रत्नगुणसंचयगाथा · अध्याय 19
तैलस्य वर्ति ज्वलिता प्रथमे निपाते न च दग्ध वर्ति असता न विना य दग्धा
न हि अर्चि पश्चिमनिपात स वर्ति दग्धा असता पि पश्चिम न दह्यति दीपवर्ति ॥
प्रथमेव चित्त स्पृशती न च अग्रबोधिम् असता न तस्य स्पृशता पुन शक्य भोन्ति
न च चित्त पश्चिम शिवामनुप्रापुणाति असता न तस्य पुन प्रापणनाय शक्यम् ॥
बीजातु स्तम्ब फल पुष्प समागमन्ति सो वानिरुद्ध असतो न हि तस्य वृक्षो
एमेव चित्त प्रथमं तु निदान बोधेः सो वा निरुद्ध असतो न हि तस्य बोधिः ॥
बीजं प्रतीत्य च भवेद्यवशालिकादेस् तत्तत्फलं न च तदस्ति न चापि नास्ति
उत्पत्तितो भवति बोधिरियं जिनानां भावस्वभावविगता भवतीह माया ॥
उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं प्रथमे निपाति अनुपूर्व स पश्चिमेन
एमेव चित्त प्रथमं वरबोधिहेतुर् अनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः ॥
शून्यानिमित्तप्रणिधिं चरमाणु धर्मा न च निर्वृतिं स्पृशति नो च निमित्तचारी
यथ नाविको कुशल गच्छति आरपारम् उभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन् ॥
एवं चरन्तु न च मन्यति बोधिसत्त्वो अहु व्याकृतो दशबलेहि स्पृशेय बोधिम्
न च त्रासु बोधि भवते न इहास्ति किंचिद् एवं चरन्तु चरती सुगतान प्रज्ञाम् ॥
कान्तारमार्गि दुरभिक्षि सव्याधि लोकां पश्यित्व नास्ति भय उत्तरि संनहन्ते
अपरान्तकोटि सद युक्त प्रजानमानो अणुमात्र खेद मनसो न उपादियाति ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0