भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 161180

सूचीछिद्रमुखान्य् अस्थियंत्रवद् उच्छृतान्य् अपि ।
क्षुत्पिपासाभिदग्धानि हीनदीनस्वराण्य् अपि ॥ र्म्_16.22{22} ॥
तीव्रदुःखानि तप्तानि प्रलपन्ति विहायसि ।
विभ्रमन्ति सदा क्वापि किञ्चि स्थितिं न लेभिरे ॥ र्म्_16.23{23} ॥
तदैकस्मिन् दिने तत्र मौद्गल्यायन आत्मवित् ।
आयुष्मान् सौगतो भिक्षुर् महाभिज्ञो दयान्वितः ॥ र्म्_16.24{24} ॥
पूर्वाह्ने पात्रम् आदाय काषायचीवरावृतः ।
राजगृहे पुरे पिण्डं याचितुं समुपाचरन् ॥ र्म्_16.25{25} ॥
तत्र यतिः स तां प्रेतां सर्वान् विभ्रमतो ऽम्वरे ।
दृष्ट्वेने क इति ध्यात्वा पश्यञ् जनैर् उपाचरन् ॥ र्म्_16.26{26} ॥
ते सर्वे प्रेतकाश् चापि दृष्ट्वा तं भिक्षुम् आगतं ।
सहसोपेत्य नत्वाग्रे रुदन्त एतद् अब्रुवन् ॥ र्म्_16.27{27} ॥
भदन्त भवतां पादौ वन्दामहे समानताः ।
तद् अस्माकं हितं कृत्वा कृपया त्रातुम् अर्हति ॥ र्म्_16.28{28} ॥
वयं राजगृहे जाताः पौराः पंचशतान्य् अपि ।
स्वकर्मपरिभुंजानः प्रेतीभूताश् चरामहे ॥ र्म्_16.29{29} ॥
तदा वयम् इमे सर्वे गृहस्थाः श्रेष्ठिनो नराः ।
महाधना महाभोगास् तीर्थिका धर्मसेवकाः ॥ र्म्_16.30{30} ॥
यद् वयं मत्साराक्रान्तमानसाः कुटुकुञ्चकाः ।
आगृहीतपरिष्काराः केवलार्जनसाधकाः ॥ र्म्_16.31{31} ॥
नैव किञ् चित् तदा दानम् अदद्महि कदा चन ।
अर्थिनम् आगतं दृष्ट्वा प्राकुष्यामहि रोषिताः ॥ र्म्_16.32{32} ॥
परदत्तान्य् अपि श्रुत्वा दृष्ट्वा चापि प्ररोषिताः ।
दीयमानेषु विघ्नानि प्राकुर्महि प्रयत्नतः ॥ र्म्_16.33{33} ॥
सौगता अपि चार्हन्तः प्रेता इवेयम् आगताः ।
इत्य् अस्माभिः प्रमोहान्धैः परिभाष्याभिनिन्दिताः ॥ र्म्_16.34{34} ॥
तत एते वयं सर्वे कालं कृत्वा च सांप्रतं ।
एवं प्रेतालयोत्पन्ना दुःखार्दिताश् चरामहे ॥ र्म्_16.35{35} ॥
इति भदन्त विज्ञाय गत्वा राजगृहे भवान् ।
कृपयास्मत्प्रवृत्तांतं ज्ञातीनां पुरतो वदन् ॥ र्म्_16.36{36} ॥
छन्दकभिक्षणं कृत्वा बुद्धादिं सर्वसांघिकं ।
अस्मन्नाम्ना समभ्यर्च्य भोजयितुं समर्हति ॥ र्म्_16.37{37} ॥
संबुद्धप्रमुखेभ्यश् च संघेभ्यो भवतादरात् ।
अस्मन्नाम्ना प्रकर्त्तव्यं प्रणामम् अपि सद्गुरो ॥ र्म्_16.38{38} ॥
दक्षिणादेशनाप्य् अस्मन्नाम्ना बुद्धादिसांघिकैः ।
भवता कारयितव्या इत्य् अस्मासु कृपां कुरु ॥ र्म्_16.39{39} ॥
यथास्माकम् इतः प्रेतलोका मुक्तिर् भवेद् ध्रुवं ।
तथास्मासु भवाम्च् छास्ता कृपया कर्तुम् अर्हाति ॥ र्म्_16.40{40} ॥
इति तैः प्रार्थितं सर्वैः स मौद्गल्यायनः सुधीः ।
श्रुत्वा तथेति संश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_16.41{41} ॥

ततस् तान् प्रेतिकान् सर्वान् स मौद्गल्यायनो यतिः ।
समालोक्य समाश्वास्य पुनर् एतत् समब्रवीत् ॥ र्म्_16.42{42} ॥
तत्र यूयं च सर्व श्वः प्रवृत्ते संघभोजने ।
ससंघं श्रीघनं द्रष्टुं समायात समादरात् ॥ र्म्_16.43{43} ॥
इति तेनार्हातादिष्टं श्रुत्वा ते प्रेतका अपि ।
तथेति हि प्रतिज्ञाय प्रणत्वा तं वने ययुः ॥ र्म्_16.44{44} ॥
ततः स सौगतो भिक्षुर् मौद्गल्यो यतिर् आत्मवित् ।
गत्वा राजगृहे तेषां ज्ञातीनां समुपाचरन् ॥ र्म्_16.45{45} ॥
तत्र सर्वत्र तेषां तत् ज्ञातीनां भवनेषु स ।
गत्वा तेषां प्रवृत्तांतं सर्वम् एवं न्यवेदयत् ॥ र्म्_16.46{46} ॥
ततः स तत्र सर्वांस् तां ज्ञातीन् आहूय सादरं ।
तेषां प्रेतगतेर् मुक्तिहेतोर् एवं समब्रवीत् ॥ र्म्_16.47{ऽ47} ॥
शृणुत भो महाभाग्य यूयं सर्वे समाहिताः ।
युष्माकं ज्ञातिवर्गाणां मुक्तिहेतुं प्रवक्ष्यते ॥ र्म्_16.48{48} ॥
यतो युष्मत्सगोत्रास् ते मत्सरिणो दुराशयाः ।
आगृहीतपरिष्कारा दशाकुशलसंचराः ॥ र्म्_16.49{49} ॥
नापि दानं प्रदत्तं तैः कस्मै चि क्वापि किं चन ।
परदत्तान्य् अपि श्रुत्वा दृष्ट्वा वा पर्यभाष्यत ॥ र्म्_16.50{50} ॥
अर्हन्तो भिक्षवो वा तैर् याचकाश् च गृहागताः ।
परिभाष्याभिसंतर्ज्य निष्कासिता गृहाद् वलात् ॥ र्म्_16.51{51} ॥
प्रेता इव सदा भिक्षां याचित्वेमे ऽभिभुंजते ।
इत्य् अर्हतो यती चापि दृष्ट्वैव ते ऽभ्यनिन्दयन् ॥ र्म्_16.52{52} ॥
एतत्कर्मविपाकैस् ते प्रेतीभूता वने ऽधुना ।
क्षुत्पिपासाहता नित्यं विभ्रम्यन्ते ऽभिदुःखिताः ॥ र्म्_16.53{53} ॥
तत् तेसां तन् महत्पापमुक्तिहेतोर् इहाधुना ।
संबुद्धशासने दानं कर्तुम् इछाम्य् अहं खलु ॥ र्म्_16.54{54} ॥
मयैतद् दक्षिणादेशास् तन् नाम्ना कारयिष्यते ।
तदा तत् पापमुक्तास् ते सर्वे यायुर् दिवं ध्रुवं ॥ र्म्_16.55{55} ॥
तद् अत्र श्रद्धया यूयं यथाशक्ति मयार्थिताः ।
संघभोजनसामग्रिं सर्वे प्रदातुम् अर्हय ॥ र्म्_16.56{56} ॥
संघभोज्ये प्रवृत्ते ऽत्र सर्वे ते प्रेतिका अपि ।
द्रष्टुं समागमिष्यन्ति यूयं चागंतुम् अर्हथ ॥ र्म्_16.57{57} ॥
इत्य् उक्त्वा प्रार्थिते तेन मौद्गल्येन दयालुना ।
श्रुत्वा तज् जातयः सर्वे विस्मयां समुपाययुः ॥ र्म्_16.58{58} ॥
ततस् ते विस्मिताः सर्वे तत् प्रेतगतिमुक्तये ।
तत् भोज्यसामग्रीं श्रद्धया दातुम् इच्छिरे ॥ र्म्_16.59{59} ॥
के चित् तस्मै सुवर्णानि के चिद् रत्नानि संददुः ।
के चिद् रोप्यादि धातूंश् च द्रव्यानि विविधानि चा ॥ र्म्_16.60{60} ॥
तण्डुलानि ददुः के चिद् ददुर् धान्यानि के चन ।
के चिद् ददुः कलायांश् च गोधूमांश् च यवान् अपि ॥ र्म्_16.61{61} ॥

कुल्माषान् मसुरांश् चापि माषचनकसर्षपान् ।
मुद्गांश् चापि तथान्यांश् च सर्वान् व्रीहिन् ददुः परे ॥ र्म्_16.62{62} ॥
तिलप्रियंगुसिद्धार्थान् भंगाश् च राजिका अपि ।
मूलशाककदम्वांश् च पत्रपुष्पांकुराणि च ॥ र्म्_16.63{63} ॥
शृङ्गवेरातिपक्वानि फलानि विविधानि च ।
सुरसानि सुपथ्यानि प्रददुश् चापरे मुदा ॥ र्म्_16.64{64} ॥
तिक्ताम्ललवणादीनि रसानि विविधानि च ।
शुन्ठीश् च पिप्पिरीश् चापि मरिचानि ददुर् मुदा ॥ र्म्_16.65{65} ॥
हिङ्गुं च जीरकांश् चान्ये विडर्कसैंधवादि च ।
अन्ये घृतानि तैलानि प्रददुः श्रद्धया मुदा ॥ र्म्_16.66{66} ॥
शक्तूंश् च पिष्टकांश् चान्यमोदकांश् च ददुर् मुदा ।
तथा दधीनि दुग्धानि मधुनि च गुडानि च ॥ र्म्_16.67{67} ॥
तथान्ये सर्कराश् चापि प्रददुः श्रद्धया मुदा ।
तथौषधानि पथ्यानि पाचकानि ददुः परे ॥ र्म्_16.68{68} ॥
लाङ्गलीपूगताम्बूलरवंगादीनि संददुः ।
सर्वपेयानि भोज्यानि विविधान्य् अपि ।
सर्वे ते ज्ञातयस् तेषां संघभोक्ष्याय संददुः ॥ र्म्_16.69{69} ॥
एवं ते सर्ववस्तूनि दत्वा सर्वे प्रमोदिताः ।
सांजलयः प्रणत्वा तं मौद्गल्यं यतिम् ऊचिरे ॥ र्म्_16.70{70} ॥
भदन्तो ऽनुग्रहं कृत्वा संबुद्धप्रमुखं भवान् ।
सर्वसंघं समभ्यर्च्य भोजयतु प्रतोषयन् ॥ र्म्_16.71{71} ॥
वयम् अप्य् आगमिष्यामः प्रवृत्ते संघभोजने ।
तान् प्रेतान् समुपायातान् सर्वान् द्रष्टुं सबान्धवाः ॥ र्म्_16.72{72} ॥
इति तैः प्रार्थितं श्रुत्वा तथेति स प्रबोधयन् ।
तानि द्रव्यानि सर्वाणि गृहीत्वा स्वाश्रमे ययौ ॥ र्म्_16.73{73} ॥
ततः स भिक्षुर् आयुष्मान् विहारे समुपाचरन् ।
दृष्ट्वा तं श्रीघनं नत्वा साञ्जलिः समुपाश्रयन् ॥ र्म्_16.74{73} ॥
तत्र स भगवान् दृष्ट्वा तं मौद्गल्यम् उपस्थितं ।
प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् ॥ र्म्_16.75{74} ॥
कं चित् ते कुशलं वत्स कुतो ऽत्रासि समागतः ।
लोकेषु किं प्रवृत्तांतं तन् प्रचक्ष्व महामते ॥ र्म्_16.76{75} ॥
इत्य् आदिष्टे मुनीन्द्रेण स मौद्गल्यायनः सुधीः ।
भगवन्तं तम् आनत्वा साञ्जलिर् एतद् अब्रवीत् ॥ र्म्_16.77{76} ॥
भगवन् कृपया शास्तः सर्वत्र कौशलं मम ।
राजगृहे पुरे पिंडं याचितुं समुपाचरन् ॥ र्म्_16.78{77} ॥
तत्र मार्गे वनोपान्ते पंच प्रेतशतान्य् अपि ।
दृष्ट्वा मां समुपसृत्य प्रणत्वैतद् वदन्ति वै ॥ र्म्_16.79{78} ॥
भदन्त तद् विजानीया यद् वयं प्रेतिका इमे ।
सर्वे राजगृहे जाता गृहस्थाः पौरिकाः खलु ॥ र्म्_16.80{79} ॥
तदा वयं स्वयं नष्टा दशाकुशलचारिणः ।

एते स्वदैवयोगेन प्रेतीभूताश् चरामहे ॥ र्म्_16.81{80} ॥
तद् भवान् कृपयास्माकं प्रेतगतिविमुक्तये ।
ज्ञातीनाम् अपि सर्वेषां कर्मप्लोतिं निवेद्य हि ॥ र्म्_16.82{81} ॥
छन्दकभिक्षणं कृत्वाप्य् अस्मन्नाम्ना ससांघिकं ।
भगवन्तं समभ्यर्च्य भोजयितुं समर्हति ॥ र्म्_16.83{82} ॥
अस्मन्नाम्नाय संबुद्धं ससंघं नमतां भवान् ।
दक्षिणादेशनाश् चास्मन्नाम्ना देशयतुम् अर्हसि ॥ र्म्_16.84{83} ॥
ततो नूनं वयं सर्वे प्रेतगतिविमोचिताः ।
निर्मुक्तपापकाः शुद्धाः प्राप्नुयाम सुरालयं ॥ र्म्_16.85{84} ॥
इत्य् अस्मत्प्रार्थनां कृत्वा कृपयास्मान् समुद्धरन् ।
बोधिमार्गे प्रतिस्थाप्य पातुम् अर्हति सर्वदा ॥ र्म्_16.86{85} ॥
इति तेषां वचः श्रुत्वा तथा राजगृहे गतः ।
तद् ज्ञातीनां पुरस् तेषां प्रवृत्तांतं निवेद्य च ॥ र्म्_16.87{86} ॥
छन्दकभिक्षणं तेभ्यो याचित्वाहम् इहाचरे ।
तथार्चयितुम् इछामि भगवन्तं ससांघिकं ॥ र्म्_16.88{87} ॥
इति मे प्रार्थनां कृत्वा भवां छास्ता जगद्गुरुः ।
तद् अधिवासनां कृत्वा कृपया तान् समुद्धर ॥ र्म्_16.89{88} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
तथेति संप्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ र्म्_16.90{89} ॥
ततो मत्वा स मौद्गल्यो भगवतो ऽधिवासितं ।
सहसा भोज्यसामग्रीं सपौरैः समसाधयत् ॥ र्म्_16.91{90} ॥
ततो ऽन्ये द्युः प्रभातायां सर्वसाधितसिद्धिते ।
साञ्जलिस् तं मुनीन्द्रं च प्रणत्वैतत् समब्रवीत् ॥ र्म्_16.92{91} ॥
भगवन् सर्वसामग्रीं संसाधितं सुसिद्ध्यते ।
तत् सर्वसांघिकैः सार्द्धं सहसागंतुम् अर्हति ॥ र्म्_16.93{92} ॥
इति संप्रार्थिते तेन भगवां स मुनीश्वरः ।
भिक्षुं प्राह समाहूय गण्डीम् आकोट्यताम् इति ॥ र्म्_16.94{93} ॥
तदादिष्टं मुनीन्द्रेण श्रुत्वा भिक्षुस् तथेति सः ।
आश्रुत्य सहसादाय गण्डीम् आकोटयत् तदा ॥ र्म्_16.95{94} ॥
तद् गण्डीशब्दम् आकर्ण्य सर्वे ते सांघिका अपि ।
विहारे सहसागत्य भगवन्तं प्रणेमिरे ॥ र्म्_16.96{95} ॥
ततः स भगवांस् तत्र स्वासने समुपाविशत् ।
सर्वे ते सांघिकाश् चापि क्रमात् स्वस्वासने ऽविशन् ॥ र्म्_16.97{96} ॥
ततस् तद् ज्ञातयः सर्वे तत्रान्ये पौरिका अपि ।
तान् प्रेतान् द्रष्टुम् आयाता उपतस्थुः सकौतुकाः ॥ र्म्_16.98{97} ॥
तदा ते प्रेतिकाः सर्वे प्रक्षिप्ताः कर्मवायुभिः ।
बहुलोकान्तरे दुरे यातास् तस्थुर् विमोहिताः ॥ र्म्_16.99{98} ॥
तदा स यतिर् आलोक्य सर्वसंघान् समास्थितान् ।
तद्ज्ञातिबन्धुवर्गांश् च प्रेतान् द्रष्टुं समाचरत् ॥ र्म्_16.100{99} ॥
तत्र प्रेतान् अदृष्ट्वा स मौद्गल्यो विस्मिताशयः ।

किं ते ऽत्र नागता वेति समन्ततो व्यलोकयत् ॥ र्म्_16.101{100} ॥
विलोकयन् स सर्वत्र नाद्रक्षीत् तां समंततः ।
स संदिग्धः पुनस् तत्र सम्यग्दृष्ट्या व्यलोकयत् ॥ र्म्_16.102{1} ॥
सर्वत्रापि स तां प्रेतान् अदृष्ट्वा विस्मयान्वितः ।
सर्वत्र मगधे ऽपश्यत् सम्यग्दृशा समाहितः ॥ र्म्_16.103{2} ॥
तत्रापि च स सर्वत्र नैव कं चिद् अपश्यते ।
ततो ऽतिविस्मितो ऽन्यत्र दिव्यदृशाभ्यलोकयत् ॥ र्म्_16.104{3} ॥
अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च ।
तत्रापि तान् अदृष्ट्वा स नरकेषु समन्ततः ।
दिव्येन चक्षुषा पश्यन् न च तत्राप्य् अपश्यत ॥ र्म्_16.105{4} ॥
ततश् चतुर्महाराजभुवनेषु समन्ततः ।
स दिव्यचक्षुषा पश्यंस् तत्रापि नाभ्यपश्यत ॥ र्म्_16.106{5} ॥
तत्रापि तान् अदृष्ट्वा स मौद्गल्यो विस्मयान्वितः ।
देवालयेषु सर्वत्र क्रमेण समलोकयत् ॥ र्म्_16.107{6} ॥
तत्रापि तां समन्तेषु स मौद्गल्यो ऽतिविस्मितः ।
तान् अदृष्ट्वातिसंदिग्धो भगवतान्तिके ऽचरत् ॥ र्म्_16.108{7} ॥
तत्र स पुरतो गत्वा शास्तारं तं मुनीश्वरं ।
कृताञ्जलिपुटो नत्वा पप्रछैतत् प्रवृत्तितां ॥ र्म्_16.109{8} ॥
भगवन् सर्वलोकेषु पश्यता दिव्यचक्षुसा ।
मया न दृश्यते कश् चित् ते प्रेताः क्वाधुना गताः ॥ र्म्_16.110{9} ॥
तेषां नाम्ना भवत्पूजां कर्त्तुम् एतत् प्रसाधितं ।
यद् अत्र नागताः केचित् तत् ते प्रेता गताः कुह ॥ र्म्_16.111{10} ॥
दृश्यन्ते न मया क्वापि सर्वत्रापि समीक्ष्यते ।
एको ऽपि नागतो ह्य् अत्र क्व गतास् ते ऽधुना खलु ॥ र्म्_16.112{11} ॥
तन् मे चित्तं प्रसंदिग्धं दृष्ट्वा शास्ता भवान् सुदृक् ।
तेषां गतिं समाख्याय संबोधयितुम् अर्हति ॥ र्म्_16.113{12} ॥
इति संप्रार्थिते तेन मौद्गल्येन स सर्ववित् ।
भगवांस् तं समालोक्य मौद्गल्यम् एतद् अब्रवीत् ॥ र्म्_16.114{13} ॥
मौद्गल्य मा कृथा यत्नं खेदम् एवाभिपत्स्यसे ।
गतास् ते प्रेतिकाः सर्वे सुदूरभुवने ऽधुना ॥ र्म्_16.115{14} ॥
सर्वे ते यतिदेवर्षिप्रत्येकसुगतैर् अपि ।
अदृश्ये विषये याताः प्रेरिताः कर्मवायुभिः ॥ र्म्_16.116{15} ॥
यदि सर्वां च तां द्रष्टुं वांछसि त्वम् इहाश्रितः ।
सर्वांस् तां दर्शयिष्यामि पश्य बुद्धानुभावतां ॥ र्म्_16.117{16} ॥
तद् अत्र त्वं समादाय गण्डीम् आकोटय द्रुतं ।
ओं नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यकम्बुद्धाय ॥ तद्यथा ॥
ओं पुण्ये पुण्ये महापुण्ये अपरिमितपुण्ये अपरिमितपुण्यज्ञानसंभारोपचिते ।
ओं सर्वसंस्कारपरिशुद्धे धर्मते गगणसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा ।
अष्टोत्तरशताक्षर्य्यानयासंलब्धचेतनाः ॥ र्म्_16.118{17} ॥
सर्वे ते ऽत्रागमिष्यन्ति गण्डीशब्दाभिनादिताः ।

इति शास्त्रा समादिष्टं श्रुत्वा स प्रतिबोधितः ॥ र्म्_16.119{18} ॥
सहसा तत् सभामध्ये गण्डीम् आकोटयत् तथा ।
तद् गण्डीशब्दम् आकर्ण्य सर्वे ते प्रेतिका अपि ।
परिशुद्धाशया द्रष्टुं विहारे समुपाचरन् ॥ र्म्_16.120{19} ॥
तत्र सर्वे ऽपि ते प्रेता दृष्ट्वा तं श्रीघनं मुदा ।
त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ र्म्_16.121{20} ॥
क्रमात् तां सर्वसंघांश् च प्रणत्वा ते प्रमोदिताः ।
सर्वे ऽप्य् एकान्तम् आश्रित्य पश्यन्त उपतस्थिरे ॥ र्म्_16.122{21} ॥
तत्र तद् ज्ञातयः सर्वे पौरिकाश् चापरे ऽपि च ।
तान् प्रेतान् समुपासीनान् दृष्ट्वा तस्थुः सकौतुकाः ॥ र्म्_16.123{22} ॥
एवं सर्वे ऽपि ते प्रेताः स्वस्वज्ञातीन् उपस्थितान् ।
भात्रादीन् बन्धुवर्गांश् च दृष्ट्वैवम् उपतस्थिरे ॥ र्म्_16.124{23} ॥
ततः सो ऽर्हन् महाभिज्ञो मौद्गल्यस् तान् उपस्थितान् ।
प्रेतान् सर्वान् समालोक्य नत्वाहैवं मुनीश्वरं ॥ र्म्_16.125{24} ॥
भगवन् नाथ सर्वज्ञ ते प्रेताः सर्व आगताः ।
तद् एषां भगवां च्छास्तानुग्रहं कर्त्तुम् अर्हति ॥ र्म्_16.126{25} ॥
निवेद्येति स मौद्गल्यः संबुद्धप्रमुखं क्रमात् ।
सर्वं संघं समभ्यर्च्य भोजयन् समतोषयत् ॥ र्म्_16.127{26} ॥
ततः स सर्वसंघं तं दृष्ट्वा संतृप्तिकं मुदा ।
अपनीयाशु पात्राणि हस्तादीन् समशोधयत् ॥ र्म्_16.128{27} ॥
ततः खपुरसूक्ष्मैलाताम्बूलादि रसायनं ।
दत्वा क्षमार्थनां कृत्वा प्रार्थयत् स मुनीश्वरं ॥ र्म्_16.129{28} ॥
भगवन् नाथ सर्वज्ञ भवां छास्ता ससांघिकः ।
दक्षिणादेशनाम् एभ्यः प्रेतेभ्यः कर्तुम् अर्हति ॥ र्म्_16.130{29} ॥
इति संप्रार्थितं श्रुत्वा सर्वे ते प्रेतिका मुदा ।
ससंघं तं मुनिं नत्वा सादरम् उपतस्थिरे ॥ र्म्_16.131{30} ॥
ततः स भगवान् दृष्ट्वा ससंघस् तान् उपस्थितान् ।
दक्षिणादेशनां तेभ्यः सर्वेभ्यो विदधे शुभां ॥ र्म्_16.132{31} ॥
इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगछतु ।
उत्तिष्ठन्तः प्रयान्त्य् एते सर्वे प्रेताः सुरालयं ॥ र्म्_16.133{21} ॥
इत्य् आदिश्य पुनस् तत्र भगवां स मुनीश्वरः ।
आर्य्यसत्यं समारभ्यापरिमितायुषस् तदा ॥ र्म्_16.134{22} ॥
धारण्या गुणमाहात्म्यं सद्धर्मं समुपादिशत् ॥ र्म्_16.135{23} ॥
संसारे मानुषे जन्म दुर्लभं भवचारिणां ।
मानुष्ये लभ्यमाने ऽपि क्षणसंपत् सुदुर्लभा ॥ र्म्_16.136{24} ॥
मानुष्ये ऽलभ्यमाने हि जन्तूनां सुखता कुतः ।
दुःखान्य् एव भवे नित्यं पुण्ये मतिः कथं चरेत् ॥ र्म्_16.137{25} ॥
विना पुण्यमतिं जन्तुः सद्धर्मे कथम् आचरेत् ।
विना सद्धर्मभावेन सद्गतिं कथम् आप्नुयात् ॥ र्म्_16.138{26} ॥
प्रेतेषु सर्वदा नित्यं क्षुत्पिपासाविदाहितः ।

तिर्यक्षु नरकेष्व् एव भ्रमन् दुःखान्य् अवाप्नुयात् ॥ र्म्_16.139{27} ॥
तद् अत्र मानुषे जन्मप्राप्तैर् यत्नेन मानवैः ।
सत्कृत्य श्रद्धया नित्यं श्रोतव्यं सद्वृषं मुदा ॥ र्म्_16.140{28} ॥
सद्धर्मश्रुतमात्रेण महत्पुण्यम् अवाप्नुयात् ।
एतत् पुण्यविपाकेन सद्गुरौ सर्वदा भजेत् ॥ र्म्_16.141{29} ॥
सद्गुरोर् उपदेशेन सद्धर्मेष्व् एव सदाचरेत् ।
एतत्पुण्यविपाकेन सद्गतिं सर्वदा व्रजेत् ॥ र्म्_16.142{30} ॥
तत्र सुखानि संभुक्त्वा संचरेत शुभे सदा ॥ र्म्_16.143{31} ॥
एतद् धर्मानुभावेन महत्समृद्धिम् आप्नुयात् ।
महत्समृद्धिसंपत्सु कर्त्तव्यं दानम् अर्थिषु ॥ र्म्_16.144{32} ॥
दानेन वर्द्ध्यते लक्ष्मीर् लक्ष्मीमां च्छोभते पुमान् ।
सद्बुद्धिः सद्गुणाधारो यशोभाग्यसुखान्वितः ॥ र्म्_16.145{33} ॥
ततः सौगतधर्माणि श्रुत्वा नित्यं प्रबोधितः ।
त्रिरत्नशरणं कृत्वा भजेद् भक्त्या सदादरात् ॥ र्म्_16.146{34} ॥
एतत्पुण्यानुभावेन बोधिचित्तं समाप्नुयात् ।
बोधिचित्ते हि लब्धे हि बोधिसत्वो भवेत् कृती ॥ र्म्_16.147{35} ॥
ततः स बोधिचित्तेन दशपारमिताः क्रमात् ।
परिपूर्य महासत्वस् त्रिविधां बोधिम् आप्नुयात् ॥ र्म्_16.148{36} ॥
ततो मारगणां जित्वा परिशुद्धस् त्रिमण्डलः ।
qसाक्षाद् अर्हत्पदं प्राप्य निर्वृतिपदम् आप्नुयात् ॥ र्म्_16.149{37} ॥
एवं विज्ञाय मर्त्येन कर्त्तव्यं दानम् अर्थिने ।
दानेन सद्गतिं यायाद् अदाता दुर्गतिं व्रजेत् ॥ र्म्_16.150{38} ॥
दुर्गतिषु सदा भुक्त्वा दुःखानि विविधां स ।
सर्वदा दुःखसंक्लिष्टः पापेष्व् एवारतश् चरेत् ॥ र्म्_16.151{39} ॥
एतत्पापविपाकेन दशस्व् अकुशलेष्व् अपि ।
निरतो ह्य् अविशंकेन संचरेत प्रमादतः ॥ र्म्_16.152{40} ॥
ततः सो ह्य् अतिपापिष्ठः सद्धर्मनिन्दकः कुधीः ।
स्वयं नष्टः परांश् चापि नाशयेन् नास्तिकः शठः ॥ र्म्_16.153{41} ॥
ततो ऽतिपापसंक्लिष्टः प्रतिक्षिप्य जिनान् अपि ।
घोरेषु नरकेष्व् एव गत्वा भ्रमन् सदा वसेत् ॥ र्म्_16.154{42} ॥
सदापि नरकेष्व् एवं भ्रमतस् तस्य दुःखिनः ।
कश्चिन् नैव समुद्धर्तुं शक्नुयात् सौगताद् ऋते ॥ र्म्_16.155{43} ॥
यावन् न स्मरते बुद्धं तावत् स नरके वसेत् ।
यद् एव स्मरते बुद्धं तदा स्याच् छुद्धिताशयः ॥ र्म्_16.156{44} ॥
तदा तं कृपया बुद्धो दृष्ट्वा बौद्धेन चक्षुषा ।
पुण्यकरेण संस्पृष्ट्वा समुद्धरेद् अरं ततः ॥ र्म्_16.157{45} ॥
ततस् तं पापिनं बौद्धा धर्माम्बुभिर् विशोध्य च ।
क्रमेण बोधिमार्गेषु नियोजयेत् प्रबोधयन् ॥ र्म्_16.158{46} ॥
ततः स परिशुद्धात्मा संबुद्धशासने रतः ।
त्रिरत्नशरणं कृत्वा सद्धर्म एव प्राचरेत् ॥ र्म्_16.159{47} ॥

ततः सत्वहितार्थे स बोधिचर्यासमुद्यतः ।
क्रमात् पारमिताः सर्वा पूरयितुं समुद्यमेत् ॥ र्म्_16.160{48} ॥
ततः पारमिताः सर्वाः पूरयित्वा समाहितः ।
बोधिसत्वो महासत्वो बुद्धात्मजो भवेद् अपि ॥ र्म्_16.161{49} ॥
ततः क्लेशगणाञ् जित्वा परिशुद्धत्रिमंडलः ।
त्रिविधां बोधिम् आसाद्य निर्वृतिपदम् आप्नुयात् ॥ र्म्_16.162{50} ॥
एवं मत्वा सदा नित्यं त्रिरत्नशरणं गताः ।
सद्धर्मं समुपाश्रित्य चरध्वं मानवा मुदा ॥ र्म्_16.163{51} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः ।
सर्वे लोका परिज्ञाय दृष्टसत्यास् तथाचरन् ॥ र्म्_16.164{52} ॥
तथा सर्वे ऽपि ते प्रेताः श्रुत्वा तद् धर्मदेशनां ।
मुदा तं श्रीघनं नत्वा शुद्धात्मानस् ततो ऽचरन् ॥ र्म्_16.165{53} ॥
ततस् तद् ज्ञातयः सर्वे दृष्ट्वा श्रुत्वा सकौतुकाः ।
ससंघं तं मुनिं नत्वा स्वस्वालयं ययुर् मुदा ॥ र्म्_16.166{54} ॥
ततः स भगवान् बुद्धः समुत्थाय सषांघिकः ।
ध्यानालयं समाश्रित्य तस्थौ ध्यानसमाहितः ॥ र्म्_16.167{55} ॥
स मौद्गल्यायनश् चापि कृतकृत्यः प्रमोदितः ।
शास्तारं तं प्रणत्वैवं स्वम् आश्रमं समाश्रयत् ॥ र्म्_16.168{56} ॥
तदा सर्वे ऽपि ते प्रेताः संबुद्धे ऽभिप्रसादिताः ।
त्रिरत्नस्मरणं कृत्वा ततश् च्युता दिवं ययुः ॥ र्म्_16.169{57} ॥
तत्रोत्पन्ना हि ते सर्वे महत्सौख्यसमन्विताः ।
परिशुद्धसुभद्राङ्गा विस्मिता एतद् अब्रुवन् ॥ र्म्_16.170{58} ॥
अहो ऽस्माकं महत्सौख्यं किम् एवं जायते ऽधुना ।
कुतश् च्युताः कुहायामः कर्मणा केन वा वयं ॥ र्म्_16.171{59} ॥
अथ बुद्धानुभावेन सर्वे ते प्रेतपूर्वकाः ।
देवपुत्रा अनुस्मृत्वा प्रबोधिताः समब्रुवन् ॥ र्म्_16.172{60} ॥
भवन्तो यद् वयं सर्वे प्रेता बुद्धानुभावतः ।
मौद्गल्यस्यार्हतो भिक्षोः कृपादृष्टिप्रयत्नतः ॥ र्म्_16.173{61} ॥
संबुद्धदर्शनप्राप्तास् त्रिरत्नशरणं गताः ।
एतत् पुण्यपरिस्पृष्टाः परिशुद्धत्रिकायिकाः ॥ र्म्_16.174{62} ॥
ततः प्रेतगतेश् च्युत्वा स्वर्गलोके समागताः ।
महद्दिव्यसुखान्य् एवम् अत्र लभामहे ऽधुना ॥ र्म्_16.175{63} ॥
एतत् सत्यं परिज्ञाय तस्य शास्तुर् जगद्गुरोः ।
पुनः सर्वे वयं गत्वा सत्कृत्य प्रभजेमहि ॥ र्म्_16.176{64} ॥
इति संभाषणं कृत्वा सर्वे ते प्रेतपूर्वकाः ।
देवपुत्राः शुभाम्भोभिः स्नात्वा दिव्याम्वरावृताः ॥ र्म्_16.177{65} ॥
दिव्यसुगंधलिप्ताङ्गा दिव्यालंकारभूषिताः ।
दिव्यपूजोपचाराणि गृहीत्वा महदुत्सवैः ।
सर्वं वेणुवनं भाभिर् अवभास्य समन्ततः ॥ र्म्_16.178{66} ॥
विहारे समुपासृत्य दृष्ट्वा तं श्रीघनं मुदा ।

नत्वा प्रदक्षिणीकृत्वा प्रहर्षिता उपाचरन् ॥ र्म्_16.179{67} ॥
तत्र दिव्योपचारैस् तैः पूजांगैस् तं मुनीश्वरं ।
सर्वे ऽपि ते समभ्यर्च्य सत्कृत्य श्रद्धयाभजन् ॥ र्म्_16.180{68} ॥
तत्र चैकान्तम् आश्रित्य सद्धर्म्मश्रवणोत्सुकाः ।
कृताञ्जलिपुटाः सर्वे उपतस्थुः समाहिताः ॥ र्म्_16.181{69} ॥
अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आर्यसत्यं समारभः सद्धर्मं समुपादिशत् ॥ र्म्_16.182{70} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रेतपूर्वकाः ।
देवपुत्राश् च धर्माणां विशेषत्वं प्रलेभिरे ॥ र्म्_16.183{71} ॥
ततस् ते मुदिताः सर्वे संबोधिपदवांछिनः ।
शास्तारं तं पुनर् नत्वा समालोक्यैतद् अब्रुवन् ॥ र्म्_16.184{72} ॥
भगवन् यद् वयं सर्वे विमुक्तकर्मबंधनाः ।
प्रेतलोकात् परिच्युत्वा स्वर्गे याताः स्म सांप्रतं ॥ र्म्_16.185{73} ॥
दिव्यसुखानि साम्भुक्त्वा देवैः सह प्रमोदिताः ।
सद्धर्मगुणम् आकर्ण्य चरामहे सदाधुना ॥ र्म्_16.186{74} ॥
तत् कृपालो यतस् तस्य मौद्गल्यस्य महामतेः ।
कृपदृष्टिप्रसादेन नूनं मन्यामहे वयं ॥ र्म्_16.187{75} ॥
तद् भवद्दर्शनं प्राप्य पीत्वा धर्मामृतान्य् अपि ।
मुदिताः श्रद्धया भक्त्या त्रिरत्नं संभजामहे ॥ र्म्_16.188{76} ॥
एतत्पुण्यैः परीताङ्गाः परिशुद्धाशया मुदा ।
भवतां दर्शनं कर्तुं भूयः प्रायामहे वयं ॥ र्म्_16.189{77} ॥
तथा च भवतां शास्तः कृपादृष्टिप्रसादतः ।
आर्यधर्मामृतं पीत्वा संतुष्टिं न लभामहे ॥ र्म्_16.190{78} ॥
तद् वयं भवताम् एवं सर्वदा शरणं गताः ।
सत्कृत्य समुपासृत्य भक्तुम् इछामहे पुनः ॥ र्म्_16.191{79} ॥
तद् भवान् कृपयास्मा कं कृत्वानुग्रहम् आभवं ।
सद्धर्मं समुपादिश्य सर्वदा त्रातुम् अर्हति ॥ र्म्_16.192{80} ॥
भवतां कृपयास्माभि दुःखाब्धिः परिलंघितः ।
सत्कायदृष्टिशैलं च ज्ञानवज्रेण भिद्यते ॥ र्म्_16.193{81} ॥
ज्ञानचक्षुश् च संप्राप्तं दृष्टं मायामयं भवं ।
आर्यमार्गश् च संप्राप्तः प्राप्ता च निर्वृतिश्रुतिः ॥ र्म्_16.194{82} ॥
धन्या इमे वयं सर्वे यद् भवच्छरणं गताः ।
आर्यधर्मामृतं पीत्वा महानन्दं लभामहे ॥ र्म्_16.195{83} ॥
धन्यास् ते पुरुषाः सर्वे ये बुद्धशरणं गताः ।
सदा धर्मामृतं पीत्वा कारां कुर्वन्ति शासने ॥ र्म्_16.196{84} ॥
एवं भवां जगच्छास्ता सर्वसत्वानुकम्पया ।
सद्धर्मं समुपादिश्य तिष्ठतु सर्वदा सुखं ॥ र्म्_16.197{85} ॥
इति प्रभाख्य सर्वे ते देवपुत्राः प्रमोदिताः ।
तं मुनीन्द्रं प्रणत्वा च सुप्रसन्ना दिवं ययुः ॥ र्म्_16.198{86} ॥
तत्र सर्वे ऽपि ते देवास् त्रिरत्नशरणं गताः ।

प्रभेजिरे सदा स्मृत्वा संबोधिपदवांछिनः ॥ र्म्_16.199{87} ॥
ततः प्रातः समुत्थाय भगवान् सो ऽनुमोदितः ।
तं मौद्गल्यायनं शिष्यं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_16.200{88} ॥
साधु मौद्गल्य संवृत्तं सफलं ते कृपामते ।
यत् त्वया प्रकृतं कायं वैयावृत्तं सुशोभितं ॥ र्म्_16.201{89} ॥
यन्नाम्ना भिक्षणं कृत्वा बुद्धपूजा कृता त्वया ।
ते सर्वे देवलोकेषु समुत्पन्नाः प्रतिस्थिताः ॥ र्म्_16.202{90} ॥
ते सर्वे ऽद्य निशायां मत्सकाशं समुपगताः ।
तेषां भद्राशयं दृष्ट्वा सद्धर्मो देशितो मया ॥ र्म्_16.203{91} ॥
तत् सद्धर्मामृतं पीत्वा ते सर्वे ऽपि प्रमोदिताः ।
दृष्टसत्याः प्रक्रान्ताश् च गछन्ति त्रिदशालये ॥ र्म्_16.204{92} ॥
तत्र स्वर्गे ऽपि ते सर्वे त्रिरत्नशरणं गताः ।
प्रभजन्ति सदा नित्यं संबोधिगुणवांछिनः ॥ र्म्_16.205{93} ॥
यन्नाम्ना यत् कृतं कर्म तत् फलं ते प्रभुंजते ।
एवं लोकहितं कर्तुं कर्त्तव्यं पुण्यसाधनं ॥ र्म्_16.206{94} ॥
एवं लोकहितं कृत्वा प्रकुर्वन्ति शुभानि ये ।
ते पुमांसो महासत्वा बोधिसत्वा जिनात्मजाः ॥ र्म्_16.207{95} ॥
एवं विज्ञाय लोकानां हितं कर्तुं समुद्यतः ।
सद्धर्मसाधनेष्व् एव चरितव्यं समाहितः ॥ र्म्_16.208{96} ॥
इति शास्त्रा समादिष्टं श्रुत्वा सो ऽर्हं महामतिः ।
सत्यम् इति प्रतिज्ञाय प्राभ्यनन्दत् प्रबोधितः ॥ र्म्_16.209{97} ॥
ततः सो ऽर्हन् महाभिज्ञस् तच् छास्त्रादिष्टम् आदरात् ।
तद् ज्ञातीनां पुरोगत्वा सर्वम् एवं न्यवेदयत् ॥ र्म्_16.210{98} ॥
ते ऽपि च ज्ञातयः सर्वे तेनार्हता निवेदितं ।
श्रुत्वा सत्यम् इति ज्ञात्वा प्रामोद्यं प्रतिलेभिरे ॥ र्म्_16.211{99} ॥
ततस् ते ज्ञातयः सर्वे त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समादरात् ॥ र्म्_16.212{100} ॥
इति मे गुरुणादिष्टं श्रुतं मया नराधिप ।
लोकप्रबोधनार्थेन तव प्रीत्या प्रकथ्यते ॥ र्म्_16.213{1} ॥
एवं विज्ञाय राजेन्द्र प्रेतानां शुभसाधनं ।
त्रिरत्नभजनं लोकैः कारयितुं त्वम् अर्हसि ॥ र्म्_16.214{2} ॥
तथा ते मंगलं नित्यं भवेन् नूनं समंततः ।
सर्वसत्वहितोद्भुतं महत्पुण्यं हि सत्फलं ॥ र्म्_16.215{3} ॥
इति मत्वा महाराज लोकान् सर्वान् प्रबोधयन् ।
प्रतिष्ठाप्य शुभे धर्मे पालयस्व समाहितः ॥ र्म्_16.216{4} ॥
इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_16.217{5} ॥
प्रेतावदानं मनुजा इदं ये शृण्वन्ति ये चापि निशामयन्ति ।
ते सर्व एवं प्रतिलब्धपुण्या भुक्त्वा सुखानि प्रचरन्ति लोके ॥ र्म्_16.218{6} ॥
++ इति रत्नाव दानतत्वे प्रेतिकावदानं समाप्तम् ++

xविइ कचंगलावदान
अथाशोको महाराजः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनर् एवं अभाषत ॥ र्म्_17.1{1} ॥
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_17.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेंद्रां तं समलोक्यैवम् आदिशत् ॥ र्म्_17.3{3} ॥
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ र्म्_17.4{4} ॥
पुरैकसमये बुद्धः साक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः सास्ता धर्मराजो विनायकः ॥ र्म्_17.5{5} ॥
श्रावस्त्या निकटे ऽरण्ये जेताश्रमे शुभालये ।
विहारे श्रावकैः सार्द्धं भिक्षुभिश् चैलकैर् अपि ॥ र्म्_17.6{6} ॥
भिक्षुणीभिः सुशिलाभिर् उपासिकागणैर् अपि ।
उपासकैस् तथान्यैश् च त्रिरत्नशरणागतैः ॥ र्म्_17.7{7} ॥
बोधिसत्वगणैश् चापि सत्वोद्धरणतत्परैः ।
विजहार जगल्लोकं धर्मांशुभिः प्रभासयन् ॥ र्म्_17.8{8} ॥
तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः ।
शक्रादयः सुपर्वाणब्रह्मादि लोकपालकाः ॥ र्म्_17.9{9} ॥
दैत्या नागाश् च गंधर्वा यक्षकिन्नरराक्षसाः ।
गरुडा विद्याधराश् चापि सर्वे ते संप्रचेरिरे ॥ र्म्_17.10{10} ॥
ततः सर्वे ऽपि ते तत्र पुरस्कृत्य समन्ततः ।
परिवृत्य ससंघं तम् उपतस्थुः समाहिताः ॥ र्म्_17.11{11} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_17.12{12} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः ।
धर्मविशेषम् आज्ञाय प्राभ्यनन्दञ् छूभाशयाः ॥ र्म्_17.13{13} ॥
तस्मिन्न् अवसरे तत्र वृद्धारामोदकार्थिनी ।
कचङ्गलाभिधा कुम्भं धृत्वा कूपान्तिके ऽचरत् ॥ र्म्_17.14{14} ॥
तत्र तां भगवान् दृष्ट्वा मत्वा जन्मान्तरप्रसूं ।
आनंदं समुपामंत्र्य पुर एवम् अभाषत ॥ र्म्_17.15{15} ॥
गछानंद त्वम् एतस्यां वृद्धायां प्रार्थयामृतं ।
भगवांस् तृषितो मातस् तद् अम्बु दीयताम् इति ॥ र्म्_17.16{16} ॥
एतद् भगवतादिष्टं श्रुत्वानंदस् तथेति सः ।
सहसा समुपाश्रित्य तां वृद्धाम् एवम् अब्रवीत् ॥ र्म्_17.17{17} ॥
मातर् मे भगवाञ् छास्ता तृषितो ऽयम् इहाधुना ।
तत् पानीयं प्रदत्वा मे महद्धर्मम् अवाप्नुहि ॥ र्म्_17.18{18} ॥
इति संप्रार्थितं तेन श्रुत्वा सा स्थविरा सती ।
तम् आनन्दं समालोक्य मुदितैवम् अभाषत ॥ र्म्_17.19{19} ॥
भदन्त साधु तत्राहम् अमृतपूरितं घटं ।

स्वयम् एव समानीय दास्यामि व्रजतां भवान् ॥ र्म्_17.20{20} ॥
इति तयोदितं श्रुत्वा स आनंदः प्रबोधितः ।
उपेत्यैवं समाख्याय शास्तुः पुर उपाश्रयत् ॥ र्म्_17.21{21} ॥
तदा सा सहसा कृत्वा घटं शुद्धाम्बुपूरितं ।
स्वयम् एव समादाय तत्राभिसंमुखाचरत् ॥ र्म्_17.22{22} ॥
तत्र सा समुपाश्रित्य प्राद्राक्षीत् तं मुनीश्वरं ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितं ॥ र्म्_17.23{23} ॥
व्यामप्रभाभिभास्वंतं शतसूर्याधिकप्रभं ।
जंगमम् इव रत्नाभं सौम्यं समन्तभद्रकं ॥ र्म्_17.24{24} ॥
सह तद्दर्शणात् तत्र पुत्रस्नेहसमुद्भवाः ।
स्तनाभ्यां प्रश्रुतास् तस्याः क्षीरधारा निरंतरं ॥ र्म्_17.25{25} ॥
ततो धर्मानुभावेन स्मृत्वा पूर्वभवात्मजं ।
पुत्र पुत्रेति सोक्त्वा तं परिष्वेक्तुम् उपाचरत् ॥ र्म्_17.26{26} ॥
तदा ते भिक्षवः सर्वे एवं तां समुपद्रुतां ।
दृष्ट्वैव सहसोत्थाय प्रधारयितुम् आरभन् ॥ र्म्_17.27{27} ॥
तद् दृष्ट्वा भगवां छस्ता सर्वांस् तां सांघिकान् अपि ।
सहसा समुपामंत्र्य पुनर् एवं समादिशत् ॥ र्म्_17.28{28} ॥
मा भिक्षव इमां वृद्धां धारायतात्र मुञ्चत ।
पंचजन्मशतान्य् एषा माता मे भूयतः पुरा ॥ र्म्_17.29{29} ॥
तत्पूर्वजन्ममातेयं पुत्रस्नेहानुभाविनी ।
समालिंगतुम् ईछन्ती मम गात्रे प्रधावति ॥ र्म्_17.30{30} ॥
यद्य् अत्रैषा निवार्य्येते गात्र मे श्लेष्मणाद् अपि ।
इदानीं रुधिरं ह्य् उष्णं कम्ठाद् अस्याः क्षरेत् क्षणात् ॥ र्म्_17.31{31} ॥
कृतज्ञताम् अनुस्मृत्वा दृष्ट्वेमां पुत्रलालसां ।
कारुण्याद् गात्रसंश्लेषं ददाम्य् अत्रानुकंपया ॥ र्म्_17.32{32} ॥
इति शास्त्रा समादिष्टं श्रुत्वा ते सर्वसांघिकाः ।
तां शास्तुः पूर्वप्रसूं मत्वा व्यवतस्थुः सविस्मयाः ॥ र्म्_17.33{33} ॥
तत्क्षणाद् उर्द्धवाहुः सा समीक्ष्य तं मुनीश्वरं ।
सहसा संप्रधावित्वा समालिंग्य नमच् चिरं ॥ र्म्_17.34{34} ॥
ततश् चिरात् समुत्थाय सा वृद्धा साञ्जलिर् मुदा ।
श्रीघनं तं समालोक्य पुरस् तस्थौ समाहिता ॥ र्म्_17.35{35} ॥
तदा स भगवान् दृष्ट्वा तां पुरः समुपास्थितां ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_17.36{36} ॥
तत् सद्धर्मामृतं पीत्वा स वृद्धापि कचंगला ।
परिशुद्धाशया भद्रा बोधिचर्या प्रबोधिता ॥ र्म्_17.37{37} ॥
सत्कायदृष्टिभूमीध्रं विंशतिशिखरोद्गतं ।
निर्भिद्य ज्ञानवज्रेण दृष्टसत्यप्रबोधिता ॥ र्म्_17.38{38} ॥
संप्राप्य श्रोतआपत्तिफलं साक्षत् कृतोद्यमा ।
सांजलिस् तं मुनिं नत्वा गाथा इमा अभाषत ॥ र्म्_17.39{39} ॥
यत् कर्त्तव्यं स्वपुत्रेण मातुर् दुष्करकारिणा ।

तत् कृतं भवता मे ऽत्र चित्तं मोक्षपरायणं ॥ र्म्_17.40{40} ॥
दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षं च सांप्रतं ।
स्थापितो ऽहं प्रयत्नेन विशेषसंप्रबोधने ॥ र्म्_17.41{41} ॥
तथा मे ऽनुग्रहं कृत्वा संबोधिपदसाधनं ।
प्रव्रज्यासंवरं दातुम् अर्हति सांप्रतं भवान् ॥ र्म्_17.42{42} ॥
भवतां शरणं कृत्वा त्रिरत्नभजनोद्यता ।
प्रव्रज्यासंवरं धृत्वा चरिष्ये ब्रह्मचारिकां ॥ र्म्_17.43{43} ॥
इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तस्याश् चित्तविशुद्धत्वं मत्वैवं समुपादिशत् ॥ र्म्_17.44{43!} ॥
यदि श्रद्धास्ति ते मातः प्रव्रज्यासधने खलु ।
भर्त्तुर् अनुज्ञां समासाद्य प्रागछ चर संवरं ॥ र्म्_17.45{44} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा संप्रमोदिता ।
तथा हीति प्रतिज्ञाय मुनिं नत्वा ततो ऽचरत् ॥ र्म्_17.46{45} ॥
तत्र सा सहसा गेहे गत्वा तं स्वामिनं मुदा ।
कृतांजलिपुटो नत्वा पुरः स्थित्वैवम् अब्रवीत् ॥ र्म्_17.47{46} ॥
स्वामि च्छृण्व् अद्भुतं वक्ष्ये यद् अद्याहं जलार्थिनी ।
घटं धृत्वा वहिर् देशे कूपान्तिकम् उपाचरे ॥ र्म्_17.48{47} ॥
तत्र मां समुपायातां दृष्ट्वानन्दो महायतिः ।
सहसा समुपाश्रित्य भगवते ऽम्बु याचते ॥ र्म्_17.49{48} ॥
ततो ऽहं सहसा शुद्धैः पूरयित्वा जलैर् घटं ।
धृत्वा स्वयं प्रदातुं तत् सभायाम् उपसंचरे ॥ र्म्_17.50{49} ॥
तत्र तम् श्रीघनं दृष्ट्वा चित्तं मे स्नेहमोहितं ।
क्षारधारा स्तनाभ्यां च संप्रश्रुता निरंतरं ॥ र्म्_17.51{50} ॥
तत्राहं स्नेहरागांधा स्वात्मजम् इव तं मुनिं ।
ऊर्द्धवाहुः परिष्वक्तुं प्रधावामि भवान्तरे ॥ र्म्_17.52{51} ॥
एवं माम् अभिधावन्तीं दृष्ट्वा ते सांघिका अपि ।
सर्वे प्रधातुम् इछन्तः प्रधावन्ति समुत्थिताः ॥ र्म्_17.53{52} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् एवम् उत्थितान् ।
सहसा समुपामंत्र्य पुर एवं समादिशत् ॥ र्म्_17.54{53} ॥
मा इमां सर्वथा यूयं निवारयितुम् अर्हथ ।
यन् ममेयं पुण्यं च शतजन्मप्रसू किल ॥ र्म्_17.55{54} ॥
तद् अत्र मां समालोक्य स्वात्मजस्नेहरागिणी ।
परिष्वक्तुं समीछन्ती प्रधावतीयम् उन्मुखी ॥ र्म्_17.56{55} ॥
यद्य् अत्रेषात्र धार्य्येत पुरतो मे विमूर्छिता ।
उष्णं रुधिरम् उत्सृज्य मृत्युं यायान् न संशयः ॥ र्म्_17.57{56} ॥
एतच् छास्त्रा समादिष्टं श्रुत्वा ते सांघिकास् तथा ।
प्रबोधिताः प्रणत्वा मां स्वस्वासने समाश्रिताः ॥ र्म्_17.58{57} ॥
एवं तेन मुनीन्द्रेण समाख्यातं निशम्य तत् ।
सर्वं प्रबुध्यमानाहं पुरावृत्तं स्मरामि हि ॥ र्म्_17.59{58} ॥
ततो ऽहं विस्मयाक्रांतहृदयात्यभिनंदिता ।

तत् सद्धर्मामृतं पातुम् उपतिष्ठामि सादरं ॥ र्म्_17.60{59} ॥
तत्र स भगवान् दृष्ट्वा माम् एवं समुपस्थितां ।
आर्यसत्यं समारभ्य समादिशति सद्वृषं ॥ र्म्_17.61{60} ॥
तत् सद्धर्मामृतं पीत्वा मनो मे ऽतिप्रमोदिते ।
भूयो ऽपि तद् रसास्वादतृषितं पातुम् इछते ॥ र्म्_17.62{61} ॥
सर्वे ते सांघिकास् तत्र सद्धर्मामृततृप्तिताः ।
शुद्धात्मानः सुभद्रांगाः परिशुद्धास् त्रिमंडलाः ॥ र्म्_17.63{62} ॥
शुद्धशीलाः शुभाचारा दयाकारुण्यभाविनः ।
सर्वसत्त्वहिताधानाः संसारलाभनिस्पृहाः ॥ र्म्_17.64{63} ॥
समाधिधारणीविद्या घटमानाः समाहिताः ।
साक्षाद् अर्हत्पदप्राप्ता निर्विकल्पा निरंजनाः ॥ र्म्_17.65{64} ॥
संबुद्धशरणं कृत्वा संबोधिसाधनोद्यताः ।
विहारे समुपासीनाः प्रदृश्यन्ते मया प्रभो ॥ र्म्_17.66{65} ॥
तत् सभागं चरिं प्राप्तुं प्रव्रज्याव्रतम् इछ्यते ।
तद् अत्र कृपया भर्त्तस् तद् अनुज्ञां प्रदेहि मे ॥ र्म्_17.67{66} ॥
इति भार्यासमाख्यातं श्रुत्वा सो ऽतिदरिद्रितः ।
साश्चर्यस्तम्भितस् तस्थौ पश्यंस् ताम् एव निश्चलः ॥ र्म्_17.68{67} ॥
ततः स सुचिरं भार्यां ताम् एवम् अभिलोकयन् ।
वियोगशंकया त्रस्तः शनैर् एवम् अभाषत ॥ र्म्_17.69{68} ॥
अरे नारि प्रमूधासि किम् एवं त्वं प्रभाषसे ।
कथम् एवं त्वयाख्यातं को ऽत्र सत्यं प्रतीष्यति ॥ र्म्_17.70{69} ॥
यद् असौ भगवान् बुद्धश् चक्रवर्त्तिनृपात्मजः ।
सर्वत्रैधातुकाधीशो धर्मराजो विनायकः ॥ र्म्_17.71{70} ॥
जगच्छास्ता जगन्नाथः सर्वज्ञः सुगतो जिनः ।
मुनीन्द्रो मारजिद् अर्हन् षडभिज्ञस् तथागतः ॥ र्म्_17.72{71} ॥
बोधिसत्वो महासत्वः समंतभद्ररूपकः ।
दशबलो महेशाख्यो ब्रह्मचारी जितेन्द्रियः ॥ र्म्_17.73{72} ॥
सुब्रह्मामरदैत्यादिलोकानां सर्वदेहिनां ।
शरण्यो माननीयो हि वन्द्यः पूज्यो भवत्य् अपि ॥ र्म्_17.74{73} ॥
त्वम् एवं दुर्भगा नारी दरिद्रतातिदुःखिनी ।
दासी परवती प्रेष्या कृपणा दुःकृताकृतिः ॥ र्म्_17.75{74} ॥
कथम् एवंविधायास् ते गर्भे जातो ऽप्य् असौ महान् ।
बोधिचित्तं समासाद्य प्राचरद् बोधिचारिकां ॥ र्म्_17.76{75} ॥
यतः पुण्यविपाकेन पूर्य पारमिताः क्रमात् ।
अधुना बोधिम् आसाद्य संबुद्धो ऽयं भवत्य् अपि ॥ र्म्_17.77{76} ॥
एतत्पुण्यविभागेन कथं ते ईदृशी गतिः ।
अद्यापीदृगवस्था हि किं चित् सौख्यं न विद्यते ॥ र्म्_17.78{77} ॥
तद् अत्र मा वदैवं च तथोक्त्वा नैव शोभसे ।
कस् तवैतद् वचः श्रुत्वा सुप्रतीतः प्रमाणयेत् ॥ र्म्_17.79{78} ॥
धिक् प्रवादाग्निदग्धाङ्गा महत्कष्टाभिखेदीता ।

वमित्वा रुधिरं ह्य् उष्णं त्वं नूनं मरणं व्रजेः ॥ र्म्_17.80{79} ॥
मिथ्यावादाभिसंकल्पाद् अपि हि नरके व्रजेत् ।
त्वम् अपि च तथा नूनं नरके न व्रजेः कथं ॥ र्म्_17.81{80} ॥
नरकेषु सदा नित्यं दुःखानि विविधानि वै ।
भुक्त्वातिवेदनाक्रान्ता सुचिरं स्थास्यसे ध्रुवं ॥ र्म्_17.82{81} ॥
इति भर्त्त्रोदितं श्रुत्वा सा वृद्धा स्त्री कचंगला ।
विभिन्नहृदया तस्थौ तन् निराशाभिमोहिता ॥ र्म्_17.83{82} ॥
तदा सा सुचिरेणैव संप्राप्य चेतनां ततः ।
भर्त्तारं तं पुनर् दृष्ट्वा बोधयितुम् अभाषत ॥ र्म्_17.84{83} ॥
स्वामिन्न् अत्र प्रसीद त्वं माम् एवं वद सर्वथा ।
सत्यम् एतन् मया प्रोक्तं न मिथ्येति प्रकल्पय ॥ र्म्_17.85{84} ॥
यदि मिथ्यावचः स्यान् मे तेनाहं नरके व्रजे ।
अथ मे वचनं सत्यम् अत्राहं सद्गतिं व्रजे ॥ र्म्_17.86{85} ॥
तेनात्रोभयथाप्य् एव वियोगं नौ भवेत् खलु ।
सर्वेषाम् अपि जंतूनाम् अवश्यं मरणं भवे ॥ र्म्_17.87{86} ॥
किम् एवं जीवितेनापि केवलं दुःखभागिना ।
यत्र न विद्यते धर्म्मं तत्र किं सुखतापि च ॥ र्म्_17.88{87} ॥
धर्मार्थम् एव संसारे जन्मदेहार्थसाधनं ।
धर्मं विना किम् एतैर् नः केवलं दुःखताप्तये ॥ र्म्_17.89{88} ॥
इति मत्वा महान्तो ऽपि श्रीमन्तो ऽपि विचक्षणाः ।
सर्वान् परिग्रहान् त्यक्त्वा प्रव्रजन्ति जिनाश्रमे ॥ र्म्_17.90{89} ॥
तथात्राहं परिज्ञाय संबुद्धशरणं गता ।
सद्धर्मसाधनं कर्त्तुम् इछामि सांप्रतं प्रभो ॥ र्म्_17.91{90} ॥
तत् प्रव्रज्याव्रतानुज्ञां प्रदातुं मे समर्हसि ।
एतत्पुण्यविभागेन त्वं चापि सद्गतिं व्रजेः ॥ र्म्_17.92{91} ॥
यदि न दीयते ऽनुज्ञा प्रव्रज्याव्रतसाधने ।
अकस्मात् मृत्युनाघ्राते तदा कथं निवारये ॥ र्म्_17.93{92} ॥
कियत् कालं च जीवेयं वृद्धाहं जिर्णितेन्द्रिया ।
इति मत्वात्र मां नैवं निवारयितुम् अर्हसि ॥ र्म्_17.94{93} ॥
किं चाहं जरती वृद्धा तत् ते किं स्नेहता मयि ।
वृद्धया दुर्बलाङ्गात्र कार्ये किं नु प्रयोजनं ॥ र्म्_17.95{94} ॥
त्वं चापि जरयाक्रान्तो वृद्धो ऽसि दुर्बलेन्द्रियः ।
तत् किं ते स्नेहरागेण वृद्धाया मयि सांप्रतं ॥ र्म्_17.96{95} ॥
अद्यापि किं सुखाशा नौ जराक्रान्तशरीरयोः ।
अवश्यं मृत्युर् अत्रावां समाक्रम्य ग्रसिष्यति ॥ र्म्_17.97{96} ॥
तदाहं किं करिष्यामि त्वं चापि किं करिष्यसि ।
शोचित्वेव निषत्स्यामि त्वम् अप्य् एवं निषत्स्यसि ॥ र्म्_17.98{97} ॥
अवश्यम् अत्र संसारे भावि भावा फलन्त्य् अपि ।
कस्यापि भूयते नात्र भावि भावान्यथा क्वचित् ॥ र्म्_17.99{98} ॥
स्वकृतकर्म एवात्र गृहीत्वा सर्वजंतवः ।

याता यान्ति च यास्यंति देहं त्यक्त्वा यमालयं ॥ र्म्_17.100{99} ॥
तत्र यमाज्ञया सर्वे स्वकृतकर्मभागिनः ।
धर्मिणः सद्गतिं याताः पापिनो दुर्गतिं गताः ॥ र्म्_17.101{100} ॥
एवं सर्वे इमे सत्वाः स्वदैवफलभोगिनः ।
ससुखानि च दुःखानि भुक्त्वा भ्रमन्ति सर्वदा ॥ र्म्_17.102{1} ॥
एवं स्वामिन् परिज्ञाय सर्वदा सुखवांछिभिः ।
धर्मम् एवात्र संसारे कर्त्तव्यं यत्नतः सदा ॥ र्म्_17.103{2} ॥
धर्मन् तु प्रवरं श्रेष्ठं सौगतसंवरोद्भवं ।
इति बुद्धैः समाख्यातं त्वयाप्य् एतच् छ्रुतं न किं ॥ र्म्_17.104{3} ॥
तस्माद् अहं मुनीन्द्रस्य शासने शरणं गतः ।
प्रव्रज्यासंवरं धर्त्तुम् इछामि सांप्रतं प्रभो ॥ र्म्_17.105{4} ॥
एतत्पुण्यविपाकेन परिशुद्धास् त्रिमण्डलाः ।
साक्षाद् अर्हत्पदं प्राप्य निर्वृतिपदम् आप्नुयां ॥ र्म्_17.106{5} ॥
एतद् धर्मविभागेन त्वं चापि सद्गतिं व्रजेः ।
इति मत्वा तथा स्वामिंस् तद् अनुज्ञां ददातु मे ॥ र्म्_17.107{6} ॥
त्वम् अत्र स्वगृहे स्थित्वा त्रिरत्नशरणं गतः ।
यावज् जीवं सुखं भुक्त्वा शुभे चर सदादरात् ॥ र्म्_17.108{7} ॥
एतत्पुण्यविपाकेन त्वं चाप्य् एवं सुधीर् भवेः ।
ततस् ते सौगते धर्मे वांछा जायेत चेतसि ॥ र्म्_17.109{8} ॥
ततस् त्वं श्रद्धया गत्वा संबुद्धशासने स्वयं ।
प्रव्रज्यासंवरं प्राप्य साक्षाद् अर्हत्वम् आप्नुयाः ॥ र्म्_17.110{9} ॥
इति मत्वा भवान् स्वामिन् सद्धर्मं यदि वाञ्छति ।
तत् प्रव्रज्याव्रतानुज्ञां मह्यं प्रदातुम् अर्हति ॥ र्म्_17.111{10} ॥
इति तयोदितं श्रुत्वा स दरिद्रः प्रबोधितः ।
तां भार्यां सुचिरं दृष्ट्वा शनैर् एवम् अभाषत ॥ र्म्_17.112{11} ॥
हा प्रिये कथम् एव त्वं मां विहातुं समिछसि ।
किम् अत्राहं वदिष्यामि त्वयैवं प्रतिभाषते ॥ र्म्_17.113{12} ॥
यदि ते ऽस्ति मनो धैर्य्यं कृत्वा श्रद्धान्विताश्रया ।
प्रव्रज संवरं धृत्वा चर सत्यसमाहिता ॥ र्म्_17.114{13} ॥
इति भर्त्रोदितं श्रुत्वा सा वृद्धापि कचंगला ।
भर्त्तारं तं प्रणत्वैवं ततो ऽचरत् प्रमोदिता ॥ र्म्_17.115{14} ॥
ततः सा सहसा गत्वा तत्राश्रमे उपागता ।
श्रीघनं तं समालोक्य पुरतः समुपाचरत् ॥ र्म्_17.116{15} ॥
तत्र तत् पुरतो गत्वा साञ्जलिः सा प्रमोदिता ।
मुनीन्द्रं तं प्रणत्वैवं प्रव्रज्यां समयाचत ॥ र्म्_17.117{16} ॥
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तद् भवां कृत्वा कृपया मह्यं प्रव्रज्यां दातुम् अर्हति ॥ र्म्_17.118{17} ॥
तयेति प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
सव्येन पाणिना तस्या वृद्धायाः शिरसि स्पृशन् ॥ र्म्_17.119{18} ॥
एहि मतश् चर ब्रह्मचारिकां त्वं समाहिता ।

इत्य् उक्त्वा तां समागृह्य सांघिके पुनर् अब्रवीत् ॥ र्म्_17.120{19} ॥
गछ मात प्रजापत्या गौतम्याः शरणं व्रज ।
सार्हन्ती भिक्षुणीमाता प्रव्रज्यां ते प्रदास्यति ॥ र्म्_17.121{20} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा प्रतिनंदिता ।
तथेत्य् आश्रुत्य शास्तारं तं प्रणत्वा ततो ऽचरत् ॥ र्म्_17.122{21} ॥
तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा ।
उपेत्य सांजलिर् नत्वा प्रव्रज्यां समयाचत ॥ र्म्_17.123{22} ॥
मातर् अत्र समायामि भवत्याः शरणं मुदा ।
तद् भवन्ती जगन्माता प्रव्रज्यां प्रददातु मे ॥ र्म्_17.124{23} ॥
तयेति प्रार्थितं श्रुत्वा गौतमी सानुमोदिता ।
हस्तेन शिरसि स्पृष्ट्वा सांघिकतां समग्रहीत् ॥ र्म्_17.125{24} ॥
तत्र साशु प्रजापत्यां प्रव्रजिता यथाविधिः ।
मुण्डिता खिक्खिरीपात्रहस्ता काखायचीवरा ॥ र्म्_17.126{25} ॥
सौम्येन्द्रिया सुभद्रंगा वृद्धापि सा कचंगला ।
भिक्षुणीगणमध्यस्था शान्तरूपात्यशोभत ॥ र्म्_17.127{26} ॥
ततः सा भिक्षुणी शास्तु गौतम्याश् च प्रसादतः ।
समाधिधारणीविद्याध्ययनाभिसमुद्यता ॥ र्म्_17.128{27} ॥
हित्वाविद्यागणं प्राप्तविद्याभिज्ञाविशारदा ।
प्रतिसंविद्गुणाद्यागु परिशुद्धाकृतिर् वभौ ॥ र्म्_17.129{30!} ॥
अथ सा परिविज्ञाय भवचक्रं चलाचलं ।
विदित्वा संस्कारगतीश् चाभिविघातिनीस् ततः ॥ र्म्_17.130{31} ॥
सर्वक्लेशगणां जित्वा परिशुद्धस् त्रिमण्डला ।
साक्षाद् अर्हत्पदं प्राप्य वभूव ब्रह्मचारिणी ॥ र्म्_17.131{32} ॥
तदा सा निर्जितक्लेशा निर्विकल्पा निरंजना ।
चंदनकल्पसौरभ्या समलोष्ठसुवर्णिका ॥ र्म्_17.132{33} ॥
संसारभोगसत्कारनिष्पृहाकाशसन्निभा ।
सर्वसत्वहिताधाना सर्वसूत्रांतपारगा ॥ र्म्_17.133{34} ॥
सदेवासुरलोकानां त्रिधातुकनिवासिनां ।
वंद्या पूज्याभिमान्या च वभूव सा सुभाषिणी ॥ र्म्_17.134{35} ॥
यदा स भगवञ् छास्ता भिक्षुणीनां सुभाषितं ।
संक्षेपेण समुद्दिश्य ध्यानागारे समाश्रयत् ॥ र्म्_17.135{36} ॥
तदा सा भिक्षुणी तत्र कचंगला सुभाषिणी ।
भिक्षुणीनां सभामध्ये सुत्रान्तं समुपादिशत् ॥ र्म्_17.136{37} ॥
तच् छ्रुत्वा भगवांस् तत्र तया सूत्रांतदेशिते ।
सर्वान्स् तान् सांघिकान् भिक्षून् समामंत्र्यैवम् आदिशत् ॥ र्म्_17.137{38} ॥
एषो ऽग्रा भिक्षवो माता भिक्षुणीनां ममाश्रमे ।
सूत्रान्तभागकर्तॄणां यद् उतेयं कचंगला ॥ र्म्_17.138{39} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः ।
सविस्मया मुनीन्द्रं तं पप्रछुस् तत् पुराकृतं ॥ र्म्_17.139{40} ॥
भगवन्न् अनया कर्मं किं प्रकृतं पुराकृतं ।

इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति ॥ र्म्_17.140{41} ॥
येनेयम् शासने बौद्धे वृद्धा प्रव्रजिताधुना ।
साक्षाद् अर्हत्वम् आसाद्य भवति ब्रह्मचारिणी ॥ र्म्_17.141{42} ॥
किं वानया पुराकर्म कृतं कुत्र कदा कथं ।
सूत्रान्तभागकर्तॄणां येनाग्रेयं भवत्य् अपि ॥ र्म्_17.142{43} ॥
किंचापि प्रकृतं कर्मं पुरानया कदा कथं ।
येनात्र पश्चिमे गर्भावासे न धारितो भवान् ॥ र्म्_17.143{44} ॥
एतत् सर्वैः परिज्ञाय भगवान्न् अस्याः पुराकृतं ।
इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति ॥ र्म्_17.144{45} ॥
इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वांस् तान् सांघिकान् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ र्म्_17.145{46} ॥
शृणुत भिक्षवः सर्वे यद् यत् कृतं पुरानया ।
तत् तत् सर्वं प्रवक्ष्यामि युष्माकं चित्तबोधने ॥ र्म्_17.146{47} ॥
पुरा मे बोधिसत्वस्य बोधिचर्यानुचारिणः ।
पंचजन्मशतान्य् एषा जनन्य् आसीन् निरंतरं ॥ र्म्_17.147{48} ॥
तदा मे ददतो दानम् अन्तरायः कृतो ऽनया ।
तेनाद्यापि दरिद्रेयं दुर्भगा च भवत्य् अपि ॥ र्म्_17.148{49} ॥
प्रव्रज्यायै तदै चैषा वहुधा प्रार्थिता मया ।
नैवानुज्ञां ददौ मह्यं विघ्नम् एव व्यधाद् धठात् ॥ र्म्_17.149{50} ॥
एतत्कर्मविपाकेन वृद्धैषा दुःखिनी सती ।
प्रव्रज्यासंवरं प्राप्ता चरति मम शासने ॥ र्म्_17.150{51} ॥
यदि नैषा तदा दानं विघ्ना ममाकरिष्यति ।
नैषाधुना दरिद्रात्र भवति हि कदा चन ॥ र्म्_17.151{52} ॥
प्रव्रज्यायां च मे विघ्नं यदि नैषाकरिष्यत ।
अचरिष्यद् व्रतं वाल्ये न तु वृद्धात्र सांप्रतं ॥ र्म्_17.152{53} ॥
यन् ममैवं कृतं विघ्नं दाने व्रते तदानया ।
तेनाधुना दरिद्रैषा वृद्धा व्रतं चरत्य् अपि ॥ र्म्_17.153{54} ॥
यत् तदा सुकृतं किं चित् प्रकृतं नानया पुरा ।
तेनाहं पश्चिमे गर्भावासे ऽधुना न धारितः ॥ र्म्_17.154{55} ॥
यत् सा माया महादेवी महापुण्यार्थसाधिनी ।
तेनाहं पश्चिमे गर्भावासे तयात्र धारितः ॥ र्म्_17.155{56} ॥
भूयो ऽप्य् एषा पुरा तत्र वारणस्यां द्विजात्मजाः ।
क्लेशाग्निपरिदग्धांगा दरिद्रा कृपणाभवत् ॥ र्म्_17.156{57} ॥
तदा तत्र मुनीन्द्रस्य काश्यपस्य जगद्गुरोः ।
शासने शरणं गत्वा प्रव्रजिताचरद् व्रतं ॥ र्म्_17.157{58} ॥
तत्र स सर्वशास्त्रार्थकोविदातिविचक्षणा ।
सर्वसूत्रान्तसद्धर्मं भिक्षुणीनाम् उपादिशत् ॥ र्म्_17.158{59} ॥
तदा सा भिक्षुणी तत्र किञ्चित् कार्यार्थरोषिताः ।
सर्वास् ता भिक्षुणीर् दासीवादेन पर्यभाषत ॥ र्म्_17.159{60} ॥
एतत्कर्मविपाकेन सैषाधुनातिदुःखिता ।

परसेवाकरा दासी भवति दुर्भगाकृतिः ॥ र्म्_17.160{61} ॥
यच् चानया तदा तत्र विद्याभ्यासीकृतं मुदा ।
तेनैषा सहसार्हन्ती भवति ब्रह्मचारिणी ॥ र्म्_17.161{62} ॥
यच् चाप्य् एसा तदा तत्र सूत्रान्तं समुपादिशत् ।
तेन सूत्रान्तवक्तानाम् अग्रा भवति सांप्रतं ॥ र्म्_17.162{63} ॥
एवं हि भिक्षवः सर्वे मन्यध्वं कर्मसंभवं ।
सुखं दुःखं च संसारे भ्रमतां सर्वदेहिनां ॥ र्म्_17.163{64} ॥
येनैव यत् कृतं कर्मं तेनैवं भुज्यते फलं ।
अभुक्तं क्षीयते नैव कर्मं क्वापि कदा चन ॥ र्म्_17.164{65} ॥
नाग्निभिर् दह्यते कर्मं क्लिद्यते नोदकैर् अपि ।
वायुभिः शुष्यते नैव क्षीयते न च भूमिषु ॥ र्म्_17.165{66} ॥
अह्यथापि भवेन् नैव विपाके कर्मणः फलं ।
यद् उप्तं भूतले बीजं तद् एव सूयते फलं ॥ र्म्_17.166{67} ॥
अन्यथा न भवेत् क्वापि कृतं कर्मं फलं भवे ।
शुभस्य कर्मणः पाके शुभतैव सदा भवे ॥ र्म्_17.167{68} ॥
कृष्णस्य कृष्णतैव स्या मिश्रितस्यापि मिश्रितं ।
एवं विज्ञाय कृष्णानि विहाय मिश्रितानि च ॥ र्म्_17.168{69} ॥
शुभ एव सदाप्य् अत्र चरितव्यं शुभार्थिभिः ।
शुभेन सद्गतिं यायात् कृष्णेन दुर्गतिं सदा ॥ र्म्_17.169{70} ॥
मिश्रितेन तथोहे च गतीर् यायाद् भवेद् ध्रुवं ।
इति मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ र्म्_17.170{71} ॥
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिं ।
सर्वदा सद्गतौ भद्रं कृत्वा यान्ति जिनालयं ॥ र्म्_17.171{72} ॥
ये शृण्वन्ति सदा धर्म्मं न यान्ति ते ऽपि दुर्गतिं ।
सर्वदा भद्रसौख्यानि भुक्त्वा यान्ति सुखावतीं ॥ र्म्_17.172{73} ॥
दानं ददन्ति ये संघे ते ऽपि न यान्ति दुर्गतिं ।
सर्वदा शुभसौख्यानि भुक्त्वा यान्ति जिनाश्रयं ॥ र्म्_17.173{74} ॥
एवं मत्वात्र संसारे त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजध्वं समुपास्थिताः ॥ र्म्_17.174{75} ॥
त्रिरत्नेषु कृतं कर्मं तद्विपाके महत्फलं ।
अप्रमेयम् असंख्येयं संबोधिपदसाधनं ॥ र्म्_17.175{76} ॥
एतत्पुण्यानुभावेन बोधिसत्वाः सदा भवे ।
सर्वसत्वहितं कृत्वा प्रचरन्ति यथेछया ॥ र्म्_17.176{77} ॥
नानारूपधराः सर्वे सत्वार्थसाधनोद्यताः ।
सद्धर्मं समुपादिश्य पालयन्ति जगत्त्रयं ॥ र्म्_17.177{78} ॥
क्रमात् पारमिताः सर्वाः परिपूर्य शुभान्विताः ।
सर्वक्लेशगणाञ् जित्वा परिशुद्धास् त्रिमण्डलाः ॥ र्म्_17.178{79} ॥
जित्वा मारगणाञ् चापि प्राप्य संबोधिम् उत्तमां ।
सर्वत्र धर्मसोत्कृत्वा ततो निर्वृतिम् आययुः ॥ र्म्_17.179{80} ॥

ये ऽतीता जिनास् ते ऽपि त्रिरत्नभजनोद्यमात् ।
क्रमाद् बोधिं समासाद्य निर्वृतिपदम् आगताः ॥ र्म्_17.180{81} ॥
वर्त्तमाना जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः ।
पुण्यैर् बोधिं समासाद्य गछेयुर् निर्वृतिं तथा ॥ र्म्_17.181{82} ॥
अनागता जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः ।
पुण्यैर् एवं क्रमाद् बोधिं प्राप्य यास्यन्ति निर्वृतिं ॥ र्म्_17.182{83} ॥
अहं चापि तथा नूनं त्रिरत्नभजनोद्यमी ।
एतत्पुण्यानुभावेन बोधिं प्राप्नोमि सांप्रतं ॥ र्म्_17.183{84} ॥
तथाहम् अपि सर्वत्र कृत्वा धर्ममयं जगत् ।
सर्वान् बोधौ नियोज्यैवं यास्यामि निर्वृतिं ध्रुवं ॥ र्म्_17.184{85} ॥
एवं ये ये भजन्त्य् अत्र त्रिरत्नशरणं गताः ।
ते ते सर्वे ऽपि संबोधिं प्राप्य निर्वृतिम् आययुः ॥ र्म्_17.185{86} ॥
इति मत्वात्र संसारे निर्वृतिपदवांछिनः ।
त्रिरत्नभजनं कृत्वा प्रचरध्वं शुभे सदा ॥ र्म्_17.186{87} ॥
तथा कृत्वात्र सद्धर्मंभुक्त्वैव सत्सुखान्य् अपि ।
क्रमाद् बोधिं समासाद्य निर्वृतिं समवाप्स्यथ ॥ र्म्_17.187{88} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि ते जनाः ।
सांघिकाश् च तथेत्य् उक्त्वा प्राभ्यनंदत् प्रबोधिताः ॥ र्म्_17.188{89} ॥
तदा तत्र जनाः सर्वे त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरे ऽनुमोदिताः ॥ र्म्_17.189{90} ॥
एतत्पुण्यानुभावैस् तु तदा समंततः ।
सर्वदा मंगलोत्साहं बभुव निरुपद्रवं ॥ र्म्_17.190{91} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
श्रुत्वा राजन्स् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा ॥ र्म्_17.191{92} ॥
प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् ।
त्रिरत्नभजनं नित्यं कारयितुं सदार्हसि ॥ र्म्_17.192{93} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमात् पारमिता पूर्य बोधिं चापि समाप्स्यसि ॥ र्म्_17.193{94} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दन् सपार्षदः ॥ र्म्_17.194{95} ॥
कचंगलाया अवदानम् एतच् छृण्वन्ति ये श्रावयतीह यश् च ।
विहाय पापं खलु ते ऽपि सर्वे भुक्त्वा सुखान्य् एव सुगतिं व्रजन्ति ॥ र्म्_17.195{96} ॥
++ इति रत्नमालायाम् अवदानतत्वे कचंगलावदानं समाप्तम् ++
xविइइ धनिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवं समब्रवीत् ॥ र्म्_18.1{1} ॥
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ र्म्_18.2{2} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् अब्रवीत् ॥ र्म्_18.3{3} ॥

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc