथैवं संवभाषिरे ॥ र्म्_1.209{99} ॥
भो भवन्त इतश् च्युत्वा नान्यत्र गमिता वयं ।
किं त्व् अयं सुगताकार आयातो ऽपूर्वदर्शनः ॥ र्म्_1.210{100} ॥
नूनम् अस्यानुभावेन वयम् इत्थं सुखान्विताः ॥ र्म्_1.211{1} ॥
इति संभाष्य ते सर्वे तस्मिं सौगतनिर्मिते ।
चित्तं प्रसाद्य बुद्धाय नम इति प्रणेमिरे ॥ र्म्_1.212{2} ॥
ततस् ते निर्मितं दृष्ट्वा नत्व चित्तप्रसादितः ।
सर्वपापविनिर्मुक्ताः सर्वे ऽपि सुगतिं ययुः ॥ र्म्_1.213{3} ॥
याश् च काश् चिद् गता ऊर्द्ध्वं ता महाराजिकान् गताः ।
त्रयस्त्रिंशांश् च यामांश् च तुषितांश् च गतास् ततः ॥ र्म्_1.214{4} ॥
निर्माणरतिम् आभास्य निर्मितवशवर्त्तिकान् ।
ब्रह्मकायिकलोकांश् च गता ब्रह्मपुरोहितान् ॥ र्म्_1.215{5} ॥
महाब्रह्मालयं चापि परीताभांस् तथा गताः ।
अप्रमाणाभलोकांश् च तत आभास्वरान् गताः ॥ र्म्_1.216{6} ॥
परीत्तशुभलोकांस् तदाप्रमाणशुभान् गताः ।
शुभकृत्स्नान् अनभ्रांश् च पुण्यप्रसवकांस् ततः ॥ र्म्_1.217{7} ॥
बृहत्फलांस् ततश् चैवम् अवृहान् अतपान् गताः ।
ःसुदृशांश् च ततो याता तथा चैवं सुदर्शनान् ॥ र्म्_1.218{8} ॥
अकनिष्ठं तथा गत्वा सर्वान् एतान् व्यभासयन् ।
तेषु ये संस्थिता लोकाः सर्वे ताभिश् च रश्मिभिः ॥ र्म्_1.219{9} ॥
परिस्पृष्टाः सुखप्राप्ता दृष्ट्वा तां चैवम् ऊचिरे ।
अहो चित्रं शुभा काम्या कस्य पुण्यप्रभा इमाः ॥ र्म्_1.220{10} ॥
याभिर् वयं परिस्पृष्टा महत्सौख्यं लभामहे ।
इति विस्मितचित्तानां तेषां चित्तविनोदने ॥ र्म्_1.221{11} ॥
तथा ता रश्मयश् चैनां गाथाभिः समचोदयन् ।
अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं ॥ र्म्_1.222{12} ॥
अतः क्लेशगणांस् त्यक्त्वा भजध्वं सुगतं सदा ।
निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ र्म्_1.223{13} ॥
धुनीत मारसैन्यांश् च नडागारम् इव द्विपः ।
यो ह्य् अस्मिं धर्मवैनेये ऽत्यप्रमत्तश् चरेत् सुधीः ॥ र्म्_1.224{14} ॥
प्रहाय स भवे क्लेशान् दुःखस्यान्तं करिष्यति ।
इति ता रश्मयः सर्वा अवभास्य समन्ततः ॥ र्म्_1.225{15} ॥
प्रेरयित्वा शुभे सत्वान् पुनर् मुनेः पुरोगताः ।
ततो भगवतस् तस्य कृत्वा त्रयप्रदक्षिणां ॥ र्म्_1.226{16} ॥
तथा ता रश्मयः सर्वा उष्णीषे ऽन्तर्हितं ययुः ।
अथानन्दः समुत्थाय कृताञ्जलिपुटो मुदा ॥ र्म्_1.227{17} ॥
भगवन्तं प्रणम्यैवं पप्रच्छ स्मितकारणं ।
भगवंस् तव शुभा रश्मिः स्मितोद्भवा विनिर्गता ॥ र्म्_1.228{18} ॥
ययावभासिता लोकाः सूर्य्येणोदयता यथा ।
नाकस्माद् दर्शयन्त्य् एवं स्मितं बुद्धा जिनाः क्वचित् ॥ र्म्_1.229{19} ॥
तत् कस्माद् भगवान् स्मितं संदर्शयति सांप्रतं ।
यस्यार्थे भवताप्य् एवं स्मितं संदर्शितं तथा ॥ र्म्_1.230{20} ॥
तं दृष्ट्वा विस्मिताः सर्वे श्रोतुम् इछन्ति सज्जनाः ।
तद् अत्र भगवाञ् छास्ता ह्य् एसां धर्माभिकांक्षिणां ॥ र्म्_1.231{21} ॥
सर्वेषां तत् समादिश्य संदेहं छेत्तुम् अर्हति ।
इत्य् आनंदोदितं श्रुत्वा भगवांश् च तम् अब्रवीत् ॥ र्म्_1.232{22} ॥
एवम् एतत् तथानंद यथा त्वं भाषसे किल ।
नाकारणे जिनं सर्वं स्मितं संदर्शितं क्वचित् ॥ र्म्_1.233{23} ॥
तद् अर्थं शृणु वक्ष्ये ऽहं यद् अर्थं संस्मितं मम ।
पश्यानन्द गृहस्थो ऽयं दारको यः कुशीदितः ॥ र्म्_1.234{24} ॥
मम संदर्शनाद् एवं विर्य्योत्साहं समाप्नुवन् ।
इत्थं रत्नानि संसाध्य बुद्धिमांश् च समृद्धितः ॥ र्म्_1.235{25} ॥
एवं श्राद्धः प्रसन्नात्मा शासने मे ऽनुमोदितः ।
सत्कृत्य शरणं कृत्वा भजति मां ससांघिकं ॥ र्म्_1.236{26} ॥
यद् अयं सार्थभृन् नन्दो मम धर्माभिसंरतः ।
अस्य पुण्यविपाकेन बोधिचित्तं समाप्नुयात् ॥ र्म्_1.237{27} ॥
ततः चिक्षाः समासाद्य पूर्य्य पारमिता दश ।
क्रमान् मारगणाञ् जित्वा संबोधिं समवाप्नुयात् ॥ र्म्_1.238{28} ॥
ततो ऽर्हन्न् अभिवन्द्यो ऽतिबलवीर्य्यपराक्रमः ।
इति नाम्ना प्रसिद्धो ऽयं संबुद्धः सुगतो जिनः ॥ र्म्_1.239{29} ॥
सर्वधर्माधिपः शास्ता सर्वविद्यागुणाकरः ।
सर्वज्ञस् त्रिजगद्भर्त्ता तथागतो भविष्यति ॥ र्म्_1.240{30} ॥
तस्माद् एवं सदानंद कर्त्तव्यं बुद्धदर्शनं ।
बुद्धदर्शनपुण्येन धर्मोत्साहं समापुण्यात् ॥ र्म्_1.241{31} ॥
ततो वीर्य्यसमारूढः सद्धर्मं साधयेन् मुदा ।
ततो धर्मबलैर् माराञ् जित्वा संबोधिम् आप्नुयात् ॥ र्म्_1.242{32} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
अनुमोद्य गुरुं नत्वा तथेति प्राभ्यनंदत ॥ र्म्_1.243{33} ॥
एवं मे गुरुणादिष्टं धर्मोत्साहप्रवृद्धये ।
तथा तव मया ख्यातं सत्यम् एतत् प्रधार्य्यतां ॥ र्म्_1.244{34} ॥
एवं राजंस् त्वयाप्य् एवं कृत्वानुमोदनां तथा ।
धर्मप्रोत्साहनां कृत्वा कर्त्तव्यं बुद्धदर्शनं ॥ र्म्_1.245{35} ॥
सद्धर्मचरणोत्साहे चारणीयाः प्रजाः सदा ।
इत्य् एतद् गुरुणादिष्टं श्रुत्वाशोकः स भूमिपः ॥ र्म्_1.246{36} ॥
सत्यम् एवं प्रतिश्रुत्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_1.247{37!} ॥
तत् कौशीद्यावदानं मुनिवरकथितं श्रद्धया यः शृणोति ।
श्रुत्वा यः श्रावयेद् यः प्रतिदिनम् अनिशं बुद्धसेवानुरक्तः ।
हित्वा क्लेशान् प्रदुष्टान् सकलकलिवलान् मारपक्षांश् च जित्वा ।
पारं गत्वा गुणाब्धेर् व्रजति स सुभगं श्रीघनस्य चरित्रं ।
++ इति रत्नमालायां कौशीद्यवीर्य्योत्साहनावदानं ++
इइ स्नातावदान
अथाशोको नृपेन्द्रो ऽसौ सद्धर्मचरणोत्सवः ।
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत् ॥ र्म्_2.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
यथा ते गुरुणा ख्यातं तथा मे ख्यातुम् अर्हसि ॥ र्म्_2.2{2} ॥
इति तेन नृपेशेन प्रार्थ्यमानो जिनांशजः ।
उपगुप्तः समामंत्र्य तं क्षितीशं समब्रवीत् ॥ र्म्_2.3{3} ॥
साधु सुष्ठु महारज शृणु धर्मं समाहितः ।
यथा मे गुरुणादिष्टं तथात्र ते प्रचक्ष्यते ॥ र्म्_2.4{5!} ॥
पुरैकसमये यो ऽभूच् छाक्यसिंहो दयाकरः ।
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ र्म्_2.5{6} ॥
सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ।
समन्तभद्रकृन् नाथो विनायकस् तथागतः ॥ र्म्_2.6{7} ॥
स श्रावस्त्यां महोद्याने जेतारामे मनोहरे ।
अनाथपिण्डदस्यैव विहारे मणिमण्डिते ॥ र्म्_2.7{8} ॥
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः ।
देवासुरमहाराजैर् मनुजेन्द्रं सपार्षदैः ॥ र्म्_2.8{9} ॥
सर्वलोकाधिपैश् चापि त्रैधातुकनिवासितैः ।
चतुर्वर्णैश् च पौरैश् च तथान्यैश् च शुभार्थिभिः ॥ र्म्_2.9{10} ॥
सत्कृतो मानितश् चाभिवन्दितः संस्तुतो ऽर्चितः ।
गुरुकृतः पुरस्कृत्य परिवृतो ऽवलोकितः ॥ र्म्_2.10{11} ॥
आदिमध्यान्तकल्याणं धर्मं लोके प्रकाशयन् ।
सर्वसत्वहितार्थेन विजहार समाहितः ॥ र्म्_2.11{12} ॥
तस्मिंश् च समये तत्र श्रावस्त्यां ये वणिग्जनाः ।
ते पंचशतमात्राणि रत्नाकरं समागताः ॥ र्म्_2.12{13} ॥
ततः प्रत्यागताः सर्वे कान्तारं समुपाविशन् ।
तत्र ते भ्रमिता मार्गात् परिभ्रष्टा विचेरिरे ॥ र्म्_2.13{14} ॥
विमार्गेण चरन्तस् ते वालुकास्थलम् उपाविशन् ।
तत्र प्रप्ताश् च ते सर्वे मध्याह्ने द्योतितातपे ॥ र्म्_2.14{15} ॥
भानोस् तीक्ष्णकरैस् तप्ता घर्मतापाभिखेदिताः ।
क्षीणपथ्यादनाश् चापि क्षुत्तृष्णा परिपीडिताः ॥ र्म्_2.15{16} ॥
तीव्रदुःखाभिसंतप्ताः पर्यावर्त्तन्त तत्र च ।
स्थलप्राप्ता यथा मीना मृत्युभयविकंपिताः ॥ र्म्_2.16{17} ॥
तदा सर्वे ऽपि ते सार्थाः श्रद्धया शरणं गताः ।
स्वस्वकुलेशस्वस्वेष्टदेवताः संययाचिरे ॥ र्म्_2.17{18} ॥
केचित् स्वयंभुवं स्मृत्वा केचिन् नारायणं तथा ।
केचिच् छिवं महारौद्रं केचित् सूर्य्यग्रहाधिपं ॥ र्म्_2.18{19} ॥
केचिच् चंद्रं च तारेशं केचिद् इंद्रं सुराधिपं ।
केचिद् अग्निं यमं चैव नैऋत्यं च तथापरे ॥ र्म्_2.19{20} ॥
वारुणं च तथा वायुकुवेरं च महेश्वरैः ।
भैरवं मातृकाश् चैवं केचित् स्कन्धं विनायकं ॥ र्म्_2.20{21} ॥
महाकालं तथा चैवं केचिद् ऋषीन् यतीश्वरान् ।
केचिद् दैत्याधिपान् वीरान् केचिन् नागाधिपांस् तथा ॥ र्म्_2.21{22} ॥
केचिच् चातुर्महाराजान् केचिद् यक्षाधिपान् तथा ।
एवम् अन्यांस् त्रिधातुस्थांस् सर्वान् स्मृत्वा ययाचिरे ॥ र्म्_2.22{23} ॥
तैर् एवं याच्यमानानां देवतानं न कश् चन ।
एको ऽप्य् आसीत् तदा त्राता वाणिजां दुःखभागिनां ॥ र्म्_2.23{24} ॥
ततस् ते वणिजः सर्वे मृत्युभयविकंपिताः ।
निराशया विषीदन्तस् तस्थुर् निश्चेष्टमानसाः ॥ र्म्_2.24{25} ॥
तत्र यः सुगतोपासी दृष्टसत्यः स धीरवान् ।
तान् सार्थान् विपन्नाशां दृष्ट्वामंत्र्यैवम् अब्रवीत् ॥ र्म्_2.25{26} ॥
भवन्तो मा विषीदध्वं किं विषादेन सेत्स्यते ।
तस्मात् त्यक्त्वा विषादत्वं धीर्य्यम् आलम्ब्य तिष्ठत ॥ र्म्_2.26{27} ॥
धैर्य्येण तारयेद् दुःखं महाकृच्छ्रं विपत्स्व् अपि ।
तस्माद् धैर्य्यं समाधाय स्मरध्वं च जिनं द्रुतं ॥ र्म्_2.27{28} ॥
जिन एव जगन्नाथस् त्राता सर्वानुकंपकः ।
तद् अस्मद्वचनं श्रुत्वा संबुद्धं स्मरतादरात् ॥ र्म्_2.28{29} ॥
तत्राप्य् एवं भये ऽस्माकं त्राता को ऽन्यो भविष्यति ।
बुद्ध एव जगद्बंधुस् तद् व्रजध्वं जिनं द्रुतं ॥ र्म्_2.29{30} ॥
सर्वथा नो जिनेन्द्रो ऽसौ सर्वसत्वानुकनिपकः ।
डृष्ट्वास्मान् करुणादृष्ट्या संरक्षेत् सहसा खलु ॥ र्म्_2.30{31} ॥
इति तेनोदितं श्रुत्व सर्वे ते वणिजस् तथा ।
संबुद्धं शरणं कृत्वा स्मृत्वाभयं ययाचिरे ॥ र्म्_2.31{32} ॥
नमस् ते भगवन् नाथ सर्वज्ञो ऽसि जगत्प्रभुः ।
भवतैव जगत् सर्वं पालितं पुत्रवत् सदा ॥ र्म्_2.32{33} ॥
अद्याग्रेण वयं सर्वे यावज्जीवं सदापि हि ।
भवतां शरणं यामस् तद् रक्षास्माञ् जगद्गुरो ॥ र्म्_2.33{34} ॥
भवान् एव जगद्धर्मं संसारे पालितं सदा ।
भगवन् सर्वविन् नाथ त्रातुम् अर्हसि सर्वथा ॥ र्म्_2.34{35} ॥
पंचशतसर्वाणि वाणिजाश् च समागताः ।
विमार्गेण चरन्तस् ते मध्याह्ने द्योतितातपे ॥ र्म्_2.35{36} ॥
तत्र प्राप्ताश् च ते सर्वे वालुकास्थले संस्थिताः ।
भानो तीक्ष्णकरे तप्ता क्षुत्तृषार्त्ता परिपीडिताः ॥ र्म्_2.36{37} ॥
तीव्रातिवेदनाक्रान्ता मृत्युभयं समागताः ।
नमो बुद्धाय धर्माय संघायेति नमो नमः ॥ र्म्_2.37{38} ॥
दृष्ट्वास्मान् करुणा सर्वान् पंचशतानि वाणिजान् ।
भवान् एव जगत्स्वामिं तथा बुद्धानुभावतां ॥ र्म्_2.38{39} ॥
तदा स भगवान् तेभ्य माहेन्द्रवृष्टिम् आचरन् ।
शीतला वायवो याति तेन शीतत्वम् आगताः ॥ र्म्_2.39{40} ॥
तद् दृष्ट्वा सार्थपतिना सर्वान् सार्थान् समब्रवीत् ।
भवन्तः श्रूयतां सर्वे यन् मया प्रोच्यते हितं ॥ र्म्_2.40{41} ॥
तद् भवद्भिः समाधृत्वा कर्त्तव्यं कृतवेदिभिः ।
यद् वयं मृत्युसंप्राप्ता परलोकाद् इवागताः ॥ र्म्_2.41{42} ॥
तद् ज्ञेयं जिनेन्द्रस्य कृपादृष्टिप्रसादतः ।
तस्मात् सर्वे वयं तस्य बुद्धस्य शरणं गताः ॥ र्म्_2.42{43} ॥
सद्धर्म्मं समुपाश्रित्य चरेमहि सदापि हि ।
अनित्यं खलु संसारम् अनित्यं जीवितं सुखं ॥ र्म्_2.43{44} ॥
क्षणध्वंसि शरीरं च भवे नित्यं न किं चन ।
धर्म एव महासारं येनैवं रक्ष्यते जगत् ॥ र्म्_2.44{45} ॥
तस्माद् धर्मं समाधर्तुं गन्तव्यं शरणं मुनेः ।
इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ॥ र्म्_2.45{46} ॥
तथेत्य् अभ्यनुमोदन्तस् ततो गंतुम् उपाक्रमत् ।
अथ सार्थपतिश् चैवं कृत्वा तं सह संमतं ॥ र्म्_2.46{47} ॥
विहारे सुगतं द्रष्टुं धर्मं चाप्तुम् अगान् मुदा ।
तत्रोपेत्य प्रविष्टो ऽसौ सर्वसार्थगणान्वितः ॥ र्म्_2.47{48} ॥
दृष्ट्वा तं सुगतं नत्वा विषसाद पुरो मुनेः ।
अथासौ भगवांस् तेषां दृष्ट्वाशयविशुद्धतां ।
आर्य्यसत्यार्य्यमार्गाङ्गं दिदेश धर्मम् उत्तमं ॥ र्म्_2.48{49} ॥
तदा सर्वे ऽपि ते सत्वाः श्रुत्वा तं धर्मम् आदरात् ।
सत्कायदृष्टिनिर्मुक्ता बोधिचित्तं प्रलेभिरे ॥ र्म्_2.49{50} ॥
तत्र केचिन् महाश्राद्धा धर्मानुसारिणो ऽभवन् ।
श्रोतापन्नास् तथा केचित् सकृदागामिनो परे ॥ र्म्_2.50{51} ॥
तथानागामिनः केचित् केचिद् भवपराङ्मुखाः ।
संसारक्लेशसंघांश् च हित्वा सुविमलाशयाः ॥ र्म्_2.51{52} ॥
साक्षात् सद्धर्म्मम् आसाद्य बभूवुर् धर्मचारिणः ।
केचिच् छ्रावकबोधौ च प्रत्येकायां तथापरे ॥ र्म्_2.52{53} ॥
केचिद् अनुत्तरायां च संबोधौ प्रणिधिं दधुः ।
एवं ताः पर्षदः सर्वाः संबुद्धशरणे स्थिताः ॥ र्म्_2.53{54} ॥
सद्धर्म्माचरणे रक्ताः संघभक्ता बभूविरे ।
अथ ते भिक्षवो दृष्ट्वा तान् सर्वान् बोधिचारिणः ॥ र्म्_2.54{55} ॥
संबुद्धं प्रयता नत्वा पप्रछुर् विस्मयान्विताः ।
आश्चर्य्यं भगवन् यावद् यद् इमे वणिजस् तथा ॥ र्म्_2.55{56} ॥
कांतारपतिताः सर्वे भवता परिपालिताः ।
भवच्चिन्तितमात्रे ऽपि माहेन्द्रवृष्टिम् आचरन् ॥ र्म्_2.56{57} ॥
शीतला वायवो वातास् तत् कथं वक्तुम् अर्हसि ।
इति तैर् भिक्षुभिः पृष्टो भगवांस् तान् अभाषत ॥ र्म्_2.57{58} ॥
शृणुध्वं भिक्षवः कर्म्म यन् मया कृत कृतं कथ्यते ।
यन् मया प्रकृतं कर्म को ऽन्यो भुंज्याद् धि तत्फलं ॥ र्म्_2.58{59} ॥
येन यत् प्रकृतं कर्म स एवाद्याद् धि तत् फलं ।
अभुक्तं क्षीयते कर्म नैव क्वापि कथं चन ॥ र्म्_2.59{60} ॥
अग्निभिर् दह्यते नैव वायुभिर् नापि शुष्यते ।
उदकैः क्लिद्यते नापि भूमिषु ॥ र्म्_2.60{61} ॥
अपि तु पच्यते स्कन्धषड्धात्वायतनेषु हि ।
अन्यथा चापि कर्माणि न ददन्ति फलानि च ॥ र्म्_2.61{62} ॥
यथैव यत् कृतं कर्म तथैव तत् फलं मतं ।
शुभकर्म शुभं दद्यात् पापकर्माशुभं खलु ॥ र्म्_2.62{63} ॥
मिश्रितम् उभयं दद्याद् इति मत्वा शुभे चरेत् ।
न प्रणश्यंति कर्माणि कल्पकोटिशतैर् अपि ॥ र्म्_2.63{64} ॥
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां ।
यन् मया प्रकृतं पूर्वं तत् फलं प्राप्यते ऽधुना ॥ र्म्_2.64{65} ॥
कथ्यते तत् पुरावृत्तं साधु शृणुत सादरं ।
पुरैकसमये बुद्धश् चंदनो नाम धर्मराट् ॥ र्म्_2.65{66} ॥
सर्वज्ञो ऽर्हञ् जगन्नाथः शास्ता लोकाधिपेश्वरः ।
विद्याचरणसंपन्नः सुगतो लोकविज् जिनः ॥ र्म्_2.66{67} ॥
तथागतो महाभिज्ञः संबुद्धो ऽभूद् विनायकः ।
तदैकसमये तत्र चंदनः स मुनीश्वरः ॥ र्म्_2.67{38!} ॥
भिक्षुभिः सह सद्धर्म्मं प्रकाशयन् समंततः ।
हिताय सर्वसत्वानां जानपदेषु संचरन् ॥ र्म्_2.68{69} ॥
अन्यतमां पुरीं रम्यां राजधानीम् उपाश्रयत् ।
तत्र सत्वहितार्थेन बोधिचर्यां प्रकाशयन् ॥ र्म्_2.69{70} ॥
श्रावकैर् भिक्षुभिः सार्द्धं विजहार जिनाश्रमे ।
अथ तदाधिपो राजा श्रुत्वा तं बुद्धम् आगतं ॥ र्म्_2.70{71} ॥
स मंत्रिजनपौरैश् च सह प्रत्युद्ययौ मुदा ।
तत्रासौ सहसोपेत्य दृष्ट्वा तं सुगतं मुनिं ॥ र्म्_2.71{72} ॥
कृतांजलिपुटो नत्वा तस्थाव् एकांतिके मुदा ।
अथासौ भगवान् दृष्ट्वा तं नृपं समुपस्थितं ॥ र्म्_2.72{73} ॥
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ।
शृणु राजन् भवे सारं धर्मं नित्यम् अतंद्रितं ॥ र्म्_2.73{74} ॥
धर्मेण जायते लोको धर्मेण स्वर्गम् आरुहेत् ।
तस्माद् धर्मं पुरस्कृत्य संपालयन् प्रजा सदा ॥ र्म्_2.74{75} ॥
प्रजारक्षाव्रतं धर्मं मूलं राज्ञां विदुर् बुधाः ।
प्रजारक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः ॥ र्म्_2.75{76} ॥
तेन राजन् त्वया धर्मे पालनीयाः प्रजाः शुभे ।
तद् दशाकुशलेभ्यश् च विनिवार्य त्वया सदा ॥ र्म्_2.76{77} ॥
योजनीयाः प्रजा धर्मे तत्पुण्यैस् त्वं प्रमोक्ष्यसे ।
आदौ दाने प्रजान् योज्याः संबोधिपदकारणे ॥ र्म्_2.77{78} ॥
तत्पुण्यैः प्रचरिष्यन्ति प्रजाः संवर्द्धिताः शुभे ।
शुभकर्मरते लोके तत्पुण्यैः वर्द्ध्यते नृपः ॥ र्म्_2.78{79} ॥
तस्माद् दानं स्वयं दत्वा प्रजा शीले नियोजय ।
शीलेन शुद्ध्यते कायः शुद्धकायो भवेत् सुधीः ॥ र्म्_2.79{80} ॥
सुबुद्धिः क्षमया सर्वाच् छत्रूं जित्वा विराजते ।
ततो वीर्य्यबलैः सर्वान् सत्वान् सौख्ये नियोजयेत् ॥ र्म्_2.80{81} ॥
ततः क्लेशान् विनिर्जित्य ध्यात्वा बोधिं प्रसाधयेत् ।
बोधिप्रणिधिचित्तेन कृती प्रज्ञां प्रसाधयेत् ॥ र्म्_2.81{82} ॥
ततः प्राज्ञ उपायैश् च जगद् बोधौ नियोजयेत् ।
ततो मारान् विनिर्जित्य संबोधिज्ञानम् आप्नुयात् ॥ र्म्_2.82{83} ॥
तत्र प्राप्य रसाभिज्ञा दशभूमीश्वरो भवेत् ।
ततः कृत्वा वशे सर्वांस् त्रैधातुकनिवाशिनः ॥ र्म्_2.83{84} ॥
संस्थाप्य सौगते धर्मे स्वयं निर्वृतिम् आचरेत् ॥ र्म्_2.84{85} ॥
एवं ज्ञात्वा महाराज निर्वाणगतिसाधनं ।
यदि ते निर्वृतौ वांछा तदैतासु समाचर ॥ र्म्_2.85{86} ॥
ततस् ते मंगलं नित्यं संवृत्तिसुखम् आप्नुयाः ।
क्रमात् पारमिताः पूर्य्य निर्वृतिं समवाप्नुयाः ॥ र्म्_2.86{87} ॥
निर्वाणं परमं ज्ञानं निर्वाणं परमं सुखं ।
निर्वाणं परमं पुण्यं निर्वाणं परमां गतिं ॥ र्म्_2.87{88} ॥
एवं हि सुकृतं सर्वं ज्ञात्वा निर्वाणकारणं ।
तथा धर्मे स्वयं स्थित्वा प्रेरणीयाः प्रजा अपि ॥ र्म्_2.88{89} ॥
एवं स चंदनो बुद्धो बोधयित्वा च तं नृपं ।
बोधिमार्गे प्रतिस्थाप्य विरराम क्षणं ततः ॥ र्म्_2.89{90} ॥
अथ स नृपती राजा श्रुत्वा तद् धर्मम् आदरात् ।
प्रमोदितः समुत्थाय उत्तरासंगम् उद्वहन् ॥ र्म्_2.90{91} ॥
जानुभ्यां भुवि संस्थित्वा कृतांजलिपुटो नतः ।
सुप्रसन्नमुखः पादौ नत्वा तं प्रार्थयन् मुनिं ॥ र्म्_2.91{92} ॥
नमस् ते भगवन् नाथ भवतां शरणं व्रजे ।
सद्धर्मम् आदिशन्न् अत्र विजयस्व गणैः सह ॥ र्म्_2.92{93} ॥
इति तेन नृपेन्द्रेण प्रार्थिते स मुनीश्वरः ।
तथेति प्रतिसंश्रुत्य त्रैमास्यम् अध्यवासयत् ॥ र्म्_2.93{94} ॥
ततः सान्तःपुरा राजा तं मुनीन्द्रं ससांघिकं ।
सदा सत्कारपूजाङ्गैर् भोज्यैः प्रारागयन् मुदा ॥ र्म्_2.94{95} ॥
तस्मिंश् च समये तत्र लोकानाचरकोपिताः ।
वर्षाधिदेवता मेघावृष्टिं न मुमुचुर् भुवि ॥ र्म्_2.95{96} ॥
ततस् तस्याम् अनावृष्ट्यां तडागादि जलाश्रयाः ।
दिने दिने प्रहीनांभः पंकशेषविशोषिताः ॥ र्म्_2.96{97} ॥
निःपुष्पा निष्फला वृक्षाः शाखापत्त्रविशीर्ण्णिताः ॥ र्म्_2.97{97!} ॥
स्थाणुकल्पा निराभोग्याः पक्षिसंपातवर्जिताः ।
महीशस्यविपन्नाश् च बीजांकुलविशोषिताः ॥ र्म्_2.98{98} ॥
निस्तृणा प्रखलीभूता मरुकल्पाभवत् तदा ।
अन्नपानवियोगेन मृता अनेकजन्तवः ॥ र्म्_2.99{99} ॥
क्षुत्पिपासहताः केचिन् न्यषीदन्त मृता इव ।
केचिद् गेहे विषण्णास्या मृत्युशंकाविषादिताः ॥ र्म्_2.100{100} ॥
परस्परं मुखं दृष्ट्वा निःश्वसन्तो निषेदिरे ।
केचिन् मेघं च खे दृष्ट्वा प्रायाचन्त दिवानिशं ॥ र्म्_2.101{1} ॥
हा हतास्म इति प्रोक्त्वा केचित् तस्थुर् निराशिताः ।
एवं नानाप्रकारेण विलपन्तो विखेदिताः ॥ र्म्_2.102{2} ॥
सर्वे ऽपि पौरिकास् तत्र चिखेदुर् मृत्युशंकिताः ।
तद् दृष्ट्वा नृपतिश् चापि मृत्युत्रस्तानुकंपितः ॥ र्म्_2.103{3} ॥
मंत्रिणः सचिवान् सर्वान् समामंत्र्याब्रवीद् इति ।
हा कष्टं कथम् अत्रैवं दुर्भिक्षं वर्त्तते ऽधुना ।
किं करोमि न मन्ये ऽहं वदध्वं तत् प्रतिक्रियां ॥ र्म्_2.104{4} ॥
येन तदा महापापदुर्भिक्षं शाम्यते द्रुतं ।
तदुपायं प्रकुर्याम तत् कुरुध्वं यथाविधिं ॥ र्म्_2.105{5} ॥
इति श्रुत्वा नृपाज्ञां ते समंत्रिजनपौरिकाः ।
देवता विधिनाराध्य तच् छान्तिं संययाचिरे ॥ र्म्_2.106{6} ॥
भो देवताः प्रसीदध्वं नमो वः प्रणता वयं ।
अपराधं यद् अस्मासु क्षन्तव्यं सर्वथापि तत् ॥ र्म्_2.107{7} ॥
इमं दुर्भिक्षनिर्वृष्टिं प्राप्तं शमयत द्रुतं ।
सुवृष्टिं कारयित्वात्र सुभिक्षं कुरुत ध्रुवं ॥ र्म्_2.108{8} ॥
एवं केचिद् विधातारं केचिद् विष्णुं जनार्दनं ।
केचिच् छिवं महेशानं इंद्रं केचित् सुराधिपं ॥ र्म्_2.109{9} ॥
केचिद् ग्रहाधिपं केचिल् लोकपालान् महर्द्धिकान् ।
केचिच् च मातृकादेवीं स्कंदविघ्नेशभैरवान् ॥ र्म्_2.110{10} ॥
महाकालगणांश् चापि केचिन् नागाञ् जलाधिपान् ।
केचिन् मेघान् समालोक्य नत्वा वृष्टिं ययाचिरे ॥ र्म्_2.111{11} ॥
एवं सर्वे ऽपि लोकाश् च स्वस्वेष्टकुलदेवताः ।
विधिनाराध्य संप्रार्थ्य सुवृष्टिं प्रययाचिरे ॥ र्म्_2.112{12} ॥
एवं तैः प्रार्थ्यमानास् ताः सर्वाश् च देवता अपि ।
तत्र वृष्टिं समुत्स्रष्टुं नैव शेकुर् विघातिताः ॥ र्म्_2.113{13} ॥
ततः सर्वे च ते लोका दृष्ट्वा तद् वृष्टिघातितां ।
हाहाकारविरावन्तो विचिखेदुर् निराशिताः ॥ र्म्_2.114{14} ॥
अथ राजा स तान् दृष्ट्वा दुर्भिक्षाक्षोभिताशायान् ।
तथा च ग्रहाम् आलोक्य विसण्णास्यो व्यचिन्तयत् ॥ र्म्_2.115{15} ॥
अहो कष्टं महोत्पातं मम राज्ये भविष्यति ।
कथम् अत्र प्रतीकारं तत् प्रशान्त्यै करिष्यते ॥ र्म्_2.116{16} ॥
किं मया नृपभूतेन यशोधर्मविघातिना ।
न शक्यंते प्रजा येन रक्षितुम् ईतिपीडिते ।
धिग् मां नृपाधमीभूतं किं पापं प्रकृतं मया ।
येन यस्य प्रजा एव क्षुत्पिपासहता मृताः ।
किम् एव मम राज्ये न भोग्यैश् चापि धनैर् अपि ।
किं तेन जीवितेनापि यशोधर्मविनाशिना ॥ र्म्_2.117{18} ॥
येन राज्ञा न रक्ष्यन्ते प्रजाः स्वविषयाश्रिताः ।
स किं राजा बलिष्ठो ऽपि कृतान्त इव मन्यते ॥ र्म्_2.118{19} ॥
यश् च राजा स्वभोग्यार्थं केवलं दण्डम् आहरन् ।
न विपत्सु प्रजाः पाति स किं राजापि चौरवत् ॥ र्म्_2.119{20} ॥
येषाम् एव हितार्थाय यश् च राजाभिषिच्यते ।
स तेषां न हितं कुर्य्यात् स किं राजा कृतार्थहा ॥ र्म्_2.120{21} ॥
धिक् प्रवादहतः सो ऽत्र यशोधर्मसुखार्थहा ।
स्वयं नष्टः परान् हत्वा नरकेषु व्रजेद् ध्रुवं ॥ र्म्_2.121{21!} ॥
किं चाहम् अपि मानुष्यः समान इंद्रियैर् अपि ।
यतो मे क्रियते सर्वैः सेवो नित्यं समाहितैः ॥ र्म्_2.122{22} ॥
यदि न क्रियते रक्षा मयाप्य् एषां विपत्स्व् अपि ।
कथम् एतदृशैर् मुक्तः कदा यास्यामि सद्गतिं ॥ र्म्_2.123{23} ॥
सर्वदैतदृणैर् बद्धः सर्वथा प्रतिबंधितः ।
कर्मभिः प्रेर्य्यमाणो ऽहं यास्यामि नरकान् ध्रुवं ॥ र्म्_2.124{24} ॥
तदाहं किं करिष्यामि यमदूतैर् अधिष्ठिते ।
दृष्ट्वा तां भीषणां क्रूरान् पतिष्यामि विमोहितः ॥ र्म्_2.125{25} ॥
तदा तत्र न विद्येत कश्चित् त्राता दयान्वितः ।
धर्म एव तदा रक्षेत् तद् धर्मं साधयेच् छुभं ॥ र्म्_2.126{26} ॥
धर्माश् च बहुधा प्रोक्तास् तेषां प्राहुर् मुनीश्वराः ।
आदिमध्यान्तकल्याणं सौगतं धर्मम् उत्तमं ॥ र्म्_2.127{27} ॥
येनैव शुभतां कृत्वा सर्वत्र भुवनेष्व् अपि ।
सर्वसत्वाश् च पाल्यन्ते सर्वदेह परत्र च ॥ र्म्_2.128{28} ॥
तथात्रापि शुभं कर्तुं संबुद्धं शरणं व्रजन् ।
सद्धर्मं समवाप्तुं च सेवितव्यं ससांघिके ॥ र्म्_2.129{29} ॥
तेनात्र सहसा कृत्वा पुष्करणीमनोरमां ।
संबुद्धसुगतं तत्र स्नापयित्वा ससांघिकं ॥ र्म्_2.130{30} ॥
महत्सत्कारपूजाभिर् भोजनैश् च प्रतोषयन् ।
ततस् तं सुगतं नत्वा तद् दुर्भिक्षं प्रशांतये ॥ र्म्_2.131{31} ॥
सुवृष्टिचारणे लोके प्रार्थयिष्यामि सादरं ।
तदा स भगवान् अत्र सुवृष्टिं चारयेद् ध्रुवं ॥ र्म्_2.132{32} ॥
सर्वत्र शुभतां कृत्वा सुभिक्षं कारयेत् सदा ।
ततो ऽत्र सर्वदाप्य् एवं दुर्भिक्षं न कदा चन ॥ र्म्_2.133{33} ॥
सुभिक्षं सर्वतो भद्रं भवेन् नूनं समंततः ।
इति ध्यात्वा विनिश्चित्य मनसा स नराधिपः ॥ र्म्_2.134{34} ॥
सहसा सचिवान् सर्वान् समामंत्र्याब्रवीत् तथा ।
शृणुध्वं मंत्रिणो यन् मे मनसा संविचिंतितं ॥ र्म्_2.135{35} ॥
तद् अनुमोद्य युष्माभिः प्रकर्त्तव्यं समाहितैः ।
यद् अद्य जायते ऽवृष्टिं दुर्भिक्षं चोपवर्त्तते ॥ र्म्_2.136{36} ॥
तद् अस्मत्पापतो नूनं तत् पापपरिहाणये ।
संबुद्धशरणं कृत्वा सद्धर्मसमवाप्तये ॥ र्म्_2.137{37} ॥
ससंघं सेवितुं नित्यम् इछे तद् अनुमोद्यतां ।
स एव भगवान् नाथः कृत्वात्र शुभतां सदा ॥ र्म्_2.138{38} ॥
सुवृष्टिं चारयित्वा च सुभिक्षं कारयेद् ध्रुवं ।
ततो ऽस्माकं तदाप्य् अत्र मंगलं स्यात् समंततः ॥ र्म्_2.139{39} ॥
सदा सद्धर्मम् आधाय सौख्यं भुक्त्वा भजेमहि ।
धर्मेण शुभता नित्यं धर्मेण जीयते विपत् ॥ र्म्_2.140{40} ॥
धर्मेण पाल्यते सर्वं धर्मेण सद्गतिं व्रजेत् ।
धर्मं तु सौगतं भद्रं सर्वे प्राहुर् मुनीश्वराः ॥ र्म्_2.141{41} ॥
सद्धर्मं समवाप्तुं तं संबुद्धं भजतादरात् ।
बुद्ध एव जगद्बंधुः सर्वसत्वहितंकरः ॥ र्म्_2.142{42} ॥
बुद्ध एव जगन्मित्रं सर्वसत्वसुखप्रदः ।
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0