भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 121140

इदानीं सुगंधधूपेन पूजयेयं मुनीश्वरं ।
इत्य् उक्त्वा सर्वरत्नानि भार्यायां स न्यधापयेत् ॥ र्म्_12.265{63} ॥
ततो ऽसौ चागुरुं क्रीत्वा कार्षापणद्वयेन वा ।
गत्वा जेतवने विहारे तत्र द्वारे स्थितो गुरुम् अधूपयेत् ॥ र्म्_12.266{64} ॥
तत्रापत्रमानो ऽसौ संबुद्धशरणं गतः ।
कृतांजलिपुटो नत्वा संस्मरन् प्रार्थयत् तथा ॥ र्म्_12.267{65} ॥
भगवच् छास्तासि सर्वज्ञो विजानीया ममाशयं ।
तद्यथा मे प्रतिज्ञातैः पूरयितुं समर्हसि ॥ र्म्_12.268{66} ॥
अथासौ भगवान् तस्य मत्वाशयविशुद्धतां ।
महद् ऋध्यभिसंस्कारं चकार तत्प्रसादतः ॥ र्म्_12.269{67} ॥
येन स धूप आकाशे प्राभ्युद्गम्य पुरीं च तां ।
स्फुरित्वा खे पुनर् अभ्रकूटीभूत्वाभ्यशोभयत् ॥ र्म्_12.270{68} ॥
तत्रासौ सार्थभृद् दृष्ट्वा प्रातिहार्यं तद् अद्भुतं ।
महानंदप्रसंनात्मा पुनर् एवं व्यचिंतयत् ॥ र्म्_12.271{69} ॥
नैतन् मे प्रतिरूपं स्याद् यद् अयं सुगतो जिनः ।
मया नाभ्यर्चितो रत्नैर् धिग् मे चित्तभयाद् द्रुतं ॥ र्म्_12.272{70} ॥
यन्व् अहं सांप्रतं नाथं प्रार्थयित्वा ससांघिकं ।
सरत्नैः पूजयिष्यामि भोजनैश् च स्वके गृहे ॥ र्म्_12.273{71} ॥
इत्य् असौ निश्चयं कृत्वा कृतांजलिपुटो मुदा ।
संबुद्धसंमुखं गत्वा प्रणत्वैवं व्यजिज्ञपत् ॥ र्म्_12.274{72} ॥
भगवन् नाथ सर्वज्ञ क्षमस्व मे ऽपराधतां ।
भवतां पूजनां कर्तुम् इछामि मे प्रसीदतु ॥ र्म्_12.275{73} ॥
इत्य् एवं प्रार्थिते तेन स संबुद्धो मुनीश्वरः ।
तथेति प्रतिसंमोद्य तूष्णीभूत्वा व्यवस्थितः ॥ र्म्_12.276{74} ॥
ततो ऽसौ सार्थभृन् मत्वा सुगतेनाधिवासितं ।
प्रणत्वा च मुनेः पादौ सहसा स्वगृहं ययौ ॥ र्म्_12.277{75} ॥
तत्र स भार्य्यया सार्द्धं वंधुमित्र जनैर् अपि ।
प्रणीतं भोज्यपूजांगं साधयाम् आस सत्वरं ॥ र्म्_12.278{76} ॥
ततो भोज्यार्चनांगानि सज्जीकृत्य प्रमोदितः ।
विहारे सहसा गत्वा नत्वा तं प्रार्थयन् मुनिं ॥ र्म्_12.279{77} ॥
भगवन् नाथ संबुद्ध समयो ऽयं प्रवर्त्तते ।
तद् भवान् सांघिकैः सार्द्धं समागन्तुं समर्हति ॥ र्म्_12.280{78} ॥
इत्य् एवं प्रार्थिते तेन स संबुद्धः ससांघिकः ।
प्रतस्थे सूर्य्यवन् मार्गे प्रातिहार्यं प्रदर्शयन् ॥ र्म्_12.281{79} ॥
ततः क्रमात् पुरीं प्राप्य तद् गृहं समुपाविशत् ।
तद् दत्ते पाद्यं आदाय शुद्धासने न्यषीदत ॥ र्म्_12.282{80} ॥
ततस् तान् सांघिकान् सर्वान् संबुद्धप्रमुखान् क्रमात् ।
स्वस्वासनसमासीनान् दृष्ट्वा सम्यक् समर्चयत् ॥ र्म्_12.283{81} ॥
यथार्हं भोजनैर् वापि वर्णगन्धरसान्वितैः ।
संबुद्धप्रमुखान् संघान् संतर्प्य पर्यतोषयत् ॥ र्म्_12.284{82} ॥

ततश् च भोजनान्ते स शोधयित्वा भुजादिकं ।
अपनीय च पात्राणि ताम्बूलादीन् अढौकयत् ॥ र्म्_12.285{83} ॥
ततो यानि सुरत्नानि पूर्वसंकल्पतानि हि ।
एतैः सर्वं सुरत्नैस् तं संबुद्धैः समवाकिरन् ॥ र्म्_12.286{84} ॥
तानि रत्नानि सर्वाणि संबुद्धस्यानुभावतः ।
मुनेर् उपरि खे गत्वा छत्रीभूत्वा स्थिता वभौ ॥ र्म्_12.287{85} ॥
ततस् तं स गृही दृष्ट्वा द्विगुणसंप्रमोदितः ।
पादौ तस्य मुनेर् नत्वा प्रणिधानं व्यधात् तथा ॥ र्म्_12.288{86} ॥
अनेन दानधर्मेण पुण्येन कुशलेन च ।
भवेयं सुगतो बुद्धो लोके ऽन्धे ऽपरिणायके ॥ र्म्_12.289{87} ॥
अमुक्तो मोचयिष्यामि तारयिष्याम्य् अतारितान् ।
भीतान् आश्वास्य संबोधौ स्थापयिष्यामि निर्वृतौ ॥ र्म्_12.290{88} ॥
तथासौ भगवान् बुद्धस् तथाशयविशोधितं ।
संबोधौ निहितं चित्तं ज्ञात्वा स्मितं व्यधात् तथा ॥ र्म्_12.291{89} ॥
तदा तस्य मुनीन्द्रस्य मुखपद्माद् विनिर्गताः ।
पंचवर्णा विभासन्तो विनिश्चेरुः सुभानवः ॥ र्म्_12.292{90} ॥
ततस् ते भास्वराः सर्वे प्रविसृताः समंततः ।
केचिद् ऊर्द्धं गताः केचिन् मध्यं केचिद् रसातले ॥ र्म्_12.293{91} ॥
केचिद् अधो गता यास् ते सर्वे ते नरकेषु च ।
निपतंतो विभासन्तो प्रविसस्रुः समंततः ॥ र्म्_12.294{92} ॥
ये उष्णनरकास् तेषु शितीभूता विचेरिरे ।
ये शीतनरकास् तेषु न्यपतद् उष्णिकाश् च ते ॥ र्म्_12.295{93} ॥
ये ये तैः किरणैः स्पृष्टास् ते ते सर्वे सुखान्विताः ।
यदा ते सुखसंप्राप्तास् तदा ते विस्मयान्विताः ॥ र्म्_12.296{94} ॥
अहो नः सुखम् अद्यैवं कथम् एतद् व्यचिन्तयन् ।
किं नु वयम् इतश् च्युत्वा कुत्र यातास्म सांप्रतं ॥ र्म्_12.297{95} ॥
आहोस्विद् उपपन्नाः स्युर् अन्यत्र भुवनेष्व् अपि ।
इति संदेहिनां तेषां सत्वानां परिबोधने ॥ र्म्_12.298{96} ॥
भगवान् निर्मिते बुद्धं प्रेषयन् नरकान् प्रति ।
दृष्ट्वा तं निर्मितं मुनिं विस्मिता हर्षिताश् च वै ॥ र्म्_12.299{97} ॥
ते सर्वे नरका लोकाः संमील्य संवभाषिरे ।
न भवन्त इतश् च्युत्वा गतास्मान्यत्र भूमिषु ॥ र्म्_12.300{98} ॥
किंस् त्व् अयं नु महासत्वः ह्य् अपूर्वदर्शनः पुमान् ।
नूनम् अस्यानुभावेन दुःखानि समितानि च ॥ र्म्_12.301{99} ॥
तद् वयम् एनम् आनम्य वंदे मया प्रमुक्तये ।
इति संभाष्य ते सर्वे नत्वा तच् छरणं गताः ॥ र्म्_12.302{100} ॥
नमो बुद्धाय धर्माय संघायेति ववन्दिरे ।
इति ते निर्मिते तस्मिन् प्रसाद्य चित्तम् आरताः ॥ र्म्_12.303{1} ॥
सर्वपापविनिर्मुक्ता मर्त्यदेवालयं ययुः ।
एवं ते भानवः सर्वे सर्वत्र नरकेष्व् अपि ॥ र्म्_12.304{2} ॥

प्रोद्यन्ते नारकान् सर्वान् प्रत्याययुर् मुनेः पुरः ।
तथा तद् भानवश् चैवम् उपरिष्टां गता अपि ॥ र्म्_12.305{3} ॥
ते ऽपि सर्वे चतुर्लोकपालानां भुवनानि च ।
अवभास्य क्रमात् सर्वान् देवलोकान् अभासयन् ॥ र्म्_12.306{4} ॥
तथाकनिष्ठपर्यन्तं त्रैधातुकान् अभासयन् ।
एवं सर्वाश् च तान् सर्वान् अवभास्य समंततः ॥ र्म्_12.307{5} ॥
गाथाः प्रोद्घोषयन्तश् च प्रलयं सौगते वृषे ।
अनित्यं खलु संसारं दुःखशून्यं ह्य् अनात्मकं ॥ र्म्_12.308{6} ॥
तस्मात् मारं परित्यज्य गछध्वं शरणं मुनेः ।
निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ र्म्_12.309{7} ॥
मृत्युसैन्यं धुनीताशु नडागारं करी यथा ।
यो ऽप्य् अस्मिन् धर्मविनये ह्य् अप्रमत्तश् चरिष्यति ॥ र्म्_12.310{8} ॥
त्यक्त्वा जातिससंसारे दुःखस्यान्तं करिष्यति ॥ र्म्_12.311{9!} ॥
अथ ते भानवः सर्वे त्रैधातुभुवनेष्व् अपि ।
सर्वान् सत्वान् समुद्धृत्य पुनः प्रत्याययुर् मुनेः ॥ र्म्_12.312{10} ॥
अथ ते भानवः सर्वे भगवन्तं मुनीश्वरं ।
प्रदक्षिणत्रयं कृत्वा मूर्द्ध्नि चान्तर्दधुर् मुनेः ॥ र्म्_12.313{11} ॥
अथैतत् सभासीना लोकाः सर्वे ससांघिकाः ।
तत् तदद्भुतम् आलोक्य वभूवुर् विस्मयोद्धताः ॥ र्म्_12.314{12} ॥
अथानंदः समुत्थाय कृतांजलिपुटो मुदा ।
भगवन्तं गुरुं नत्वा पप्रछ स्मितकारणं ॥ र्म्_12.315{12!} ॥
भगवन् भवतो वक्त्रात् पंचवर्णाः सुभांसवः ।
विनिर्गता दिशः सर्वान् अवभास्य शता पुनः ॥ र्म्_12.316{13} ॥
भवान् हि सुगतो शास्ता संबुद्धो भगवञ् जिनः ।
निर्मदो निरहंकारः मानमात्सर्य्यवर्जितः ॥ र्म्_12.317{14} ॥
तद् भव भगवं कस्मात् स्मितैः करोति सांप्रतं ।
दृष्ट्वैवं तं स्मितं सर्वे इमे लोकाः प्रविस्मिताः ॥ र्म्_12.318{15} ॥
नाहेतुः सुगता बुद्धा अर्हन्तो विगतोद्धवाः ।
दर्शयन्ति स्मितं केचित् तत् केन भवतः स्मृतं ॥ र्म्_12.319{16} ॥
तद् एतद् धेतुम् इछन्ति श्रोतुं सर्वे इमे जनाः ।
तद् एतत् कारणं शास्तः समादेष्टुं समर्हति ॥ र्म्_12.320{17} ॥
इत्य् एवं प्रार्थिते तेन शिष्येणानंदयोगिना ।
तथेति प्रतिसंमोद्य तम् आनंदं वभाषत ॥ र्म्_12.321{18} ॥
एवम् एतत् तथानंद यथैव भाषसि त्वया ।
तत् स्मितं यदर्थं मे तद् वक्ष्ये शृणुतादरात् ॥ र्म्_12.322{19} ॥
पश्यानंद ममानेन सार्थवाहेन साधुना ।
एभी रत्नैश् च सत्कृत्य कृता पूजा स्वभक्तितः ॥ र्म्_12.323{20} ॥
अनेन कुशलेनैव सार्थवाहो महासुधीः ।
क्रमाद् बोधिचरीं प्राप्य पूर्य्य पारमिता दश ॥ र्म्_12.324{21} ॥
संबोधिपाक्षिकान् धर्मान् प्राप्य ब्रह्मविहारिकः ।

संबोधिं समवाप्यैवं जित्वा मारगणान् अपि ॥ र्म्_12.325{22} ॥
बुद्धो रत्नोत्तमो नाम सर्वज्ञो ऽर्हं तथागतः ।
धर्मराजो जगंनाथो लोके शास्ता भविष्यति ॥ र्म्_12.326{23} ॥
तद् अनुमोदनां कृत्वा सद्धर्मं भजतादरात् ।
धर्मेणैव जगज् जित्वा मारचर्याविनिर्गतः ॥ र्म्_12.327{24} ॥
भद्रचरी समासाद्य संबोधिपदम् आप्नुयात् ।
धर्निओ हि जगतां मित्रम् इहामुत्र समन्ततः ॥ र्म्_12.328{25} ॥
हितकारी सुहृद् इष्टः सर्वदापि सहानुगः ।
तस्माद् धर्मं समाधाय संचरध्वं समाहितः ॥ र्म्_12.329{26} ॥
तेन वा मंगलं नित्यं सर्वभावी भवेद् ध्रुवं ॥ र्म्_12.330{27} ॥
इति शास्त्रा समादिष्टं श्रुत्वानंदः सपार्षदः ।
तथेति मोदितस् तं च गुरुं नत्वा स नंदतः ॥ र्म्_12.331{28} ॥
सो ऽपि सार्थपतिश् चैव स्वकं व्याकरणं किल ।
मुनीन्द्रेण समादिष्टं श्रुत्वातीवाभ्यनंदतत् ॥ र्म्_12.332{29} ॥
ततश् चाभिप्रसन्नात्मा समुत्थाय कृतांजलिः ।
भगवंतं ससंघं तं प्रणत्वैवं व्यतिज्ञपत् ॥ र्म्_12.333{30} ॥
नमस् ते भगवन् नाथ सर्वधर्माधिपेश्वरः ।
भवतां शरणं कृत्वा भवाम्य् अहम् उपासकः ॥ र्म्_12.334{31} ॥
यन् मया प्रकृतं पापं कारितं चानुमोदितं ।
तत् सर्वं देशयिष्यामि तन् मे देहि शुभां चरिं ॥ र्म्_12.335{32} ॥
बोधौ चित्तं समाधाय त्रिरत्नं समुपाश्रये ।
क्षमस्व मे ऽपराधत्वं तन् मां रक्ष मुदा तथा ॥ र्म्_12.336{33} ॥
एवं तेनार्थितं श्रुत्वा स संबुद्धो ऽभ्यधात् पुनः ।
यथा ते ऽभिहितं साधो तथा संसेत्स्यते ध्रुवं ॥ र्म्_12.337{34} ॥
तस्माच् चित्तं समाधाय त्रिरत्नशरणं गतः ।
सर्वसत्वहितं कृत्वा बोधिचर्यां समाचर ॥ र्म्_12.338{35} ॥
ततस् त्वं क्रमतो ह्य् एवं पूर्य पारमिता द्रुतं ।
बोधिसत्वो महासत्वो भवेद् बोधिम् अवाप्नुयात् ॥ र्म्_12.339{36} ॥
एतत् सत्यं परिज्ञाय सद्धर्मं संप्रसाधय ।
तेन ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ॥ र्म्_12.340{37} ॥
जयो ऽस्तु ते सदा बोधौ सिद्ध्यतु प्रणिहितं द्रुतं ।
चिरं जीवं हितं लोके धर्मं धृत्वा सुखं वस ॥ र्म्_12.341{38} ॥
इत्य् असौ भगवान् बुद्धस् तस्मै दत्वाशिषं शुभां ।
संघैः सह समुत्थाय स्वं विहारं ययौ ततः ॥ र्म्_12.342{39} ॥
अथ सार्थपतिश् चासौ सदारः संप्रमोदितः ।
त्रिरत्नशरणं कृत्वा सद्धर्मेषु सदाचरत् ॥ र्म्_12.343{40} ॥
तथा सर्वे ऽपि सत्वाश् च श्रुत्वा तस्य प्रवृत्तितां ।
बोधिचित्तं समाधाय त्रिरत्नशरणं ययुः ॥ र्म्_12.344{41} ॥
एतत् मे गुरुणाख्यातं संश्रुतं यथा मया ।
तथात्रैवं तव प्रीत्या कथ्यते संप्रबुध्यतां ॥ र्म्_12.345{42} ॥

तथा राजन् त्वयाप्य् एवं स्वयं धृत्वा वृषं शुभे ।
बोधयित्वा प्रजाश् चापि स्थापनीयाः सदा शुभे ॥ र्म्_12.346{43} ॥
एवं चेत् ते सदाप्य् एवं सर्वत्रापि सुमंगलं ।
भवेन् नूनं महाराजन् सत्यम् एतन् न संशयः ।
धर्मेण निर्जितं पापं धर्मेण जीयते कुधीः ।
धर्मेण निर्जिता मारा धर्मेण बोधिम् आप्नुयात् ।
तस्माद् बोधिपदं प्राप्तुं यदीच्छथ नराधिपः ।
बोधिचित्तं समाधाय सदा रत्नत्रयं भज ।
तथा तं क्रमणो राज बोधिचर्य्याहिताय च ।
सर्वमारगणाम् जित्वा संबोधिम् आप्नुया ध्रुवं ।
एतत् तेनोपगुप्तेन गुरुणादिष्टं समादरात् ।
श्रुत्वा राजो तथेत्य् एवं प्रत्यनन्दन् सपार्षदः ।
ये शृण्वन्तीदम् एवं प्रणिहितमनसः सार्थवाहावदानं ।
ये चापि श्रावयन्ति प्रमुदितमनसः सर्वलोकहितार्थं ।
ते सर्वे बोधिसत्वा विजितकलिमलो बुद्धधर्मानुरक्ताः ।
संभुक्त्वा सत्सुखानि प्रथितगुणयुता बुद्धक्षेत्रे प्रयान्ति ।
++ इति श्रीरत्नमालावदानकथायां सार्थवाहोऽवदानं नाम द्वादश ++
xइइइ वडिकावदान
ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ।
यः श्रीमाञ् छ्रीघनो लोके सद्धर्मैः समुपादिशत् ।
शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ र्म्_13.1{1} ॥
अवदानतत्वं वक्ष्यामि नत्वा तं श्रीघनं गुरुं ।
पुराभूत् पाटलीपुत्रे नगरे स्वर्गसन्निभे ॥ र्म्_13.2{2} ॥
अशोको नृपराजेन्द्रस् त्रिरत्नसेवकः कृती ।
एकस्मिन् समये तत्र स राजा स्वजनैः सह ॥ र्म्_13.3{3} ॥
पौरिकैश् च सभां कृत्वा सद्धर्मं श्रोतुम् ऐच्छत ।
तदा स सौगतो भिक्षुर् उपगुप्तो जिनांशजः ॥ र्म्_13.4{4} ॥
लोकान् धर्मोत्सुकान् दृष्ट्वा समाधेः सहसोत्थितः ।
तत्सभायां समाक्रम्य सिंहासने शुभासने ॥ र्म्_13.5{5} ॥
भासयंस् तत्सभालोकांस् तस्थौ पूर्णसुधांशुवत् ।
अथाशोको महीपालः स मंत्रिपौरिकैः सह ॥ र्म्_13.6{6} ॥
पूजाङ्गैः पूजयित्वा तम् उपगुप्तम् अवन्दत ।
स्थित्वा भूमौ स्वजानुभ्याम् उत्तरासङ्गम् उद्वहन् ॥ र्म्_13.7{7} ॥
कृताञ्जलिः पुटो नत्वा पुनर् एवम् अभाषत ।
भदन्त श्रोतुम् इच्छामि सद्धर्मं सुखसंप्रदं ॥ र्म्_13.8{8} ॥
यथोक्तं श्रीमुनीन्द्रेण तथा देष्टुं च मे ऽर्हति ।
एवं तेन महीन्द्रेण प्रार्थिते स यतीश्वरः ॥ र्म्_13.9{9} ॥
उपगुप्तो नरेन्द्रं तं समामन्त्र्यैवम् अब्रवीत् ।
साधु सुष्ठु महाराज शृणु सद्धर्मम् आदरात् ॥ र्म्_13.10{10} ॥
यथा मे गुरुणा ख्यातं तथा वक्ष्यामि ते हिते ।

पुरा स भगवान् बुद्धः शक्यसिंहो शुभाकरः ॥ र्म्_13.11{11} ॥
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ।
सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ॥ र्म्_13.12{12} ॥
मारजिल् लोकविन् नाथो विनायकस् तथागतः ।
श्रावस्त्यां जेतकारण्ये महोद्याने मनोरमे ॥ र्म्_13.13{13} ॥
अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ।
नानावृक्षसमाकीर्णे नानापुष्पप्रशोभितैः ॥ र्म्_13.14{14} ॥
नानाफलभरानम्रैः कल्पवृक्षसमानिकैः ।
अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पालादिभिः ॥ र्म्_13.15{15} ॥
सुपुष्पैः परिपूर्णाभिः पुष्करिणीभिर् आश्रिते ।
नानाजन्तुगुणैश् चापि मिथः स्नेहानुवन्धितैः ॥ र्म्_13.16{16} ॥
नानापक्षिगणैश् चापि संहर्षैर् उपसेविते ।
तस्मिं दिव्यमनोरम्ये मुनिसंघनिषेविते ॥ र्म्_13.17{17} ॥
पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ।
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः ॥ र्म्_13.18{18} ॥
सर्वसत्वहितार्थेन तस्थौ धर्म्मं प्रकाशितुं ।
एवं तत्र सभासीनं संबुद्धं धर्मभाषिणं ॥ र्म्_13.19{19} ॥
दृष्ट्वा धर्मामृतं पातुं सर्वलोकाः समाययुः ॥ र्म्_13.20{19!} ॥
दैवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः ।
ग्रहा विद्याधराः साध्या नागेंद्रा गरुडा अपि ॥ र्म्_13.21{20} ॥
सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः ।
यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः ॥ र्म्_13.22{21} ॥
ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः ।
अमात्याः कोट्टवाराश् च सार्थवाहा महाजनाः ॥ र्म्_13.23{22} ॥
शिल्पिनो वणिजश् चापि गृहस्थाः पौरिका जनाः ।
तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि ॥ र्म्_13.24{23} ॥
एवम् अन्ये ऽपि सत्वाश् च सर्वजातिसमुद्भवाः ।
पूजापंचोपहाराणि गृहीत्वा भक्तिमानसा ॥ र्म्_13.25{24} ॥
सद्धर्मं श्रद्धया श्रोतुम् अनुमोद्य समाययुः ।
तत्र सर्वे प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं ॥ र्म्_13.26{25} ॥
वन्दित्वानन्दिताः सर्वे पूजां चक्रुर् यथाक्रमं ॥ र्म्_13.27{26!} ॥
ततो नत्वा समासीनाः परिवृत्य प्रमोदिताः ।
धर्म्मं श्रोतुं पुरस्कृत्य तस्थुः साञ्जलयो मुदा ॥ र्म्_13.28{27} ॥
अथ स भगवान् दृष्ट्वा तांल् लोकान् धर्मवाञ्छिनः ।
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ र्म्_13.29{28} ॥
एवं स भगवान् नित्यं सर्वसत्वहितार्थिकः ।
धर्मं प्रकाशयं लोके तस्थौ दीप्तांशुमान् इव ॥ र्म्_13.30{29} ॥
तस्मिन्न् अवसरे तत्र श्रावस्त्यां पुरिसंभवः ।
आढ्यः श्रेष्ठी महाभोगः सुविस्तीर्णपरिग्रहः ॥ र्म्_13.31{30} ॥
श्राद्धो भद्राशयो धीरः सर्वलोकसुहृत्प्रियः ।

तीर्थिकसेवको मानी वभूव श्रीमदान्वितः ॥ र्म्_13.32{31} ॥
तदा स सुन्दरीभार्यां कुलधर्मसमानिकां ।
आदाय रतिसंरक्तो रेमे नित्यं यथासुखं ॥ र्म्_13.33{32} ॥
तस्यैवं रममाणस्य भार्या साभूत् सुगर्भिणी ।
ततः प्रवृद्धगर्भा सा पाण्डुवर्णा व्यराजत ॥ र्म्_13.34{33} ॥
ततः सा गर्भसंजातं पुत्रं तस्याम् उपाश्रितं ।
पुत्रं मत्वाभिनंदंती भर्त्तारम् एवम् अब्रवीत् ॥ र्म्_13.35{34} ॥
स्वामिन् गर्भे प्रजातो मे यत् कुक्षौ दक्षिणाश्रितः ।
दारको ऽयं भवेत् पुत्रः नूनं तस्मात् प्रमोदय ॥ र्म्_13.36{35} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रहर्षितः ।
गर्भे स व्याश्रितं दृष्ट्वा मुदैवं समुदानयत् ॥ र्म्_13.37{36} ॥
वत मे जायते पुत्रस् तद् अहं भाग्यवान् भवे ।
पुत्रमुखं हि पश्येयं वंशस्थितिर् भवेद् अपि ॥ र्म्_13.38{37} ॥
यन् मम विद्यते पुण्यं दानशीलादिसंचितं ।
तेनानयोर् द्वयोर् अस्तु जननीपुत्रयोः शिवं ॥ र्म्_13.39{38} ॥
एवं प्रोक्त्वा गृहस्थः स श्रद्धया संप्रमोदितः ।
भिक्ष्वर्थिब्राह्मणेभ्यश् च ददौ दानं यथेप्सितं ॥ र्म्_13.40{39} ॥
कुलेष्टदेवताश् चापि समभ्यर्च्य यथाविधि ।
तच् छुभं प्रार्थयन् नित्यं तस्थौ पुत्रसमुत्सुकः ॥ र्म्_13.41{40} ॥
ततः सा भद्रिका नारी पथ्योपचारभोगिनी ।
असूत समये पुत्रं सुंदरं लक्षणान्वितं ॥ र्म्_13.42{41} ॥
ततः स जनकः श्रुत्वा संप्रजातं सुतं मुदा ।
सहसा समुपास्रित्य ददर्श तं ससुंदरं ॥ र्म्_13.43{42} ॥
दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरं ।
दृष्ट्वापि सुचिरं पश्यन्न् एव तस्थाव् अतृप्तितः ॥ र्म्_13.44{43} ॥
ततो जातिमहं कृत्वा तस्य पित्रा प्रसादिना ।
वडिक इति नाम्ना प्रख्यापितो ऽभूत् स दारकः ॥ र्म्_13.45{45!} ॥
ततः स वालको ऽष्टाभ्यो धात्रीभ्यः प्रतिपालने ।
मानयित्वानुसंभाष्य पित्रा समर्पितो ऽभवत् ॥ र्म्_13.46{46} ॥
तथा स वडिको वालो ऽष्टाभिर् धात्रीभिर् आदरात् ।
पाल्यमानः प्रवृद्धो ऽभूत् ह्रदस्थम् इव पंकजं ॥ र्म्_13.47{47} ॥
यदा स दारकः पंचवर्षितो ऽभून् मदान्वितः ।
तदा विद्योपलब्धार्थी लिपिशालाम् उपाविशत् ॥ र्म्_13.48{48} ॥
तत्र स सद्गुरुं नत्वा क्रमाल् लिपीन् मुदाग्रहीत् ।
गुरुभक्तिप्रसादेन लिपिपारं ययौ लघु ॥ र्म्_13.49{49} ॥
ततः स गुरुभिः सम्यच् छिष्यमाणः सुबुद्धिमान् ।
अधीत्य सर्वशास्त्राणि विद्यापारं ययौ लघु ॥ र्म्_13.50{50} ॥
तदा तद् वडिकस्यापि पूर्वकर्मविपाकतः ।
देहे कस्मात् समुत्पन्नो महाव्याधिः पराक्रमत् ॥ र्म्_13.51{51} ॥
तदा स व्याधिना तेन पीड्यमानो ऽभिमूर्छितः ।

असह्यवेदनाक्रान्तो विरुराव दिवानिशं ॥ र्म्_13.52{52} ॥
तथा तं व्याधिनाघ्रातम् असह्यवेदनातुरं ।
क्रन्दन्तं स पिता दृष्ट्वा कृपयैवं व्यचिंतयत् ॥ र्म्_13.53{53} ॥
हा मे दैवविरुद्धेन पुत्रो ऽयं व्याधिमूर्छितः ।
असह्यवेदनाक्रान्तो भोक्तुम् अपि न वाञ्छति ॥ र्म्_13.54{54} ॥
अवश्यं मरणं यायात् कथं जीवेद् अभुक्तवान् ।
मृते पुत्रे मरिष्ये ऽहं स्नेहदुःखं कथं सहे ॥ र्म्_13.55{55} ॥
इति चिन्ताव्यथाक्रान्तो भोग्ये ऽपि विरतोत्सवः ।
तम् एव स्वात्मजं पश्यंस् तस्थौ स्नेहाभिवन्धितः ॥ र्म्_13.56{56} ॥
मातापि तं सुतं दृष्ट्वा स्नेहदुःखाग्नितापिता ।
मृत्युशंका परित्रस्ता रुदन्ती समुपाचरत् ॥ र्म्_13.57{57} ॥
तदा तस्य सुहृन्मित्रवांधवाः समुपागताः ।
सर्वे ते रोगिणं दृष्ट्वा स्नेहार्त्ता एवम् अब्रुवन् ॥ र्म्_13.58{58} ॥
किं भो स्वस्थं न ते देहे भोक्तुं किं वा न वाञ्छसि ।
भुंक्ष्व यथेप्सितं पथ्यं तिष्ठ धैर्यं समाश्रयन् ॥ र्म्_13.59{59} ॥
इति प्रोक्ते ऽपि तैः सर्वैः स वडिको ज्वरान्वितः ।
दृष्ट्वैव तान् मुहुः पश्यन् नैव किञ्चिद् अभाषत ॥ र्म्_13.60{60} ॥
ततः सर्वे ऽपि ते दृष्ट्वा तं वडिकं रुजातुरं ।
मृत्युशंकाविषादिग्धं पितरं तं तथावदन् ॥ र्म्_13.61{61} ॥
साधो ऽस्य वर्द्धते रोगस् तद् रोगव्युपाशान्तये ।
सहसा वैद्यम् आहूय दर्शयस्व समाहितः ॥ र्म्_13.62{62} ॥
उपदिष्टं यथा तेन वैद्येन सुधिया तथा ।
परिचर्य्यां समाधाय कुरूपचारम् आदरात् ॥ र्म्_13.63{63} ॥
तथा पथ्योपचारेण सिद्धौषध्यसहैर् अपि ।
क्रमाद् अस्य शरीरस्थो रोगः शान्तिं व्रजेद् ध्रुवं ॥ र्म्_13.64{64} ॥
ततस् ते ऽयं सुतो भद्रः परिपुष्टतनुःकृती ।
स्वकुलधर्मम् आधाय सुखं जीवेच् छुभे चरन् ॥ र्म्_13.65{65} ॥
इति मत्वा महाभाग मा कृथास् तद् विषादनं ।
धैर्यम् आलम्व्य देवांश् च स्मृत्वा भुक्त्वा सुखं वस ॥ र्म्_13.66{66} ॥
इत्य् एवं समुपादिश्य तद् गृहस्थात् समुत्थिताः ।
सर्वे ते स्नेहदुःखार्त्ताः स्वस्वगेहम् उपाचरत् ॥ र्म्_13.67{67} ॥
ततः स गृहभृत् तस्य पुत्रस्य रोगशांतये ।
सद्वैद्यं समुपाहूय सादरं समदर्शयत् ॥ र्म्_13.68{68} ॥
तस्य रोगनिमित्तं स वैद्यो दृष्ट्वा समीक्ष्य च ।
पथ्यौषध्युपचारेण समाहित उपाचरत् ॥ र्म्_13.69{69} ॥
तथापि तस्य तद्रोगः परिवृद्धो दिने दिने ।
केनापि ह्य् उपचारेण नैव शान्तिम् उपाययौ ॥ र्म्_13.70{70} ॥
तद्रोगं वर्द्धितं दृष्ट्वा जनकः स विषादितः ।
भूतिकं सहसाहूय रोगहेतुम् अपृच्छत ॥ र्म्_13.71{71} ॥
ततः स भूतिको दृष्ट्वा तस्य रोगप्रशान्तये ।

स भूतदेवताभ्यश् च वलिं प्रादाद् यथाविधि ॥ र्म्_13.72{72} ॥
तथापि वृंहितो रोगस् तस्य कर्मविपाकतः ।
किञ्चिद् अपि विशेषेण नैव शान्तिम् उपाययौ ॥ र्म्_13.73{73} ॥
ततः स जनको दृष्ट्वा तद् रोगं परिवर्द्धितं ।
आयुर्विदम् उपामंत्र्य रोगहेतुम् अपृच्छत ॥ र्म्_13.74{74} ॥
स अयुर्विदको दृष्ट्वा तस्य ग्रहदशाफलं ।
कुदशाव्युपशान्त्यर्थं ग्रहपूजाम् उपादिशत् ॥ र्म्_13.75{75} ॥
तथा स जनकस् तस्य रोगिणो ग्रहशान्तये ।
ब्राह्मणं समुपामन्त्र्य ग्रहपूजाम् अकारयत् ॥ र्म्_13.76{76} ॥
तथापि तस्य तद्रोगो वर्द्धितो न शमं ययौ ।
दैवेन समुपाघ्राते तदुपाये न सिद्ध्यते ॥ र्म्_13.77{77} ॥
तथा स जनकस् तस्य पुत्रस्य रोगवृद्धितं ।
दृष्ट्वा निराशया भिन्नचित्तो मूर्च्छाम् उपाययौ ॥ र्म्_13.78{78} ॥
तदा सा सुप्रिया भार्या भर्त्तारं तं विमोहितं ।
दृष्ट्वैव समुपागृह्य समाश्वास्यैवम् अब्रवीत् ॥ र्म्_13.79{79} ॥
स्वामिन् धैर्य्यं समालम्ब्य त्यज चित्ते विमोहतां ।
किम् अस्माकं प्रयत्नेन दैवस्यात्र प्रमाणिके ॥ र्म्_13.80{80} ॥
सर्वथा भाविनो भावाः फलंति सर्वजीविनां ।
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ॥ र्म्_13.81{81} ॥
तस्माद् दैवप्रसादाय स्वकुलेशेष्टदेवताः ।
अनुस्मृत्य समाराध्य याचस्व पुत्रजीवितं ॥ र्म्_13.82{82} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो ऽनुमोदितः ।
कुलदेवं समभ्यर्च्य प्रार्थयद् एवम् आदरात् ॥ र्म्_13.83{83} ॥
प्रसीद मे कुलेश त्वं क्षमस्व ह्य् अपराधतां ।
तवैव शरणस्थो ऽहं तन् मे पुत्रं प्ररक्षतां ॥ र्म्_13.84{84} ॥
एवं तेन गृहस्थेन प्रार्थिते ऽपि दिवानिशं ।
तस्य रोगो विवृद्धो ऽभून् नैव शाम्यम् उपाक्रमत् ॥ र्म्_13.85{85} ॥
तथा ब्रह्मादिदेवांश् च सर्वान् लोकाधिपान् अपि ।
विहारमण्डपारामक्षेत्रारण्यसमाश्रितान् ॥ र्म्_13.86{86} ॥
नदीकूपतडागादिजलाश्रयप्रतिस्थितान् ।
बलिभोक्तॄन् कलंकस्थान् मार्गशृङ्गाटकाश्रितान् ॥ र्म्_13.87{87} ॥
एवम् अन्यत्र सर्वत्र प्रतिस्थितान् समर्चयन् ।
पुत्रस्यारोग्यकौशल्यं जीवितं स समर्थयन् ॥ र्म्_13.88{88} ॥
तथापि तस्य रोगो न शमितो ऽभूत् प्रवर्द्धितः ।
ततस् तं जनको दृष्ट्वा निराशा मूर्छितो ऽपतत् ॥ र्म्_13.89{89} ॥
तदा स वडिको रोगी पितरं तं विमूर्छितं ।
पृथिव्यां पतितं दृष्ट्वा शनैर् नीचस्वरो ऽवदत् ॥ र्म्_13.90{90} ॥
हा हा मे जावते पापं येनायं पतितः पिता ।
स्नेहदुःखाग्निसंतप्तः पुत्रतो मरणं व्रजेत् ॥ र्म्_13.91{91} ॥
हा तातोत्तिष्ठ मां पश्य मा त्यजात्मजं आतुरं ।

धैर्य्यम् आलम्व्य संधाय रक्ष मां समुपस्थितः ॥ र्म्_13.92{92} ॥
इत्य् असौ विलपन् पुत्रः पितरं तं विमूर्छितं ।
दृष्ट्वा भोजनकेत्य् अश्रु मुञ्चंस् तस्थौ निराश्रितः ॥ र्म्_13.93{93} ॥
तदा सा सुप्रिया भार्य्या भर्त्तारं तं विमूर्छितं ।
दृष्ट्वैव सहसालिंग्य समुत्थाप्यैवम् अब्रवीत् ॥ र्म्_13.94{94} ॥
स्वामिन् धैर्यं समालंब्य पश्य मां ते प्रियं सतीं ।
त्यक्त्वा दैन्यं समाधाय पश्यन् रक्षात्मकं प्रियं ॥ र्म्_13.95{95} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो समुत्थितः ।
दृष्ट्वा तां सुप्रियां भार्यां पुत्रं चैवम् अभाषत ॥ र्म्_13.96{96} ॥
हा दैव किं मया पापं प्रकृतं दारुणं पुरा ।
येनायं सुकृती पुत्रः त्यक्त्वा मां क्व प्रयास्यति ॥ र्म्_13.97{97} ॥
हा हा मे संपदश् चैताः समृद्धाः समुपार्जिताः ।
को नु भोक्ता भवेद् आसां व्यर्थं नक्ष्यन्ति सर्वशः ॥ र्म्_13.98{98} ॥
किम् अत्राहं करिष्यामि यास्यामि शरणं च कं ।
को नु मां सहसा रक्षेद् दत्वा पुत्रस्य जीवितं ॥ र्म्_13.99{99} ॥
किम् अत्रास्य रुजः शान्त्यै करिष्यामि प्रतिक्रियां ।
न जाने परिमूढो ऽस्मि चेतना मे न विद्यते ॥ र्म्_13.100{100} ॥
इति चिन्तापरीतात्मा पुत्रस्नेहविमोहितः ।
कारुणाकुलचित्तो ऽपि पुनर् एवं व्यचिन्तयत् ॥ र्म्_13.101{101} ॥
यद् इमे तीर्थिका विज्ञा भगवन्तो विचक्षणाः ।
सर्वज्ञाः सद्गुणाधाराः शास्तारो मे हितंकराः ॥ र्म्_13.102{102} ॥
तत् तान् सर्वान् समामंत्र्य गृहे भोक्ष्यैः समर्चयन् ।
इमं पुत्रं पुरः स्थाप्य दर्शयेयं शुभाप्तये ॥ र्म्_13.103{103} ॥
तत् सुदृष्टिप्रसादेन नूनम् अस्य भवेच् छुवं ।
ततो हि क्रमशो रोगाः शाम्येयुः सर्वथा लघु ॥ र्म्_13.104{104} ॥
तदायम् आत्मजः पुष्टो न रोगी सुतनुः सुखी ।
कृती शुभरतो भोगी कुलधर्मे समाचरेत् ॥ र्म्_13.105{105} ॥
इति निश्चित्य स श्रेष्ठी तत्र तीर्थ्याश्रमे गतः ।
तान् सर्वांस् तीर्थिकान् नत्वा प्रार्थयेद् एवम् आदरात् ॥ र्म्_13.106{106} ॥
नमो वो ब्रह्मविज्ञेभ्यो भवतां शरणं व्रजे ।
विज्ञप्यते यद् अर्थं तद् अनुग्रहीतुम् अर्हत ॥ र्म्_13.107{107} ॥
इति तेनोदितं श्रुत्वा तीर्थिकास् ते ऽभिमानिकाः ।
सर्वे तं समुपामंत्र्य प्रमोदयितुम् अब्रुवन् ॥ र्म्_13.108{108} ॥
साधु वद महासाधो यत् ते कार्यं समीहितं ।
तत् सर्वं सर्वथास्माभिः कृतम् एवं करिष्यते ॥ र्म्_13.109{109} ॥
इति तैस् तीर्थिकैः प्रोक्ते स श्रेष्ठी संप्रसादितः ।
कृताञ्जलिपुटो नत्वा पुनर् एवम् अभाषत ॥ र्म्_13.110{110} ॥
भगवन्तो महाविज्ञा भवन्तो गुरवो मम ।
तत् सर्वं प्रतिजानीत यद् अर्थं समुपाचरे ॥ र्म्_13.111{111} ॥
तथापि चार्थयिष्ये ऽत्र यन् मे कष्टं प्रवर्त्तते ।

तद् वो विज्ञापनं कर्तुं भवतः शरणं व्रजे ॥ र्म्_13.112{112} ॥
यन् मया प्रकृतं पापं तेन मे स्वात्मजाधुना ।
रोगैः संपीड्यते ऽतीवनिःस्वस्थो मरणं व्रजेत् ॥ र्म्_13.113{113} ॥
नानास्वस्तिविधानैर् हि तस्य रोगो न शाम्यति ।
भिषजां कृतयत्नानि न सिद्ध्यन्ति कथं चन ॥ र्म्_13.114{114} ॥
अनेका देवताश् चापि प्राभ्यर्च्य प्रार्थितो मया ।
तथापि शाम्यते नैव तस्य रोगो विवर्द्धितः ॥ र्म्_13.115{115} ॥
यथा यथा रुजाशान्तिस्वस्त्युपायकृतानि हि ।
तथा तथा न तद्रोगः प्रशाम्यति प्रवर्द्ध्यते ॥ र्म्_13.116{116} ॥
किम् उपायं करिष्यामि केन शाम्येत तद्गदः ।
तद् उपायं प्रदातव्यं येनाशु शाम्यते क्रमात् ॥ र्म्_13.117{117} ॥
इति विज्ञापनां कर्तुं भवतां शरणं व्रजे ।
तन् मे ऽनुकम्पयासु नो रोगशान्तिर् विधीयतां ॥ र्म्_13.118{118} ॥
भवन्तो मे ऽनुशास्तारः सर्वज्ञा ब्रह्मचारिणः ।
तन् मे सुकृपया दृष्ट्या परित्रातुं समर्हत ॥ र्म्_13.119{119} ॥
इति तेनार्थितं श्रुत्वा सर्वे ते तीर्थिका अपि ।
श्रेष्ठिनं तं समामंत्र्य पुनर् एवं समब्रुवन् ॥ र्म्_13.120{120} ॥
शृणु साधो यद् अस्माभिर् हितार्थं ते प्रचक्ष्यतां ।
तत् सत्यं नः परिज्ञाय प्रमाणीक्रियतां किल ॥ र्म्_13.121{121} ॥
वयं हि सर्वलोकानां शास्तारो हितसाधकाः ।
तस्माद् अत्र विषादत्वं मा कृथा धैर्यम् आश्रय ॥ र्म्_13.122{122} ॥
अद्यैव सहसा गत्वा वयं दृष्ट्वा तवात्मजं ।
निःपापं नीरुजं स्वास्थ्यं करिष्यामः सुजीवितं ॥ र्म्_13.123{123} ॥
अप्य् एतद् वचनं सत्यं श्रुत्वा दृष्ट्वा प्रमाणय ।
अन्यथा न भवेत् क्वापि ह्य् अस्माकं ब्रह्मचारिणां ॥ र्म्_13.124{124} ॥
इति तैस् तीर्थिकैः प्रोक्तं श्रुत्वा स गृहसत्तमः ।
तथेति प्रतिहर्षित्वा नत्वा तान् स्वगृहं ययौ ॥ र्म्_13.125{125} ॥
तत्र स गृह आसाद्य दासिदासजनैः सह ।
तदर्हभोज्यपूजाङ्गसामग्रीं समसाधयत् ॥ र्म्_13.126{126} ॥
तस्मिन्न् एव क्षणे तत्र सर्वे ते तीर्थिका मुदा ।
सहसा समुपागत्य स्वस्वासने उपाविशत् ॥ र्म्_13.127{127} ॥
तथा तान् समुपासीनान् दृष्ट्वा श्रेष्ठी स मोदितः ।
पूजाङ्गैः क्रमतो ऽभ्यर्च्य भोजनैः समतोषयत् ॥ र्म्_13.128{128} ॥
ततश् च भोजनान्ते स वडिकं तं प्रियात्मजं ।
रोगिणं समुपाहृत्य तेषां पुरो ऽभ्यदर्शयत् ॥ र्म्_13.129{129} ॥
ते सर्वे तीर्थिका दृष्ट्वा वडिकं तं रुजान्वितं ।
तदामयनिमित्तं च निरीक्ष्यैवम् उपादिशत् ॥ र्म्_13.130{130} ॥
अहो ह्य् अस्य महारोगं महापातकसंभवं ।
तत्पातकविमुक्त्यै तु दातव्यं दानम् आदरात् ॥ र्म्_13.131{131} ॥
तद्यथा नवरत्नानि हेमलक्षपलानि च ।

श्रद्धया ब्रह्मचारिभ्यः संप्रदद्यात् समर्चयन् ॥ र्म्_13.132{132} ॥
यद्य् एतद् दीयते दानं त्वया गृहपते तथा ।
भग्नकुष्माण्डदरिनमहिषीशतदक्षिणा ॥ र्म्_13.133{133} ॥
पुरा दत्ता नंदराज्ञा अस्माकं ब्रह्मचारिणां ।
पादस्फोटामयस् तस्य शांतो ऽभूत् तत्प्रभावतः ॥ र्म्_13.134{134} ॥
तथास्य सर्वपापानि विनक्ष्यन्ति न संशयः ।
ततः सर्वे ऽपि रोगाश् च विनक्ष्यन्ति क्रमाद् द्रुतं ॥ र्म्_13.135{135} ॥
ततो रोगैर् विमुक्तो ऽयं कुशली स्वास्थ्यम् आप्नुयात् ।
ततः पुष्टो विशुद्धाङ्गः सुशीलः सुकृती सुधीः ।
स्वकुलाचारधर्मिष्ठो वंशांश् चापि समुद्धरेत् ॥ र्म्_13.136{136} ॥
इति मत्वा त्वया साधो दातव्यं दानम् आदरात् ।
अन्यथा न भवेत् स्वस्ति तवास्य नंदनस्य च ॥ र्म्_13.137{167} ॥
इति तैर् गदितं श्रुत्वा स श्रेष्ठी परिबोधितः ।
तस्यात्मजस्य त्राणार्थं तथा दातुम् उदाचरत् ॥ र्म्_13.138{[138]} ॥
ततः स पुनर् अभ्यर्च्य तान् सर्वान्स् तीर्थिकान् पतीन् ।
प्रददौ नवरत्नानि स्वर्णलक्षपलानि च ॥ र्म्_13.139{139} ॥
ततस् ते तीर्थिकाः सर्वे दृष्ट्वा तानि प्रमोदिताः ।
सर्वान्य् अपि प्रतिगृह्य तथाशीर्वचनं ददुः ॥ र्म्_13.140{140} ॥
स्वस्त्य् अस्तु ते सदा साधो कल्याणम् अस्तु सर्वथा ।
नीरोगी सुचिरं जीव्या जयो ऽस्तु ते समन्ततः ॥ र्म्_13.141{141} ॥
एतद् एव समादिश्य सर्वे ते तीर्थिकास् ततः ।
तानि सर्वाणि वस्तूनि प्रतिगृह्याश्रमं ययुः ॥ र्म्_13.142{142} ॥
तथापि तस्य रोगा न शमिता वर्द्धिताः क्रमात् ।
स्वदैवफलभोग्यानि भोक्तव्यानि हि सर्वथा ॥ र्म्_13.143{143} ॥
ततस् तज् जनको दृष्ट्वा स्वात्मजं तं रुजातुरं ।
निराशामूर्छितो भूमौ निपतं व्यलपत् तथा ॥ र्म्_13.144{144} ॥
हा दैव किं मया पापं दारुणं प्रकृतं पुरा ।
यतो ऽयं स्वात्मजः पुत्रः पुरो मे मरणं व्रजेत् ॥ र्म्_13.145{145} ॥
कृतान्य् उपाययत्नानि दानानि विविधानि च ।
सर्वाण्य् एतानि मत्पापैर् निस्फलानि भवन्ति हि ॥ र्म्_13.146{146} ॥
किं मयात्रापि कर्त्तव्यं को ऽत्र मे हितम् आदिशेत् ।
सर्वथाहं विनष्टो ऽस्मि को ऽपि त्राता न विद्यते ॥ र्म्_13.147{147} ॥
कस्यात्र शरणं यास्ये को नो रक्षेद् दयादृशा ।
सर्वे वयं विनष्टास्म हा दैव शरणं व्रजे ॥ र्म्_13.148{148} ॥
इत्य् एवं विलपंतं तं जनकं वडिको ऽपि सः ।
दृष्ट्वा शनैः समाहूय पुर एवम् अभाषत ॥ र्म्_13.149{149} ॥
भो तात किं त्वयात्रापि कर्त्तव्यं हि मयापि च ।
सर्वेषाम् अपि जन्तूनां दैवगतिः प्रमाणिका ॥ र्म्_13.150{150} ॥
इति मत्वा विषादत्वं हृदये मा कृथास् त्यज ।
संबुद्धशरणं कृत्वा भज नित्यम् अनुस्मरन् ॥ र्म्_13.151{151} ॥

बुद्ध एव जगच्छास्ता त्राता लोकहितंकरः ।
दुर्गतितारको नाथो भर्त्ता सद्गतिनायकः ॥ र्म्_13.152{152} ॥
तद् एवं सुगतं स्मृत्वा सद्धर्मं समुपाश्रयन् ।
संघानां भजनं कृत्वा चिनु पुण्यं समाहितः ॥ र्म्_13.153{153} ॥
त्रिरत्ने साधितं पुण्यं न क्षिणुयात् कदा चन ।
यदि दैवाद् विपत्तिः स्यात् पुण्यं तु लभते वरं ॥ र्म्_13.154{154} ॥
पुण्येन रक्ष्यते लोकः पुण्येन सद्गतिं व्रजेत् ।
तस्मात् पुण्यं महारत्नं चिनु धैर्यं समाश्रयन् ॥ र्म्_13.155{155} ॥
अवश्यमरणे लोके किं विषादेन सिद्ध्यते ।
इति मत्वापि तं बुद्धं स्मृत्वा भज समाहितः ॥ र्म्_13.156{156} ॥
तथाहं वा तम् एवात्र संबुद्धं शरणं व्रजन् ।
संस्मृत्वा भजनं कुर्वन् व्रजेय मरणं ध्रुवं ॥ र्म्_13.157{157} ॥
यदि तस्य जिनेन्द्रस्य कृपास्ति मयि पापिनि ।
तत्कृपादृक्प्रसादेन जीवेय नीरुजः पुनः ॥ र्म्_13.158{158} ॥
यदि दैवबलेनाहं मृते तत्स्मृतिपुण्यतः ।
सर्वथा दुर्गतिं त्यक्त्वा सद्गतिं पुनर् आप्नुयां ॥ र्म्_13.159{159} ॥
एवं ज्ञात्वा त्वया तात मा क्रियतां विषादता ।
संसारे ऽवश्यं मर्त्तव्यं सर्वेषाम् अपि जन्मिनां ॥ र्म्_13.160{160} ॥
इत्य् उक्त्वा स रुजार्त्तो ऽपि वडिको धैर्य्यम् आश्रयन् ।
संबुद्धं शरणं कृत्वा स्मृत्वा तस्थौ समाहितः ॥ र्म्_13.161{161} ॥
तथा स गृहभृच् छ्रेष्ठी श्रुत्वैतद् आत्मजोदितं ।
सत्यम् एतत् परिज्ञाय बुद्धं स्मृत्वा तथावदत् ॥ र्म्_13.162{162} ॥
नमो बुद्धाय धर्माय संघाय च सदा स्मरे ।
अद्यारभ्य सदा नित्यं भवतां शरणं व्रजे ॥ र्म्_13.163{163} ॥
यदि वो ऽस्ति कृपा लोके रक्षन्तु नः सुदुःखिनः ।
सर्वथा कृपया दृष्ट्या दृष्ट्वाशु त्रातुम् अर्हति ॥ र्म्_13.164{164} ॥
यथान्ये त्रिभवे लोका भवद्भिः प्रतिपालिताः ।
तथास्मान् कृपया दृष्ट्वा त्रातुम् अर्हति सर्वथा ॥ र्म्_13.165{165} ॥
रक्षतु भगवन् नाथ जीवयेयं ममात्मजं ।
कृपयानुग्रहं कृत्वा पुत्ररत्नं प्रयच्छ मे ॥ र्म्_13.166{166} ॥
यदि जीवेद् अयं पुत्रो भवद्दृष्टिप्रसादतः ।
भवतां शरणे स्थित्वा चरतु व्रतम् आदरात् ॥ र्म्_13.167{167} ॥
इत्य् एवं स्मरणं कृत्वा संबुद्धशरणं व्रजन् ।
स श्रेष्ठी तं सुतं दृष्ट्वा तस्थौ मोहविनोदितः ॥ र्म्_13.168{168} ॥
तस्मिन्न् एव क्षणे लोकां त्रातुं स भगवान् मुनिः ।
संपश्यन् कृपया दृष्ट्या प्राद्राक्षीत् तान् सदुःखिनः ॥ र्म्_13.169{169} ॥
तथा तान् दुःखिनो दृष्ट्वा भगवान् स जिनेश्वरः ।
सहसा तान् परित्रातुं बुद्धरस्मिं व्यमुञ्चत ॥ र्म्_13.170{170} ॥
ताभिः कनकवर्णाभिः संबुद्धरश्मिभिस् तदा ।
समन्तात् समतिक्रम्य तद् गृहम् अवभासितं ॥ र्म्_13.171{171} ॥

ततो मैत्र्यंशवश् चापि तेन भगवता पुनः ।
समुत्षृष्टास् तनौ तस्य पर्यस्पृशन् प्रसादिताः ॥ र्म्_13.172{172} ॥
ततस् तस्य तनुस् तैः संस्पृष्टमात्रे समंततः ।
प्रह्लादिता सुखप्राप्ता स्वास्थ्यतां समुपाययौ ॥ र्म्_13.173{173} ॥
ततः स वडिकः स्वास्थ्यं प्राप्य निर्मलमानसः ।
विस्मितः पितरं पश्यन् समामंत्र्यैवम् अब्रवीत् ॥ र्म्_13.174{174} ॥
अहो बुद्धस्य माहात्म्यम् अहो धर्मानुभावता ।
अहो संघप्रभावत्वं पश्य तात मुनेः प्रभां ॥ र्म्_13.175{175} ॥
यस्यानुस्मृतिमात्रेण कृपा लोके प्रसार्यते ।
धन्यो ऽयं भगवान् बुद्धो जयत्व् एवं सदा स्थितः ॥ र्म्_13.176{176} ॥
यस्य दयानुभावेन जीवेम नीरुजः सुखी ।
पापैश् चापि विमुक्तो ऽहम् इति सत्यं प्रमन्यते ॥ र्म्_13.177{177} ॥
तस्मात् तम् एव शास्तारं संबुद्धं शरणं व्रजे ।
यावद्भवम् अनुस्मृत्वा भजेय समुपाश्रितः ॥ र्म्_13.178{178} ॥
एवं बुद्धगुणान् स्मृत्वा वडिकः स प्रमोदितः ।
कृताञ्जलिः स्मरन् भूयः प्रणत्वैवम् अयाचत ॥ र्म्_13.179{179} ॥
नमस् ते भगवन् नाथ भवतां शरणं व्रजे ।
यावद्भवं त्रिरत्नानां भवेयं सेवकः सदा ॥ र्म्_13.180{180} ॥
इत्य् एवं सुगतं स्मृत्वा वडिकः सो ऽभिबोधितः ।
भूयो भूयः स्मरन् नत्वा तस्थौ स्वास्थ्यत्वम् आगतः ॥ र्म्_13.181{181} ॥
तदा स भगवान् बुद्धो दृष्ट्वा तं शुद्धमानसं ।
सद्धर्मं समुपादेष्टुं तद् द्वारे समुपासरत् ॥ र्म्_13.182{182} ॥
तद्द्वारसमुपासीनं तं मुनीन्द्रं रविप्रभं ।
दृष्ट्वैव विस्मितो द्वास्थः सहसा गृहम् आविशत् ॥ र्म्_13.183{183} ॥
तत्र गृहपतिं दृष्ट्वा वडिकं तं च सादरं ।
पुरतः समुपेत्यैव व्यज्ञापयत् ससत्वरः ॥ र्म्_13.184{184} ॥
गृहपते मुनीन्द्रो ऽत्र गृहद्वार उपस्थितः ।
तद् अत्र सहसोपेत्य समामंत्र्य प्रवेशय ॥ र्म्_13.185{185} ॥
इति तेनोदितं श्रुत्वा वडिकः स प्रसादितः ।
उत्थितः सहसोपेत्य तं मुनीन्द्रं मुदानमत् ॥ र्म्_13.186{186} ॥
नत्वा तं सुगतं गेहे प्रज्ञप्य स्वासनं मुदा ।
विज्ञप्य समुपामंत्र्य प्रवेशयंस् तथार्थयन् ॥ र्म्_13.187{167!} ॥
स्वागतं भगवन् वांछे भवतां शरणं मुने ।
प्रविशतु जगन्नाथ विजयस्वासने शुभे ॥ र्म्_13.188{168} ॥
इति तेनोदिते बुद्धो भगवान् स समाविशन् ।
स्वासने समुपासीनो वडिकं तं तथावदत् ॥ र्म्_13.189{1691} ॥
किं ते वडिक दुःखत्वं वाधकश् च कथं वद ।
इति भगवता पृष्टो वडिकः स तथावदत् ॥ र्म्_13.190{190} ॥
कायिकं जायते दुःखं चेतसिकं च मे मुने ।
तद् भवान् कृपया दृष्ट्या शमयेत् तत् प्रबाधनं ॥ र्म्_13.191{191} ॥

इति तद् विज्ञापितं श्रुत्वा भगवान् स मुनीश्वरः ।
तच्चित्तदुःखशान्त्यर्थं मैत्रीधर्मम् उपादिशत् ॥ र्म्_13.192{192} ॥
वडिकात्र सदा लोके मैत्रचित्तं समाचर ।
अनेन ते मनोदाहं प्रशाम्येत सदापि हि ॥ र्म्_13.193{193} ॥
इत्य् आदिश्य मुनीन्द्रः स पुनर् एवं व्यचिंतयत् ।
वतेन्द्रक्षीरिकां नाम महौषधां समानयेत् ॥ र्म्_13.194{194} ॥
इति चित्तमतं शास्तुः परिज्ञाय सुराधिपः ।
आदाय क्षीरिकां नाम महौषधीम् उपानयत् ॥ र्म्_13.195{195} ॥
तत्र सो सुरराजस् तं भगवन्तं प्रणम्य तां ।
महौषधीम् उपस्थाप्य पुर एवं समब्रवीत् ॥ र्म्_13.196{196} ॥
भगवन् प्रतिगृह्णातु दिव्यौषधीम् इमां भवान् ।
अनयात्र यथाकार्यं साधयतु सुखाप्तये ॥ र्म्_13.197{197} ॥
इत्य् उक्ते तेन शक्रेण दृष्ट्वा तां भगवान् मुनिः ।
गृहीत्वा वडिकायैवं प्रदत्वा चैवम् आदिशत् ॥ र्म्_13.198{198} ॥
गृहाण वडिकेमां ते कायिकदुःखशामिनीं ।
अनया ते शरीरे संस्क्रियताम् उपचारणैः ॥ र्म्_13.199{199} ॥
इत्य् आदिष्टे मुनीन्द्रेण वडिकः सो ऽनुमोदितः ।
तथेति तां समादाय यथादिष्टम् उपाचरत् ॥ र्म्_13.200{200} ॥
ततस् तस्य तनू रोगैर् विमुक्ता परिपुष्टिता ।
क्रमेण शाम्यसौन्दर्यं प्राप्याभिपर्यशोभत ॥ र्म्_13.201{201} ॥
ततः शास्त्रा यथादिष्टं वडिकेन तथा हृदि ।
मैत्री प्रभाविता लोके स्वात्मजे सुप्रिये यथा ॥ र्म्_13.202{202} ॥
तदा तस्य महद्दुःखं चेतसिकं शशाम तत् ।
महामैत्र्या परिषिक्ते हृदये ऽग्निर् इवाम्बुभिः ॥ र्म्_13.203{103!} ॥
ततः स वडिकः स्वस्थः परिशुद्धेन्द्रियः सुधीः ।
भगवन्तं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ र्म्_13.204{104} ॥
वन्दे ऽहं भवतां पादौ सर्वदा शरणं व्रजे ।
तथा च सर्वदा नाथ कृपया त्रातुम् अर्हति ॥ र्म्_13.205{105} ॥
यद्य् एवं भवतां शास्तः कृपादृष्टिर् न विद्यते ।
मृतो ऽहं नरके ऽद्यापि गतो दुःखान्य् अवाप्नुयां ॥ र्म्_13.206{106} ॥
यद् एवं स्वस्थितो जीवे तत् ते कृपाम्बुभावतः ।
तथा मे ऽनुग्रहं कर्तुं नित्यम् अर्हति सर्वदा ॥ र्म्_13.207{107} ॥
इत्य् एवं प्रार्थनां कृत्वा भूयः स वडिको मुदा ।
साञ्जलिः प्रणतिं कृत्वा पश्यंस् तस्थौ मुनीश्वरं ॥ र्म्_13.208{108} ॥
तथा तज्जनकः श्रेष्ठी सदारः संप्रमोदितः ।
त्रिरत्ने शरणं कृत्वा संबुद्धं तं समर्चयत् ॥ र्म्_13.209{109} ॥
ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा तं सुगतं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_13.210{210} ॥
वन्दे ते चरणौ शास्तः सर्वदा शरणं व्रजे ।
एवं नो ऽनुग्रहं कर्तुंम् अर्हति कृपया सदा ॥ र्म्_13.211{211} ॥

ततः स भगवान् बुद्धस् तथास्त्व् इति समादिशत् ।
ऋद्ध्याकाशं समुत्प्लुत्य स्वम् आश्रमम् उपाययौ ॥ र्म्_13.212{212} ॥
तत्र स भगवान् प्राप्तः सभामध्ये समाश्रितः ।
एतद् वृष्टि समाख्याय तस्थौ धर्मं समादिशत् ॥ र्म्_13.213{213} ॥
तदा स वडिको भूयो बुद्धगुणान् अनुस्मरन् ।
स संघं सुगतं भोज्यैः पूजयितुं समैछत ॥ र्म्_13.214{214} ॥
तदा स नृपते राज्ञः प्रसेनजित आनतः ।
एतत् सर्वं प्रवृत्तांतं निवेद्यैवम् अभाषत ॥ र्म्_13.215{215} ॥
राजन्न् अहं महारोगी त्रिरत्नशरणं व्रजे ।
तत् त्रिरत्नकृपादृष्टेर् जीवे रोगैर् विमोचितः ॥ र्म्_13.216{216} ॥
तन् मया स मुनीन्द्रो ऽपि सर्वसंघैः सहाधुना ।
समामंत्र्य गृहे भोज्यैः पूजयितुं समिच्छ्यते ॥ र्म्_13.217{217} ॥
तन् मे ऽनुग्रहणं कृत्वा लोकानां पुण्यवृद्धये ।
तदधिवासनां कृत्वा समनुज्ञापय प्रभो ॥ र्म्_13.218{218} ॥
इति तेनार्थितं श्रुत्वा स राजाभ्यनुमोदितः ।
वडिकं तैः समालोक्य प्रशंस्यैव समादिशत् ॥ र्म्_13.219{219} ॥
वडिक त्वं महासाधुस् तद् बुद्धशरणं गतः ।
तथानुश्रद्धया नित्यं भज रत्नत्रयं सदा ॥ र्म्_13.220{220} ॥
इति राज्ञाभ्यनुज्ञातं श्रुत्वा स वडिको मुदा ।
नृपतिं तं प्रणत्वैवं स्वगृहं समुपाययौ ॥ र्म्_13.221{221} ॥
तत्र गृहे समासाद्य कृत्वानुमतं पितुः ।
शास्तु निमंत्रणां कर्तुं विहारे समुदाचरन् ॥ र्म्_13.222{222} ॥
तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_13.223{223} ॥
भगवंस् तद् विजानीयाद् यदर्थं समुपाव्रजे ।
तथाप्य् अत्र भवदग्रे प्रार्थये ऽनुग्रहं कुरु ॥ र्म्_13.224{224} ॥
यद् अहं रोगनिर्मुक्तः पुन जन्म इवाप्तवान् ।
तद् भवतां कृपादृष्टेः प्रसादाद् इतिन् मन्यते ॥ र्म्_13.225{225} ॥
तद् अहं भवतां सर्वसंघानां भोजनैर् गृहे ।
पूजयितुं समिछे तद् अनुग्रहीतुम् अर्हति ॥ र्म्_13.226{226} ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः ।
तथेत्य् अभ्यनुमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ र्म्_13.227{227} ॥
ततः स वडिको मत्वा भगवताधिवासितं ।
मुदा तस्य मुनेः पादौ नत्वाशु स्वगृहं ययौ ॥ र्म्_13.228{228} ॥
तत्र स सहसा गेहे वन्धुमित्रजनैः सह ।
संघार्हभोज्यपूजाङ्गं सामग्रीं समसाधयत् ॥ र्म्_13.229{229} ॥
ततः स सर्वसामग्रीं साधयित्वासनानि च ।
प्रज्ञप्य शुद्धिते भूमौ मंदयित्वा समन्ततः ॥ र्म्_13.230{230} ॥
ततस् तं श्रीघनं बुद्धं ससंघं स्वजनैः सह ।
आमंत्रितुं विहारे स सहसा समुपाचरत् ॥ र्म्_13.231{231} ॥

तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा ।
ससंघं सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_13.232{232} ॥
भगवन् साध्यते साध्यं समयो वर्त्तते ऽधुना ।
तद् भवां सांघिकैः सार्द्धं विजयितुं समर्हति ॥ र्म्_13.233{233} ॥
इति तेनार्थितं श्रुत्वा तथेति स मुनीश्वरः ।
पात्रचीवरम् आधाय सर्वसंघैः सहाचरत् ॥ र्म्_13.234{234} ॥
तत्र मार्गेषु सर्वत्र नगरे च समन्ततः ।
प्रकाशयन् प्रातिहार्यं तद् गृहं समुपाविशत् ॥ र्म्_13.235{235} ॥
तत्र गृहे समासाद्य पादार्घं प्रतिगृह्य सः ।
स्वासने समुपाविश्य क्रमात् तस्थौ ससांघिकः ॥ र्म्_13.236{236} ॥
तदा स वडिको दृष्ट्वा तं बुद्धं स्वासने स्थितं ।
ससंघं सर्वपूजाङ्गैः सर्वपुष्पैः समर्चयत् ॥ र्म्_13.237{237} ॥
ततश् च सुरसैर् भोज्यैः सुप्रणीतैः सुहाधितैः ।
वर्णगन्धरसोपेतैः सर्वैस् तां समतोषयत् ॥ र्म्_13.238{268!} ॥
ततश् च भोजनान्ते स पात्रादीन्य् अपनीय च ।
मुखादीं शोधयित्वा च पूगौषधीन् प्रढौकयत् ॥ र्म्_13.239{269} ॥
ततः स प्राञ्जलिर् नत्वा ससंघं सुगतं मुदा ।
पुरस्थो मनसा ह्य् एवं प्रणिधानं व्यधात् स्मरन् ॥ र्म्_13.240{270} ॥
अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके ।
यथायं भगवान् बुद्धस् तथा भूयासम् आत्मवित् ॥ र्म्_13.241{271} ॥
यथानेन मुनीन्द्रेण जगल् लोको ऽभिपालितः ।
तथाहं सर्वलोकानां पालयेयं समन्ततः ॥ र्म्_13.242{272} ॥
अतीर्णांस् तारयिष्यामि मोचयिष्याम्य् अमोचितान् ।
अनास्वस्तान् समाश्वास्य स्थापयिष्यामि निर्वृतौ ॥ र्म्_13.243{273} ॥
इत्य् एवं मनसा तेन प्रणिधानं कृतं मुदा ।
मत्वा स भगवान् बुद्धो स्मितं प्राविर्व्यधान् मुदा ॥ र्म्_13.244{274} ॥
तदा तस्य मुनीन्द्रस्य मुखात् पंच सुरस्मयः ।
निसृत्य त्रिषु लोकेषु भासयन्तः समासरन् ॥ र्म्_13.245{275} ॥
यापि काश् चिद् अधोलोके प्रसृता नरकेषु ताः ।
उष्णेषु शीतलीभूता शीतलेषु तथोष्णिकाः ॥ र्म्_13.246{276} ॥
तदा ताभिः परिस्पृष्टाः सर्वे नैरयिका जनाः ।
महत्सौख्यं समासाद्य विस्मिताश् चैवम् आलपत् ॥ र्म्_13.247{277} ॥
अहो सौख्यं कथं ह्य् एवम् अन्यत्र किं गता वयं ।
कस्य पुण्यानुभावेन क्वास्माकं जायते सुखं ॥ र्म्_13.248{278} ॥
इति चिन्ताभिदग्धानां तेषां चित्तप्रबोधने ।
भगवान् निर्मितं बुद्धं संप्रेष्य समदर्शयत् ॥ र्म्_13.249{279} ॥
तत्र तं निर्मितं बुद्धं दृष्ट्वा सर्वे ऽपि ते मुदा ।
विस्मिताः सहसंमील्य पुनर् एवं वभाषिरे ॥ र्म्_13.250{280} ॥
अहो समन्तभद्रो ऽयं पुरुषो दृश्यते ऽधुना ।
नूनम् अस्यानुभावेन सौख्यं नो जायते खलु ॥ र्म्_13.251{281} ॥

इति संभाष्य ते सर्वे तस्मिन् बुद्धे प्रसादिताः ।
नमो बुद्धाय धर्माय संघाय चेति प्रावदन् ॥ र्म्_13.252{282} ॥
ततः सर्वे ऽपि ते सत्वास् त्रिरत्नस्मृतिपुण्यतः ।
ते दुर्गतिविनिर्मुक्ताः सद्गतिं समुपाययुः ॥ र्म्_13.253{283} ॥
एवं ता रश्मयः सर्वा अवभास्य समंततः ।
सर्वसत्वान् समुद्धृत्य मुनेः प्रत्याययुः पुनः ॥ र्म्_13.254{284} ॥
तथा या रश्मयः काश्चिद् उपरिष्टात् प्रसारिताः ।
ताः सर्वान् देवलोकानां अवभास्य समन्ततः ॥ र्म्_13.255{285} ॥
यावद् भवाग्रपर्यंतं भासयन्तः प्रसारिताः ।
एवं चापि महाशब्दम् उद्घुष्य समुदाचरन् ॥ र्म्_13.256{286} ॥
अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं ।
तद् भवे सद्गतिं हित्वा सद्धर्मं भजतादरात् ॥ र्म्_13.257{287} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यं च नडागारम् इव द्विपः ॥ र्म्_13.258{288} ॥
यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरेत् सदा ।
स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ र्म्_13.259{289} ॥
इत्य् एवं तन् महाशब्दं श्रुत्वा सर्वे ऽपि ते सुराः ।
तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नशरणं ययुः ॥ र्म्_13.260{290} ॥
तथा ता अर्चिषः सर्वा अवभास्य समंततः ।
पुनः प्रत्यागतास् तस्य मुनेर् अन्तिकम् आययुः ॥ र्म्_13.261{291} ॥
ततस् ता अर्चिषः सर्वाः संमील्य समुपास्थिताः ।
कृत्वा प्रदक्षिणां त्रैधम् उष्णीषे ऽन्तर्दधौ मुनेः ॥ र्म्_13.262{292} ॥
अथानंदस् तम् आलोक्य विस्मितः सहसोत्थितः ।
कृताञ्जलिपुटो नत्वा पप्रछैवं मुनीश्वरं ॥ र्म्_13.263{293} ॥
भगवन् भवतो वक्त्रात् पंचवर्णाः सुरश्मयः ।
विनिसृता दिशः सर्वा भाषयन्ति समन्ततः ॥ र्म्_13.264{294} ॥
नाकारणं जिना बुद्धा दर्शयन्ति स्मितं क्वचित् ।
भवत्स्मितं समालोक्य सर्वे भवन्ति विस्मिताः ॥ र्म्_13.265{295} ॥
तद्धेतु श्रोतुम् इछंति सर्वे ऽपीमे सभाश्रिताः ।
तद् एषां संशयं छेतुं तद्धेतु समुपादिश ॥ र्म्_13.266{296} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तां च सर्वां सभां दृष्ट्वा तथानन्दम् अभाषत ॥ र्म्_13.267{297} ॥
पश्यानंद ममानेन वडिकेनानुमोदिना ।
संघेषु श्रद्धया भक्त्या सत्कृत्य भजनं कृतं ॥ र्म्_13.268{298} ॥
एतत्पुण्यविपाकेन वडिको ऽयं सुधीः कृती ।
क्रमाद् बोधिचरीः पूर्य दशभूमीश्वरो भवन् ॥ र्म्_13.269{299} ॥
सर्वमारगणां जित्वा संबोधिं समवाप्तवान् ।
श्लक्ष्णवाण्यभिधो बुद्धस् तथागतो भविष्यति ॥ र्म्_13.270{300} ॥
यद् अनेन त्रिरत्नेषु शरणं संप्रसादिना ।
प्रणिधानं कृतं तेन संबुद्धो ऽयं भवेद् ध्रुवं ॥ र्म्_13.271{301} ॥

एवं मत्वा तथानंद त्रिरत्नशरणं गतः ।
सत्कृत्य समुपाश्रित्य भज नित्यं समाहितः ॥ र्म्_13.272{302} ॥
ये सत्वाः श्रद्धया स्मृत्वा त्रिरत्नशरणं गताः ।
दुर्गतिं ते न गछन्ति भवन्ति बोधिभागिनः ॥ र्म्_13.273{303} ॥
एवं मत्वा त्रिरत्नानां सत्कृत्य श्रद्धया मुदा ।
संस्मृत्य शरणं गत्वा भक्तव्यं बोधिवांछिभिः ॥ र्म्_13.274{304} ॥
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः स मोदितः ।
सांघिकं सह लोकैश् च तथेति प्राभ्यनंदत ॥ र्म्_13.275{305} ॥
ततः स भगवांस् तस्मै वडिकाय सुभागिने ।
दत्वाशीर्वचनं भूयः समामंत्र्य तम् अब्रवीत् ॥ र्म्_13.276{306} ॥
वडिक त्वं महाभाग त्रिरत्नं शरणं गतः ।
बोधिचर्य्यां चरन् नित्यं संबोधिं समवाप्नुयाः ॥ र्म्_13.277{307} ॥
इति सत्यं परिज्ञाय सर्वसत्वहितार्थभृत् ।
तथा रत्नत्रयं स्मृत्वा भज नित्यं समाहितः ॥ र्म्_13.278{308} ॥
इत्य् आदिश्य मुनीन्द्रः स संघैः सार्द्धं समुत्थितः ।
वडिकं तं समामंत्र्य स्वविहारं ययौ तथा ॥ र्म्_13.279{309} ॥
तथा स वडिको नित्यं त्रिरत्नशरणं गतः ।
सदा लोकहितं कृत्वा बोधिचर्यां समाचरत् ॥ र्म्_13.280{310} ॥
एतन् मे गुरुणादिष्टं श्रुतं मया नराधिप ।
तथा ते कथ्यते राजं श्रुत्वा चैवं प्रकाशय ॥ र्म्_13.281{311} ॥
तथा त्वयापि राजेन्द्र सत्वानां हितसाधने ।
त्रिरत्नशरणैः कृत्वा कर्त्तव्या बोधिचारिकाः ॥ र्म्_13.282{312} ॥
तथा ते सर्वदा नित्यं सर्वत्र मंगलं भवेत् ।
क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि चाप्नुयाः ॥ र्म्_13.283{313} ॥
इति मत्वा महाराज प्रजाश् चापि प्रबोधयन् ।
सद्धर्मे संप्रतिस्थाप्य सर्वथा त्रातुम् अर्हसि ॥ र्म्_13.284{314} ॥
इति तेनोपगुप्तेन समादिष्टं निशम्य सः ।
राजा तथेति विज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ र्म्_13.285{315} ॥
श्रुत्वावदानं वडिकस्य साधोर् इदं नरा ये ऽभ्यनुमोदयन्ति ।
सर्वे ऽपि ते लोकहितानुरक्ता भवन्ति बोधिगुणलाभिका हि ॥ र्म्_13.286{316} ॥
++ इति रत्नावदानतत्वे वडिकावदानं समाप्तम् ++
xइव् गान्धर्विकावदान
अथाशोको महीपालः श्रोतुम् अन्यत् सुभाषितं ।
उपगुप्तं यतिं नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_14.1{1} ॥
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं ।
तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ र्म्_14.2{2} ॥
इति तेन नरेन्द्रेण प्रार्थितं स जिनात्मजः ।
श्रुत्वा तं नृपतिं दृष्ट्वा पुनर् एवं समादिशत् ॥ र्म्_14.3{3} ॥
शृणु राजन् मयाख्यातं यथा मे गुरुणोदितं ।
तथा श्रूत्वानुमोदित्वा शुभे चरितुम् अर्हसि ॥ र्म्_14.4{4} ॥

पुरा स भगवान् बुद्धः श्रावस्त्यां बहिर् आश्रमे ।
जेतारण्ये महोद्याने विहारे मणिमण्डिते ॥ र्म्_14.5{5} ॥
भिक्षुभिः श्रावकैः सार्द्धं चैलकैर् व्रतिभिस् तथा ।
भिक्षुणीभिस् तथान्यैश् चा महासात्वैर् उपासकैः ॥ र्म्_14.6{6} ॥
विहृत्य सर्वसत्वानां समितिस्थितः ।
संबोधिसाधानं धर्मम् उपादेष्टुं समारभत् ॥ र्म्_14.7{7} ॥
तदा तस्य मुनीन्द्रस्य वक्त्रपद्माद् विनिसृतं ।
तत् सद्धर्मामृतं पातुं सर्वे सत्वा उपगताः ॥ र्म्_14.8{8} ॥
ब्रह्मशक्रादि देवेन्द्राः सर्वे लोकाधिपा अपि ।
दैत्येन्द्राः सगणा यक्षाः सिद्धगंधर्वराक्षसाः ॥ र्म्_14.9{9} ॥
विद्याधरगणाश् चपि नागेंद्राश् च महोरगाः ।
गरुडाः किन्नरेन्द्राश् च तथान्ये ऽपि समागताः ॥ र्म्_14.10{10} ॥
ब्राह्मणा ऋषयश् चापि तापसा ब्रह्मचारिणः ।
यतयो योगिनो विज्ञास् तथान्ये तीर्थिका अपि ॥ र्म्_14.11{11} ॥
रजानः क्षत्रियाश् चापि वीरा राजकुमारकाः ।
अमात्या मंत्रिणश् चापि वैश्याश् चापि प्रजाधिपाः ॥ र्म्_14.12{12} ॥
श्रेष्ठिनो वणिजश् चापि सार्थवाहा महाजनाः ।
पौरा जानपदा ग्राम्यास् तथा कार्पटिका अपि ॥ र्म्_14.13{13} ॥
एवं अन्ये ऽपि सत्वाश् च सर्वे लोकाः समागताः ।
तत् सद्धर्मामृतं पातुं तद् विहारे उपाविशत् ॥ र्म्_14.14{14} ॥
तत्र तं श्रीघनं दृष्ट्वा समभ्यर्च्य प्रणम्य च ।
सत्कृत्य समुपाश्रित्य परिवृत्य सामान्ततः ॥ र्म्_14.15{15} ॥
तं मुणीन्द्रं समालोक्य श्रोतुं तद् धर्मदेशनां ।
साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ र्म्_14.16{16} ॥
तथा तान् समुपासीनान् दृष्ट्वा स भगवाञ् जिनः ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ र्म्_14.17{17} ॥
तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिताः ।
त्रिरत्नभजनं कृत्वा वभूवुर् बोधिचारिणः ॥ र्म्_14.18{18} ॥
तदापि पंचमात्राणि गांधर्विकशतानि च ।
श्रावस्त्यां पुरि जातानि समदानि प्रचेरिरे ॥ र्म्_14.19{19} ॥
तदा तां समदान् दृष्ट्वा गंधर्वाधिपतेः सुतः ।
सुप्रियो नाम तन् मादम् ईर्ष्यया हन्तुम् उद्ययौ ॥ र्म्_14.20{20} ॥
ततः स सुप्रियः सर्वगान्धर्विकसुकौशलः ।
दिव्यवीणां समादाय तत्रैव समुपाचरत् ॥ र्म्_14.21{21} ॥
सप्तस्वरान् एकतंत्र्याम् एकविंशतिमूर्छनाः ।
समुद्घोषयमानः च स्वमतिं दर्शयन् ययौ ॥ र्म्_14.22{22} ॥
षण्महानगरेष्व् एवं पट्टनेषु समन्ततः ।
समुद्घोषयमानश् च श्रावस्तीं स उपाविशत् ॥ र्म्_14.23{23} ॥
तत्र तं समुपाविष्टं दृष्ट्वा सर्वे ऽपि पौरिकाः ।
श्रुत्वा तद् अद्भुतं नादं विस्मिताः समुपाचरन् ॥ र्म्_14.24{24} ॥

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc