भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगोत्रविभाग · अध्याय 7

7.1

5. पंचमः परिच्छेदः
अतः परमेष्वेव यथापरिकीर्तितेषु स्थानेष्वधिमुक्तानामधिमुक्त्यनुशंसे षट् श्लोकाः
बुद्धधातुर्बुद्धबोधिर्बुद्धधर्मा बुद्धकृत्यम् ।
गोचरो ऽयं नायकानां शुद्धसत्त्वैरप्यचिन्त्यः

7.2

इह जिनविषये ऽधिमुक्तबुद्धिर्गुणगणभाजनतामुपैति धीमान् ।
अभिभवति स सर्वसत्त्वपुण्यप्रसवमचिन्त्यगुणाभिलाषयोगात्

7.3

यो दद्यान्मणिसंस्कृतानि कनकक्षेत्राणि बोध्यर्थिको
बुद्धक्षेत्ररजःसमान्यहरहो धर्मेश्वरेभ्यः सदा ।
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्दानमयाच्छुंभाद्बहुतरं पुण्यं समासादयेत्

7.4

यः शीलं तनुवाङ्मनोभिरमलं रक्षेदनाभोगवद्
धीमान् बोधिमनुत्तरामभिलषन् कल्पाननेकानपि ।
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माच्छीलमयाच्छुभाद्बहुतरं पुण्यं समासादयेत्

7.5

ध्यायेद्ध्यानमपीह यस्त्रिभुवनक्लेशाग्निनिर्वापकं
दिव्यब्रह्म विहारपारमिगतः संबोध्युपायाच्युतः ।
यश्चान्यः श्रृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्ध्यानमयाच्छुभाद्बहुतरं पुण्यं समासादयेत्

7.6

( र्ग्व् 116 ) दानं भोगानावहत्येवः यस्माच्छीलं स्वर्गं भावना क्लेशहानिम् ।
प्रज्ञा क्लेशज्ञेयसर्वप्रहाणं सातः श्रेष्ठा हेतुरस्याः श्रवो ऽयम्

7.7

एषा श्लोकानां पिण्डार्थो नवभिः श्लोकैर्वेदितव्यः ।
आश्रये तत्परावृत्तौ तद्गुणेष्वर्थसाधने ।
चतुर्विधे जिनज्ञानविषये ऽस्मिन् यथोदिते

7.8

धिमानस्तित्वशक्तत्वगुणवत्त्वा धिमुक्तितः ।
तथागतपदप्राप्तिभव्यतामाशु गच्छति

7.9

अस्त्यसौ विषयो ऽचिन्त्यः शक्यः प्राप्तुं स मादृशैः ।
प्राप्त एवंगुणश्चासाविति श्रद्धाधिमुक्तितः

7.10

छन्दवीर्यस्मृतिध्यानप्रज्ञादिगुणभाजनम् ।
बोधिचित्तं भवत्यस्य सततं प्रत्यपस्थितम्

7.11

तच्चित्तप्रत्युपस्थानादविवर्त्यो जिनात्मजः ।
पुण्यपारमितापूरिपरिशुद्धिं निगच्छति

7.12

पुण्यं पारमिताः पञ्च त्रेधा तदविकल्पनात् ।
तत्पूरिः परिशुद्धिस्तु तद् विपक्षप्रहाणतः

7.13

दानं दानमयं पुण्यं शीलं शीलमयं स्मृतम् ।
द्वे भावनामयं क्षान्तिध्याने वीर्यं तु सर्वगम्

7.14

( र्ग्व् 117 ) त्रिमण्डलविकल्पो यस्तज्ज्ञेयावरणं मतम् ।
मात्सर्यादिविपक्षो यस्तत् क्लेशावरणं मतम्

7.15

एतत्प्रहाणहेतुश्च नान्यः प्रज्ञामृते ततः ।
श्रेष्ठा प्रज्ञा श्रुतं चास्य मूलं तस्माच्छ्रुतं परम्

7.16

इतीदमाप्तागमयुक्तिसंश्रयादुदाहृतं केवलमात्मशुद्धये ।
धियाधिमुक्त्या कुशलोपसंपदा समन्विता ये तदनुग्रहाय च

7.17

प्रदीपविद्युन्मणिचन्द्रभास्करान् प्रतीत्य पश्यन्ति यथा सचक्षुषः ।
महार्थधर्मप्रतिभाप्रभाकरं मुनिं प्रतीत्येदमुदाहृतं तथा

7.18

यदर्थवद्धर्मपदोपसंहितं त्रिधातुसंक्लेशनि बर्हण वचः ।
भवेच्च यच्छान्त्यनुशंसदर्शकं तदुक्तमार्षं विपरीतमन्यथा

7.19

यत्स्यादविक्षिप्तमनोभिरुक्तं शास्तारमेकं जिनमुद्दिशद्भिः ।
( र्ग्व् 118 ) मोक्षाप्तिसंभारपथानुकूलं मूर्ध्ना तदप्यार्षमिव प्रतीच्छेत्

7.20

यस्मान्नेह जिनात् सुपण्डिततमो लोके ऽस्ति कश्चित्क्वचित्
सर्वज्ञः सकलं स वेद विधिवत्तत्त्वं परं नापरः ।
तस्माद्यत्स्वयमेव नीतमृषिणा सूत्रं विचाल्यं न तत्
सद्धर्मप्रतिबाधनं हि तदपि स्यान्नीति भेदान्मुनेः

7.21

आर्यांश्चापवदन्ति तन्निगदितं धर्मं च गर्हन्ति यत्
सर्वः सो ऽभिनिवेशदर्शनकृतः क्लेशो विमूढात्मनाम् ।
तस्मान्नाभिनिवेशदृष्टिमलिने तस्मिन्निवेश्या मतिः
शुद्धं वस्त्रमुपैति रङ्गविकृतिं न स्नेहपङ्काङ्कितम्

7.22

धीमान्द्यादधिमुक्तिशुक्लविरहान् मिथ्याभिमानाश्रयात्
सद्धर्मव्यसनावृतात्मकतया नेयार्थतत्त्वग्रहात् ।
लोभग्रेधतया च दर्शनवशाद्धर्मद्विपां सेवनाद्
आराद्धर्मभृतां च हीनरुचयो धर्मान् क्षिपन्त्यर्हताम्

7.23

नाग्नेर्नोग्रविषादहेर्न वधकान्नैवाशनिभ्यस्तथा
भेतव्यं विदुषामतीव तु यथा गम्भीरधर्मक्षतेः ।
कुर्युर्जीवितविप्रयोगमनलव्यालारिवज्राग्नयस्
तद्धेतोर्न पुनर्व्रजेदतिभयामावीचिकानां गतिम्

7.24

( र्ग्व् 119 ) यो ऽभीक्ष्णं प्रतिसेव्य पापसुहृदः स्याद्वुद्धदुष्टाशयो
मातापित्ररिहद्वधाचरणकृत् संघाग्रभेत्ता नरः ।
स्यात्तस्यापि ततो विमुक्तिरचिरं धर्मार्थनिध्यानतो
धर्मे यस्य तु मानसं प्रतिहतं तस्मै विमुक्तिः कुतः

7.25

रत्नानि व्यवदानधातुममलां बोधिं गुणान् कर्म च
व्याकृत्यार्थपदानि सप्त विधिवद्यत् पुण्यमाप्तं मया ।
तेनेयं जनतामितायुषमृषिं पश्येदनन्तद्युतिं
दृष्ट्वा चामलधर्मचक्षुरुदयाद्बोधिं परामाप्नुयात्

7.26

एषामपि दशानां श्लोकानां पिण्डार्थस्त्रिभिः श्लोकैर्वेदितव्यः ।
यतश्च यन्निमित्तं च यथा च यदुदाहृतम् ।
यन्निष्यन्दफलं श्लोकैश्चतुर्भिः परिदीपितम्

7.27

आत्मसंरक्षणोपायो द्वाभ्यामेकेन च क्षतेः ।
हेतुः फलमथ द्वाभ्यां श्लोकाभ्यां परिदीपितम्

7.28

संसारमण्डलक्षान्तिर्बोधिप्राप्तिः समासतः ।
द्विधा धर्मार्थवादस्य फलमन्तेन दर्शितम्

7.5

इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे ऽनुशंसाधिकारो नाम पञ्चमः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः

मूल पाठ: Ratnagotravibhāga · Edition: E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc