रत्नगुणसंचयगाथा · अध्याय 21
अथवास्य मन्यनुपपद्यति व्याकृतो ऽस्मि सत्याधिष्ठान विविधानि समृद्ध्ययन्ति
यदि अन्य व्याकृतकु मन्यति बोधिसत्त्वो ज्ञातव्य मन्यनस्थितो अयु अल्पबुद्धिः ॥
नामाधिष्ठान पुन मार उपागमित्वा एवं वदिष्यति इदं तव नामधेयम्
मातापिताय अनुसप्तमुपैति वंशो बुद्धो यदा भवि इदं तव नामधेयम् ॥
धुतवृत्त यादृशु स भेष्यति युक्तयोगी पूर्वं पि तुभ्य इमि आसि गुणोवरूपा
यो एव श्रुत्व अभिमन्यति बोधिसत्त्वो ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः ॥
प्रविविक्त ग्रामनगरे गिरिकन्दराणि रण्या विविक्त वनप्रस्थ निषेवमाणो
आत्मानुकर्षि पर पंसयि बोधिसत्त्वो ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः ॥
ग्रामे च राष्ट्रि निगमे विहरन्ति नित्यं रहप्रत्ययानि स्पृहतां जनयन्ति तत्र
अन्यत्र सत्त्वपरिपाचनबोधियुक्ता एषो विवेकु कथितो सुगतात्मजानाम् ॥
यो पञ्चयोजनशते गिरिकन्दरेषु व्यालावकीर्णि निवसेद्बहुवर्षकोटी
नो चा विवेकु इमु जानति बोधिसत्त्वो संकीर्ण सो विहरते अधिमानप्राप्तः ॥
सो चंक्रमार्थमभियुक्तकबोधिसत्त्वान् बलध्यानैन्द्रियविमोक्षसमाधिप्राप्तान्
अभिमन्यते न इमि रण्यविवेकचारी न विवेकगोचरु अयं हि जिनेन उक्तो ॥
ग्रामान्ति यो विहरते अथवा अरण्ये द्वययानचित्तविगतो नियतो ऽग्रबोधिम्
एषो विवेकु जगदर्थभिप्रस्थितानां आत्मा क्षिणोति तुलयेय स बोधिसत्त्वो ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0