भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 181200

शृणु राजन् समाधाय यथा मे गुरुणोदितं ।
तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ र्म्_18.4{4} ॥
पुरैकसमये स श्रीशाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ र्म्_18.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः ।
उपासकै महाश्राद्धैर् उपासिकागणैर् अपि ॥ र्म्_18.6{6} ॥
बोधिसत्वगणैश् चापि महासत्वैः शुभार्थिभिः ।
सर्वसत्वहितार्थाय बोधिचर्यां प्रकाशिभिः ॥ र्म्_18.7{7} ॥
वृजिषु पुरि वैशाल्यां मर्कटाख्यह्रदान्तिके ।
कूटागारगुहावासे विजहार प्रभासयन् ॥ र्म्_18.8{8} ॥
तत् सद्धर्मामृतं पातुं तत्र सर्वे समागताः ।
ब्रह्मशक्रादिदेवेन्द्रा लोकपाला दिगास्थिताः ॥ र्म्_18.9{9} ॥
ग्रहाः सिद्धगणाः साध्या यक्षगंधर्वकिन्नराः ।
गरुडा नागराजाश् च विद्याधराश् च दानवाः ॥ र्म्_18.10{10} ॥
राक्षसाः सगणाश् चैव ऋषयो ब्रह्मचारिणः ।
ब्रह्मणाः क्षत्रिया भूपा राजानो ऽपि नराधिपाः ॥ र्म्_18.11{11} ॥
तथा राजकुमाराश् च वैश्या मंत्रिजना अपि ।
गृहस्थाः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ र्म्_18.12{12} ॥
वणिजः शिल्पिनश् चापि तथान्ये ऽपि शुभार्थिनः ।
ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ र्म्_18.13{13} ॥
एवम् अन्ये ऽपि लोकाश् च सद्धर्मामृतवांछिनः ।
सर्वे ते समुपायातास् तत्राद्राक्षुस् तम् ईश्वरं ॥ र्म्_18.14{14} ॥
सभामध्यासनासीनं सर्वसंघपुरस्कृतं ।
श्रीघनं तं समालोक्य सर्वे ते समुपाश्रिताः ॥ र्म्_18.15{15} ॥
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं ।
पुनः साञ्जलयो नत्वा परिवृत्य समंततः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ र्म्_18.16{16} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणीं बोधिचर्यां समादिशत् ॥ र्म्_18.17{17} ॥
तदार्यधर्मम् आकर्ण्य सर्वे लोकाः प्रमोदिताः ।
तदा ते धर्मवैशेष्यं मत्वा प्रतिननंदिरे ॥ र्म्_18.18{18} ॥
तदा तत्र महापूर्य्यां वैशाल्यां पौरिको महान् ।
गृहस्थो धनिको नाम श्रीमान् सर्वगुणी सुधीः ॥ र्म्_18.19{19} ॥
श्राद्धो भद्राशयो दाता शुद्धशीलो विचक्षणः ।
सर्वसत्वहिताधानाद् आसीत् सत्पुरुषोत्तमः ॥ र्म्_18.20{20} ॥
पत्नी धर्मसखी तस्य शीलवत्यभिधाभवत् ।
तनयश् च वंदान्याख्यः सत्यवत्यभिधा स्नुषा ॥ र्म्_18.21{21} ॥
तदा तत्र द्विजा सर्वे भक्तिमन्तो जगद्गुरोः ।
पूजानिमंत्रणे चक्रुः समयं संमतास् तथा ॥ र्म्_18.22{22} ॥
भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया ।

सद्धर्मं समुपादेष्टुं ससंघः समुपागतः ॥ र्म्_18.23{23} ॥
तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयं समादरात् ।
अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा ॥ र्म्_18.24{24} ॥
एकश् चेत् कुरुते द्रव्यमदाद् अस्य निमंत्रणं ।
सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् ॥ र्म्_18.25{25} ॥
तदा स धनिको ऽज्ञात्वा समयं तैस् तथा कृतं ।
स्वयम् एव मुनीन्द्रं तं पूजयितुं समिछत ॥ र्म्_18.26{26} ॥
ततः स धनिकः श्रीमान् दिव्यसंपत्समृद्धिमान् ।
स्वयं निमंत्रणं कर्त्तुं ससंघस्य मुनेर् ययौ ॥ र्म्_18.27{27} ॥
तत्र स समुपासृत्य नत्वा तं श्रीघनं मुदा ।
ससंघं तत् पुरः स्थित्वा प्रार्थयद् एव सांजलिः ॥ र्म्_18.28{28} ॥
भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं ।
पूजयितुं समिछामि पश्यन् मे ऽनुग्रहं कुरु ॥ र्म्_18.29{29} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
तथा हीति प्रतिश्रुत्वा तूष्णीभूत्वाध्युवास तत् ॥ र्म्_18.30{30} ॥
तदा ते ब्राह्मणाः सर्वे संभूय समुपागताः ।
भगवतश् चरणौ नत्वा चक्रुर् भोज्यनिमंत्रणं ॥ र्म्_18.31{31} ॥
तच् छ्रुत्वा भगवान् प्राह तान् दृष्ट्वा भक्तिमानसान् ।
पूर्वम् एव ससंघाहम् अनेनोद्य निमंत्रितः ॥ र्म्_18.32{32} ॥
एतद् आकर्ण्य सर्वे ते ब्राह्मणा भेदिताशयाः ।
परं प्रतीक्ष्यमानाश् च शनैः स्वस्वगृहं ययुः ॥ र्म्_18.33{33} ॥
ततः स धनिको मत्वा मुनीन्द्रेणाध्युवासितं ।
मुदितस् तं मुनिं नत्वा सहसा स्वगृहं ययौ ॥ र्म्_18.34{34} ॥
तत्र स स्वगृहे गत्वा वांधवेष्टजनैस् सह ।
तदर्हभोज्यसामग्रीं सहसा समसाध्ययत् ॥ र्म्_18.35{35} ॥
ततो भोज्यस्थलं तत्र शोधयित्वा समन्ततः ।
रत्नध्वजैर् वितानैश् च स पताकैर् अमण्डयत् ॥ र्म्_18.36{36} ॥
ततो यथाक्रमं तत्र दिव्यरत्नमयानि च ।
स्वासनानि समास्तीर्य्य सुगंधीः समधूपयत् ॥ र्म्_18.37{37} ॥
ततः स प्रातर् उत्थाय स्नात्वा शुद्धाम्वरावृतः ।
पूजापाद्यार्घसामग्रीं प्रतिष्ठाप्य प्रमोदितः ॥ र्म्_18.38{38} ॥
सवांधवेष्टजनस् तत्र कूटागारे समाचरत् ।
साञ्जलिस् तं मुनिं नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_18.39{39} ॥
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना ।
तत् ससंघो ममावासे विजयितुं समर्हसि ॥ र्म्_18.40{40} ॥
इति संप्रार्थिते तेन भगवान् स ससांघिकः ।
खिक्खिरीपात्रम् आदाय प्रतस्थे चीवरावृतः ॥ र्म्_18.41{41} ॥
तत्र स भगवान् मार्गे कृत्वा भद्रं समन्ततः ।
प्रभासयन् क्रमेणैवं वैशाल्यां समुपविशत् ॥ र्म्_18.42{42} ॥
तथायातं मुनीन्द्रं तं श्रीघनं सांघिकान्वितं ।

दृष्ट्वा वैशालिकाः लोकाः सर्वे ऽपि समपूजयन् ॥ र्म्_18.43{43} ॥
एवम् अभ्यर्च्यमानो ऽभिवंद्यमानो ऽभिनंदितः ।
भासयन् भद्रतां कृत्वा संघैः सह समाचरत् ॥ र्म्_18.44{44} ॥
तत्र तस्य गृहे गत्वा ससंघः स मुनीश्वरः ।
तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् ॥ र्म्_18.45{45} ॥
ततस् ते सांघिकाश् चापि सर्वे तत्र यथाक्रमं ।
तद् दत्तं पाद्यम् आदाय स्वस्वासने समाश्रयन् ॥ र्म्_18.46{46} ॥
ततः स धनिको दृष्ट्वा ससंघं तं मुनीश्वरं ।
स्वस्वासने समासीनं पूजाङ्गैः समपूजयत् ॥ र्म्_18.47{47} ॥
ततो दिव्योपचारैस् तं भगवन्तं ससांघिकं ।
सुप्रणीतै रसोपेतैर् भोजनैः समतोषयत् ॥ र्म्_18.48{48} ॥
तद्भोज्यं सुरसं भुक्त्वा भगवान् स ससांघिकः ।
अमृतैर् इव संतुष्टस् तृप्तिं ययौ प्रमोदितः ॥ र्म्_18.49{49} ॥
असंघैः तं मुनिं तृप्तं दृष्ट्वा स धनिको मुदा ।
ततो ऽपनीय पात्राणि तद्धस्तादीन्य् अशोधयत् ॥ र्म्_18.50{50} ॥
ततः शुद्धौषधीपूगताम्वूलादि रसायनं ।
बुद्धप्रमुखसंघेभ्यो मुदितः स स्वयं ददौ ॥ र्म्_18.51{51} ॥
ततः स हर्षितो नत्वा तं मुनीन्द्रं ससांघिकं ।
पुरतः साञ्जलिः स्थित्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_18.52{52} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं गतः ।
भक्त्यैव भजनं कुर्वे तत् क्षमस्वापराधतां ॥ र्म्_18.53{53} ॥
सदैवं कृपया दृष्ट्य पश्यन् भवान् ससांघिकः ।
ममानुग्रहम् आधाय त्रातुम् अर्हति सर्वथा ॥ र्म्_18.54{54} ॥
ततः स भगवाञ् छास्ता ससांघिको ऽनुमोदितः ।
धनिकं तं समालोक्य नंदयन्न् एवम् आदिशत् ॥ र्म्_18.55{55} ॥
गृहपते सदा नित्यम् आरोग्यम् अस्तु वो ध्रुवं ।
बोधिप्रणिधिसिद्धिश् च भूयाद् भद्रं च सर्वदा ॥ र्म्_18.56{56} ॥
ततस् तस्य प्रिया भार्या शीलवत्य् अनुमोदिता ।
साञ्जलिः प्रणतिं कृत्वा प्रार्थयत् तं मुनीश्वरं ॥ र्म्_18.57{57} ॥
भगवन् नाथ सर्वज्ञ श्वश् चात्र भवताम् अहं ।
पूजां कर्तुं समिच्छे तद् अनुग्रहीतुम् अर्हति ॥ र्म्_18.58{58} ॥
तयेति प्रार्थिते दृष्ट्वा भगवान् स तद् आशयं ।
श्रद्धान्वितं प्रतिज्ञाय तुष्णीभूत्वाध्युवास तत् ॥ र्म्_18.59{59} ॥
ततः स भगवाञ् छास्ता समुत्थाय ससांघिकः ।
भासयं भद्रतां कृत्वा स्वाश्रमे च समाश्रयत् ॥ र्म्_18.60{60} ॥
ततः परदिने प्रातः स्नात्वा शुद्धांवरावृता ।
साधित्वा सर्वसामग्रीं सा दूतं प्रेषयन् मुनौ ॥ र्म्_18.61{61} ॥
स दूतः सहसा गत्वा विहरे तं मुनीश्वरं ।
ससंघं सांजलिर् नत्वा पुनर् एवं न्यवेदयत् ॥ र्म्_18.62{62} ॥
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना ।

तत् ससंघो भवांस् तत्र सहसागन्तुम् अर्हति ॥ र्म्_18.63{63} ॥
ततः स भगवान्न् एवं भद्रं कृत्वा ससांघिकः ।
धनिकस्य गृहे गत्वा पाद्यं गृह्यासने ऽविशत् ॥ र्म्_18.64{64} ॥
तत्रासने समासीनं ससंघं तं मुनीश्वरं ।
दृष्ट्वा शीलवती साथ यथाविधि समर्चयत् ॥ र्म्_18.65{65} ॥
ततश् च सा मुदिता सर्वं संघं बुद्धादिकं तथा ।
दिव्योपचारसंयुक्तैर् भोजनैः समतोषयत् ॥ र्म्_18.66{66} ॥
ततः संतर्प्पितं दृष्ट्वा शोधयित्वा करादिकं ।
दत्वा ताम्वुरपूगादिं नत्वा सा समुपाश्रयत् ॥ र्म्_18.67{67} ॥
ततः स भगवान् तस्मै दत्वाशिषं ससांघिकः ।
समुत्थाय ततश् चैवं स्वविहारे समाश्रयत् ॥ र्म्_18.68{68} ॥
तथा सर्वे तदान्यो ऽपि धनिकस्यात्मजः सुधीः ।
तत् परेद्यु विहारं तं गत्वा नत्वा न्यमंत्रयत् ॥ र्म्_18.69{69} ॥
भगवान्न् अपि तस्यैवं दृष्ट्वा श्रद्धान्वितं मनः ।
तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास च ॥ र्म्_18.70{70} ॥
ततः सस् तं मुनिं नत्वा स्वगृहं सहसागतः ।
बांधवैः सर्वसामग्रीं मुदितः समसाधयत् ॥ र्म्_18.71{71} ॥
ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वारावृतः ।
विहारे समुपासृत्य नत्वैवं मुनिम् अब्रवीत् ॥ र्म्_18.72{72} ॥
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना ।
तत् संघो भवान् गेहे ममागन्तुं समर्हति ॥ र्म्_18.73{73} ॥
ततः ससंघ उत्थाय भगवान् स तथाचरत् ।
तद्गृहे पाद्यम् आदाय तत्रासने समाश्रयत् ॥ र्म्_18.74{74} ॥
ततः स मुदितो बुद्धप्रमुक्बं सर्वसांघिकं ।
समभ्यर्च्य तथा दिव्यभोजनैः समतोषयत् ॥ र्म्_18.75{75} ॥
ततो ऽपनीय पात्राणि शोधयित्वा करादिकं ।
दत्वा पूगादिकं नत्वा पुरतः समुपाश्रयत् ॥ र्म्_18.76{76} ॥
पुनः स सांजलिर् नत्वा प्रकृत्वा च क्षमार्थनां ।
ससंघं तं मुनीन्द्रं तम् संदृष्ट्वैवं समुपाश्रयत् ॥ र्म्_18.77{77} ॥
तदा तस्य स्नुषा चापि सत्यवती प्रमोदिता ।
भगवंतं ससंघं तं प्रणत्वैवं न्यमंत्रयत् ॥ र्म्_18.78{78} ॥
भगवान्न् अपि तस्याश् च दृष्ट्व श्रद्धान्वितं मनः ।
तथेति प्रतिमोदित्वा तुष्णीभूत्वा रधां व्यधात् ॥ र्म्_18.79{79} ॥
ततः स भगवांस् तस्मै दत्वाशिषं ससांघिकः ।
तथा कृत्वा शुभं लोके गत्वाश्रमे समाश्रयत् ॥ र्म्_18.80{80} ॥
ततः सापि तथा प्रातः स्नात्वा शुद्धाम्वरावृता ।
दूतेनापि मुनीन्द्रं तं ससंघं समचोदयत् ॥ र्म्_18.81{81} ॥
तथा स भगवांश् चापि ससांघिकः समुत्थितः ।
प्रचरन् भद्रतां कृत्वा तस्या गेहे समाविशत् ॥ र्म्_18.82{82} ॥
तत्र पाद्यार्घम् आदाय भगवान् स ससांघिकः ।

शुभासने समासीनस् तस्थौ तत्र प्रभासयन् ॥ र्म्_18.83{83} ॥
तथास्थितं मुनीन्द्रं तं दृष्ट्वा संप्रमोदिता ।
यथाविधि समभ्यर्च्य तथा भोज्यैर् अतोषयत् ॥ र्म्_18.84{84} ॥
तातस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य सा ।
तत्रापनीय पात्राणि हस्तादीं पर्यशोधयत् ॥ र्म्_18.85{85} ॥
ततः पूगादिकं दत्वा प्रार्थयित्वा क्षमां तथा ।
ससंघं तं मुनिं नत्वा सा साञ्जलिर् उपाश्रयत् ॥ र्म्_18.86{86} ॥
तथा स भगवांस् तस्यै दत्वाशीषं ससांघिकः ।
ततो विहायसा गत्वा स्वाश्रमे च समाश्रयत् ॥ र्म्_18.87{87} ॥
तथा स धनिको भक्त्या भगवन्तं ससांघिकं ।
दिव्याद्भुतर्द्धिसंभारैः पुनर् एवं न्यमंत्रयत् ॥ र्म्_18.88{89!} ॥
तत्पुत्रेण तृतीये ऽह्नि चतुर्थे स्नुषया तथा ।
ससंघो भगवान्न् एवं दिव्यभोगैर् निमंत्रितः ॥ र्म्_18.89{90} ॥
तच् छ्रुत्वा तद् द्विजाः सर्वे वैशालिकाः प्रजा अपि ।
अलब्धावसराः शास्तुः पूजायां प्रतिचुक्रुशुः ॥ र्म्_18.90{91} ॥
ततस् ते संमतं कृत्वा सर्वे विप्राः सपौरिकाः ।
धनिकाय पुरं क्रुद्धाश् चक्रुर् निकासनोद्यमं ॥ र्म्_18.91{92} ॥
एवं तत् समतं ज्ञात्वा भगवान् स मुनीश्वरः ।
धनिकं तं समाहूय पुर एवम् उपादिशत् ॥ र्म्_18.92{93} ॥
साधो गृहपते सर्वे इमे वैशालिका द्विजाः ।
क्रुद्धास् ते संघभोज्ये ऽत्र ह्य् अलब्धावसरा मम ॥ र्म्_18.93{94} ॥
तद् अत्र त्वं क्षमां कृत्वा द्विजान् सर्वान् प्रबोधय ।
कृत्वात्र विनयं धर्मे प्रसादयितुम् अर्हसि ॥ र्म्_18.94{95} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स धनिकस् तथा ।
इत्य् आश्रुत्य द्विजान् सर्वान् समुपेत्यैवम् अब्रवीत् ॥ र्म्_18.95{96} ॥
भवन्तो न मया ज्ञातं भवतां कोपकारणं ।
तद् अत्र मे समाख्यात यद् अर्थे कुप्यते ऽधुना ॥ र्म्_18.96{97} ॥
इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा ।
कोपाग्निपरिदग्धास्या धनिकं तं निनिन्दिरे ॥ र्म्_18.97{98} ॥
तत्रैको ब्राह्मणः साधुर् दयालुः सुकृतार्थवित् ।
धनिकं तं समामंत्र्य बोधयितुं समब्रवीत् ॥ र्म्_18.98{99} ॥
साधो गृहपते ऽस्माभिर् यथात्र समतं कृतं ।
तथा तत् ते प्रवक्ष्यामि श्रुत्वा तत् प्रतिबुध्यतां ॥ र्म्_18.99{100} ॥
भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया ।
सद्धर्मं समुपादेष्टुं ससांघिकः समागतः ॥ र्म्_18.100{1} ॥
तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयः समादरैः ।
अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा ॥ र्म्_18.101{2} ॥
एकश् चेत् कुरुते वित्तमदाद् अस्य निमंत्रणं ।
सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् ॥ र्म्_18.102{3} ॥
इत्य् अस्माभिः कृतं साधो समयं सर्वसंमतं ।

तद् विलंघ्य त्वयैकेन शास्तुः पूजा कृता सदा ॥ र्म्_18.103{4} ॥
एतद् धेतो इमे सार्वे ब्राह्मणा रुषितास् तथा ।
निष्कासयितुम् इछन्ति त्वाम् अन्यधर्मवाधकं ॥ र्म्_18.104{5} ॥
किं चापि भगवान् अत्र सर्वदा स्थास्यते न हि ।
तत् सर्वे भगवत्पूजां कर्तुं वांछन्ति सांप्रतं ॥ र्म्_18.105{6} ॥
यच् चायं भगवाञ् छास्ता धर्मराजो मुनीश्वरः ।
सर्वसत्वहितार्थाय समुत्पन्न इहा ऽधुना ॥ र्म्_18.106{7} ॥
तथात्र सर्वसत्वानं हितं कर्तुम् उपाचरन् ।
सद्धर्मं समुपादिश्य चरत्य् अयं समंततः ॥ र्म्_18.107{8} ॥
तथात्रापि हितं कर्तुम् अस्माकं समुपागतः ।
सद्धर्मं समुपादिश्य विजयते ससांघिकः ॥ र्म्_18.108{9} ॥
तद् अत्र सर्वलोकानां त्रिरत्नभजनोत्सवं ।
दातुम् अर्हसि सर्वेषाम् अपि पुण्यप्रवृद्धये ॥ र्म्_18.109{10} ॥
एक एव त्वं एवं तु मा कृथा भजनं सदा ।
सर्वैः संभूय ते सास्तुः कर्त्तव्यं भजनं सदा ॥ र्म्_18.110{11} ॥
इति तेनोदितम् श्रुत्वा धनिकः स विवोधितः ।
ब्राह्मणं तं समालोक्य प्रणत्वैवम् अभाषत ॥ र्म्_18.111{12} ॥
मया न ज्ञायते ह्य् एवं भवद्भिः समयं कृतं ।
तद् अत्र मे ऽपराधत्वं क्षन्तुम् अर्हन्ति सर्वथा ॥ र्म्_18.112{13} ॥
यदि वो विद्यते श्रद्धा त्रिरत्नभजने सदा ।
कुरुध्वं सर्वदाप्य् अत्र संबुद्धभजनं खलु ॥ र्म्_18.113{14} ॥
यदा न विद्यते पूजा संबुद्धे ऽस्मिन् ससांघिके ।
तदैवाहं करिष्यामि संबुद्धभजनं खलु ॥ र्म्_18.114{15} ॥
इति तेन समाख्यातं श्रुत्वा सर्वे ऽपि ते द्विजाः ।
सत्यम् इति परिज्ञाय वभूवुस् तत् प्रसादिताः ॥ र्म्_18.115{16} ॥
ततस् ते ब्राह्मणाः सर्वे संभूय सह पौरिकैः ।
भगवतः ससंघस्य निमंत्रितुम् उपासरन् ॥ र्म्_18.116{17} ॥
तत्र ते ब्राह्मणाः सर्वे समेत्य सह पौरिकैः ।
साञ्जलयो मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ र्म्_18.117{18} ॥
भगवन् नाथ सर्वज्ञ त्रिमास्यं भवतां सदा ।
सत्कारं कर्तुम् इछाम त्वदनुज्ञां ददातु नः ॥ र्म्_18.118{19} ॥
इति तैः प्रार्थिते सर्वैर् दृष्ट्वा स भगवान् मुनिः ।
तेषाम् आशयशुद्धत्वं तूष्णीभूत्वाध्युवास तत् ॥ र्म्_18.119{20} ॥
ततस् ते ब्राह्मणाः सर्वे भगवताधिवासितं ।
मत्वा सपौरिका नत्वा तं मुणिं स्वपुरे ऽचरन् ॥ र्म्_18.120{21} ॥
तत्र ते पौरिका विप्राः शोधयित्वा समम्टतः ।
भोज्यक्षत्रे ध्वजैर् उच्चैर् वितानैः पर्यशोभयन् ॥ र्म्_18.121{22} ॥
तत्रासनानि प्रज्ञप्य सर्वसामग्रसाधनं ।
कृत्वा सर्वे ऽपि ते लोका महोत्साहं प्रचक्रिरे ॥ र्म्_18.122{23} ॥
ततस् ते ब्राह्मणाः प्रातः स्नात्वा शुद्धाम्वरावृताः ।

तत्राश्रमे समेत्यैवं नत्वा तं प्रार्थयन् मुनिं ॥ र्म्_18.123{24} ॥
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना ।
तत् ससंघो भवांस् तत्र पुरे आगन्तुम् अर्हति ॥ र्म्_18.124{25} ॥
ततः स भगवान् बुद्धः ससंघश् चीवरावृतः ।
खिक्खिरिपात्रम् आदाय संप्रतस्थे प्रभासयन् ॥ र्म्_18.125{26} ॥
तत्र मार्गेषु सर्वत्र भगवान् स ससांघिकः ।
भासयं भद्रतां कृत्वा प्रचरंस् तत्पुरे ऽविशत् ॥ र्म्_18.126{27} ॥
तत्र स भगवान् क्षेत्रे सुशोधिते ससांघिकः ।
तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् ॥ र्म्_18.127{28} ॥
संबुद्धप्रमुखं सर्वं संघं ते समतोषयत् ।
ततस् तं सुगतं तृप्तं संघं चापि विलोक्यते ॥ र्म्_18.128{29} ॥
तत् पात्राण्य् उपनीत्वा तद् धस्तादीकं व्यशोधयत् ।
ततः स पूगताम्बूरमहौषध्यरसाय नं ॥ र्म्_18.129{30} ॥
दत्वा क्षमार्थनं कृत्वा तं ससंघं प्रणेमिरे ।
ततस् ते ब्राह्मणाः सर्वे पौराश् चापि प्रमोदिताः ।
तत् सद्धर्मामृतं पातिम् उपातस्थुः समाहिताः ॥ र्म्_18.130{31} ॥
तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_18.131{32} ॥
ततो भद्राशिषं दत्वा भगवान् सह संघिकैः ।
भासयं भद्रतां कुर्वन् गत्वा स्वाश्रमम् आश्रयत् ॥ र्म्_18.132{33} ॥
एवं वैशालिका लोकास् ते त्रैमास्यं निरंतरं ।
यथार्हभोजनैः शास्तुः ससंघस्य प्रभेजिरे ॥ र्म्_18.133{34} ॥
ततो ऽन्ते धनिकश् चापि पत्नी पुत्रः स्नुषापि च ।
संबुद्धप्रमुखं संघं दिव्यभोग्यैः समार्चयत् ॥ र्म्_18.134{35} ॥
भगवान्न् अपि तथा तेभ्यो दत्वा शुभाशिषं ततः ।
समुत्थाय ससंघश् च गत्वाश्रमे समाश्रयत् ॥ र्म्_18.135{36} ॥
ततः स धनिकः पत्नीपुत्रस्नुषासमन्वितः ।
दृष्टसत्यः सदा रत्नत्रयसेवारतो ऽभवत् ॥ र्म्_18.136{37} ॥
एतत्पुण्यानुभावेन भूयो ऽतिश्रीसमृद्धिमान् ।
सर्वलोकहितं कृत्वा प्रचचार शुभे सदा ॥ र्म्_18.137{38} ॥
तद् दृष्ट्वा विस्मिताः सर्वे भिक्षवः समुपाश्रिताः ।
भगवन्तं प्रणत्वैवं पप्रछुस् तत् पुराकृतं ॥ र्म्_18.138{39} ॥
भगवन् किं पुरानेन धनिकेन वृषं कृतं ।
कुत्र कथं कदैतन् नः सर्वम् आख्यातुम् अर्हति ॥ र्म्_18.139{40} ॥
इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
सर्वान्स् तां संघिकान् दृष्ट्वा तदैवं समुपादिशत् ॥ र्म्_18.140{41} ॥
शृणुत भिक्षवः सर्वे यद् अनेन वृषं कृतं ।
तत् पत्न्या च पुत्रेण स्नुषया च तद् उच्यते ॥ र्म्_18.141{42} ॥
वराणस्याम् अभूत् पूर्वं मालिकः कमलाभिधः ।
दुर्भिक्षक्षपिते काले परां दुर्गतिम् आगतः ॥ र्म्_18.142{43} ॥

पत्नी पत्नविका नाम पुत्रः कुवलियाभिधः ।
पाटलोख्या स्नुषा चेति वभूवुस् तस्य संमताः ॥ र्म्_18.143{44} ॥
तदैकस्मिन् दिने तस्य गृहान्तिके प्रपुष्पिते ।
उद्याने सायम् आगत्य प्रत्येकबुद्ध आश्रयेत् ॥ र्म्_18.144{45} ॥
ते सर्वे एकवस्त्रा हि पर्य्यायेन नृपालये ।
दत्वा पुष्पाणि प्रायाताः स्वभवने निषीदिरे ॥ र्म्_18.145{46} ॥
तदा स च गृहस्थास् ते तत्रोदाने ज्वलत् प्रभां ।
दृष्ट्वा किं महोज्वालम् उद्याने इति विस्मिताः ॥ र्म्_18.146{47} ॥
सहसा ते समुत्थाय तत्रोद्याने निरीक्षितुं ।
सर्वगताः समीक्षन्तः ददृशुस् तं प्रभासयं ॥ र्म्_18.147{48} ॥
तत्र ते समुपाश्रित्य दृष्ट्वा तं ध्यानसंस्थितं ।
साञ्जलयः प्रणत्वैव मुदिता स्वगृहं ययुः ॥ र्म्_18.148{49} ॥
तत्र ते स्वगृहासीनाः प्रातस् तत्पूजनोत्सुकाः ।
निर्द्धनास् तद् व्यथां प्रापु लूनपक्षाः खगा इव ॥ र्म्_18.149{50} ॥
तदा स मालिकस् तस्मै पूजां कर्तुं समुत्सुकः ।
तद् द्रव्यं स्वगृहे सम्यग् अन्विष्य समलोकयत् ॥ र्म्_18.150{51} ॥
तत्र गृहे स सर्वत्र समन्विष्य समंततः ।
कञ्चि मात्रम् अपि द्रव्यम् अलब्धैवं व्यचिंतयत् ॥ र्म्_18.151{52} ॥
अहो मया पुरा पापं प्रकृतं किं यतो ऽधुना ।
अकिंचन्यो दरिद्रो ऽस्मि किम् अत्र जीवितेन मे ॥ र्म्_18.152{53} ॥
यतो न विद्यते द्रव्यं किं चिद् अपि गृहे मम ।
तत् केन करिष्यामि पूजाम् अस्य महात्मनः ॥ र्म्_18.153{54} ॥
अत्रायं स्वयम् आगत्य ममोद्याने समाश्रितः ।
प्रत्येकबुद्ध आत्मजो ध्यात्वा तिष्ठति भासयन् ॥ र्म्_18.154{55} ॥
तद् अस्य सुगतस्यात्र कर्त्तव्या सत्कृतिर् मया ।
कदायं पुरि रम्यत्र समागछेत् स्वयं पुनः ॥ र्म्_18.155{56} ॥
तत् प्रातः शून्यपात्रेण गछेद् इतो ममात्मवित् ।
तन् ममात्र भवे शून्यम् इव जन्मापि निस्फलं ॥ र्म्_18.156{57} ॥
यतो मान्यो ऽभिपूज्यो यं पूज्यते न कथं चन ।
तत्र किं जायते भद्रं पुण्यं वास्य कथं कुतः ॥ र्म्_18.157{58} ॥
पुण्यं विनात्र संसारे किं सारं जन्म निस्फलं ।
भुक्त्वापि किं सुखान्य् अत्र सुचिरं जीविते ननु ॥ र्म्_18.158{59} ॥
पुण्यार्थे जीवितं जन्म तद् अत्र यदि नश्यति ।
किम् एव जीवितेनापि जन्मना पापसाधिना ॥ र्म्_18.159{60} ॥
तन् मृत्युर् मे वरं ह्य् अत्र न मिथ्याचिरजीवितं ।
अवश्यम् एव संसारे सर्वत्र मरणं ध्रुवं ॥ र्म्_18.160{61} ॥
किम् एवं देहपुष्टेन भुक्त्वा दुःखां सर्वदा ।
तत् केनापि प्रदानेन पूजयेयम् इमं जिनं ॥ र्म्_18.161{62} ॥
पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा ।
तत् पापं परित्यक्तुं पुण्यं प्राप्तु यतेय हि ॥ र्म्_18.162{63} ॥

यद्य् अत्र पूज्यते नायं द्रक्ष्यते च कदा कुह ।
बुद्धपूजां विना भद्रे पुण्यं च लप्स्यते कुतः ॥ र्म्_18.163{64} ॥
यावन् न प्राप्यते पुण्यं तावद् दुर्गतिचारणं ।
तस्मात् पुण्यं प्रयत्नेन कर्त्तव्यं सुखताप्तये ॥ र्म्_18.164{65} ॥
तद् अत्र श्रद्धया किंचिन् मात्रेणापि स्ववस्तुना ।
सत्कृत्यैनं महाभिज्ञं भजेयं समुपस्थितः ॥ र्म्_18.165{66} ॥
इति ध्यात्वा विनिश्चित्य मालिकः संप्रमोदितः ।
भार्यां पुत्रं स्नुषां चापि समामंत्र्यैवम् अब्रवीत् ॥ र्म्_18.166{67} ॥
अये प्रिये स्नुषे पुत्र यूयं शृणुत मद्वचः ।
यद् अत्र कर्तुम् इछामि तत्र यूयं प्रसादतः ॥ र्म्_18.167{68} ॥
यद् अत्रायं महाभिज्ञः स्वयम् एव समागतः ।
अस्माकं गृहे द्रव्यं किञ्चित् मात्रं न विद्यते ॥ र्म्_18.168{69} ॥
तत् केनात्र करिष्यामः पूजाम् अस्य महात्मनः ॥ र्म्_18.169{69!} ॥
यदि न पूज्यते ऽस्माभिः सुगतो ऽयं मुनिर् यतिः ।
तदा पुण्यं वयं कुत्र लप्स्यामहे कदा कथं ॥ र्म्_18.170{70} ॥
पुण्यं विनात्र संसारे निस्फलं जन्म जीवितं ।
तद् वयं पुण्यतो प्राप्तुं यतेम सर्वथा वयं ॥ र्म्_18.171{71} ॥
पुण्येन सद्गतिं प्राप्य पापेन दुर्गतिं सदा ।
तत् सद्गतिसुखप्राप्त्यै पुण्यं कुर्वीमहि ध्रुवं ॥ र्म्_18.172{72} ॥
चतुर्णां विद्यते ऽस्माकम् एकं सर्वस्वम् अम्वरं ।
अनेनाप्य् एनम् आछाद्य प्रभजमहि सांप्रतं ॥ र्म्_18.173{73} ॥
नाद्यराजकुले नग्ना गछामः किं भविष्यति ।
एतत् मे वचनं श्रुत्वाभ्यनुमोदितुम् अर्हथ ॥ र्म्_18.174{74} ॥
इति तेनोदितं श्रुत्वा पत्नी पुत्रः स्नुषापि ते ।
सर्वे ऽप्य् अभ्यनुमोदित्वा तथा कुर्व् इति प्रोचिरे ॥ र्म्_18.175{76!} ॥
इत्य् एतत् समयं कृत्वा सर्वे ते श्रद्धयान्विताः ।
गत्वा तेनैकवस्त्रेण तं प्राछाद्य समार्चयन् ॥ र्म्_18.176{77} ॥
ततस् ते मुदिताः सर्वे कृताञ्जलिपुटा मुनेः ।
तस्य पादौ प्रणत्वैवं प्रणिधानं प्रचक्रिरे ॥ र्म्_18.177{78} ॥
अनेन वस्त्रदानेन वयं सर्वे शुभाशयाः ।
भवेयं सद्गतिं याता दिव्यसंपत्तिहानिनः ॥ र्म्_18.178{79} ॥
शास्तारं सुगतं बुद्धं समाराध्य सदा भवे ।
त्रिरत्नभजनं कृत्वा भवेम बोधिचारिणः ॥ र्म्_18.179{80} ॥
इति तैर् मुदितैः सर्वैः प्रणिधानं कृतं तथा ।
विदित्वा स महाविज्ञस् तथास्त्व् इति समादिशत् ॥ र्म्_18.180{81} ॥
ततस् तेसां मनोहर्षं कृत्वा स सुगतो मुनिः ।
तत उड्डीय पक्षीव भासयन् स्वाश्रमे ययौ ॥ र्म्_18.181{82} ॥
तद् दृष्ट्वा ते नन्दिताः सर्वे बुद्धधर्मानुशंसिनः ।
त्रिरत्नस्मरणं कृत्वा प्रचेरिरे सुखं सदा ॥ र्म्_18.182{83} ॥
तत्पुण्यप्रणिधानेन धनिको ऽयं स मालिकः ।

जातो दिव्यप्रभावर्द्धिः पत्नीपुत्रस्नुषान्वितः ॥ र्म्_18.183{84} ॥
मनःशुद्धिविधानेन दानेनातिग्लघीयसा ।
भवन्त्य् अलघ्व्याः संकल्पैः संपदः सत्वशालिनां ॥ र्म्_18.184{85} ॥
बुद्धक्षेत्रेषु यत् कर्म सुकृतं दुःकृतं तथा ।
महत्तरत्वम् आसाद्य फलत्य् एव सदा भवे ॥ र्म्_18.185{86} ॥
इति मत्वात्र संसारे कर्त्तव्यं सुकृतं सदा ।
बौद्धे सत्कृतपुण्येन लभन्ति बोधिसंपदः ॥ र्म्_18.186{87} ॥
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे ऽपि सांघिकाः ।
मेनिरे चित्तवैमल्यमूलं दानफलश्रियं ॥ र्म्_18.187{88} ॥
तच् छ्रुत्वा ब्राह्मणास् ते ऽपि तत्पुण्यविस्मिता मुदा ।
भगवंतं सदा स्मृत्वा प्रभेजिरे ऽनुमोदिताः ॥ र्म्_18.188{89} ॥
तथा ते ब्राह्मणाश् चापि सर्वे ऽपि पौरिकास् तथा ।
तत्पुण्यपरिशुद्धांशा वभुवुः कुशलोद्यताः ॥ र्म्_18.189{90} ॥
हेलार्पितं रत्नधनं तृणाग्रं श्रद्धावतीर्णं तृणम् अप्य् अनर्घं ।
अनेकशोभानुभवं हि चित्तं चित्तं निमित्तं शुभसंभवानां ॥ र्म्_18.190{91} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
श्रुत्वाप्य् एवं महाराज कर्त्तव्यं सुकृतं सदा ॥ र्म्_18.191{92} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_18.192{94} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः ॥ र्म्_18.193{95} ॥
इदं नरा ये धनिकावदानं शृण्वन्ति ये चापि निशामयन्ति ।
सुखानि भुक्त्वा स शुभे सदा ते सर्वे ऽपि शम्यान्ति जिनालयन् ते ।
++ इति रत्नावदानतत्वे धनिकावदानं समाप्तम् ++
xइx रैवतावदान
अथाशोको नरेन्द्रः स कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_19.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुम् च मे ऽर्हति ॥ र्म्_19.2{2} ॥
इति सांप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हं महामतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ र्म्_19.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वैवं परिबुध्यतां ॥ र्म्_19.4{4} ॥
क्रौर्येण द्विरसनाः शुचिवेष्टितानां मिथ्यापवादविषमं विषम् उत्सृजन्ति ।
ते पापशापपरितापपरंपरार्त्तास् तीव्रव्यलीकतिमिरविवरं विशन्ति ॥ र्म्_19.5{5} ॥
तद्यथाभूत् पुरा भिक्षुः कास्मीरे पतिताश्रमे ।
रैवतकाभिधो बौद्धः सर्वभूतदयाश्रयः ॥ र्म्_19.6{6} ॥
स कदाचिद् धनोद्देशे विविक्ते सुघटान्तरे ।
तरुत्वचः कषायेन चक्रे चीवररंजनं ॥ र्म्_19.7{7} ॥
तस्मिन्न् अवसरे तत्र पिशुनाख्यद्विजन्मनः ।

धेनुवत्सा वने नष्टा वभूवुर् यूथनिर्गताः ॥ र्म्_19.8{8} ॥
तदा स ब्राह्मणो दृष्ट्वा तं दुष्टाशितशंकितः ।
सर्वत्रापि समन्विष्टा तत्राप्य् अन्वेषितुं ययौ ॥ र्म्_19.9{9} ॥
तत्र तच्चीवरक्वाथवाके वह्निसमुद्गतं ।
धूमं स द्विज आलोक्य वत्सपाकम् अमन्यत ॥ र्म्_19.10{10} ॥
ततः स ब्राह्मणः सार्द्धं स्वजनैः शस्त्रपाणिभिः ।
तद् द्रष्टुं शैलम् आरुह्य सहसागात् तदन्तिके ॥ र्म्_19.11{11} ॥
तत्र तं रैवतं भिक्षुं दृष्ट्वा स द्विज आदरात् ।
उपेत्य चूडिक-इड्याहतं कुम्भम् अपश्यत् ॥ र्म्_19.12{12} ॥
तद् दृष्ट्वा शंकितश् चासौ विनयान् समुपासरन् ।
किम् एतत् क्रियते भिक्षोर् इति तं पर्यपृछत ॥ र्म्_19.13{13} ॥
इति पृष्टे द्विजेनासौ रैवतो भिक्षुर् आदरात् ।
तत्र चीवररागो ऽयम् इति तं द्विजम् अब्रवीत् ॥ र्म्_19.14{14} ॥
अस्मिन्न् अवसरे तस्या पूर्वकर्मविपाकतः ।
गोमांसरक्तपाणीयः सपाकः समपद्यत ॥ र्म्_19.15{15} ॥
सुखं दुःखत्वम् आनाति शुक्लम् अप्य् एति कालतां ।
विधौ विधुरतां याते धर्मो ऽप्य् आयात्य् अधर्मतां ॥ र्म्_19.16{16} ॥
मिथ्यापापप्रकटता जनकोपः पदच्युतिः ।
अपुण्यपरिपाकानाम् एतत् प्रत्यक्षलक्षणं ॥ र्म्_19.17{17} ॥
दोषः समुन्मिषति यात्य् अगुणः प्रकाशं कार्यं विपर्ययम् उपेति विशीर्यते धीः ॥ र्म्_19.18{18} ॥
पुंसां पुराविहितः दुःकृतपाककाले के के न नाम निपतन्ति महाभिघाताः ॥ र्म्_19.19{19} ॥
ततः स ब्राह्मणो ऽप्य् अत्र कुम्भे किम् इति शंकितः ।
पश्यामीति विनिश्चित्य निरीक्षितुम् उपाचरत् ॥ र्म्_19.20{20} ॥
विरुद्धामिषगंधेन रुधिरेण च शंकितः ।
अपश्यन् स द्विजः कुम्भे मांसपिण्डं सुपक्वितैः ॥ र्म्_19.21{21} ॥
प्रत्यक्षदोषम् आलोक्य द्विजः क्रोधितो रुषा ।
तम् अभाषत निर्भत्स्य तीव्रवैशशकंपितः ॥ र्म्_19.22{22} ॥
अहो वत सदाचारः स्थितो ऽयं विजने वने ।
यस्येदृशानि कर्माणि न कस्यचिद् इह पश्यति ॥ र्म्_19.23{23} ॥
प्रव्रज्यारंजितः कायः क्रिया म्लेछजनोचिता ।
जानाति छन्नपापानां कः कूटव्रतशान्तितां ॥ र्म्_19.24{24} ॥
इत्य् उक्ते तेन साक्षेपं स रैवतो ऽप्य् अचिंतयत् ।
दोषे प्रत्यक्षलक्ष्यस्मिन् किं ब्रवीमि निरुत्तरः ॥ र्म्_19.25{25} ॥
मम दैवाय घातो ऽयम् इत्य् उक्ते को ऽनुमन्यते ।
हास्यायतनताम् एति प्रत्यक्ष्यापह्नवी जनः ॥ र्म्_19.26{26} ॥
उपस्थितं सहे सर्वं मौनम् आलम्ब्य केवलं ।
अयं मे निःप्रतीकारः सलिलाद् अग्निदुत्थितः ॥ र्म्_19.27{27} ॥
दोषे गुणातिशयम् आशु गुणे ऽपि दोषं पैयूषधाम्नि विषम् अप्य् अमृतं विषे च ॥
संदर्शयत्य् अनिशम् अद्भुतरूपम् एव कालेन्द्रजालिकावधूर् भवितव्येयं ॥ र्म्_19.28{28} ॥
इत्य् एवं मनसा ध्यात्वा रैवतः स महामतिः ।

स्वदैवस्मरणं कृत्वा तस्थौ योगसमाहितः ॥ र्म्_19.29{29} ॥
इति ध्यानं समालम्ब्य स्थितं तं रैवतं मुनिं ।
दृष्ट्वातिरुषितश् चासौ संतर्य्य पर्यभाषत ॥ र्म्_19.30{30} ॥
अरे रे दुर्मते भिक्षो किं अत्र दुर्जने वने ।
स्थित्वेवं दारुणं पापं साधयित्वा निषीदसि ॥ र्म्_19.31{31} ॥
अरे पापिष्ठ भाषस्व यद् अर्थे वालकां वृषं ।
हत्वात्र पच्यते मांस त्वयात्मनो परेण वा ॥ र्म्_19.32{32} ॥
परेणापि हतं दृष्ट्वा तत् पापैः परिलिप्यसे ।
तत् त्वया वृषभी हत्वा कथं पापैर् न दह्यसे ॥ र्म्_19.33{33} ॥
धिग् धिक् त्वाम् अत्र रेभिक्षो संबुद्धशासने यतः ।
प्रव्रज्यासंवरं धृत्वा निर्जने वन आश्रयन् ॥ र्म्_19.34{34} ॥
महद्दुःकरकर्माणि कृत्वैवं तपसे ऽधुना ।
अरे रे श्रूयते किं न त्वया संबुद्धभाषितं ॥ र्म्_19.35{35} ॥
अथ श्रुत्वापि ते तत्र श्रद्धा न विद्यते खलु ।
किम् एवं पातकं कृत्वा प्रव्रज्यासंवरं चरन् ॥ र्म्_19.36{36} ॥
केवलं पापकान्य् एव साधयित्वात्र तिष्ठसे ।
प्रव्रजितो विरक्तात्मा परिशुद्धत्रिमंडलः ॥ र्म्_19.37{37} ॥
सर्वसत्वदयादृष्टिश् चरेन् नित्यं समाहितः ॥ र्म्_19.38{37!} ॥
अदत्तं कस्य चिद् द्रव्यं गृहीयान् न कथं चन ।
दयाकरुण्ययुक्तात्मा न कुर्यात् प्राणिपीडिनं ॥ र्म्_19.39{38} ॥
कामभोगम् अधर्मेण नैव भुंज्यात् कदा चन ।
मृषावादं कदाप्य् अत्र नैव ब्रूयात् कथं चन ॥ र्म्_19.40{39} ॥
पारुष्यवचनं चापि नैव ब्रूयात् कथं चन ।
पैशुन्यवचनं वापि वदेन् न कस्य चित् पुरः ॥ र्म्_19.41{40} ॥
संभिन्नप्रलापं च न प्रवदेत् कस्य चिद् अपि ।
व्यापादं कस्य चिच् चापि भावयेन् न कथं चन ॥ र्म्_19.42{41} ॥
अभिध्यां च तथा नैव चिंतयेत् कस्य चिद् अपि ॥ र्म्_19.43{42} ॥
मिथ्यादृष्टिं सदा क्वापि भावयेन् न कदा चन ।
एतानि दशपापानां मूलानि सर्वथा त्यजेत् ॥ र्म्_19.44{43} ॥
एतानि ये समालभ्य प्रचरन्ति प्रमादतः ।
ते सर्वे क्लेशसंतप्ता भ्रमन्ति दुःखिनो भवे ॥ र्म्_19.45{44} ॥
ततः क्लेशाग्निसंतप्ताः पापेष्व् एव समाहिताः ।
दुःखान्य् एव सदा भुक्त्वा नरकेषु भ्रमन्ति ते ॥ र्म्_19.46{45} ॥
इति मत्वात्र संसारे त्यक्त्वैतानि दशापि हि ।
सन्तो नित्यम् शुभेष्व् एव प्रचरन्ति समाहिताः ॥ र्म्_19.47{46} ॥
शुभेन सद्गतिं यान्ति पपिन दुर्गतिं सदा ।
इत्य् आख्यातं जिनैः सर्वैः किं नैतच् छ्रूयते त्वया ॥ र्म्_19.48{47} ॥
कथम् एतद् अवज्ञाय प्रव्रजितस् त्वम् आचरेः ।
धिक् ते चित्तं यद् एवं मे गोवत्सं भोक्तुम् इछति ॥ र्म्_19.49{48} ॥
प्रव्रजितो हि शुद्धात्मा परिशुद्धस् त्रिमण्डलः ।

सर्वसत्वदयाचित्तश् चरेन् नित्यं समाहितः ॥ र्म्_19.50{49} ॥
सर्वसत्वहितं कृत्वा ब्रह्मचर्यं समाहितः ।
भिक्षान्नमात्रसंकृष्टः सुनिःस्पृहश् चरेच् छुभे ॥ र्म्_19.51{50} ॥
समाधिनिरतो योगी धारणीपरमार्थभृत् ।
सर्वक्लेशान् विनिर्जित्वा सर्वमारगाणान् अपि ॥ र्म्_19.52{51} ॥
सर्वान् परिग्रहान् त्यक्त्वा निर्विकल्पो निरंजनः ।
साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचर्यं समाचरेत् ॥ र्म्_19.53{52} ॥
एवं प्रव्रजितो भिक्षुश् चरन् नित्यं सुशीलभृत् ।
शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयात् ॥ र्म्_19.54{53} ॥
त्वं तु प्रव्रजितो ऽप्य् एवं महद्दारुणपातकं ।
कृत्वात्र निर्जने भुक्त्वा चरसे म्लेछचारिकां ॥ र्म्_19.55{54} ॥
हा वतात्र विनष्टो ऽसि यद् एतत् पातकान्वितः ।
सहसा नरके गत्वा चिरं दुःखानि भोक्ष्यसि ॥ र्म्_19.56{55} ॥
किं त्वया प्रकृतं पापं पुरा जन्मान्तरे कथं ।
यद् अत्र सौगते धर्मं प्राप्तो ऽप्य् एवं दुराशयः ॥ र्म्_19.57{56} ॥
तच् चरस्व समाधाय प्रायश्चित्तव्रतं पुनः ।
एतत्पापाभिसंशुद्ध्यै पुनर् व्रतसमाप्तये ॥ र्म्_19.58{57} ॥
तथा ते शुद्धिते काये मंगलं च भवेत् क्रमात् ।
परिशुद्धस् त्रिकायश् च प्रव्रज्यासंवरं चर ॥ र्म्_19.59{58} ॥
तदा त्वं सर्वथा जित्वा क्लेशान् मारगणान्न् अपि ।
साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी भविष्यति ॥ र्म्_19.60{59} ॥
तदा त्वं परिशुद्धात्मा निर्विकल्पो निरंजनः ।
शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयाः ॥ र्म्_19.61{60} ॥
इति तेनोदितं श्रुत्वा रैवतः स प्रबोधितः ।
तथापि मौनम् आधाय तथौ दैवाभ्यनुस्मरन् ॥ र्म्_19.62{61} ॥
एवं स्थितं तम् आलोक्य ब्राह्मणः स रुषान्वितः ।
एवं द्विधा त्रिधाप्य् एनं परिभाष्याभ्यनिन्दयत् ॥ र्म्_19.63{62} ॥
एवं द्विधा त्रिधाप्य् उक्ते ब्राह्मणेन स रैवतः ।
स्वदैवम् अभ्यनुस्मृत्वा मौनेनैव न्यषीदत ॥ र्म्_19.64{63} ॥
स्वदैवचिन्तयस् तस्य मौनात् स ब्राह्मणो रुषा ।
रैवतं तां कताक्षेण दृष्ट्वैनं पर्यभाषत ॥ र्म्_19.65{64} ॥
अरे रे दुर्मते भिक्षो किम् एवं तिष्ठसे ऽधुना ।
उत्तिष्ठात्र प्रवंधित्व नयामि त्वां नृपान्तिके ॥ र्म्_19.66{65} ॥
एवं तेनोदिते ऽप्य् एव स्थितः स रैवतो यतिः ।
किं चिन् नैवावदेन् मौनम् एवालम्ब्य न्यषीदत ॥ र्म्_19.67{66} ॥
ततः स ब्राह्मणस् तस्य मौनाद् अतिप्रकोपितः ।
मुर्द्ध्नि पापम् इव स्थूलं लगुडं मर्पयातयत् ॥ र्म्_19.68{67} ॥
तथाभिघात्यमानो ऽपि रैवतः स समाहितः ।
दैवम् एवाभ्यनुस्मृत्वा तस्थौ निःकंपिताशयः ॥ र्म्_19.69{68} ॥
तथास्थितं तं मुनिम् आत्मविद्यं दैवं स्मरंतं ह्य् अकृतापराधं ।

निनाय पश्चात्कृतवाहुदंडं सदस् तदा नंदनभूमिभर्तुः ॥ र्म्_19.70{69} ॥
तथास्थितं तम् आलोक्य स द्विजः प्रतिरोषितः ।
रक्ताक्षं रैवतं वद्ध्वा सहसानयन् नृपान्तिके ॥ र्म्_19.71{70} ॥
तत्र स ब्राह्मणो नीत्वा तं राज्ञः स्थितः ।
तद्वत्सपिशितं पक्वम् उपस्थाप्य ऽभ्यदर्शयत् ॥ र्म्_19.72{71} ॥
ततः स ब्राह्मणः क्रूरस् तस्य भिक्षो सविस्तरं ।
सर्ववृत्तांतम् आख्याय तं नृपं पर्यकोपयत् ॥ र्म्_19.73{72} ॥
तद् वत्समांसम् आलोक्य नृपतिः स प्रकोपितः ।
रैवतं तं यतिं वद्ध्वा चक्रे कारागृहातिथिं ॥ र्म्_19.74{73} ॥
निर्दोषः क्लेशम् आश्नाति तम्भते गुप्तपातकः ।
जानाति कस्य कः शुद्धिं चित्राकारेष्व् असाक्षिषु ॥ र्म्_19.75{74} ॥
तत्र स वंधनागारे वंधितो ऽपि स सन्मतिः ।
त्रिरत्नस्मरणं कृत्वा तस्थौ दैवानुचिन्तयन् ॥ र्म्_19.76{75} ॥
तत्रैवं वंधनागारे तस्मिन् भिक्षौ निवन्धिते ।
काले न विस्नितो राजा तद् विचारे ऽपि नास्मरत् ॥ र्म्_19.77{76} ॥
तदान्यस्मिन् दिने तत्र ते वत्साः सर्व आगताः ।
मातृभिः सह संसक्तास् तृणं भुक्त्वा निषेदिरे ॥ र्म्_19.78{77!} ॥
तान् वत्सान् मातृसंसक्तान् सर्वान् आलोक्य स द्विजः ।
विस्मितः पुनर् आलोक्य पश्यन्न् एवं व्यचिंतयत् ॥ र्म्_19.79{78} ॥
अहो वत्सा इमे सर्वे कुत्र गत्वाधुनागताः ।
सर्वत्रान्विष्यमाना हि कुत्रापि नाभ्यदृश्यते ॥ र्म्_19.80{79} ॥
हा ममात्र महत्पापो जायते सांप्रतं कथं ।
यन् मया सहसा भिक्षोर् असमीक्ष्यापराध्यते ॥ र्म्_19.81{80} ॥
यथा भिक्षोर् घटे मान्सं दृष्ट्वैषाम् इति चिन्तयत् ।
चौरायम् इति तं भिक्षुं पर्यभाषं रुषाभृतं ॥ र्म्_19.82{81} ॥
अपराधं विनार्हंतम् अपि भिक्षुं प्रताडयत् ।
वद्ध्वा तं सहसा राज्ञः पुरो ऽत्र समुपानयं ॥ र्म्_19.83{82} ॥
राजापि मम वाक्येन सहसैव निमंत्रयन् ।
वद्ध्वाशु वंधनागारे प्रस्थापयति सांप्रतं ॥ र्म्_19.84{83} ॥
तद् अत्र किं करिष्यामि वत्साः सर्वे इहागताः ।
अपराधा यतेर् नेति वदेय सांप्रतं कथं ॥ र्म्_19.85{84} ॥
यद्य् अवक्ष्यं तथा राजा तदा मे कुपितो नृपः ।
सर्वस्वम् अपहृत्वापि प्राहरिष्यते माम् इह ॥ र्म्_19.86{85} ॥
अथ यदि भयाद् राज्ञो नावदिष्यंस् तथा क्वचित् ।
नूनं तं यतिम् अर्हन्तम् अपि राजा हनिष्यते ॥ र्म्_19.87{86} ॥
तदाहं किं करिष्यामि तद्घोरपातकानलैः ।
पच्यमानस् सदावीचौ तिष्ठेयम् अतिदुःखितः ॥ र्म्_19.88{87} ॥
तद् अत्र किं करिष्यामि यत्रोपायं न विद्यते ।
सर्वथाहं विनष्टो ऽस्मि व्रजेय शरणं कुह ॥ र्म्_19.89{88} ॥
यद् इमं सौगतं भिक्षुम् अर्हन्तं ब्रह्मचारिणं ।

अनपराधिनं हत्वा कथं पापैर् न लेप्स्यते ॥ र्म्_19.90{89} ॥
एतैर् हि पातकैर् घोरैर् अहं राजा जना इमे ।
सर्वे वत्स्यामहे ऽवीचौ भुक्त्वा दुःखानि सर्वदा ॥ र्म्_19.91{90} ॥
हा मे दैवाद् यतेश् चापि निर्जने वसतो ऽपि यत् ।
घटे ऽभिदृश्यते वत्समान्सीभूतं हि चीवरं ॥ र्म्_19.92{91} ॥
अवश्यं भाविनो भावा भवन्त्य् एव न चान्यथा ।
तद् अत्र किं करिष्यामि भिक्षुर् वा किं करिष्यति ॥ र्म्_19.93{92} ॥
तस्यैव कर्मदोषेण मांसीभूतं हि चीवरं ।
अथ ममैव दैवेन तद् इति मन्यते न हि ॥ र्म्_19.94{93} ॥
तद् अत्र किं वदेयाहं दैवं हि सर्वकर्मकृति ।
इति ममार्हो ऽप्य् अस्य दूषणं नात्र विद्यते ॥ र्म्_19.95{94} ॥
तथप्य् एतत् प्रवृत्तिर् न वक्तव्यं कस्य चिद् अपि ।
न गंतव्यं वहिः क्वापि स्थातव्यं स्वगृहे सदा ॥ र्म्_19.96{95} ॥
कदा चित् स्खलिता बुद्धिर् वाणी च विस्मृतस्य मे ।
एतद् धि पातकं घोरं समाचक्षत कुत्र चित् ॥ र्म्_19.97{96} ॥
तदाहं निंद्यमानो ऽत्र सर्वलोकैर् इतस् ततः ।
भ्रत्स्यमानः कथं लोके चरिष्ये दुष्टजंतुवत् ॥ र्म्_19.98{97} ॥
इति ध्यात्वा विनिश्चित्य ब्राह्मणः स विषादितः ।
कस्याप्य् एतत् प्रवृत्तांतं नोचे दौर्जन्यलज्जया ॥ र्म्_19.99{98} ॥
तत् पातकाग्निसंतप्तः स्मृत्वार्हन्तं तम् एव सः ।
प्रायश्चित्तव्रतं कुर्वन्न् इव तस्थौ गृहाश्रितः ॥ र्म्_19.100{99} ॥
एवं द्वादशवर्षाणि नृपेणापि स विस्मृतः ।
रैवतो वंधनागारे तस्थौ ध्यानसमाहितः ॥ र्म्_19.101{100} ॥
अथ द्वादशवर्षान्ते तच् छिष्याः सर्व आगताः ।
तत् प्रवृत्तिं समाकर्ण्य विस्मितास् ते ऽभवंस् तदा ॥ र्म्_19.102{1} ॥
ततः सर्वे ऽपि ते शिष्याः संमील्य नृपतेः पुरः ।
उपेत्यैतत् प्रवृत्तांतं समाख्याय न्यवेदयन् ॥ र्म्_19.103{2} ॥
आरोग्यम् अस्तु ते राजन् लोकान् धर्मेण पालय ।
यदर्थे वयम् आयामस् तत्र भवान् प्रसीदतु ॥ र्म्_19.104{3} ॥
यद् अस्माकं गुरुर् भिक्षुर् अपराधं विना कथं ।
भवता वंधनागारे स्थापितस् तद् विचारय ॥ र्म्_19.105{4} ॥
इति तैर् भिक्षुभिः सर्वैस् तच् छिष्यैः प्रार्थिते तदा ।
व्योमवाणी तथाख्याय नरेन्द्रं तं व्यबोधयत् ॥ र्म्_19.106{5} ॥
तत् खवाणिं समाकर्ण्य नृपः स परिबोधितः ।
तच् छिष्यैः सारितो भिक्षुं तं मुमोचाशु वंधनात् ॥ र्म्_19.107{6} ॥
अहो ग्रावाग्रलिखिता निश्चला कर्मसंततिः ।
प्राप्तभिज्ञो ऽपि यत् प्राप क्रूरक्लेशदशां तथा ॥ र्म्_19.108{7} ॥
तं यतिं निर्गतं दृष्ट्वा स राजाभ्यानुतापितः ।
निनिन्दा मन्दपुण्यत्वं प्रमादाद् धतम् आत्मनः ॥ र्म्_19.109{8} ॥
तदा स नृपति राजा सहसा तस्य पादयोः ।

सांजलिः प्रणतिं कृत्वा समुत्थायैवम् अब्रवीत् ॥ र्म्_19.110{9} ॥
भदन्तो विचार्यैव प्रमदा यद् भवान् मया ।
स्थापितो वंधने तन् मे ऽपराधं क्षंतुम् अर्हति ॥ र्म्_19.111{10} ॥
विस्मृता मे सहायां च परिज्ञाता न केन चित् ।
दण्डः पतति शुद्धेषु प्राप्तः पापे महीपतौ ॥ र्म्_19.112{11} ॥
इत्य् उक्तः क्षितिपालेन क्षान्तिप्रक्षालिताशयः ।
रैवतः स नरेंद्रं तं समालोक्यैवम् अब्रवीत् ॥ र्म्_19.113{12} ॥
राजन् न ते ऽपराधत्वं ममैतत् कर्मजं फलं ।
तद् अत्र मा कृथाः खेटं सौगत आत्मविद्युतं ॥ र्म्_19.114{13} ॥
ततस् तं यतिम् अर्हन्तं स राजा सहसादरात् ।
चीवरेण समाछाद्य पिंडकेन समार्चयत् ॥ र्म्_19.115{14} ॥
तदैतद् वृत्तिम् आकर्ण्य ब्राह्मणः स त्वरान्वितः ।
आगत्य तत् सभामध्ये दत्ताशीः समुपाचरत् ॥ र्म्_19.116{15} ॥
तत्र स समुपासृत्य राज्ञे दत्वा जयाशिषां ।
तं यतिं साञ्जलिर् नत्वा प्रार्थयन् विनयात् क्षमां ॥ र्म्_19.117{16} ॥
भदन्त भवताम् एवम् अपराधम् अकारयन् ।
तन् मे ऽपराधतां क्षंतुम् अर्हति सर्वथा भवान् ॥ र्म्_19.118{17} ॥
इत्य् उक्ते तेन विप्रेण रैवतः स विशुद्धधीः ।
ब्राह्मणं तं विषण्णास्यं समालोक्यैवम् अब्रवीत् ॥ र्म्_19.119{18} ॥
न मन्युर् विद्यते विप्र न त्वयापकृतं मयि ।
ममैव दैवया केन मांसीभूतं हि चीवरं ॥ र्म्_19.120{19} ॥
तत्राहं मौनम् आलम्ब्य स्थितो दैवाभ्यनुस्मरन् ।
तेनात्र किं वदिष्यामि दैवा हि वलवान् भवे ॥ र्म्_19.121{20} ॥
न त्वयापाकृतं किञ्चिद् विपुलक्लेशपातितः ।
तन् ममोपनतं पाके स्वकर्मसदृशं फलं ॥ र्म्_19.122{21} ॥
यत् सौत्कण्ठतयैव सर्वविपदः कुर्वन्ति कण्ठग्रहं सर्वाङ्गप्रसभोपभोगसुभगाः क्लिश्यन्ति यत् संपदः ।
यत् स्वाछंद्यसुखास्पदं विहरणं दीर्घं च यद् वंधनं तत् पुंसां निजकर्मपाकशवलं संसारवल्लीफलं ॥ र्म्_19.123{22} ॥
इति तेनार्हताख्यातं श्रुत्वा नंदः स भूपतिः ।
विस्मितः कौतुकाच् चैवं दृष्ट्वा तं यतिम् अब्रवीत् ॥ र्म्_19.124{23} ॥
तवापि सुमते कस्य फलम् एतत् कुकर्मणः ।
किं पुरा प्रकृतं कर्मन् तत् समाख्यातुम् अर्हति ॥ र्म्_19.125{24} ॥
इति पृष्टे नरेन्द्रेण रैवतः स सुधिर् यतिः ।
तं नरेंद्रं समालोक्य बोधयितुं तथावदत् ॥ र्म्_19.126{25} ॥
साधु शृणु महाराज यन् मया प्रकृतं पुरा ।
तद् अत्राहं प्रवक्ष्यामि सर्वलोकप्रबोधने ॥ र्म्_19.127{26} ॥
वाराणस्यां पुरा क्रूरचरितो ऽभूत् कुथाभिधः ।
गोचौरः कुत्सिकाचारो गोमांसविहिताशनः ॥ र्म्_19.128{27} ॥
कदा चित् स वने गत्वा हत्वा गोवत्सम् आत्मना ।
तद् वत्समांसम् आदाय सहसा ततो विनिर्ययौ ॥ र्म्_19.129{28} ॥
तत्र गोरक्षिणो वत्सनष्टम् अन्विष्य सर्वतः ।

दृष्ट्वा तं मांसभारार्त्तं कोपात् समभिदुद्रुवुः ॥ र्म्_19.130{29} ॥
तत्र स कुथ आलोक्य तान् सर्वान् समुपद्रुतान् ।
सहसोपद्रुतो ऽरण्ये प्रदुद्राव वनांतरे ॥ र्म्_19.131{30} ॥
तत्र प्रत्येकबुद्धस्य ध्यानलीनस्य सो ऽग्रतः ।
उपनिक्षिप्य तन् मांसं तत्रैकान्ते न्यलीयत ॥ र्म्_19.132{31} ॥
ते ऽपि गोरक्षिणः सर्वे सानुचराम् अभिद्रुताः ।
तत्र प्रत्येकबुद्धं तम् आलोक्य समुपाचरन् ॥ र्म्_19.133{32} ॥
तत्र स कुथ आगत्य तेषां गोरक्षिणां पुरः ।
गोमांसं दर्शयित्वा तं चौरायम् इत्य् अदर्शयत् ॥ र्म्_19.134{33} ॥
तत्र ते गोभृतः सर्वे गोमांसं तन् मुनेः पुरः ।
दृष्ट्वैव सहसा कोपात् तं मुनिम् अभ्यघातयत् ॥ र्म्_19.135{34} ॥
वध्यो ऽयम् इति तं वध्वा गोपालास् ते प्रकोपिताः ।
आक्रुश्य सहसानीत्वा कारागारे न्यवंधयत् ॥ र्म्_19.136{35} ॥
ततः स कुथ आकर्ण्य तं यतिं वंधने धृतं ।
पश्चात्तापाग्निसंतप्तस् तहीत्य् एवं व्यचिंतयत् ॥ र्म्_19.137{36} ॥
हा मया पापिनाप्य् एवं साध्यते पातकानि च ।
अवश्यं वह्निनावीचौ कुंह्भ्यां पक्ष्ये रतंश् चिरं ॥ र्म्_19.138{37} ॥
यद् अयं निर्जने ध्यातो प्रत्येकबुद्ध आत्मवित् ।
चौरायम् इति संदर्श्य वंधने स्थापितोमया ॥ र्म्_19.139{38} ॥
एतत्पापविपाके हि सर्वदा नरके स्थितः ।
तीव्रदुःखाग्निसंतप्त अन्ते मां स्वकृते फलं ॥ र्म्_19.140{39} ॥
हा मयैवं महाघोरं पातकं दुर्धिया कृतं ।
कदा तत् पातकान् मुक्तो व्रजेयं सद्गतिं कथं ॥ र्म्_19.141{40} ॥
हा सर्वज्ञ नमस् तुभ्यं पश्य माम् अतिपापिनं ।
भवान्न् एव जगत्त्राता तन् मे ऽपि त्रातुम् अर्हति ॥ र्म्_19.142{41} ॥
मया मूढेन दुष्टेन महापातकम् आचितं ।
तद् विमुक्त्याम् उपायं मे कृपया दातुम् अर्हति ॥ र्म्_19.143{42} ॥
इति कुथः स चाण्डालः स्मृत्वा संबुद्धम् आदरात् ।
पश्चात्तापाभिसंतप्तस् तस्थौ गेहे प्रमोहितः ॥ र्म्_19.144{43} ॥
ततः स चेतनं प्राप्य संबुद्धस्यानुभावतः ।
सहसा तत उत्थाय तदन्तिके उपाचरत् ॥ र्म्_19.145{44} ॥
तत्र स समुपासृत्य तेसां गोरक्षिणं पुरः ।
कृतांजलिपुटो नत्वा याचित्वाभयम् अब्रवीत् ॥ र्म्_19.146{45} ॥
भवन्तो ऽत्र मया पापं कृतं तत् प्रतिदेक्ष्यते ।
तद् भवंतः समाकर्ण्य क्षंतुम् अर्हंति सर्वथा ॥ र्म्_19.147{46} ॥
अस्य प्रत्येकबुद्धस्य ह्य् अपराधो न विद्यते ।
तत्र मयातिदुष्टेन चौरो ऽयम् इति दर्शितः ॥ र्म्_19.148{47} ॥
तद् अत्र मुच्यताम् एष प्रत्येकसुगतो मुनिः ।
सत्कृत्याभ्यर्च्य पिंडेन माननीयो हि सर्वदा ॥ र्म्_19.149{48} ॥
अत्रैतत् पातकं नास्य ममैव मस्तके पचेत् ।

तद् अहम् एव वध्यो ऽत्र तद् अयं मुच्यतां यतिः ॥ र्म्_19.150{49} ॥
इति तेनोदितं श्रुत्वा सर्वे गोरक्षिणो ऽपि ते ।
रुष्टास् तं सहसा वद्ध्वा पर्य्याख्यायात्यताडयत् ॥ र्म्_19.151{50} ॥
तत् ताडनरवं श्रुत्वा स प्रत्येकजिनः सुधीः ।
गोपालांस् तान् समामंत्र्य पुनर् एवं समादिशत् ॥ र्म्_19.152{51} ॥
भवन्तो मुच्यताम् एष मापराधे ऽपि हन्यतां ।
क्षमा हि परमं धर्मं तत् कुर्वन्तु क्षमाम् इह ॥ र्म्_19.153{52} ॥
तन्तासाद्यागनो योगं कर्तुम् अर्हन्ति सर्वथा ।
किं दैवं निहतं हत्वा युष्माकं सेत्स्यते फलं ॥ र्म्_19.154{53} ॥
मयैतद् वंधनं प्राप्तं ममैव दैवयोगतः ।
तद् अस्याप्य् अपराधो ऽत्र नास्तीत्य् एष विमुच्यतां ॥ र्म्_19.155{54} ॥
इति प्रत्येकबुद्धेन तेनादिष्टं निशम्यते ।
तथेति प्रतिबुद्धित्वा तत् कोपं मुमुचुस् तदा ॥ र्म्_19.156{55} ॥
अथ ते गोभृतः सर्वे श्रुत्वा तस्य मुनेर् वचः ।
सहसा विनतिं कृत्वा वंधनात् तं व्यमुंचयत् ॥ र्म्_19.157{56} ॥
ततस् ते गोभृतः सर्वे तं प्रत्येकमुनिं मुदा ।
चीवरेण समाछाद्य समभ्यर्च्यात्यतोषयन् ॥ र्म्_19.158{57} ॥
तत्र तं समुपाश्रित्य कृतांजलिपुटो नताः ।
तद् अपराधसंतप्ताः प्रार्थयन्न् एवम् आदरात् ॥ र्म्_19.159{58} ॥
भगवञ् ज्ञायते ऽस्माभिर् भवतो नापराधता ।
तेनास्माकं क्षमां कर्तुम् अर्हत्य् अत्र भवान् अपि ॥ र्म्_19.160{59} ॥
इति तैः प्रार्थितं श्रुत्वा स प्रत्येकजिनः ।
तान् सर्वान् गोभृतो दृष्ट्वा समाश्वास्यैवम् अब्रवीत् ॥ र्म्_19.161{60} ॥
भवन्तो मा विषीदन्तु दूषणं वा न विद्यते ।
एतद् वृत्तिं विजानामि सौगता हि भवार्थवित् ॥ र्म्_19.162{61} ॥
इत्य् आदिश्य स सर्वज्ञः प्रत्येकबुद्ध उत्थितः ।
तत आकाश उत्प्लुत्य स्वाश्रमं गते आश्रयन् ॥ र्म्_19.163{62} ॥
तद् दृष्ट्वा ते जनाः सर्वे गोपालाः प्रतिविस्मिताः ।
तम् एव सुगतं स्मृत्वा सद्धर्मे सर्वदाचरन् ॥ र्म्_19.164{63} ॥
यो ऽसौ कुथाभिधो गोघ्नः प्रदुष्टो ऽहं तदाभवत् ।
तत्पापैर् नरकेष्व् एवं चिरं दुःखानि भुक्तवान् ॥ र्म्_19.165{64} ॥
अस्मिञ् जन्मन्य् अपि प्राप्तक्लेशद्वादशवार्षिकं ।
तद् अस्यात्रापराधं न ममैतद् दैवयोगतः ॥ र्म्_19.166{65} ॥
इति महाराज शुभाशुभं स्वदैवतः ।
संसारे ऽत्र सदा पुण्यं कर्त्तव्यं सत्सुखार्थिभिः ॥ र्म्_19.167{66} ॥
पुण्यम् एवात्र संसारे सारसर्वार्थसिद्धिदं ।
पुण्यं विना न सिद्ध्यन्ते कृतकर्माणि सर्वथा ॥ र्म्_19.168{67} ॥
पुण्येन जायते स्वर्गे पुण्येन यान्ति सद्गतिं ।
पुण्येन सर्वदा भद्रं कृत्वा यांति जिनालयं ॥ र्म्_19.169{68} ॥
दंडेन मुच्यते वध्यः पुण्यस्यैवानुभावतः ।

दंडार्हो ऽपि प्रहारेण प्रहारार्हो ऽपि रोषतः ॥ र्म्_19.170{69} ॥
रोषार्हा रोमहर्षनेन मुच्यते पुण्यतो नृप ।
यावन्तः सूखिनः सर्वसंपत्समन्विताः ॥ र्म्_19.171{70} ॥
सर्वे ते पुण्यकर्त्तार इति ज्ञेया नराधिप ।
पुण्येन शुद्ध्यते चित्तं शुद्धाशयो भवेत् सुधीः ॥ र्म्_19.172{71} ॥
सुबुद्धिः सर्वदा नित्यं शुभेष्व् एव समाचरेत् ।
शुभाचारो विशुद्धांगः सत्यवादी जितेन्द्रियः ॥ र्म्_19.173{72} ॥
परिशुद्धाशयो धीरो भवेत् सत्वहितार्थभृत् ।
तथैतत् पुण्ययुक्तात्मा सर्वविद्याकलार्थवित् ॥ र्म्_19.174{73} ॥
भवेद् धर्मार्थविज्ञश् च सुगुणश्रीसमन्वितः ।
ततो माहेश्वरीसंपत्प्राप्तो लोकहितोद्यतः ॥ र्म्_19.175{74} ॥
दानं कृत्वा सदा सौख्यं भुक्त्या नित्यं शुभे चरेत् ।
एतत्पुण्यविपाकेन परिशुद्धस् त्रिमण्डलः ॥ र्म्_19.176{75} ॥
शुभ्रशीलो विशुद्धात्मा सदार्यव्रतम् आचरेत् ।
एतत्पुण्यानुभावेन क्षन्तिधर्मार्थसाधकः ॥ र्म्_19.177{76} ॥
स्वपरात्मसमाभावी चरेत् मैत्रीसुखान्वितः ।
एतत्पुण्यविपाकेन धर्मोत्साहगुणान्वितः ॥ र्म्_19.178{77} ॥
सर्वदुष्टगणाञ् जित्वा चरेत् सत्वहिते कृती ।
एतत्पुण्यप्रभावैश् च सर्वक्लेशान् विनिर्जयन् ।
समाधिधारणीविज्ञश् चरेद् ध्यानं समाहितः ॥ र्म्_19.179{78} ॥
एतत्पुण्यविपाकैश् च सर्वशास्त्राब्धिपारगः ।
प्रज्ञारत्नं समासाद्य महाभिज्ञपदं लभेत् ॥ र्म्_19.180{79} ॥
एतत्पुण्यानुभावैश् चिअ सर्वोपायविधानवित् ।
सर्वसत्वहितं कृत्वा शुभे नित्यं समाचरेत् ॥ र्म्_19.181{80} ॥
एतत्पुण्यानुभावैश् च बोधिप्रणिधिमानसः ।
सर्वेषां मंगलं कृत्वा भद्रचर्यां समाचरेत् ॥ र्म्_19.182{81} ॥
एतत्पुण्यप्रभावैश् च दशबलसमन्वितः ।
सर्वमारान् विनिर्जित्य चरेद् बोधिव्रतं सदा ॥ र्म्_19.183{82} ॥
एतत् पुण्यबलेनैव संबोधिज्ञानम् उत्तमं ।
महारत्नं समासाद्य भवेत् सर्वविनायकः ॥ र्म्_19.184{83} ॥
ततः सर्वत्र लोकेषु कृत्वा भद्राणि सर्वदा ।
बोधिसत्वो महासत्वः संबुद्धपदम् आप्नुयात् ॥ र्म्_19.185{84} ॥
एतत्पुण्यानुभावैश् च सर्वांस् त्रैधातुकास्थितान् ।
सत्वान् बोधौ प्रतिस्थाप्य कृत्वा धर्ममयं जगत् ॥ र्म्_19.186{85} ॥
एतत्पुण्यविपाकेन धर्मराजस् तथागतः ।
निर्वृत आलयलीनो महाबुद्धो भवेद् ध्रुवं ॥ र्म्_19.187{86} ॥
एवं मत्वा महाराज निर्वृतिपदलब्धये ।
यदीछसि तथा पुण्यम् एव कर्त्तव्यम् आभवैः ॥ र्म्_19.188{87} ॥
पुण्यम् एव महारत्नं सर्वत्रापि महानुगं ।
सर्वार्थसिद्धिदं भद्रं संबुद्धपदसाधनं ॥ र्म्_19.189{88} ॥

इति विज्ञाय राजेन्द्र हित्वा पापानुरागतां ।
पुण्यान्य् एवात्र संसारे कर्त्तव्यानि हि सर्वदा ॥ र्म्_19.190{89} ॥
पापेन सर्वदाप्य् एवं दुर्गतीष्व् एव संगताः ।
मूढा क्लेशाग्निसंतप्ता भ्रमन्ति भवचारके ॥ र्म्_19.191{90} ॥
यावंतो दुःखितो दुष्टा संसारे क्लेशतापिताः ।
सर्वे ते पापकर्त्तार इति बुद्धैः प्रकथ्यते ॥ र्म्_19.192{91} ॥
इति मत्वा महाराज सदा भद्रं यदीछसि ।
हित्वा पापानुरागत्वं सद्धर्मं चिनु सादरं ॥ र्म्_19.193{92} ॥
सद्धर्मं सौगतं धर्मं यल् लोकं हितसाधनं ।
तेनात्र सर्वधर्माणां प्रवरम् अग्रम् उच्यते ॥ र्म्_19.194{93} ॥
तद् एतद्धर्मसंप्राप्त्यै त्रिरत्नशरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भजस्व समुपस्थितः ॥ र्म्_19.195{94} ॥
त्रिरत्ने यत् कृतं कर्मं शुभं वाप्य् अशुभं तथा ।
तत् फलम् अप्रमेयम् असंख्येय महत्तरं ॥ र्म्_19.196{95} ॥
एतत्पुण्यानुभावेन सर्वे बुद्धा मुनीश्वराः ।
जगद् धर्ममयं कृत्वा निःक्लेशा परिनिर्वृताः ॥ र्म्_19.197{96} ॥
एवं विज्ञाय भूमीन्द्र हित्वा पापरतिं सदा ।
त्रिरत्नभजनं कृत्वा चर नित्यं सदा शुभे ॥ र्म्_19.198{97} ॥
अभुक्तं क्षीयते नैव क्वापि कर्म शुभाशुभं ।
येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं ॥ र्म्_19.199{98} ॥
नाग्निभिर् दह्यते कर्मं दह्यते देह एव हि ।
नोदकैः क्लिद्यते कर्मं क्लिद्यते तनुर् एव च ॥ र्म्_19.200{99} ॥
नानिलैः शुष्यते कर्मं काय एवाभिशुष्यते ।
न क्षीतौ क्षीयते कर्मं क्षीयते तनुर् एव हि ॥ र्म्_19.201{100} ॥
अन्यथापि भवेन् नैव विपाके कर्मणः फलं ।
यथैव यत् कृतं येन तेनैव भुज्यते तथा ॥ र्म्_19.202{1} ॥
कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे ।
शुभस्य सुखता नित्यं मिश्रितस्योभयं तथा ॥ र्म्_19.203{2} ॥
एवं कर्मविपाकोत्थं शुभाशुभफलं सदा ।
भुक्त्वा सर्वत्र संसारे भ्रमन्ति सर्वजंतवः ॥ र्म्_19.204{3} ॥
एवं मत्वा महाराज कृष्णानि मिश्रितानि च ।
विहायात्र शोभेष्व् एव चरितव्यं सदा भवे ॥ र्म्_19.205{4} ॥
इति तेनार्हतादिष्टं श्रुत्वानंदः स भूपतिः ।
तथेति प्रतिविज्ञप्य सजनः प्राभ्य नंदतः ॥ र्म्_19.206{5} ॥
ततः स नृपतिर् भूयो रैवतं तं महामतिं ।
सुचीवरैः समाछाद्य सांजलिः प्रणतिं व्यधात् ॥ र्म्_19.207{6} ॥
पुनर् उत्थाय भूपालस् तम् अर्हन्तं कृतांजलिः ।
प्रणत्वा विनयं कुर्वन् क्रमाच् च प्रार्थयत् तथा ॥ र्म्_19.208{7} ॥
भदन्तात्र प्रसीदस्व क्षमस्व मे ऽपराधतां ।
सर्वदा दर्शनं दत्वानुग्रहं कर्तुम् अर्हसि ॥ र्म्_19.209{8} ॥

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc