रत्नगोत्रविभाग · अध्याय 6
4. चतुर्थः परिच्छेदः
उक्ता विमला बुद्धगुणाः । तत्कर्म जिनक्रियेदानीं वक्तव्या । सा पुनरनाभोगतश्चाप्रश्रब्धितश्च समासतो द्वाभ्यामाकराभ्या प्रवर्तत इति ।
अनन्तरमनाभोगाप्रश्रब्ध बुद्धकार्यमारभ्य द्वौ श्लोकौ ।
विनेयधातौ विनयाभ्युपाये विनेयधातोर्विनयक्रियायाम् ।
तद्देशकाले गमने च नित्यं विभोरनाभोगत एव वृत्तिः
कृत्स्नं निष्पाद्य यानं प्रवरगुणगणज्ञानरत्नस्वगर्भं
पुण्यज्ञानार्करश्मिप्रविसुतविपुलानन्तमध्याम्बराभम् ।
बुद्धत्वं सर्वसत्त्वे विमलगुणनिधिं निर्विशिष्टं विलोक्य
क्लेशज्ञेयाभ्रजालं विधमति करुणा वायुभूता जिनानाम्
एतयोर्यथाक्रमं द्वाभ्यामष्टाभिश्च श्लोकैः पिण्डार्थो वेदितव्यः ।
यस्य येन च यावच्च यदा च विनयक्रिया ।
तद्विकल्पोदयाभावादनाभोगः सदा मुनेः
यस्य धातोर्विनेयस्य येनोपायेन भूरिणा ।
या विनीतिक्रिया यत्र यदा तद्देशकालयोः
निर्याणे तदुपस्तम्भे तत्फले तत्परिग्रहे ।
तदावृत्तौ तदुच्छित्तिप्रत्यये चाविकल्पतः
( र्ग्व् 99 ) भूमयो दश निर्याणं तद्धेतुः संभृतिद्वयम् ।
तत्फलं परमा बोधिर्बोधेः सत्त्वः परिग्रहः
तदावृतिरपर्यन्तक्लेशोपक्लेशवासनाः ।
करुणा तत्समुद्घातप्रत्ययः सार्वकालिकः
स्थानानि वेदितव्यानि षडेतानि यथाक्रमम् ।
महोदधिरविव्योमनिधानाम्बुदवायुवत्
ज्ञानाम्बुगुणरत्नत्वादग्रयानं समुद्रवत् ।
सर्वसत्त्वोपजीव्यत्वात् संभारद्वयमर्कवत्
विपुलानन्तमध्यत्वाद्बोधिराकाशधतुवत् ।
सम्यक्संबुद्धधर्मत्वात् सत्त्वधातुर्निधानवत्
आगन्तुव्याप्त्यनिष्प त्तेस्तत्संक्लेशो ऽभ्रराशिवत् ।
तत्क्षिंप्तिप्रत्युपस्थानात् करुणोद्वृत्तवायुवत्
पराधिकारनिर्याणात् सत्त्वात्मसमदर्शनात् ।
कृत्यापरिसमाप्तेश्च क्रियाप्रश्रब्धिरा भवात्
यदनुत्पादानिरोधप्रभावितं बुद्धत्वमित्युक्तं तत्कथमिहासंस्कृतादप्रवृत्तिलक्षणाद्बुद्धत्वादनाभोगाप्रतिप्रश्रब्धमा लोकादविकल्पं बुद्धकार्य प्रवर्तत इति । बुद्धमाहात्म्यधर्मतामारभ्य विमतिसंदेहजातानामचिन्त्यबुद्धविषयाधिमुक्तिसंजननार्थ तस्य माहात्म्ये श्लोकः ।
शक्रदुन्दुभिवन् मेघब्रह्मार्कमणिरत्नवत् ।
प्रतिश्रुतिरिवाकाशपृथिवीवत् तथागतः
( र्ग्व् 100 ) अस्य खलु सूत्रस्थानीयस्य श्लोकस्य यथाक्रमं परिशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः ।
शक्रप्रतिभासत्वादिति ।
विशुद्धवैडूर्यमयं यथेदं स्यान्महीतलम् ।
स्वच्छत्वात्तत्र दृश्येत देवेन्द्रः साप्सरोगणः
प्रासादो वैजयन्तश्च तदन्ये च दिवौकसः ।
तद्विमानानि चित्राणि ताश्च दिव्या विभूतयः
अथ नारीनरगणा महीतलनिवासिनः ।
प्रतिभासं तमालोक्य प्रणिधिं कुर्युरीदृशम्
अद्यैव न चिरादेवं भवेमस्त्रिदशेश्वराः ।
कुशलं च समादाय वर्तेरंस्तदवाप्तये
प्रतिभासो ऽयमित्येवमविज्ञायापि ते भुवः ।
च्युत्वा दिव्युपपद्येरंस्तेन शुक्लेन कर्मणा
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः ।
एवं च महतार्थेन भुवि स्यात्प्रत्युपस्थितः
तथा श्रद्धादिविमले श्रद्धादिगुणभाविते ।
सत्त्वाः पश्यन्ति संबुद्धं प्रतिभास स्वचेतसि
लक्षणव्यञ्जनोपेतं विचित्रेर्यापथक्रियम् ।
चङ्क्रम्यमाणं तिष्ठन्तं निषण्णं शयनस्थितम्
( र्ग्व् 101 ) भाषमाणं शिवं धर्म तूष्णींभूतं समाहितम् ।
चित्राणि प्रातिहार्याणि दर्शयन्तं महाद्युतिम्
तं च दृष्ट्वाभियुज्यन्ते बुद्धत्वाय स्पृहान्विताः ।
तद्धेतुं च समादाय प्राप्नुवन्तीप्सितं पदम्
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः ।
एवं च महतार्थेन लोकेषु प्रत्युपस्थितः
स्वचित्तप्रतिभासो ऽयमिति नैवं पृथग्जनाः ।
जानन्त्यथ च तत्तेषामवन्ध्यं बिम्बदर्शनम्
तद्धि दर्शनमागम्य क्रमादस्मिन्नये स्थिताः ।
सद्धर्मकायं मध्यस्थं पश्यन्ति ज्ञानचक्षुषा
भूर्यद्वत्स्यात् समन्तव्यपगतविषमस्थानान्तरमला
वैडूर्यस्पष्टशुभ्रा विमलमणिगुणा श्रीमत्समतला ।
शुद्धत्वात्तत्र बिम्बं सुरपतिभवनं माहेन्द्रमरुताम्
उत्पद्येत क्रमेण क्षितिगुणविगमादस्तं पुनरियात्
तद्भावायोपवासव्रतनियमतया दानाद्यभिमुखाः
पुष्पादीनि क्षिपेयुः प्रणिहितमनसो नारीनरगणाः ।
वैडूर्यस्वच्छभुते मनसि मुनिपतिच्छायाधिगमने
चित्राण्युत्पादयन्ति प्रमुदितमनसस्तद्वज्जिनसुताः
यथैव वैडूर्यमहीतले शुचौ सुरेन्द्रकायप्रतिबिम्बसंभवः ।
तथा जगच्चित्तमहीतले शुचौ मुनीन्द्रकायप्रतिबिम्बसंभवः
( र्ग्व् 102 ) बिम्बोदयव्ययमनाविलताविलस्वचित्तप्रवर्तनवंशाज्जगति प्रवृत्तम् ।
लोकेषु यद्वदवभासमुपैति बिम्बं तद्वन्न तत्सदिति नासदिति प्रपश्येत्
देवदुन्दुभिवदिति ।
यथैव दिवि देवानां पूर्वशुक्लानुभावतः ।
यत्नस्थानमनोरूपविकल्परहिता सती
अनित्यदुःखानैरात्म्यशान्तशब्दैः प्रमादिनः ।
चोदयत्यमरान् सर्वानसकृद्देवदुन्दुभिः
व्याप्य बुद्धस्वरणैवं विभुर्जगदशेषतः ।
धर्म दिशति भव्येभ्यो यत्नादिरहितो ऽपि सन्
देवानां दिवि दिव्यदुन्दुभिरवो यैद्वत् स्वकर्मोद्भवो
धर्मोदाहरणं मुनेरपि तथा लोके स्वकर्मोद्भवम् ।
यत्नस्थानशरीरचित्तरहितः शब्दः स शान्त्यावहो
यद्वत् तद्वदृते चतुष्टयमयं धर्मः स शान्त्यावहः
संग्रामक्लेशवृत्तावसुरबलजयक्रीडाप्रणुदनं
दुन्दुभ्याः शब्दहेतुप्रभवमभयदं यद्वत् सुरपुरे ।
सत्त्वेषु क्लेशदुःखप्रमथनशमनं मार्गोत्तमविधौ
ध्यानारूप्यादिहेतुप्रभवमपि तथा लोके निगदितम्
कस्मादिह धर्मदुन्दुभिरेवाधिकृता न तदन्ये दिव्यास्तूर्यप्रकाराः । ते ऽपि हि दिवौकसां पूर्वकृतकुशलकर्मवशादघट्टिता एव दिव्यश्रवणमनोहरशब्दमनुरुवन्ति । ( र्ग्व् 103 ) तैस्तथागतघोषस्य चतुःप्रकारगुणवैधर्म्यात् । तत्पुनः कतमत् । तद्यथा प्रादेशिकत्वमहितत्वमसुखत्वमनैर्याणिकत्वमिति । धर्मदुन्दुभ्याः पुनरप्रादेशिकत्वमशेषप्रमत्तदेवगणसंचोदनतया च तत्कालानतिक्रमणतया च परिदीपितम् । हितत्वमसुरादिपरचक्रोपद्रवभयपरित्राणतया चाप्रमादसंनियोजनतया च । सुखत्वमसत्कामरतिसुखविवेचनतया च धर्मारामरतिसुखोपसंहरणतया च । नैर्याणिकत्वमनित्यदुःखशून्यानात्मशब्दोच्चारणतया च सर्वोपद्रवोपायासोपशान्तिकरणतया च परिदीüपितम् । एभिः समासतश्चतुर्भिराकारैर्धर्मदुन्दुभिसाधर्म्येण बुद्धस्वरमण्डलं विशिष्यत इति । बुद्धस्वरमण्डलविशेषणश्लोकः ।
सार्वजन्यो हितसुखः प्रातिहार्यत्रयान्वितः ।
मुनेर्घोषो यतो दिव्यतूर्येभ्यो ऽतो विशिष्यते
एषां खलु चतुर्णामाकाराणां यथासंख्यमेव चतुर्भिः श्लोकः समासनिर्देशो वेदितव्यः ।
शब्दा महान्तो दिवि दुन्दुभीनां क्षितिस्थितेषु श्रवणं न यान्ति ।
संसारपातालगतेषु लोके संबुद्धतूर्यस्य तु याति शब्दः
बह्व्यो ऽमराणां दिवि तूर्यकोट्यो नदन्ति कामज्वलनाभिवृद्धौ ।
एकस्तु घोषः करुणात्मकानां दुःखाग्निहेतुप्रशम्प्रवृत्तः
शुभा मनोज्ञा दिवि तूर्यनिस्वना भवन्ति चित्तोद्धतिवृद्धिहेतवः ।
( र्ग्व् 104 ) तथागतानां तु रुतं महात्मनां समाधिचित्तार्पणभाववाचकम्
समासतो यत्सुखकारणं दिवि क्षितावनन्तास्वपि लोकधातुषु ।
अशेषलोकस्फरणावभासनं प्रघोषमागम्य तदप्युदाहृतम्
कायविकुर्वितेन दशदिगशेषलोकधातुस्फरणमृद्धिप्रातिहार्यमिति सूचितम् । चेतःपर्यायज्ञानेन तत्पर्यापन्नं सर्वसत्त्वचित्तचरितगहनावभासनमादेशनाप्रातिहार्यम् । वाग्घोषोदाहरणेन नैर्याणिकीं प्रतिपदमारभ्य तदववादानुशासनमनुशास्ति प्रातिहार्यम् । इत्येवमव्याहतगतेराकाशधातुवदपरिच्छिन्नवर्तिनो ऽपि बुद्धस्वरमण्डलस्य यन्न सर्वत्र सर्वघोषोपलब्धिः प्रजायते न तत्र बुद्धस्वरमण्डलस्यापराध इति । प्रत्यायनार्थमतत्प्रहितानामात्मापराधे श्लोकः ।
यथा सूक्ष्मान् शब्दाननुभवति न श्रोत्रविकलो
न दिव्यश्रोत्रो ऽपि श्रवणपथमायान्ति निखिलम् ।
तथा धर्मः सूक्ष्मः परमनिपुणज्ञानविषयः
प्रयात्येकेषां तु श्रवणपथमविलष्टमनसाम् ॥ 41
मेघवदिति ।
प्रावृट्काले यथा मेघः पृथिव्यामभिवर्षति ।
वारिस्कन्धं निराभोगो निमित्तं सस्यसंपदः
( र्ग्व् 105 ) करुणाम्बुदतस्तद्वत् सद्धर्मसलिलं जिनः ।
जगत्कुशलसस्येषु निर्विकल्पं प्रवर्षति
लोके यथा कुशलकर्मपथप्रवृत्ते वर्षन्ति वायुजनितं सलिलं पयोदाः ।
तद्वत् कृपानिलजगत्कुशलाभिवृद्धेः सद्धर्मवर्षमभिवर्षति बुद्धमेघः
भवेषु संवित्करुणावभृत्कः क्षराक्षरासङ्गनभस्तलस्थः ।
समाधिधारण्यमलाम्बुगर्भो मुनीन्द्रमेघः शुभसस्यहेतुः
भाजनविमात्रतायाम् ।
शीतं स्वादु प्रसन्नं मृदु लघु च पयस्तत्पयोदयाद्विमुक्तं
क्षारादिस्थानयोगादतिबहुरसतामेति यद्वत् पृथिव्याम् ।
आर्याष्ताङ्गाम्बुवर्षं सुविपुलकरुणामेघगर्भाद्विमुक्तं
सन्तानस्थानभेदाद्बहुविधरसतामेति तद्वत् प्रजासु
निरपेक्षप्रवृत्तौ ।
यानाग्रे ऽभिप्रसन्नानां मध्यानां प्रतिघातिनाम् ।
मनुष्यचातकप्रेतसदृशां राशयस्त्रयः
ग्रीष्मान्ते ऽम्बुधरेष्वसत्सु मनुजा व्योम्न्यप्रचाराः खगा
वर्षास्वप्यतिवर्षणप्रपतनात्प्रेताः क्षिप्तौ दुःखिताः ।
( र्ग्व् 106 ) अप्रादुर्भवनोदये ऽपि करुणामेघाभ्रधर्माम्भसो
धर्माकाङ्क्षिणि धर्मताप्रतिहते लोके च सैवोपमा
स्थूलैर्बिन्दुनिपातनैरशनिभिर्वज्राग्निसंपातनैः
सूक्ष्मप्राणकशैलदेशगमिकान्नापेक्षते तोयदः ।
सूक्ष्मौदारिकयुक्त्युपायविधिभिः प्रज्ञाकृपाम्भोधरस्
तद्वत् क्लेशगतान्दृष्त्यनुशयान्नापेक्षते सर्वथा
दुःखाग्निप्रशमने ।
संसारो ऽनवराग्रजातिमरणस्तत्संसृतौ पञ्चधा
मार्गः पञ्चविधे च वर्त्मनि सुखं नोच्चारसौगन्ध्यवत् ।
तद्दुःखं ध्रुवमग्निशस्त्रशिशिरक्षारादिसंस्पर्शजं
तच्छान्त्यै च सृजन् कृपाजलधरः सद्धर्मवर्षं महत्
देवेषु च्युतिदुःखमित्यवगमात् पर्येष्टिदुःखं नृषु
प्राज्ञा नाभिलषन्ति देवमनुजेष्वैश्वर्यमप्युत्तमम् ।
प्रज्ञायाश्च तथागतप्रवचनश्रद्धानुमान्यादिदं
दुःखं हेतुरयं निरोध इति च ज्ञानेन संप्रेक्षणात्
व्याधिर्ज्ञेयो व्याधिहेतुः प्रहेयः स्वास्थ्यं प्राप्यं भेषजं सेव्यमेवम् ।
दुःखं हेतुस्तन्निरोधो ऽथ मार्गो ज्ञेयं हेयः स्पर्शितव्यो निषेव्यः
( र्ग्व् 107 ) महाब्रह्मवदिति ।
सर्वत्र देवभवने ब्राह्म्यादविचलन् पदात् ।
प्रतिभासं यथा ब्रह्मा दर्शयत्यप्रयत्नतः
तद्वन्मुनिरनाभोगान्निर्माणैः सर्वधातुषु ।
धर्मकायादविचलन् भव्यानामेति दर्शनम् ॥ 54
यद्वद् ब्रह्मा विमानान्न चलति सततं कामधातुप्रविष्टं
देवाः पश्यन्ति चैनं विषयरतिहरं दर्शनं तच्च तेषाम् ।
तद्वत् सद्धर्मकायान्न चलति सुगतः सर्वलोकेषु चैनं
भव्याः पश्यन्ति शश्वत्सकलमलहरं दर्शनं तच्च तेषाम्
तस्यैव पूर्वप्रणिधानयोगान् मरुद्गणानां च शुभानुभावात् ।
ब्रह्मा यथा भासमुपैत्ययत्नान् निर्माणकायेन तथा स्वयंभूः
अनाभासगमने ।
च्युतिं गर्भाक्रान्तिं जननपितृवेश्मप्रविशनं
रतिक्रीडारण्यप्रविचरणमारप्रमथनम् ।
महाबोधिप्राप्तिं प्रशमपुरमार्गप्रणयनं
निदर्श्याधन्यानां नयनपथमभ्येति न मुनिः
सूर्यवदिति ।
सूर्ये यथा तपति पद्मगणप्रबुद्धिरेकत्र कालसमये कुमुदप्रसुप्तिः । ( र्ग्व् 108 )
बुद्धिप्रसुप्तिगुणदोषविधावकल्पः सूर्यो ऽम्बुजेष्वथ च तद्वदिहार्यसूर्यः
द्विविधः सत्त्वधातुरविनेयो विनेयश्च । तत्र यो विनेयस्तमधिकृत्य पद्मोपमता स्वच्छजलभाजनोपमता च ।
निर्विकल्पो यथादित्यः कमलानि स्वरश्मिभिः ।
बोधत्येकमुक्ताभिः पाचयत्यपराण्यपि
सद्धर्मकिरणैरेवं तथागतदिवाकरः ।
विनेयजनपद्मेषु निर्विकल्पः प्रवर्तते
धर्मरूपशरीराभ्यां बोधिमण्डाम्बरोदितः ।
जगत्स्फरति सर्वज्ञदिनकृज्ज्ञानरश्मिभिः
यतः शुचिनि सर्वत्र विनेयसलिलाशये ।
अमेयसुगतादित्यप्रतिबिम्बोदयः सकृत्
एवमविकल्पत्वे ऽपि सति बुद्धानां त्रिविधे सत्त्वराशौ दर्शनादेशनाप्रवृत्तिक्रममधिकृत्य शैलोपमता ।
सदा सर्वत्र विसृते धर्मधातुनभस्तले ।
बुद्धसूर्ये विनेयाद्रितन्निपातो यथार्हतः
। ( र्ग्व् 109 )
उदित इह समन्ताल्लोकमाभास्य यद्वत् प्रततदशशतांशुः सप्तसप्तिः क्रमेण ।
प्रतपति वरमध्यन्यूनशैलेषु तद्वत् प्रतिपति जिनसूर्यः सत्त्वराशौ क्रमेण
प्रभामण्डलविशेषणे ।
सर्वक्षेत्रनभस्तलस्फरणता भानोर्न संविद्यते
नाप्यज्ञानतमोऽन्धकारगहनज्ञेयार्थसंदर्शनम् ।
नानावर्णविकीर्णरश्मिविसरैरेकैकरोमोद्भवैर्
भासन्ते करुणात्मका जगति तु ज्ञेयार्थसंदर्शकाः
बुद्धानां नगरप्रवेशसमये चक्षुर्विहीना जनाः
पश्यन्त्यर्थमनर्थजालविगमं विन्दन्ति तद्दर्शनात् ।
मोहान्धाश्च भवार्णवान्तरगता दृष्ट्यन्धकारावृता
बुद्धार्कप्रभयावभासितधियः पश्यन्त्यदृष्टं पदम्
चिन्तामणिवदिति ।
युगपद्गोचरस्थानां सर्वाभिप्रायपूरणम् ।
कुरुते निर्विकल्पो ऽपि पृथक् चिन्तामणिर्यथा
बुद्धचिन्तामणिं तद्वत् समेत्य पृथगाशयाः ।
शृण्वन्ति धर्मतां चित्रां न कल्पयति तांश्च सः
यथाविकल्पं मणिरत्नमीप्सितं धनं परेभ्यो विसृजत्ययत्नतः । ( र्ग्व् 110 )
तथा मुनिर्यत्नमृते यथार्हतः परार्थमातिष्ठति नित्यमा भवात्
दुर्लभप्राप्तभावास्तथागता इति ।
इह शुभमणिप्राप्तिर्यद्वज्जगत्यतिदुर्लभा
जलनिधिगतं पातालस्थं यतः स्पृहयन्ति तम् ।
न सुलभमिति ज्ञेयं तद्वज्जगत्यतिदुर्लभगे
मनसि विविधक्लेशग्रस्ते तथागतदर्शनम्
प्रतिश्रुत्काशब्दवदिति ।
प्रतिश्रुत्कारुतं यद्वत् परविज्ञप्तिसंभवम् ।
निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम्
तथागतरुतं तद्वत् परविज्ञप्तिसंभवम् ।
निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम्
आकाशवदिति ।
निष्किंचने निराभासे निरालम्बे निराश्रये ।
चक्षुष्पथव्यतिक्रान्ते ऽप्यरूपिण्यनिदर्शने
यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा ।
बुद्धेष्वपि तथा सर्व दृश्यते न च तत्तथा
पृथिवीवदिति ।
सर्वे महीरुहा यद्वदविकल्पां वसुंधराम् ।
निश्रित्य वृद्धिं वैरूढिं वैपुल्यमुपयान्ति च
संबुद्धपृथिवीमेवमविकल्पामशेषतः ।
जगत्कुशलमूलानि वृद्धिमाश्रित्य यान्ति हि
( र्ग्व् 111 ) उदाहरणानां पिण्डार्थः ।
न प्रयत्नमृते केश्चिद्दृष्टः कुर्वन् क्रियामतः ।
विनेयसंशयच्छित्त्यै नवधोक्तं निदर्शनम्
सूत्रस्य तस्य नाम्नैव दिपितं तत्प्रयोजनम् ।
यत्रैते नव दृष्टान्ता विस्तरेण प्रकाशिताः
एतच्छ्रतमयोदारज्ञानालोकाद्यलंकृताः ।
धीमन्तो ऽवतरन्त्याशु सकलं बुद्धगोचरम्
इत्यर्थ शक्रवैडूर्यप्रतिबिम्बाद्युदाहृतिः ।
नवधोदाहृता तस्मिन्तत्पिण्डार्थो ऽवधार्यते
दर्शनादेशना व्याप्तिर्विकृतिर्ज्ञाननिःसृतिः ।
मनोवाक्कायगुह्यानि प्राप्तिश्च करुणात्मनाम्
सर्वाभोगपरिस्पन्दप्रशान्ता निर्विकल्पिकाः ।
धियो विमलवैडूर्यशक्रबिम्बोदयादिवत्
प्रतिज्ञाभोगशान्तत्वं हेतुर्धीनिर्विकल्पता ।
दृष्टान्तः शक्रबिम्बादिः प्रकृतार्थसुसिद्धये
अयं च प्रकृतो ऽत्रार्थो नवधा दर्शनादिकम् ।
जन्मान्तर्धिमृते शास्तुरनाभोगात् प्रवर्तते
( र्ग्व् 112 ) एतमेवार्थमधिकृत्योदाहरणसंग्रहे चत्वारः श्लोकाः ।
यः शक्रवद्दुन्दुभिवत् पयोदवद् ब्रह्मार्कचिन्तामणिराजरत्नवत् ।
प्रतिश्रुतिव्योममहीवदा भवात् परार्थकृद्यत्नमृते स योगवित्
सुरेन्द्ररत्नप्रतिभासदर्शनः सुदैशिको दुन्दुभिवद् विभो रुतम् ।
विभुर्महाज्ञानकृपाभ्रमण्डलः स्फरत्यनन्तं जगदा भवाग्रतः
अनास्रवाद्ब्रह्मवदच्युतः पदादनेकधा दर्शनमेति निर्मितैः ।
सदार्कवज्ज्ञानविनिःसृतद्युतिर्विशुद्धचिन्तामणिरत्नमानसः
प्रतिरव इव घोषो ऽनक्षरोक्तो जिनानां
गगनमिव शरीरं व्याप्यरूपि ध्रुवं च ।
क्षितिरिव निखिलानां शुक्लधर्मौषधीनां
जगत इह समन्तादास्प दं बुद्धभूमिः
कथं पुनरनेनोदाहरणनिर्देशेन सततमनुत्पन्ना अनिरुद्धाश्च बुद्धा भगवन्त उत्पद्यमाना निरुध्यमानाश्च संदृश्यन्ते सर्वजगति चैषामनाभोगेन बुद्धकार्याप्रतिप्रश्रब्धिएरिति परिदीपितम् ।
शुभं वैडूर्यवच्चित्ते बुद्धदर्शनहेतुकम् ।
तद्विशुद्धिरसंहार्यश्रद्धेन्द्रियविरूढिता
( र्ग्व् 113 ) शुभोदयव्ययाद्धुद्धंप्रतिबिम्बोदयव्ययः ।
मुनिर्नोदेति न व्येति शक्रवद्धर्मकायतः
अयत्नात् कृत्यमित्येवं दर्शनादि प्रवर्तते ।
धर्मकायादनुत्पादानिरोधादा भवस्थितेः
अयमेषां समासार्थ औपम्यानां क्रमः पुनः ।
पूर्वकस्योत्तरेणोक्तो वैधर्म्यपरिहारतः
बुद्धत्वं प्रतिबिम्बाभं तद्वन्न च न घोषवत् ।
देवदुन्दुभिवत् तद्वन्न च नो सर्वथार्थकृत्
महामेघोपमं तद्वन्न च नो सार्थबीजवत् ।
महाब्रह्मोपमं तद्वन्न च नात्यन्तपाचकम्
सूर्यमण्डलवत् तद्वन्न नात्यन्त तमो ऽपहम् ।
चिन्तामणिनिभं तद्वन्न च नो दुर्लभोदयम्
प्रतिश्रुत्कोपमं तद्वन्न च प्रत्ययसंभवम् ।
आकाशसदृशं तद्वन्न च शुक्लास्पदं च तत्
पृथिवीमण्डलप्रख्यं तत्प्रतिष्ठाश्रयत्वतः ।
लौक्यलोकोत्तराशेषजगत्कुशलसंपदम्
( र्ग्व् 114 ) बुद्धानां बोधिमागम्य लोकोत्तरपथोदयात् ।
शुक्लकर्मपथध्यानाप्रमाणारूप्यसंभव इति
इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतकृत्यक्रियाधिकारश्चतुर्थः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः
मूल पाठ: Ratnagotravibhāga · Edition: E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0