रत्नमालावदान · भाग 141160
तानि च पंचमात्राणि गांधर्विकशतान्य् अपि ।
श्रुत्वा दृष्ट्वा च सर्वाणि विस्मयं समुपाययुः ॥ र्म्_14.25{25} ॥
तद तानि च सर्वाणि दृष्ट्वा पंचशतान्य् अपि ।
स्वस्वमदाभिमानत्वां प्रविहाय विषेदिरे ॥ र्म्_14.26{26} ॥
ततः सर्वे ऽपि ते तेन सहवादे भयान्विताः ।
नृपतेर् अन्तिकं गत्वा तत् प्रवृत्तिं न्यवेदयन् ॥ र्म्_14.27{27} ॥
जय प्रभो विजानीयाद् यद् वयं समुपागताः ।
तद् अत्र नो भयत्रस्तां त्रातुम् अर्हति सर्वथा ॥ र्म्_14.28{28} ॥
अत्रासौ सुप्रियो नाम गन्धर्वाधिपतेः सुतः ।
नूनं नो मदघाताय विजेतुं समुपागतः ॥ र्म्_14.29{29} ॥
तत् तस्याप्य् अभिमानत्वां निहंतुं सत्प्रतिक्रियां ।
क्रियतां सहसास्माकम् इति विज्ञापनां शृणु ॥ र्म्_14.30{30} ॥
इति विज्ञापितं सर्वैस् तैः श्रुत्वा स नराधिपः ।
सर्वान्स् तान् समुपामंत्र्य पुर एवं समादिशत् ॥ र्म्_14.31{31} ॥
अल्पोत्सुका भवन्तो ऽत्र भवते मा विषीदत ।
भविष्यामो ऽत्र कालज्ञाश् चरतु स यथेछया ॥ र्म्_14.32{32} ॥
इति राज्ञा समादिष्टं श्रुत्वा ते ऽभ्यनुमोदिताः ।
तद् विवादभयातंकं त्यक्त्वा सर्वे प्रसेदिरे ॥ र्म्_14.33{33} ॥
तदा स सुप्रियस् तत्र दृष्ट्वा तान् अभिमानिकान् ।
तेषां मानविघातार्थं मनसैवं व्यचिन्तयत् ॥ र्म्_14.34{34} ॥
अयं राजपि गांधर्वविद्याभिमानिको भवेत् ।
तद् अनेन सहात्राहं वादं कुर्यां सभाश्रये ॥ र्म्_14.35{35} ॥
इत्य् एवं निश्चयं कृत्वा सुप्रियः सो ऽभिमानिकः ।
नृपतिं तम् उपालब्धुं तत् सभां समुपाचरत् ॥ र्म्_14.36{36} ॥
तत्र स नृपतिर् दृष्ट्वा सुप्रियं तम् उपागतं ।
प्रज्ञप्यासनम् आमंत्र्य प्रणत्वैवम् अभाषत ॥ र्म्_14.37{37} ॥
स्वागतं ते भवन्न् अत्र तिष्ठासने प्रसीद मे ।
किम् अर्थे ऽत्र समायासि तद् आदेष्टुं हि मे ऽर्हसि ॥ र्म्_14.38{38} ॥
इति तेनोदितं श्रुत्वा सुप्रियः स सभास्थितः ।
नृपतिं तं समालोक्य पुर एवम् अभाषत ॥ र्म्_14.39{39} ॥
शृणु राजन् मयाख्यातं श्रुतं यत् ते यशो महत् ।
तद् गुणान् भवतो द्रष्टुम् इहाहं समुपाचरे ॥ र्म्_14.40{40} ॥
तन् मे दर्शय राजेन्द्र गान्धर्वगुणाम् आत्मनः ।
कस् ते सास्ता गुरुर् वास्ति तं चापि मे प्रदर्शय ॥ र्म्_14.41{41} ॥
इति तेनोदितं श्रुत्वा स राजा प्रतिभाणवान् ।
सुप्रियं तं समालोक्य तथेत्य् एवम् अभाषत ॥ र्म्_14.42{42} ॥
साधु पश्य महाभाग दर्शयिस्यामि तं गुरुं ।
यो मे शास्ता महाभिज्ञः सर्वविद्यागुणाधिपः ॥ र्म्_14.43{43} ॥
स मे शास्ताधुनेहैव सर्वसत्वहितार्थतः ।
जेतारण्ये महोद्याने निवशति वृषं दिशन् ॥ र्म्_14.44{44} ॥
साधु पश्य महाभाग तं गुरुं मे हितार्थदं ।
तद् एहि सह यास्याम शास्तारं दर्शयामि तं ॥ र्म्_14.45{45} ॥
इति तेन नरेन्द्रेण समाख्यातं स सुप्रियः ।
श्रुत्वा तथेति प्रमोद्य गन्तुम् अभाषत ॥ र्म्_14.46{46} ॥
साधु राजन् समिछामि शास्तारं तत् प्रदर्शय ।
तेन सह विवादानि कुर्यां तत्र नयाशु मां ॥ र्म्_14.47{47} ॥
इति तेनोदितं श्रुत्वा नृपतिः स तथेति हि ।
सुप्रियं तं समादाय विहारे गन्तुम् ऐछत ॥ र्म्_14.48{48} ॥
ततः स नृपतिस् तेन सुप्रियेणाभिमानिना ।
तैश् च पंचशतैर् अन्यैर् गान्धर्विकैः सहाचरत् ॥ र्म्_14.49{49} ॥
तस्मिन्न् अवसरे बुद्धो भगवान् स मुनीश्वरः ।
लोके सत्वान् समुद्धर्तुं कृपया समपश्यत ॥ र्म्_14.50{50} ॥
तदा तेन नरेशेन सार्द्धम् एवम् उपागतं ।
सुप्रियं तं स आलोक्य मनसैव व्यचिन्तयत् ॥ र्म्_14.51{51} ॥
अहो वत सुधीर् या सा गन्धर्वाधिपनन्दनः ।
पञ्चशिखो ऽभिधो वीणाम् आदायेहोपसंक्रमेत् ॥ र्म्_14.52{52} ॥
इति तेन मुनीन्द्रेण मनसा परिचिन्तितं ।
मत्वा पञ्चशिखः सो ऽपि तथागन्तुं समैछत ॥ र्म्_14.53{53} ॥
ततः स सप्तगंधर्वसहस्रेण सहान्वितः ।
वैडूर्यदण्डवीणां संप्रादाय सहसाचरन् ॥ र्म्_14.54{54} ॥
तथा स संक्रमंस् तत्र विहारे समुपाविशन् ।
दृष्ट्वा तं श्रीघनं नत्वा तां वीणां समुपानयत् ॥ र्म्_14.55{55} ॥
ततः स सुगतं भक्त्या समभ्यर्च्य प्रसन्नधीः ।
तत् सद्धर्मामृतं पातुं तत् सभायाम् उपाश्रयत् ॥ र्म्_14.56{56} ॥
तदा स सुप्रियो ऽप्य् एनं दृष्ट्वा मानाभिगर्वितः ।
तां वीणां क्वनयन्न् अग्रे ऽनुश्रावितुं समारभत् ॥ र्म्_14.57{57} ॥
तत्प्रक्वाणात् स्वरा सप्त एकै विंशति मूर्छनाः ।
समुत्थिताः सर्वलोकचेतान्सि पर्यमोहयन् ॥ र्म्_14.58{58} ॥
तदा सर्वे ऽपि ते लोकाः श्रुत्वा तत् प्रक्वणान् मुदा ।
नृपतिप्रमुखाश् चापि परं विस्मयम् आयजुः ॥ र्म्_14.59{59} ॥
ततः स भगवांश् चापि तस्य मानाभिघातने ।
वैडूर्यदण्डवीणां ताम् अनुश्रावितुम् आरभत् ॥ र्म्_14.60{60} ॥
एकैकस्यां हि तत् तंत्र्या नैकस्वरविशेषिताः ।
मूर्छनाश् च तथा नानाविधा निश्चारितास् तथा ॥ र्म्_14.61{61} ॥
ततः शब्दात् समुच्चेरुर् गाथा एवं प्रचोदिनाः ।
तद्यथेह भवे सर्वं दुःखं शून्यं ह्य् अनात्मकं ॥ र्म्_14.62{62} ॥
इदं कायं च वीणावद् इन्द्रियाणि स्वरानी च ।
मूर्छना इव चित्तानि ज्ञात्वा बोधौ समाचर ॥ र्म्_14.63{63} ॥
एतद्गाथाम् अनुश्रुत्वा सर्वे लोका नृपादयः ।
सत्यम् एतद् इति ज्ञात्वा बोधिचित्तं प्रलेहिरे ॥ र्म्_14.64{64} ॥
तदा स सुप्रियो ऽप्य् एवं श्रुत्वा मत्वानुमोदितः ।
परितत्याज गांधर्वविद्यामदाभिमानतां ॥ र्म्_14.65{65} ॥
ततो निर्यात्य वीणां स गन्धकुट्यां विरागितः ।
भगवच्छासने तत्र प्रव्रजितुं समैछत ॥ र्म्_14.66{66} ॥
तदा तं श्रीघनं नत्वा सुप्रियः सो ऽनुमोदितः ।
कृताञ्जलिः पुरः स्थित्वा प्रव्रज्यां समयाचत ॥ र्म्_14.67{67} ॥
वंदे ते चरणौ शास्त भवतां शरणं व्रजे ।
तन् मे ऽत्रानुग्रहं कृत्वा प्रव्रज्यां दातुम् अर्हति ॥ र्म्_14.68{68} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
दृष्ट्वा तद् आशयं शुद्धं गंधर्वं तं तथावदत् ॥ र्म्_14.69{69} ॥
गंधर्व सौगते धर्मे प्रव्रजितुं यदीछसि ।
पित्रोर् आज्ञां समासाद्य प्रेहि दास्यामि ते व्रतं ॥ र्म्_14.70{70} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स सुप्रियो मुदा ।
तथेति तं मुनिं नत्वा सहसर्द्ध्या गृहं ययौ ॥ र्म्_14.71{71} ॥
तत्र स सहसा प्राप्तो नत्वा तौ पितरौ मुदा ।
साञ्जलिः पुरतः स्थित्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_14.72{72} ॥
शृणु मे वाञ्छितं तात यदि ते कृपया मयि ।
तन् ममानुग्रहं कृत्वा सद्धर्मे मां नियोजय ॥ र्म्_14.73{73} ॥
अहं हि सौगतं धर्मं दृष्ट्वा वाञ्छामि तद् व्रतं ।
तत् प्रव्रज्यां समासाद्य प्राप्तुम् इछामि निर्वृतिं ॥ र्म्_14.74{74} ॥
अनित्यं खलु संसारं तद् अत्रापि न मे रतिः ।
अवश्यं हि भवेन् मृत्युः सर्वेषां प्राणिनाम् अपि ॥ र्म्_14.75{75} ॥
एवं दृष्ट्वात्र संसारे भोग्यं नेछामि निःस्पृहः ।
तत् प्रव्रज्याव्रतं धृत्वा प्राप्तुम् इछे सुनिर्वृतिं ॥ र्म्_14.76{76} ॥
अपि चासौ मुनीन्द्रो हि सदात्रैव न तिष्ठति ।
बुद्धकार्यं समाप्यैव निर्वृतिं सर्वथा व्रजेत् ॥ र्म्_14.77{77} ॥
किं चात्र सर्वदा नैवम् उत्पत्स्यते मुनीश्वरः ।
कदा चिद् एवम् उत्पन्नो लोके बोधिं समादिशेत् ॥ र्म्_14.78{78} ॥
तथा च दुर्लभं जन्म सद्गतौ च क्षणं तथा ।
तत्क्षणे ऽलभ्यमाने ऽत्र कथं धर्मानुलप्स्यते ॥ र्म्_14.79{79} ॥
धर्मं विनात्र संसारे किं सारं सुखिनो ऽपि हि ।
क्षणध्वन्सि शरीरं हि जीवितं च तृणाम्बुवत् ॥ र्म्_14.80{80} ॥
धर्मेण सद्गतिं यायात् संबोधिम् अपि प्राप्नुयात् ।
तत् प्रव्रज्याचरिं धृत्वा प्राप्तुम् इछे ऽत्र निर्वृतिं ॥ र्म्_14.81{81} ॥
तद् आत्र यदि वां तात कृपास्ति स्वात्मजे मयि ।
सर्वथानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ र्म्_14.82{82} ॥
इति तेनार्थितं श्रुत्वा स गन्धर्वाधिपः सुधीः ।
सुचिरं तं सुतं दृष्ट्वा स्नेहाद् एवम् अभषत ॥ र्म्_14.83{83} ॥
सत्यम् एवं सुताख्यातं तथापि मे वचः शृणु ।
प्रव्रज्या दुष्करीचर्य्या तत् कथं त्वं समाचरेः ॥ र्म्_14.84{84} ॥
त्वं हि युवा प्रमत्तो ऽसि मदनाक्रांतमानसः ।
कामभोग्यसुखारक्तस् तत् कथं तद् व्रतं चरेः ॥ र्म्_14.85{85} ॥
प्रव्रजितो विरक्तात्मा संसारभोग्यनिस्पृहः ।
सर्वान् परिग्रहान्स् त्यक्त्वा सदैकान्ती वने वसे ॥ र्म्_14.86{86} ॥
सुकुले दुःकुले चापि याचित्वा विरशासनं ।
भुंजीथास् तत् कथं भुक्त्वा समाधिं संप्रधास्यसि ॥ र्म्_14.87{87} ॥
इत्य् एवं दुष्करं ज्ञत्वा प्रव्रज्याव्रतसाधने ।
सहसा मा कृथाश् चित्तं निवारय समाहितः ॥ र्म्_14.88{88} ॥
यद्य् अतिवांछसे पुत्र प्रव्रज्याग्रहणे तथा ।
वृद्धत्वे समुपाश्रित्य त्रिरत्नं तद् व्रतं चर ॥ र्म्_14.89{89} ॥
तत् त्वं यावद् युवा गेहे सौख्यं भुक्त्वा यथेप्सितं ।
वृद्धत्वे तद् व्रतं धृत्वा त्रिरत्नानि सदा भज ॥ र्म्_14.90{90} ॥
तथा चेत् ते भवेज् जन्म साफल्यं भवचारणे ।
सुखं भुक्त्वा व्रतं धृत्वा निर्वृतिं वा समाप्नुयाः ॥ र्म्_14.91{91} ॥
इति मे वचनं श्रुत्वा मत्वैवं तत् प्रबोधितः ।
तावद् गृहे सुखं भुक्त्वा स्मृत्वा रत्नत्रयं वस ॥ र्म्_14.92{92} ॥
इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिशंकितः ।
पुनस् तं पितरं दृष्ट्वा बोधयन्न् एवम् अब्रवीत् ॥ र्म्_14.93{93} ॥
सत्यम् एवं भवे तात तथापि वक्ष्यते मया ।
तच् छ्रुत्वापि त्वया परिज्ञाय विबुध्यतां ॥ र्म्_14.94{94} ॥
सत्कुले दुर्लभं जन्म तत्रापि दुर्लभं क्षणं ।
दुर्लभं सुगतोत्पादं दुर्लभं तद्व्रतं भवे ॥ र्म्_14.95{95} ॥
इति मत्वात्र संसारे क्लेशमानमदाकुले ।
अवश्यं मरणं दृष्ट्वा प्राप्तुम् इछे ऽत्र निर्वृतिं ॥ र्म्_14.96{96} ॥
तद् अत्र कृपया मह्यम् अनुज्ञां दातुम् अर्हसि ।
यूयं चापि हि तद् धर्मभाणैः सद्गतिम् आप्स्यथ ॥ र्म्_14.97{97} ॥
इति हेतोः पित तत्र विलम्बंम कृथा चिरं ।
सहसानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ र्म्_14.98{98} ॥
इति तेनार्थितं श्रुत्वा स गंधर्वाधिपश् चिरात् ।
स्नेहदुःखाग्निसंतप्तो गलदश्रुमुखो ऽवदत् ॥ र्म्_14.99{99} ॥
अयि सुप्रिय पुत्र त्वं स्नेहान् मया निवार्यस ।
यद्य् अतिवांछसे प्राप्तुं निर्वृतिं तन् समाचर ॥ र्म्_14.100{100} ॥
संबुद्धशरणं कृत्वा प्रव्रज्य संवरं दधत् ।
त्रिरत्नभजनं कृत्वा चर नित्यं समाहितः ॥ र्म्_14.101{1} ॥
इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ र्म्_14.102{2} ॥
ततः स सहसा गत्वा विहारं समुपाचरत् ।
तत्र प्राप्तो मुनीन्द्रं तं दृष्ट्वैव समुपाविशत् ॥ र्म्_14.103{3} ॥
तत्र तं श्रीघनं नात्वा प्राञ्जलिः पुर आश्रयन् ।
सुप्रसन्नमुखांभोजः प्रार्थयद् एवम् आदरात् ॥ र्म्_14.104{4} ॥
सर्वज्ञ भगवाञ् छास्तर् आदिष्टं भवतायथा ।
तथानुज्ञां पितुः प्राप्य प्रागताहम् इहाधुना ॥ र्म्_14.105{5} ॥
तद् अत्र भवतां शास्तः शरणं समुपागतः ।
ब्रह्मचर्यं चरिष्यामि तत् प्रव्रज्यां प्रदेहि मे ॥ र्म्_14.106{6} ॥
इति तेनार्थितं श्रुत्वा भगवान् स जगद्गुरुः ।
दृष्ट्वा तस्याशयं शुद्धं पुनर् एव समादिशत् ॥ र्म्_14.107{7} ॥
एहि सुप्रिय भिक्षो ऽत्र चर ब्रह्मचरिं शिवां ।
त्रिरत्नं शरणं कृत्वा समाधिं समुपाश्रयत् ॥ र्म्_14.108{8} ॥
ततो दृष्ट्वा च संसारं क्लेशसंघसमाकुलं ।
पंचगंडमयं देहं जीवितं च त्रिनाम्वुवत् ॥ र्म्_14.109{9} ॥
समाधिसंवरं धृत्वा संबोधिसाधनोद्यतः ।
सर्वक्लेशरिपुञ् जित्वा साक्षाद् अर्हत्पदं ययौ ॥ र्म्_14.110{10} ॥
ततः सुप्रियो भिक्षुः प्राप्ताभिज्ञः कृती सुधीः ।
भिन्दन् सर्वम् अविद्याङ्गं निर्विकल्पो ऽभवद् यतिः ॥ र्म्_14.111{11} ॥
समलोष्टसुवर्णश् च परिशुद्धत्रिमंडलः ।
वासीचंदनकल्पो ऽभूद् आकाशसममानसः ॥ र्म्_14.112{12} ॥
संसारभोग्यसत्कारमान्यलाभपराङ्मुखः ।
निःक्लेशः परिषुद्धात्मा ब्रह्मचारी निरंजनः ॥ र्म्_14.113{13} ॥
सदेवासुरलोकानां सर्वभुवनवासिनां ।
वंद्यः पूज्यो ऽभिनंद्यश् च माननीयो भवन् बभौ ॥ र्म्_14.114{14} ॥
तदैवंभूतम् अर्हन्तं सुप्रियं तम् शुभेन्द्रियं ।
प्रालोक्य विस्मिताः सर्वे तत्सभास्थाः प्रसेदिरे ॥ र्म्_14.115{15} ॥
तदा सर्वे ऽपि ते लोका देवा दैत्याश् च किन्नराः ।
यक्षाः सिद्धाश् च गंधर्वा नागाश् च राक्षसा अपि ॥ र्म्_14.116{16} ॥
गरुडाश् च तथान्ये ऽपि विद्याधराश् च साप्सराः ।
सर्वे लोकाधिपाश् चापि त्रिरत्नशरणं गताः ॥ र्म्_14.117{17} ॥
संबुद्धशासने तत्र सांघिकानां समन्ततः ।
रक्षावरणसंगुप्तिं कृत्वाभजन् समुद्यताः ॥ र्म्_14.118{18} ॥
तद् दृष्ट्वा तानि पञ्चापि गांधर्विकशतानि च ।
अनुमोद्य प्रसन्नानि संमील्यैवं वभाषिरे ॥ र्म्_14.119{19} ॥
एते सर्वे वयं नीचे कर्मणि परिवर्त्तिकाः ।
सुखानभिज्ञदुःखार्त्ताः क्लेशिनः कृछ्रवृत्तयः ॥ र्म्_14.120{20} ॥
यद् अस्माभिः पुरा पुण्यं किं चिद् वापि न साधितं ।
तेनास्यात्र वयं सर्वे दुःखिनो नीचवृत्तयः ॥ र्म्_14.121{21} ॥
तद् अस्माभिर् अयम् शास्ता मुनीश्वरः ससांघिकः ।
सत्कृत्य भोजनैर् वापि पूजनीयो यथाविधिः ॥ र्म्_14.122{22} ॥
नूनम् एतद्विपाकेन भवेमहि सुभागिनः ।
ततः पुण्यानुसारेण बोधिमार्गे चरेमहि ॥ र्म्_14.123{23} ॥
ततः क्रमेण संप्राप्य बोधिचर्य्यां शुभां चरीं ।
चरन्तस् तद्विपाकैश् च निर्वृतिं संलभेमहि ॥ र्म्_14.124{24} ॥
इति मत्वा वयं सर्वे विज्ञप्य नृपतिं तथा ।
ससंघं सुगतं भोज्यैर् अर्हामहे समर्चितुं ॥ र्म्_14.125{25} ॥
तथेति संमतं कृत्वा सर्वे ते ऽभ्यनुमोदिताः ।
नृपतेर् विज्ञापनां कर्तुं सहसा समुपाचरन् ॥ र्म्_14.126{26} ॥
तत्र ते समुपासृत्य दृष्ट्वा तं नृपतिं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयन्न् एवम् आदरात् ॥ र्म्_14.127{27} ॥
जय देव महाराज लोकान् धर्मेण पालय ।
किञ्चिद् विज्ञापनां कर्त्तुं वयम् उपागताः ॥ र्म्_14.128{28} ॥
विजानीयाद् भवान् ह्य् एतत् तथापि प्रार्थयामहे ।
श्रुत्वा नो ऽनुग्रहं कृत्वा कृपया तत् प्रसीदतु ॥ र्म्_14.129{29} ॥
यद् वयं देव सर्वे ऽत्र नीचकर्मानुचारिणः ।
तत् ससंघं मुनिं भोज्यैः समिछामः समर्चितुं ॥ र्म्_14.130{30} ॥
तद् अनुज्ञां प्रदत्वा नः कृपयोद्धर्तुम् अर्हसि ।
एतद् विज्ञापनां कुर्मस् तत् प्रसीद नृपाधिप ॥ र्म्_14.131{31} ॥
इति तैः प्रार्थितं श्रुत्वा नृपतिः सो ऽनुमोदितः ।
तान् सर्वान् समुपामंत्र्य पुनर् एवं समादिशत् ॥ र्म्_14.132{32} ॥
साधु भवतु सर्वेषां युष्माकं सत्समीहितं ।
तत् तथा क्रियतां बुद्धे सत्कारं श्रद्धयादरात् ॥ र्म्_14.133{33} ॥
संबुद्धे यत् कृतं कर्म तत् फलं क्षिणुयान् न हि ।
क्रमाद् बोधिचरिं पूर्य निर्वृतिं समवाप्नुयात् ॥ र्म्_14.134{34} ॥
तद् अत्र सर्वथा यूयं ससंघं श्रीघनं मुनिं ।
यथार्हभोजनं भक्त्या पूजयध्वं समादरात् ॥ र्म्_14.135{35} ॥
इत्य् आदिष्टम् ः - न्द्रेण श्रुत्वा सर्वे ऽपि ते मुदा ।
तथेति प्रतिनंदित्वा नृपं नत्वा ततो ऽचरन् ॥ र्म्_14.136{36} ॥
ततस् ते संमतं कृत्वा विहारे सहसा गताः ।
दृष्ट्वा तं श्रीघनं नत्वा प्रार्थयन्न् एवम् आदरात् ॥ र्म्_14.137{37} ॥
भगवंस् तद् विजानीयाद् यद् अर्थं समुपागताः ।
तथापि प्रार्थयेयैवम् अनुग्रहीतुम् अर्हति ॥ र्म्_14.138{38} ॥
यद् वयं भवतां सर्वसांघिकानां यथाविधिं ।
पूजयितुं समिछामो सत्कर्तुं भोजनैर् अपि ॥ र्म्_14.139{39} ॥
तद् भवां कृपया दृष्ट्वा कृत्वास्माकं अनुग्रहं ।
पुरे श्वः सांघिकैः सार्द्धं विजयितुं समर्हसि ॥ र्म्_14.140{40} ॥
इति तैः प्रार्थिते सर्वैर् भगवान् स मुनीश्वरः ।
तेषां धर्मप्रवृद्ध्यर्थं तूष्णीभूत्वाध्युवास तत् ॥ र्म्_14.141{41} ॥
ततस् सर्वे ऽपि ते मत्वा भगवताधिवासितं ।
भूयस् तं श्रीघनं नत्वा स्वं पुरं सहसा ययुः ॥ र्म्_14.142{42} ॥
तत्र सर्वे ऽपि ते भूमिं शोधयित्वा समन्ततः ।
प्रज्ञप्य स्वासनान्य् एवं सामग्रिं समसाधयन् ॥ र्म्_14.143{43} ॥
ततः पूजोपहाराणि भोज्याङ्गानि रसानि च ।
पेयानि सुप्रणीतानि साधयित्वा प्रमोदिताः ॥ र्म्_14.144{44} ॥
तत्र तं सुगतं सर्वं संघं चामंत्रितुं ययुः ।
विहारे समुपसृत्य श्रीघनं संप्रणेमिरे ॥ र्म्_14.145{45} ॥
कृताञ्जलिपुटो नत्वा सर्वे ते समुपस्थिताः ।
संबुद्धप्रमुखं संघं प्रार्थयन्न् एवम् आदरात् ॥ र्म्_14.146{46} ॥
सर्वज्ञ भगवं छास्तः समयो वर्त्तते ऽधुना ।
तद् भवान् संघिकैः सार्द्धं विजयितुं समर्हति ॥ र्म्_14.147{47} ॥
इति तैः प्रार्थिते दृष्ट्वा भगवान् स ससांघिकः ।
पात्रचीवरम् आदय प्रतस्थे संप्रभासयन् ॥ र्म्_14.148{48} ॥
तत्र मार्गेषु सर्वत्र प्रातिहार्यं प्रदर्शयन् ।
सर्वेषां शुभतां कृत्वा तत् पुरे समुपाविशत् ॥ र्म्_14.149{49} ॥
प्रदक्षिणक्रमेणैवं चरंस् तत्र समंततः ।
भासयं भद्रतां कुर्वन् तत्प्रदेशे समाचरन् ॥ र्म्_14.150{50} ॥
तत्र पाद्यार्घम् आदाय क्रमेण सह सांघिकं ।
स्वासने समुपाविश्य तस्थौ भानुर् इवोज्वलन् ॥ र्म्_14.151{51} ॥
तदा तं श्रीघनं सर्वसंघं च स्वासने स्थितं ।
दृष्ट्वा सर्वे ऽपि ते हर्षात् पूजयितुं समारभन् ॥ र्म्_14.152{52} ॥
तथा क्रमेण संपूज्य तं बुद्धप्रमुखं गणं ।
यथार्हभोजनैः सर्वं संतृप्तं समतोषयन् ॥ र्म्_14.153{53} ॥
ततस् ते भोजनांते तत्पात्राणि व्यपनीय च ।
करादीञ् छोधयित्वा तद् भूमिं च पर्यशोधयन् ॥ र्म्_14.154{54} ॥
ततः पूगादिकं दत्वा पुनः सर्वे ऽपि ते मुदा ।
कृताञ्जलिपुटा नत्वा समुपतस्थिरे पुनः ॥ र्म्_14.155{55} ॥
ते च गांधर्विकाः सर्वे त्रिरत्नशरणं गताः ।
बोधिप्रणिधिम् आधाय प्रभेजिरे समाहिताः ॥ र्म्_14.156{56} ॥
वेणुवीणामृदंगादि तूर्यसंगीतिवादनैः ।
उपस्थित्य ससंघं तं श्रीघनं समतोषयत् ॥ र्म्_14.157{57} ॥
तद स भगवां दृष्ट्वा तेषां भक्तिप्रसादिनीं ।
सर्वेषां शुद्धचित्तानि व्यमुञ्चत् स्मितम् उद्धवात् ॥ र्म्_14.158{58} ॥
तत् संस्मितसहोत्पन्नाः पंचवर्णाः शुभांशवः ।
सर्वत्र भुवने गत्वा प्रचेरुर् अमृतांशुवत् ॥ र्म्_14.159{59} ॥
तेषां के चिद् अधोगत्वा नरकेषु समन्ततः ।
अवभास्य परिस्पृष्ट्वा सर्वत्रापि सुखं ददुः ॥ र्म्_14.160{60} ॥
तदा ते नारकीयास् तत् प्रभास्पृष्टाः सुखान्विताः ।
किम् एतद् इति संदिग्धाः संमील्यैवं वभाषिरे ॥ र्म्_14.161{61} ॥
अहो नु जायते सौख्यम् अस्माकं सांप्रतं कथं ।
वतान्यत्र गताः स्मो ऽद्य कस्य पुण्यानुभावतः ॥ र्म्_14.162{62} ॥
इति संदिग्धचित्तानां तेषां मनः प्रबोधने ।
भगवान् निर्मितं बुद्धं संप्रेषयन् समंततः ॥ र्म्_14.163{63} ॥
तत्रा तं सौगतं दृष्ट्वा सर्वे ते नरकस्थिताः ।
विस्मिताः समुपासृत्य ववन्दिरे प्रसादिताः ॥ र्म्_14.164{64} ॥
नमो बुद्धाय धर्माय संघाय च नमस् सदा ।
इति प्रोक्त्वा प्रणत्वा तच्छरणं समुपाययुः ॥ र्म्_14.165{65} ॥
एतत्पुण्यानुभावेन सर्वे ते नरकोत्थिताः ।
सहसा स्वर्गतिं याताः सद्धर्मे समुदाचरन् ॥ र्म्_14.166{66} ॥
एवं तान् सर्वसत्वांश् च समुद्धृत्य समन्ततः ।
सर्वे ते ऽप्य् अंशवो भूयस् संबुद्धान्तिकम् उपाचरन् ॥ र्म्_14.167{67} ॥
के चिद् ऊर्द्ध्वगता यावद् अकनिष्ठं समन्ततः ।
अवभास्य समुद्घुष्य तत्रैवं समचोदयन् ॥ र्म्_14.168{68} ॥
अनित्यं खलु संसारं शून्यं ह्य् अनात्मकं ।
इति सत्यं परिज्ञाय त्रिरत्नं भजतादरात् ॥ र्म्_14.169{69} ॥
निष्क्रामतारभध्वं च यूज्यध्वं बुद्धशासने ।
धुनीत मारसैन्याश् च नडागारं यथा करी ॥ र्म्_14.170{70} ॥
यो ऽप्य् अस्मिन् सौगते धर्मे ह्य् अप्रमत्तश् चरेत् सदा ।
स त्यक्त्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_14.171{71} ॥
इति संचोदयन्तस् तां सार्वान् देवांश् च सर्वतः ।
ते सर्वे ऽप्य् अंशवो भायः सुगतान्तिकम् आययुः ॥ र्म्_14.172{72} ॥
ततस् ते ऽप्य् अंशवः सर्वे संमील्य संगता मुनेः ।
प्रदक्षिणत्रयं कृत्वा तस्योर्णायां समाविशन् ॥ र्म्_14.173{73} ॥
तद् दृष्ट्वा ते सभालोका विस्मयोद्धतमानसाः ।
किम् एतद् इति संचिन्त्य सर्वे तस्थुः शकौतुकाः ॥ र्म्_14.174{74} ॥
अथानंदः समालोक्य तान् सर्वान् विस्मयोद्धवान् ।
उत्थाय साञ्जलिर् नत्वा शास्तारं तं समब्रवीत् ॥ र्म्_14.175{75} ॥
भगवन्स् ते मुखाद् भासिः पंचवर्णा विनिर्गता ।
अवभास्य दिशः सर्वा ऊर्णायां च विशन्ति ताः ॥ र्म्_14.176{76} ॥
एतद् दृष्ट्वा सभालोकाः सर्वे ऽपीमे सविस्मयाः ।
तद्धेतुं श्रोतुम् इछन्ति तद् उपादेष्टुम् अर्हति ॥ र्म्_14.177{77} ॥
नाहेतु हि स्मितं बुद्धा दर्शयन्ति कदा चन ।
यद् धेतौ भवता शास्तुर् हसितं तत् समादिश ॥ र्म्_14.178{78} ॥
इति संप्रार्थितं शिष्येन स मुनीश्वरः ।
तम् आनंदैः सभां चापि समालोक्यैवम् आदिशत् ॥ र्म्_14.179{79} ॥
पश्यानंद यद् एतैर् हि सर्वै गान्धर्विकैर् अपि ।
मम ससांघिकस्यैवं सत्कारं प्रकृतं मुदा ॥ र्म्_14.180{80} ॥
एतत्पुण्यविपाकेन सर्वे ऽपीमे भवान्तरे ।
क्रमाद् बोधिचरीं प्राप्ता निःक्लेशा विमलाशयाः ॥ र्म्_14.181{81} ॥
मारचर्याविनिर्मुक्ताः परिशुद्धास् त्रिमण्डलाः ।
वर्णस्वराभिधाः सर्वे प्रत्येकसुगता जिनाः ॥ र्म्_14.182{82} ॥
प्रान्ताशय्यासानासीना हीनदीनानुकम्पकाः ।
दक्षिणीया महासत्वा भविष्यन्ति शुभंकराः ॥ र्म्_14.183{83} ॥
एवम् एतात् समालोक्य यूयं यदि समिछथ ।
तथात्र श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ र्म्_14.184{84} ॥
ये त्रिरत्नं सदा भक्त्या सत्कृत्यैवं भजन्ति ते ।
विहाय दुर्गतिं नित्यं सद्गतिं समवाप्नुयुः ॥ र्म्_14.185{85} ॥
इति मत्वात्र संसारे येषां वांछा सुखे शिवे ।
ते सत्कृत्य त्रिरत्नेषु श्रद्धया भजतानिशं ॥ र्म्_14.186{86} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च ते जनाः ।
सत्यम् एवं प्रतिज्ञाय त्रिरत्नं सर्वदाभजन् ॥ र्म्_14.187{87} ॥
तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
कृताञ्जलिपुटा नत्वा पप्रछुस् तं मुनीश्वरं ॥ र्म्_14.188{88} ॥
यद् एवं भगवन्न् एभिः सत्कारं प्रकृतं महत् ।
तत् ते केन सुपुण्येन सम्यग् आदेष्टुम् अर्हति ॥ र्म्_14.189{89} ॥
एवं तैर् भिक्षुभिः सर्वैः प्रार्थिते स जिनेश्वरः ।
सर्वान्स् ताञ् छ्रावकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ र्म्_14.190{90} ॥
शृणुध्वं भिक्षवः पुण्यं यन् मया प्रकृतं पुरा ।
तद् अत्र कथितं श्रुत्वा श्रद्धयाभ्यनुमोदत ॥ र्म्_14.191{91} ॥
पुरासीद् भगवान् बुद्धः प्रबोधनाभिधो जिनः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ र्म्_14.192{92} ॥
सर्वविद्याधिपो नाथस् तथागतो विनायकः ।
मारजिल् लोकविद् भर्त्ता सुभद्रो ऽर्हन् हितंकरः ॥ र्म्_14.193{93} ॥
तदा स भगवान् बुद्धो जनपदेषु चारिकां ।
चरन्न् अन्यां राजधानीम् अनुप्राप्तः ससांघिकः ॥ र्म्_14.194{94} ॥
तत्र तस्य नरेन्द्रस्य क्रीडोद्याने तरोर् अधः ।
प्रविश्य स्वासनासीनस् तस्थौ वह्निर् इवोज्वलन् ॥ र्म्_14.195{95} ॥
तदैकस्मिन् दिने तत्र राजा कान्ताप्रवादिनैः ।
संगीतैः सह संरक्तो रमितुं समुपाविशत् ॥ र्म्_14.196{96} ॥
तत्रस्थं तं समासीनं सुगतं सुप्रभोज्वलं ।
दृष्ट्वैव सहसोपेत्य नत्वा कृत्वा प्रदक्षिणां ॥ र्म्_14.197{97} ॥
समाधिस्थं तम् आलोक्य तष्ठौ चिरम् उपाश्रयन् ।
ततस् तन्मुखपद्मोत्थसद्धर्मामृतलिप्सया ॥ र्म्_14.198{98} ॥
वाद्यमानैः सतैर् वाद्यैर् मुनिं प्राबोधयन् नृपः ।
ततः स सुगतो बुद्धो समाधेः शीघ्रम् उत्थितः ॥ र्म्_14.199{99} ॥
सान्तःपुरं नरेंद्रं तं प्राद्राक्षीत् समुपस्थितं ।
तदा तं नृपतिं दृष्ट्वा स संबुद्धः प्रबोधनः ॥ र्म्_14.200{100} ॥
सद्धर्म्मं समुपादेष्टुं समामंत्र्यैवम् अब्रवीत् ।
एहि राजन् महावाहो स्वागतं ते महीपते ॥ र्म्_14.201{1} ॥
सद्धर्मं समुपाश्रित्य बोधिचर्यां समाचर ।
सदा दानं प्रदत्वात्र शीलं धृत्वा समाहितः ॥ र्म्_14.202{2} ॥
क्षान्त्या प्रसादयल् लोकान् धर्मवीर्यं प्रसाधय ।
बोधौ चित्तं समाधाय प्रज्ञारत्नम् उपार्जय ॥ र्म्_14.203{3} ॥
तद्रत्नानुभावेन संबोधिमार्गम् आप्नुयाः ।
ततस् ते मङ्गलं नित्यम् इहामुत्रे सदा भवेत् ॥ र्म्_14.204{4} ॥
सर्वसत्वहितं कुर्वन् सद्गतिम् एव प्राप्नुयाः ।
इति मत्वा महाराज सद्धर्मं समुपाश्रयन् ॥ र्म्_14.205{5} ॥
त्रिरत्नं शरणं कृत्वा सत्कृत्य भज सर्वदा ।
त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ॥ र्म्_14.206{6} ॥
सर्वदा सत्फलान्य् एव सूते बोधिं समर्पयेत् ।
इति मत्वा महाराज त्रिरत्नशरणं गतः ॥ र्म्_14.207{7} ॥
बोधिचर्याव्रतं धृत्वा चर नित्यं समाहितः ।
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ॥ र्म्_14.208{8} ॥
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ।
इति तेनार्हतादिष्टं मुनीन्द्रेण स भूपतिः ॥ र्म्_14.209{9} ॥
श्रुत्वा तथेति विज्ञप्य प्राभ्यनन्दत् प्रबोधितः ।
ततः स मुदितो राजा तं मुनीन्द्रं ससांघिकं ॥ र्म्_14.210{10} ॥
यथाविधि समभ्यर्च्य भोजनैः समतोषयत् ।
ततश् च भोजनान्ते स नृपतिः साञ्जलिर् मुदा ।
तं मुनीन्द्रं प्रणत्वैवं प्रणिधानं हृदो व्यधात् ॥ र्म्_14.211{11} ॥
अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके ।
सम्यग् बोधिं समागम्य भवेयं सुगतो जिनः ॥ र्म्_14.212{12} ॥
एतत् तेन नरेन्द्रेण प्रणिधानं कृतं मुदा ।
मत्वा स सुगतस् तस्य तथाशीर्वचनं ददौ ॥ र्म्_14.213{13} ॥
जयो ऽस्तु ते सदा राजं धर्मेण पालय प्रजाः ।
प्रणिधानं यथा बोधौ तथा ते सिद्ध्यतु ध्रुवं ॥ र्म्_14.214{14} ॥
इत्य् आदिष्टं मुनीन्द्रेण तेन श्रुत्वा स भूपतिः ।
मुदितः साञ्जलिर् नत्वा तं मुनीन्द्रं समब्रवीत् ॥ र्म्_14.215{15} ॥
अद्यारभ्य सदा शास्तस् त्रिरत्नशरणं गतः ।
संबोधिसंवरं धृत्वा चरिष्यामि समाहितः ॥ र्म्_14.216{16} ॥
तद् भवान् कृपया दृष्ट्या सदा मां द्रष्टुम् अर्हति ।
सर्वदा भवताम् एव शरणे ऽस्मि समास्थितः ॥ र्म्_14.217{17} ॥
इति संप्रार्थनां कृत्वा राजा स सजनो मुदा ।
भगवंतं तम् आनम्य सानंदः स्वपुरं ययौ ॥ र्म्_14.218{18} ॥
ततः स भगवाञ् छास्ता समुत्थाय ससांघिकः ।
सर्वत्र भद्रतां कृत्वा स्वाश्रमे समुपाययौ ॥ र्म्_14.219{19} ॥
मन्यतां भिक्षवो यो ऽसौ राजा संबुद्धसेवकः ।
अहम् एव तदाभूवन् नान्यो द्रष्टव्य एव सः ॥ र्म्_14.220{20} ॥
यन् मया श्रद्धया तस्य प्रबोधनस्य तायिनः ।
पूजाकारि महोत्साहैस् तूर्यसंगीतिवादनैः ॥ र्म्_14.221{21} ॥
तेन पुण्यविपाकेन ममात्रैव महोत्सवैः ।
एतैर् गान्धर्विकैर् एवं सत्कारः प्रकृताधुना ॥ र्म्_14.222{22} ॥
एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं ।
त्रिरत्नं शरणं कृत्वा भजनीयं शुभार्थिभिः ॥ र्म्_14.223{23} ॥
यूयं चापि सदा नित्यं शास्तारं सद्गुरुं जिनं ।
संबुद्धं समुपाश्रित्य विहरध्वं समाहिताः ॥ र्म्_14.224{24} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
सर्वे तथेति विज्ञप्य त्रिरत्नानि सदाभजन् ॥ र्म्_14.225{25} ॥
इति मे गुरुणादिष्टं श्रुतं मया नराधिप ।
तथाधुना समाख्यातं तव पुण्यप्रवृद्धये ॥ र्म्_14.226{26} ॥
एवं राजंस् त्वयाप्य् एवं त्रिरत्नं शरणं गतः ।
संबुद्धशासनं धृत्वा चर धर्मं समाहितः ॥ र्म्_14.227{27} ॥
प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः ।
संबोधिसाधने धर्मे योजनीयास् त्वयादरात् ॥ र्म्_14.228{28} ॥
तथा चेत् ते सदा भद्रं भवेन् नूनं समन्ततः ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_14.229{29} ॥
इति शास्त्रा समादेष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ र्म्_14.230{30} ॥
गांधर्विकानाम् अवदानम् एतच् छ्रुत्वानुमोदन्ति नरा मुदा ये ।
ते सर्व एनःपरिमुक्तचित्ता भुक्त्वा सुखान्य् एव लभन्ति बोधिं ।
++ इति रत्नावदानतत्वे गांधर्विकावादनं समाप्तम् ++
xव् सूक्ष्मत्वचोवदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत ॥ र्म्_15.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हसि ॥ र्म्_15.2{2} ॥
इति संप्रार्थिते राज्ञा स यतिः सुगतात्मजः ।
अशोकं तं नृपं दृष्ट्वा पुनर् एवम् उपादिशत् ॥ र्म्_15.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वाप्य् एवं प्रमोदय ॥ र्म्_15.4{4} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
विहारे जेतकारण्ये विजहार ससांघिकः ॥ र्म्_15.5{5} ॥
तस्मिंश् च समये तत्र सर्वे भिक्षुगणा अपि ।
श्रावकाश् चैलकाश् चैव सर्व उपासका अपि ॥ र्म्_15.6{6} ॥
सर्वे ऽपि भिक्षुणीसंघा उपासिकागणा अपि ।
बोधिसत्वगणाश् चापि सद्धर्मसाधनोद्यताः ॥ र्म्_15.7{7} ॥
सभामध्यासनासीनं श्रीघनं तं जगद्गुरुं ।
उपतस्थुः पुरस्कृत्य परिवृत्य समंततः ॥ र्म्_15.8{8} ॥
तदा तस्य मुनीन्द्रस्य मुखाम्भोजविनिर्गतं ।
भद्रधर्मामृतं पातुं सर्वे लोकाः समागताः ॥ र्म्_15.9{9} ॥
शक्रादयः सुरेन्द्राश् च ब्रह्मादयो महर्द्धिकाः ।
लोकपाला महावीराः ससैन्यपरिवारकाः ॥ र्म्_15.10{10} ॥
योगिनो यतयश् चापि महर्षयस् तपश्विनः ।
ब्राह्मणाश् च महाविज्ञाः सद्धर्मगुणवांछिनः ॥ र्म्_15.11{11} ॥
राजानो राजपुत्राश् च वैश्या मंत्रिजना अपि ।
अमात्याः श्रेष्ठिनो भट्टाः पौरिकाश् च गृहाधिपाः ॥ र्म्_15.12{12} ॥
सैन्याधिपाश् च योधारः सार्थवहा महाजनाः ।
वणिजः शिल्पिनश् चापि ग्राम्याः कार्पटिका अपि ॥ र्म्_15.13{13} ॥
एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवाञ्छिनः ।
सर्वे धर्मामृतं पातुं विहारे समुपागताः ॥ र्म्_15.14{14} ॥
तत्र प्राप्ताः सभामध्ये समासीनं मुनीश्वरं ।
श्रीघनं तं समालोक्य प्रणत्वा समुपाचरन् ॥ र्म्_15.15{15} ॥
तत्र ते समुपासृत्य सर्वे तं श्रीघनं मुनिं ।
त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य प्रणेमिरे ॥ र्म्_15.16{16} ॥
ततः सर्वे ऽपि ते लोकाः परिवृत्य समन्ततः ।
साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ र्म्_15.17{17} ॥
तदा स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् ।
आदिमध्यान्तकल्याणम् आर्यधर्मम् उपादिशत् ॥ र्म्_15.18{18} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः ।
लोका धर्मविशेषत्वं विज्ञाय प्राणनन्दिरे ॥ र्म्_15.19{19} ॥
तस्मिन्न् अवसरे तत्र श्रावस्त्यां पौरिको गृही ।
श्रेष्ठी महाजनः श्रिमाञ् छ्राद्धो भद्राशयाभवत् ॥ र्म्_15.20{20} ॥
स एकस्मिं दिने स्वस्मिन् भाण्डालकोष्ठके विशन् ।
स्वसंपन्निचयं दृष्ट्वा मनसैवं व्यचिन्तयत् ॥ र्म्_15.21{21} ॥
अहो मे जायते संपद् दीयती संप्रवर्द्धिता ।
तथापि वर्द्ध्यते तृष्णा यतः सौख्यं न किं चन ॥ र्म्_15.22{22} ॥
यद् इमे चंचला भोगा जलचंद्रनिभा मम ।
अनित्या अस्थिराः पद्मपत्रस्थितजलोपमा ॥ र्म्_15.23{23} ॥
तद् अत्र किं मनो ऽद्यापि तृष्णयाकृष्यते मम ।
येन चराम्य् अहं लोके दुःखी भविकलाशयः ॥ र्म्_15.24{24} ॥
तत् किं मे संपदा सारं यतः सौख्यं न विद्यते ।
धर्मार्थे गोचरं नैव केवलं मदवृद्धये ॥ र्म्_15.25{25} ॥
मदेन वर्द्धते मानं मानाल् लोके प्रमादता ।
प्रमादाद् दीप्यते चेर्ष्या कोपाग्निर् दीप्यते ततः ॥ र्म्_15.26{26} ॥
कोपात् क्रूराशयश् चण्डो निर्दयो दुरिताशयः ।
पापात्मा हिंसको दुष्टो दशाकुशलसाधकः ॥ र्म्_15.27{27} ॥
स्वयं नष्टः परांश् चापि नाशयति दुराशयः ।
ततो ऽतिपापसंरक्तो दुराचरो ऽतिदुर्मनाः ॥ र्म्_15.28{28} ॥
ततो ऽतिदुर्मतिर् द्रोही संवृत्तिधर्मनिंदकः ।
त्रिरत्नानि प्रतिक्षिप्य महापातकम् आचरेत् ॥ र्म्_15.29{29} ॥
ततो ऽतिपापसंक्लिष्टाः प्रमूढो नरकं व्रजेत् ।
नरकेषु भ्रमन् नित्यं दुःखान्य् एव सदाश्नुयात् ॥ र्म्_15.30{30} ॥
यद् वात्रापि च संसारे जीवितम् अध्रुवं खलु ।
क्षणध्वंसि शरीरं च सार्वेषां मरणं ध्रुवं ॥ र्म्_15.31{31} ॥
तद् अत्राहम् असारेभ्यो भोगेभ्यः सारम् उत्तमं ।
सद्धर्मं समुपादातुं यत्नं कुर्यां समादरात् ॥ र्म्_15.32{32} ॥
सद्धर्मं सौगतं धर्मम् इत्य् आख्यातं पुराविदैः ।
तद् अत्र सौगते क्षेत्रे दानं कुर्वीय सांप्रतं ॥ र्म्_15.33{33} ॥
बौद्धक्षेत्रे कृतं दानं बोधिवीजं भवेद् ध्रुवं ।
एतद् एवात्र संसारे साधनीयं शुभाप्तये ॥ र्म्_15.34{34} ॥
दानेन शुद्ध्यते चित्तं सुचित्तः सुमतिं लभेत् ।
सुबुद्धिः सद्गुणारक्तः संवृत्तिशीलभृत् कृती ॥ र्म्_15.35{35} ॥
सुशीलः क्षान्तिमान् धीरः परात्मसमभाविकः ।
सुधीरो वीर्यवान् सर्वसत्वार्थसाधनोद्यतः ॥ र्म्_15.36{36} ॥
अप्रधृष्यो महासत्वः क्लेशारिदमको भवेत् ।
ततः सुपरिशुद्धात्मा समाधिसुस्थितो भवेत् ॥ र्म्_15.37{37} ॥
तत् समाधिवलाधानैः प्रज्ञाब्धिपारम् आगतः ।
बोधिरत्नं समासाद्य बोधिसत्वो ऽधिपो भवेत् ॥ र्म्_15.38{38} ॥
एतद् रत्नानुभावेन भद्रंकला समन्ततः ।
सर्वमारान् विनिर्जित्य संबुद्धपदम् आप्नुयात् ॥ र्म्_15.39{39} ॥
इत्य् अर्हद्भिर् महाभिज्ञैः समाख्यातं मया श्रुतं ।
तत् संबुद्धपदां प्रप्तुं बुद्धं भजेय सांप्रतं ॥ र्म्_15.40{40} ॥
नूनं बुद्धानुभावेन भावितं सेत्स्यते ध्रुवं ।
तद् बुद्धप्रमुखं सर्वसंघं पूजेय सादरं ॥ र्म्_15.41{41} ॥
इति निश्चित्य स श्रीमान् गृहस्थः संप्रमोदितः ।
भगवंतं ससंघन् तं पूजयितुं समैछत ॥ र्म्_15.42{42} ॥
ततः स सजनः श्रेष्ठी त्रिरत्नभजनोत्सुकः ।
विहारे जेतकारण्ये प्रययौ संप्रहर्षितः ॥ र्म्_15.43{43} ॥
तत्र तं श्रीघनं दृष्ट्वा स गृहस्थः प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य समर्चयद् यथाविधिः ॥ र्म्_15.44{44} ॥
ततः स सजनो नत्वा साञ्जलिः संप्रमोदितः ।
मुनीन्द्रं तं समालोक्य पुरः स्थित्वैवम् अब्रवीत् ॥ र्म्_15.45{45} ॥
सर्वज्ञ भगवं छास्तर् भवतां शरणं व्रजे ।
ततो ऽभिलषिते कार्ये प्रसीदतु जगद्गुरो ॥ र्म्_15.46{46} ॥
भगवं भवतः शास्तुः ससंघस्य जगद्गुरोः ।
पूजयितुं समिछामि तद् अनुज्ञां ददातु मे ॥ र्म्_15.47{47} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तथास्त्व् इति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ र्म्_15.48{48} ॥
ततः स गृहभृन् मत्वा भगवताध्युवास तं ।
साञ्जलिस् तं मुनिं नत्वा मुदितः स्वगृहं ययौ ॥ र्म्_15.49{49} ॥
तत्र स स्वजनैः स्वस्मिं गृहे मर्गेषु सर्वतः ।
परिशोध्य सुगंधैश् च परिषिंच्याभ्यशोभयत् ॥ र्म्_15.50{50} ॥
तत्रासनानि प्रज्ञप्य वितानानि वितत्य च ।
मुक्तपुष्पैः समाकीर्य सुरभिं समधूपयत् ॥ र्म्_15.51{51} ॥
ततः स भोज्यसामग्रीं साधयित्वा स्ववंधुभिः ।
तथोपहारसामग्रीं परिशुद्धाम् असाधयत् ॥ र्म्_15.52{52} ॥
ततो ऽन्ये द्युर् गृहस्थः स स्नात्वा शुद्धांवरावृतः ।
संबुद्धामंत्रणं कर्तुं विहारे सजनो ययौ ॥ र्म्_15.53{53} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं स पुरोगतः ।
कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_15.54{54} ॥
भगवन् नाथ सर्वज्ञ समयो वर्तते ऽधुना ।
तत् ससंघो ममावासे भावान् आगन्तुम् अर्हति ॥ र्म्_15.55{55} ॥
इति संप्रार्थिते तेन भगवान् स ससांघिकः ।
पात्रचीवरम् आदाय संप्रतस्थे प्रभासयन् ॥ र्म्_15.56{56} ॥
तत्र स भगवान् मार्गे कृत्वा भद्रं प्रभासयन् ।
भिक्षुसंघगणैः सार्द्धं श्रावस्तीं समुपाविशन् ॥ र्म्_15.57{57} ॥
तदाभून् नगरे तत्र सर्वत्रापि सुमङ्गलं ।
उपद्रवाणि सर्वाणि सहसा विलयं ययुः ॥ र्म्_15.58{58} ॥
अन्धा रूपाणि पश्यन्तः शृण्वन्तो वधिरा रवान् ।
हीनेन्द्रियाश् च ये ते ऽपि प्रतिलब्धेन्द्रिया ववुः ॥ र्म्_15.59{59} ॥
क्सुत्पिपासाहता ये च ते ऽभवन् परितुष्टिताः ।
रोगिणो नीरुजा आसन् कुवेला रुचिराम्वराः ॥ र्म्_15.60{60} ॥
मूका आसन् प्रवक्तारो जडाश् चापि सुवाग्मिनः ।
चिरवैराभिसंनद्धास् ते ऽप्य् आसन् मैत्रभाविताः ॥ र्म्_15.61{61} ॥
ये च चण्डाशायाः क्रूरास् ते ऽप्य् अभूवन् दयालवः ।
ये च दुष्टा दुराचारास् ते सन्तस् सम्यमोद्यताः ॥ र्म्_15.62{62} ॥
दरिद्रा धनिनः प्रोढ्या दूर्वला वलिनो ऽभवन् ।
ये शठा वंचकाश् चौरस् ते आर्याः सत्यवादिनः ॥ र्म्_15.63{63} ॥
एवं ये दुःखिनः सत्वास् ते सर्वे सुखिनो ऽभवन् ।
एवं स भगवांस् तत्र कृत्वा भद्रं समन्ततः ॥ र्म्_15.64{64} ॥
प्रदक्षिणक्रमेणैवं ससंघं तद्गृहे विशन् ।
तत्र तस्य मुनीन्द्रस्य स गृहस्थो यथाक्रमं ।
पाद्यं ददौ ससंघस्य सदाराः शुचिनाम्बुना ॥ र्म्_15.65{65} ॥
ततः स सुप्रासन्नात्मा ससंघं तं मुनीश्वरं ।
प्रज्ञप्ते स्वासने तत्र यथाक्रमं न्यवेशयत् ॥ र्म्_15.66{66} ॥
तत्र ते सांघिकाः सर्वे संबुद्धप्रमुखाः क्रमात् ।
स्वस्वासने समाविश्य समातस्थुः समाहिताः ॥ र्म्_15.67{67} ॥
ततः स्वस्वासनासीनान् संबुद्धप्रमुखान् यतीन् ।
तान् सर्वान् स गृही दृष्ट्वा यथाविधि समर्चयत् ॥ र्म्_15.68{68} ॥
ततः स सजनः श्रेष्ठी स्वहस्तेन ससांघिकं ।
तं मुनीन्द्रं सुधाकल्पैर् भोजनैः समतर्पयेत् ॥ र्म्_15.69{69} ॥
ततः संतृप्तितं दृष्ट्वा ससंघं तं मुनीश्वरं ।
अपनीय स पात्राणि तद् धस्तादीन् व्यशोधयत् ॥ र्म्_15.70{70} ॥
ततः स साञ्जलिर् नत्वा तान् बुद्धप्रमुखान् यतीन् ।
पुरो नीचासनासीनो धर्मं श्रोतुम् उपाश्रयत् ॥ र्म्_15.71{71} ॥
ततः स भगवान् दृष्ट्वा तं गृहष्ठं सुभाविनं ।
आदिमध्यान्तकल्याणं धर्माम् आदेष्टुम् अब्रवीत् ॥ र्म्_15.72{72} ॥
आरोग्यम् अस्तु ते नित्यं गृहपते सदा शिवं ।
बोधौ चित्तं समाधाय चर धर्मं समाहितः ॥ र्म्_15.73{73} ॥
धर्मेण जीयते पापं निष्पापः सद्गतिं व्रजेत् ।
सद्गतौ सत्सुखान्य् एव भुक्त्वा संचरते सदा ॥ र्म्_15.74{74} ॥
धर्मेण पुरुषो विद्वान् सर्वविद्याकलाधिपः ।
सुधिरो गुणवान् विज्ञो भवेच् छ्रीमान् महर्द्धिकः ॥ र्म्_15.75{75} ॥
धर्मेण सुचिरं जीवेद् आरोग्यं च सदा तनौ ।
सर्वत्रापि भवेन् नित्यं मंगलं निरुपद्रवं ॥ र्म्_15.76{76} ॥
धर्मो न नश्यते क्वपि ह्रियते नापि केन चित् ।
केनापि नश्यते नैव चालयितुं कदा चन ॥ र्म्_15.77{77} ॥
नाग्निभिर् दह्यते धर्मः क्लिद्यते नापि चोदकैः ।
वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ र्म्_15.78{78} ॥
धर्मेण भूः स्थिरीभूता धर्मेण दीप्यते ऽनलः ।
धर्मेण चलते वायुर् धर्मेण वहते जलः ॥ र्म्_15.79{79} ॥
धर्मेण दीप्यते भानुर् धर्मेणैवं सुधाकरः ।
मेघा धर्मेण वर्षाणा भूमिः शष्यौषधीभराः ॥ र्म्_15.80{80} ॥
धर्मेणैवं तथा सर्वे लोकपाला महर्द्धिकाः ।
सर्वदुष्टान् विनिर्जित्य पालयन्ति जगत्त्रये ॥ र्म्_15.81{81} ॥
धर्मो न शीयते क्वापि धर्मो न परिभूयते ।
सर्वत्र जयते धर्मो धर्मो हि शोभते सदा ॥ र्म्_15.82{82} ॥
धर्महीना न शोभन्ते श्रिमन्तो गुणिनो ऽपि च ।
धर्म्मिष्ठा एव शोभन्ते दरिद्रा निर्गुणा अपि ॥ र्म्_15.83{83} ॥
धर्मेण रक्षिता वीराः संग्रामे विजितारयः ।
यशोमान्यमहत्संपत्सुखानि ते लभन्ति च ॥ र्म्_15.84{84} ॥
तथा वीरा वणिक्सार्था धर्मेणैवाभिरक्षिताः ।
महाम्बुधिं समुत्तीर्य रत्नान्य् अपि लभन्ति च ॥ र्म्_15.85{85} ॥
धर्मवन्तो नरा धीरा बुद्धिमन्तो विचक्षणाः ।
सर्वविद्याकलाविज्ञा जयन्ते परवादिनः ॥ र्म्_15.86{86} ॥
तथा धर्मानुभावेन शिल्पविद्याकलाविदः ।
यशोमान्यप्रसादश्रीसत्सुखानि लभन्ति च ॥ र्म्_15.87{87} ॥
तथा च मंत्रिणो ऽमात्या धर्मवन्तो विचक्षणाः ।
राज्यकार्याणि सर्वाणि साधयन्तो जयन्त्य् अरीन् ॥ र्म्_15.88{88} ॥
राजानः क्षत्रियाश् चैवं धर्मनीतिविचक्षणाः ।
सर्वदुष्टान् विनिर्जित्य विराजन्ते नाराधिपाः ॥ र्म्_15.89{89} ॥
तथा धर्मेण राजेन्द्रश् चक्रवर्त्ती महीश्वरः ।
सप्तरत्नसमायुक्तः सर्वशास्ता विराजते ॥ र्म्_15.90{90} ॥
तथा धर्मधरा एव यतयो योगिनो ऽपि च ।
सर्वक्लेशगणाञ् जित्वा लभन्ति परमं पदं ॥ र्म्_15.91{91} ॥
तथर्षयो महाभिज्ञा धर्मभृतो महर्द्धिकाः ।
यथाभिलषितां सिद्धिं प्राप्य मोक्षं व्रजन्ति च ॥ र्म्_15.92{92} ॥
तथा धर्मानुसारेण मंत्रविद्यार्थसाधकाः ।
सिद्धिसमृद्धिसंप्राप्ताः साधयन्ति यथेहितं ॥ र्म्_15.93{93} ॥
तथा च मानवाः सर्वे लोका धर्मानुसारतः ।
निहीनमध्यमोत्कृष्टाः प्रभवन्ति महीतले ॥ र्म्_15.94{94} ॥
तथा धर्मानुसारेण लोका दैत्यादयो ऽपि च ।
निहीनमध्यमोत्कृष्टा प्रचरन्ति रसातले ॥ र्म्_15.95{95} ॥
तथा स्वर्गेषु देवाश् च स्वस्वधर्मानुभावतः ।
सुखानि सुचिरं भुक्त्वा प्रवसन्ति प्रमोदिताः ॥ र्म्_15.96{96} ॥
एवं सर्वत्र लोकेषु स्वस्वधर्मानुभावतः ।
सर्वे सत्वाः सुखप्राप्ताः प्रचरन्ति यथेछया ॥ र्म्_15.97{97} ॥
एवं त्रैधातुकोत्पन्नाः सत्वाः सर्वे सुरादयः ।
स्वस्वधर्मानुसारेण भ्रमन्ति षड्गतिष्व् अपि ॥ र्म्_15.98{98} ॥
किम् अत्र वहुनोक्तेन धर्म एव जगत्प्रभुः ।
धर्मेणैव सदा नित्यं रक्षितः प्रचरेच् छुभे ॥ र्म्_15.99{99} ॥
षुभेन सिद्ध्यते चित्तं शुद्धचित्तः सुधीर् भवेत् ।
सुबुद्धिः सद्गुणाधारं सद्गुरुं समुपाश्रयेत् ॥ र्म्_15.100{100} ॥
तद्गुरोर् उपदेशेन चरन् नित्यं समाहितः ।
बोधिचित्तं समाधाय त्रिरत्नानि सदा भजेत् ॥ र्म्_15.101{1} ॥
एतत्पुण्यानुभावेन सद्धर्मसाधनोद्यतः ।
बोधिसत्वो महासत्वो बोधिचर्यां व्रतं चरेत् ॥ र्म्_15.102{2} ॥
ततो मारगणाञ् जित्वा पूर्य पारमिताः क्रमात् ।
त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ र्म्_15.103{3} ॥
एवं धर्मवरं मत्वा त्रिरत्नशरणं गतः ।
सद्धर्मं समुपश्रित्य चर बोधिपदाप्तये ॥ र्म्_15.104{4} ॥
मृत्युकाले विपत्तौ च धर्म्म एवानुगस् सुहृत् ।
तदा सर्वे त्यजन्त्य् आशु को ऽपि नैव सहानुगः ॥ र्म्_15.105{5} ॥
धर्म एव तदा त्राता सर्वत्राप्य् अनुगः सुहृत् ।
तस्माद् धर्मो महारत्नं साधनीयं प्रयत्नतः ॥ र्म्_15.106{6} ॥
एवं स भगवाञ् छास्ता धर्मस्याभ्यनुभावतां ।
समादिश्य क्षणं तस्थौ तूष्णीभूत्वा समाहितः ॥ र्म्_15.107{7} ॥
ततस् तस्य मुनीन्द्रस्य पादौ स मुदितो गृही ।
प्रणत्वा मनसा चैवं प्रणिधानं सामदधे ॥ र्म्_15.108{8} ॥
अनेन कुशलेनाहं सर्वक्लेशविवर्जितः ।
प्रत्येकां बोधिम् आसाद्य निर्वृतिं समवाप्नुयात् ॥ र्म्_15.109{9} ॥
ततः स सुप्रसन्नास्यो गृहस्थः सजनो मुदा ।
भगवतं तम् आलोक्य पुरस् तस्थौ समाहितः ॥ र्म्_15.110{10} ॥
तदा स भगवांस् तस्य श्रीमतो हृदये स्थितं ।
प्रणिधानं परिज्ञाय सुसंस्मितं व्यमुञ्चत ॥ र्म्_15.111{11} ॥
ततस् तस्य मुनीन्द्रस्य मुखपद्मात् सुरस्मयः ।
पंचवर्णा विनिर्गत्य सर्वत्र समुदाचरन् ॥ र्म्_15.112{12} ॥
तासां या रश्मयो याता अधोलोके समन्ततः ।
ताः सर्वनरकेष्व् एवम् अवभ्यास्य समासरत् ॥ र्म्_15.113{13} ॥
तदा ताभिः परिस्पृष्टाः सर्वे ते नरकस्थिताः ।
महत्सौख्यं समासाद्य विस्मयं समुपाययुः ॥ र्म्_15.114{14} ॥
तत्र सर्वे ऽपि ते सत्वाः परस्परसमागताः ।
सर्वदुःखविनिर्मुक्ताः संमील्यैवं समब्रुवन् ॥ र्म्_15.115{15} ॥
अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते ।
किं नु वयं भवन्तो ऽस्माच् च्युता अन्यत्र चागताः ॥ र्म्_15.116{16} ॥
यद् अस्माकं महद् दुःखं तत् सर्वं शाम्यते ऽधुना ।
संजायते महासौख्यं तद् अद्भुतं न मन्यते ॥ र्म्_15.117{17} ॥
नूनम् अत्राधुना को ऽपि बोधिसत्वः समागतः ।
यस्माद् इयं महारश्मिर् अवभास्य प्रसर्यति ॥ र्म्_15.118{18} ॥
इति चिंताभिदग्धानं तेषां चित्तप्रबोधने ।
भगवान् निर्मितं बुद्धं सर्वत्र तत्र प्रेषयेत् ॥ र्म्_15.119{19} ॥
तदा तं सौगतिं मूर्त्तिं दृष्ट्वा सर्वे ऽपि ते मुदा ।
अहो चित्रम् इति प्रोक्त्वा विस्मिताश् चैवम् अब्रुवन् ॥ र्म्_15.120{20} ॥
नेहैवेतश् च्युताः सर्वे नाप्य् अन्यत्र गता वयं ।
इहैव संस्थिताः सर्वे नरके प्रवसामहे ॥ र्म्_15.121{21} ॥
अपि त्व् अयं महान् सत्वो ऽपूर्वदर्शन आगतः ।
नूनम् अस्यानुभावेन संजायन्ते सुखानि नः ॥ र्म्_15.122{22} ॥
तद् अस्मिं सुगताकरे वयं सर्वे प्रसादिताः ।
उपेत्य प्रणतिं कृत्वा सर्वथा संभजेमहि ॥ र्म्_15.123{23} ॥
इति संभाष्य सर्वे ते नारकीयाः प्रमोदिताः ।
उपेत्य तं महासत्वं साञ्जलयो ऽभिनेमिरे ॥ र्म्_15.124{24} ॥
नमो बुद्धाय धर्माय संघाये च नमः सदा ।
इत्य् उक्त्वा च त्रिरत्नानां संस्मृत्वा शरणं ययुः ॥ र्म्_15.125{25} ॥
इति ते निर्मिते तस्मिं चित्तं प्रसाद्य निर्मलाः ।
सर्वनिर्मुक्तकर्माणः सहसा सद्गतिं ययुः ॥ र्म्_15.126{26} ॥
तथा चोर्द्धगता यास् ताः क्रमाच् चातुर्महाधिपान् ।
समारभ्य त्रयस्त्रिंशान् सर्वांश् चापि सुरालयात् ॥ र्म्_15.127{27} ॥
यावद् भवाग्रपर्यन्तम् अवभास्य प्रसारिताः ॥ र्म्_15.128{27} ॥
तथा चापि समोद्घुष्य सर्वान् देवान् अनोदयन् ।
अनित्यं खलु संसारं दुःखम् शून्यम् अनात्मकं ।
इति मत्वा शुभे नित्यं चरितव्यं सदापि च ॥ र्म्_15.129{28} ॥
निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि नडागारं करी यथा ॥ र्म्_15.130{29} ॥
यो ह्य् अस्मिं धर्मविनये ह्य् अप्रमत्तश् चरिष्यति ।
त्यक्त्वा जन्मात्र संसारे दुःखस्यान्तं करिष्यति ॥ र्म्_15.131{30} ॥
इति मत्वात्र संबोधिपदं यदि समिछथ ।
तच् छ्रद्धया त्रिरत्नानि भजध्वं सर्वदादरात् ॥ र्म्_15.132{31} ॥
एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादृताः ॥ र्म्_15.133{32} ॥
एवं ता रश्मयः सर्वाः सर्वांल् लोकांच् छुभे वृषे ।
बोधयित्वा प्रतिस्थाप्य प्रत्याययुर् मुनेः पुरः ॥ र्म्_15.134{33} ॥
तत्र ता रश्मयः सर्वाः पिण्डितास् तस्य तायिनः ।
त्रिधा प्रदक्षिणीकृत्वा सूर्णायां न्यविशत् पुनः ॥ र्म्_15.135{34} ॥
तद् दृष्ट्वा विस्मिताः सर्वे लोकास् ते समितिस्थिताः ।
किं धर्मम् आदिशेद् बुद्ध इति संचिंत्य तस्थिरे ॥ र्म्_15.136{35} ॥
अथानन्दो महाभिज्ञः समुत्थाय कृताञ्जलिः ।
पुरः स्थितो मुनीन्द्रं तं प्रणत्वा प्रार्थयत् तथा ॥ र्म्_15.137{36} ॥
भगवान् नानाविधा रश्मिर् भवन्मुखाब्जनिर्गताः ।
अवभास्य जगल्लोकं भवदूर्णां निवेशिता ॥ र्म्_15.138{37} ॥
मारजिन् निर्मलस्वान्तो निर्विकल्पो निरंजनः ।
नाहेत्वप्रत्ययं बुद्धा निर्दैन्या निर्मदोद्धवाः ।
स्मितं चंद्रकराहासं दर्शयन्ति कदाचन ॥ र्म्_15.139{38} ॥
तद् यद् अर्थं भवान् स्मितं दर्शयति मुनीश्वर ।
तद् अर्थं श्रोतुम् इच्छंति सर्वे लोका इमे ऽधुना ॥ र्म्_15.140{39} ॥
तद् भवां यत् समादेष्टुम् इछति सांप्रतं मुने ।
तद् धर्मं समुपादिश्य प्रसादयत्व् इमां सभां ॥ र्म्_15.141{40} ॥
इति तेन वशिष्येण प्रार्थिते स मुनीश्वरः ।
तम् आयुष्मन्तम् आनन्दं समामंत्र्यैवम् अब्रवीत् ॥ र्म्_15.142{41} ॥
एवम् एतत् सदानंद नाहेत्वप्रत्ययं स्मितं ।
संबुद्धा अपि ते सर्वे दर्शयन्ति कदा चन ॥ र्म्_15.143{42} ॥
यद् अर्थे स्मितम् आनंद दर्शितं सांप्रतं मया ।
तद् अर्थं संप्रवक्ष्यामि तच् छृणुध्वं समाहिताः ॥ र्म्_15.144{43} ॥
पश्यसि त्वं तदानंद श्रेष्ठिनानेन यन् मम ।
एवंविधं ससंघस्य सत्कारं श्रद्धया कृतं ॥ र्म्_15.145{44} ॥
एतत्पुण्यविपाकेन मयि चित्तप्रसादतः ।
अयं श्रीमान् महासत्वो बोधिसत्वो भवेत् सुधीः ॥ र्म्_15.146{45} ॥
ततः क्लेशविमुक्तात्मा परिशुद्धत्रिमंडलः ।
सूक्ष्मत्वग् इति विख्यातः प्रत्येकबुद्ध आत्मवित् ॥ र्म्_15.147{46} ॥
भविष्यति महाभिज्ञः संवृतिपरमार्थवित् ॥ र्म्_15.148{47!} ॥
एवम् एतत् महत्पुण्यवीजम् आराधितं मम ।
सासने श्रीमतानेन श्रद्धया बोधिचेतसा ॥ र्म्_15.149{48} ॥
बुद्धक्षेत्रे कृतं पुण्यं न क्षिणोति कदा चन ।
संबोधिसत्फलं दद्यान् नान्यद् धर्मफलं खलु ॥ र्म्_15.150{49} ॥
एवं महत्तरं पुण्यं बुद्धक्षेत्रेषु सत्कृतं ।
मत्वा तच्छरणं कृत्वा त्रिरत्नं भजतादरात् ॥ र्म्_15.151{50} ॥
ये बुद्दशरणं गत्वा भजन्ति सर्वदादरात् ।
ते सदा सद्गतिं याताश् चरंति बोधिसंवरं ॥ र्म्_15.152{51} ॥
ये धर्मं शरणं कृत्वा श्रुत्वा भजन्ति सादरं ।
सर्वे ते ऽक्लेशिनो भद्राः संप्रयान्ति जिनालयं ॥ र्म्_15.153{52} ॥
ये संघे शरणं गत्वा भजन्ति श्रद्धया सदा ।
न ते गच्छन्ति दुःखत्वं सदा यान्ति सुखावतीं ॥ र्म्_15.154{53} ॥
इति मत्वा तथा यूयं सदा नित्यं समाहिताः ।
त्रिरत्नशरणं कृत्वा भजध्वं श्रद्धयादरात् ॥ र्म्_15.155{54} ॥
तेन पुण्यविपाकेन यूयं सर्वे ऽपि सर्वथा ।
त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्स्यथ ॥ र्म्_15.156{55} ॥
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्यते ।
सर्वे ऽपि सांघिकाः सर्वे लोकाश् च संप्रमोदिताः ॥ र्म्_15.157{56} ॥
तथेति प्रतिसंश्रुत्य त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समाहिताः ॥ र्म्_15.158{57} ॥
सो ऽपि श्रेष्ठी तथा शास्त्रा समादिष्टं तदात्मनं ।
व्याकरणं समाकर्ण्य प्राभ्यनन्दत् प्रबोधितः ॥ र्म्_15.159{58} ॥
ततः प्रभृति स श्रीमांस् त्रिरत्नं शरणं गतः ।
सत्कृत्य श्रद्धया नित्यं सदा भेजे प्रमोदितः ॥ र्म्_15.160{59} ॥
ततः स भगवाञ् छास्ता ससांघिकः समुत्थितः ।
तथा सर्वत्र भद्राणि प्रकुर्वन् स्वाश्रमं ययौ ॥ र्म्_15.161{60} ॥
इत्य् एवं गुरुणाख्यातं तथा मयात्र कथ्यते ।
त्वम् अप्य् एवं महाराज श्रुत्वा धर्मं शुभे चर ॥ र्म्_15.162{61} ॥
प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य शुभे ऽभ्यव सदादरात् ॥ र्म्_15.163{62} ॥
तथा ते सर्वदा नित्यं मंगलं निरुपद्रवं ।
भवेन् नूनं महाराज सत्यम् एतत् प्रबुध्यतां ॥ र्म्_15.164{63} ॥
एतत्पुण्यविपाकेन दशपारमिता अपि ।
परिपूर्य्य क्रमेणैवं संबोधिम् अपि चाप्स्यै ॥ र्म्_15.165{64} ॥
एवं सत्यं परिज्ञाय त्रिरत्नं शरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भज बोधिं यदीछसि ॥ र्म्_15.166{65} ॥
इति तेनार्हता शास्त्रा समादिष्टं निशम्य सः ।
नृपस् तथेति संश्रुत्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_15.167{66} ॥
सूक्ष्मत्वचो ऽवदानं यत् तद् इदं ये नरा मुदा ।
सत्कृत्य श्रद्धया भक्त्या शृण्वन्ति श्रावयन्ति च ॥ र्म्_15.168{67} ॥
ते सर्वे सद्गतिं याता भुक्त्वा सौख्यानि सर्वदा ।
सद्धर्मं समुपाश्रित्य संप्रयान्ति जिनालयं ॥ र्म्_15.169{68} ॥
++ इति रत्नावदानतत्वे सूक्ष्मत्वचोऽवदानं समाप्तः ++
xवि प्रेतिकावदान
अथाशोको महाराजः कृताञ्जलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा पुनर् एव समब्रवीत् ॥ र्म्_16.1{1} ॥
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हसि ॥ र्म्_16.2{2} ॥
इति संप्रार्थितं तेन राज्ञा स यतिर् आत्मवित् ।
तम् अशोकं महीपालं समालोक्यैवम् आदिशत् ॥ र्म्_16.3{3} ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ र्म्_16.4{4} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता धर्मराजस् तथागतः ॥ र्म्_16.5{5} ॥
भिक्षुबिः श्रावकैः सार्द्धं चैलकैर् भिक्षुणीगणैः ।
उपासकैर् महाश्राद्धैस् तथा चोपासिकागणैः ॥ र्म्_16.6{6} ॥
बोधिसत्वगणैश् चापि सद्धर्मसाधनोद्यतैः ।
कृतकृत्यैर् महाभिज्ञैश् चतुर्ब्रह्मविहारकैः ॥ र्म्_16.7{7} ॥
राजगृहे पुरोपान्ते वेणुवने शुभाङ्किते ।
करण्डकनिवापाख्ये महोद्याने जिनाश्रमे ॥ र्म्_16.8{8} ॥
विहृत्य सर्वसत्वानां हितार्थेन सभाश्रितः ।
आदिमध्यान्ताकल्याणं धर्मम् आदेष्टुम् आरभत् ॥ र्म्_16.9{9} ॥
तदा सर्वे ऽपि देवेन्द्राः सदेवाः कमलासनः ।
सर्वे लोकाधिपाश् चापि यक्षगंधर्वकिन्नराः ॥ र्म्_16.10{10} ॥
सिद्धा विद्याधराः साध्या राक्षसा दानवाधिपाः ।
नागेंद्रा गरुडाश् चापि सजनपरिवारकाः ॥ र्म्_16.11{11} ॥
ऋषयो ब्रह्मणाश् चापि यतयो योगिनो ऽपि च ।
राजानो राजपुत्राश् च मंत्रिणो ऽपि च ॥ र्म्_16.12{12} ॥
अमात्याः सैन्यलोकाश् च सार्थवाहा महाजनाः ।
वणिजः शिल्पिनश् चापि गृहस्थाः पौरिका जनाः ॥ र्म्_16.13{13} ॥
ग्राम्या जानपदाश् चापि कार्पटिकाश् च नैर्गमाः ।
तथान्ये ऽपि समायाताः सद्धर्मगुणवांछिनः ॥ र्म्_16.14{14} ॥
तत्र सर्वे ऽपि ते लोका विहारे समुपागताः ।
तं मुनीन्द्रं समासीनं दृष्ट्वा नत्वा प्रमोदिताः ॥ र्म्_16.15{15} ॥
त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य यथाक्रमं ।
नत्वा साञ्जलयः सर्वे परिवृत्य समंततः ॥ र्म्_16.16{16} ॥
तत् सद्धर्मामृतं पातुं सुप्रसन्नमुखाम्बुजं ।
श्रीघनं तं समालोक्य समातस्थुः समाहिताः ॥ र्म्_16.17{17} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_16.18{18} ॥
तत् सद्धर्मामृतं पीत्वा लोकाः सर्वे ऽपि ते मुदा ।
संबोधिसाधनोत्साहाः प्रचेरिरे प्रमोदिताः ॥ र्म्_16.19{19} ॥
तस्मिन्न् अवसरे तत्र राजगृहान्तिके वने ।
वेणुवनान्तिके पंचप्रेतशतानि चेरिरे ॥ र्म्_16.20{20} ॥
नग्नान्य् अतिकृताङ्गानि दग्धस्थूणाकृतीनि वै ।
रोमवस्त्राणि रुक्षाणि शैलोपमोदराणि च ॥ र्म्_16.21{21} ॥
मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0