भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 20

20.1

पुन बोधिसत्त्व चरमाणु जिनान प्रज्ञां अनुपाद स्कन्ध इमि जानति आदिशून्यान्
असमाहितो करुण प्रेक्षति सत्त्वधातुम् अत्रान्तरे न परिहायति बुद्धधर्मान् ॥

20.2

पुरुषो यथा कुशल सर्वगुणैरुपेतो बलवान् दुधर्षु कृतयोग्य कलाविधिज्ञो
इष्वस्त्रपारमिगतो पृथुशिल्पयुक्तो मायाविधिज्ञपरमो जगदर्थकामो ॥

20.3

माता पिता च परिगृह्य सपुत्रदारं कान्तारमार्गि प्रतिपद्य बहूअमित्रो
सो निर्मिणित्व पुरुषान् बहु शूरवीरान् क्षेमेण गत्व पुन गेहमुपागमेय्या ॥

20.4

एमेव यस्मि समये विदु बोधिसत्त्वो महमैत्रि सर्वि उपबन्धति सत्त्वधातौ
चतुरो स मार अतिक्रम्य द्वये च भूमिम् अस्मिन् समाधि स्थितु नो च स्पृशाति बोधिम् ॥

20.5

आकाशनिश्रित समीरण आपस्कन्धो त हि निश्रिता इह महापृथिवी जगच्च
सत्त्वान कर्मौपभोगनिदानमेव आकाशस्थानु कुतु चिन्तयि एतमर्थम् ॥

20.6

एमेव शून्यतप्रतिष्ठितु एष सत्त्वो जगति क्रियां विविध दर्शयते विचित्राम्
सत्त्वान ज्ञानप्रणिधानअधिष्ठानमेव न च निर्वृतिं स्पृशति शून्यत नास्ति स्थानम् ॥

20.7

यस्मिंश्च कालि विदु पण्डितु बोधिसत्त्वो चरती इमां प्रवर शून्य समाधि शान्ताम्
अत्रान्तरे न च निमित्त प्रभावितव्यो न च आनिमित्तस्थितु शान्त प्रशान्तचारी ॥

20.8

पक्षिस्य नास्ति पदु गच्छत अन्तरीक्षे नो चापि तत्र स्थितु नो च पताति भूमौ
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारे न च निर्वृतिं स्पृशति नो च निमित्तचारी ॥

20.9

इष्वस्त्रशिक्षित यथा पुरुषोध काण्डं क्षेपित्व अन्य पुन काण्ड परस्परेण
पतनाय तस्य पुरिमस्य न देय भूमिम् आकाङ्क्षमाण पुरुषस्य पतेय काण्डम् ॥

20.10

एमेव प्रज्ञवरपारमितां चरन्तो प्रज्ञा उपाय बल ऋद्धि विचारमाणो
तावन्न तां परमशून्यत प्रापुणोति यावन्न ते कुशलमूल भवन्ति पूर्णाः ॥

20.11

भिक्षू यथा परमऋद्धिबलेनुपेतो गगने स्थितो यमक कुर्वति प्रातिहार्यां
गतिचंक्रमं शयनिषद्य निदर्शयाति न निवर्तते न पि च खिद्यति याव तत्र ॥

20.12

एमेव शून्यतस्थितो विदु बोधिसत्त्वो ज्ञानर्द्धिपारमिगतो अनिकेतचारी
विविधां क्रियां जगति दर्शयते अनन्तां न च भज्यती न पि च खिद्यति कल्पकोटी ॥

20.13

पुरुषा यथा महप्रपाति स्थिहित्व केचिद् उभि पाणि छत्रद्वय गृह्ण उपक्षयेय्या
आकालि वायुरवसृज्य महाप्रपाते नो च प्रपात पतियाति न याव तत्र ॥

20.14

एमेव स्थित्व करुणां विदु बोधिसत्त्वो प्रज्ञाउपायद्वयछत्रपरिगृहीतो
शून्यानिमित्तप्रणिधिं विमृषाति धर्मान् न च निर्वृतिं स्पृशति पश्यति धर्मचारी ॥

20.15

रतनार्थिको यथ व्रजित्वन रत्नद्वीपं लब्ध्वान रत्न पुन गेहमुपागमेय्या
किंचापि तत्र सुख जीवति सार्थवाहो अपि दुःखितो मनसि भोति स जातिसंघो ॥

20.16

एमेव शून्यत व्रजित्वन रत्नद्वीपं लब्ध्वान ध्यान बल इन्द्रिय बोधिसत्त्वो
किंचापि निर्वृति स्पृशेदभिनन्दमानो अपि सर्वसत्त्व दुखिता मनसी भवन्ति ॥

20.17

अभ्यन्तरे य नगरे निगमे च ग्रामे कामार्थ वाणिजु यथा गमि जाननाय
नो चापि तत्र स्थिहती न च रत्नद्वीपे न च गेह मार्गि कुशलो पुन भोति विज्ञो ॥

20.18

तथ ज्ञान श्रावकविमुक्तिसप्रत्ययानां सर्वत्र भोति कुशलो विदु बोधिसत्त्वो
नो चापि तत्र स्थिहते न च बुद्धज्ञाने न च संस्कृते भवति मार्गविदू विधिज्ञो ॥

20.19

यं कालि मैत्रि जगती अनुबन्धयित्वा शून्यानिमित्तप्रणिधी चरते समाधिम्
अस्थानमेव यदि निर्वृति प्रापुणेया अथवापि संस्कृत स प्रज्ञपनाय शक्यः ॥

20.20

यथ निर्मितो पुरुष नो व अदृश्यकायो नामेन वा पुन स प्रज्ञपनाय शक्यः
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारं नामेन वा पुन स प्रज्ञपनाय शक्यः ॥

20.21

यदि पृच्छमान चरि इन्द्रिय बोधिसत्त्वो गम्भीरधर्मपरिदीपन नो करोति
शून्यानिमित्त अविवर्तियबोधिधर्मां न च शोचती न च स व्याकृतु वेदितव्यो ॥

20.22

अर्हन्तभूमिमपि प्रत्ययबुद्धभूमौ त्रैधातुकं न स्पृशते सुपिनान्तरे ऽपि
बुद्धांश्च पश्यति कथेति जनस्य धर्मं अविवर्तियेति अयु व्याकृतु वेदितव्यो ॥

20.23

त्रिअपायप्राप्तु सुपिनस्मि विदित्व सत्त्वान् प्रणिधेति तत्क्षण अपाय उच्छोषयेयम्
सत्याधिष्ठानि प्रशमेति स चाग्निस्कन्धम् अविवर्तियेति अयु व्याकृतु वेदितव्यो ॥

20.24

भूतग्रहा विविध व्याधय मर्त्यलोके सत्याधिष्ठानि प्रशमेति हितानुकम्पी
न च तेन मन्यनुपपद्यति नापि मानम् अविवर्तियेति अयु व्याकृतु वेदितव्यः ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc