भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगोत्रविभाग · अध्याय 5

5.1

3. तृतीय परिच्छेद
उक्ता निर्मला तथता । ये तदाश्रिता मणिप्रभावर्णसंस्थानवदभिन्नप्रकृतयो ऽशान्तर्निमला गुणास्त इदानीं वक्तव्या इति । अनन्तरं बुद्धगुणविभागमारभ्य श्लोकः ।
स्वार्थः परार्थः परमार्थकायस्तदाश्रिता संवृतिकायता च ।
फलं विसंयोगविपाकभावादेतच्चतुः षष्टिगुणप्रभेदम्

5.2

किमुक्तं भवति ।
आत्मसंपत्त्यधिष्ठानं शरीरं पारमार्थिकम् ।
परसंपत्त्यधिष्ठानमृषेः सांकेतिकं वपुः

5.3

विसंयोगगुणर्युक्तं वपुराद्यं बलादिभिः ।
वैपाकिकैर्द्वितीयं तु महापुरुषलक्षणैः

5.4

अतः परं ये च बलादयो यथा चानुगन्तव्यास्तथतामधिकृत्य ग्रन्थः ।
बलत्वमज्ञानवृतेषु वज्रवद्विशारदत्वं परिषत्सु सिंहवत् ।
तथागतावेणिकतान्तरीक्षवन् मुनेर्द्विधादर्शनमम्बुचन्द्रवत्

5.5

बलान्वित इति ।
स्थानास्थाने विपाके च कर्मणामिन्द्रियेषु च ।
धातुष्वप्यधिमुक्तौ च मार्गे सर्वत्रगामिनि

5.6

( र्ग्व् 92 ) ध्यानादिक्लेशवैमल्ये निवासानुस्मृतावपि ।
दिव्ये चक्षुषि शान्तौ च ज्ञानं दशविधं बलम्

5.7

वज्रवदिति ।
स्थानास्थानविपाकधातुषु जगन्नानाधुमुक्तौ नये
संक्लेशव्यवदान इन्द्रियगणे पूर्वे निवासस्मृतौ ।
दिव्ये चक्षुषि चास्रवक्षयविधावज्ञानवर्माचल-
प्राकारद्रुमभेदनप्रकिरणच्छेदाद्वलं वज्रवत्

5.8

चतुर्वेशारद्यप्राप्त इति ।
सर्वधर्माभिसंबोधे विवन्धप्रतिषेधने ।
मार्गाख्याने निरोधाप्तौ वैशारद्यं चतुर्विधम्

5.9

ज्ञेये वस्तुनि सर्वथात्मपरयोर्ज्ञानात् स्वयंज्ञापनाद्
धेये वस्तुनि हानिकारणकृतेः सेव्ये विधौ सेवनात् ।
प्राप्तव्ये च निरुत्तरे ऽतिविमले प्राप्तेः परप्रापणाद्
आर्याणां स्वपरार्थसत्यकथनादस्तम्भितत्वं क्वचित्

5.10

सिंहवदिति ।
नित्यं वनान्तेषु यथा मृगेन्द्रो निर्भीरनुत्तस्तगतिर्मृगेभ्यः ।
( र्ग्व् 93 ) मुनीन्द्रसिंहो ऽपि तथा गणेषु स्वस्थो निरास्थः स्थिरविक्रमस्थः

5.11

अष्टदशावेणिकबुद्धधर्मसमन्वागत इति ।
स्खलितं रवितं नास्ति शास्तुर्न मुषिता स्मृतिः ।
न चासमाहितं चित्तं नापि नानत्वसंज्ञिता

5.12

नोपेक्षाप्रतिसंख्याय हानिर्न च्छन्दवीर्यतः ।
स्मृतिप्रज्ञाविमुक्तिभ्यो विमुक्तिज्ञानदर्शनात्

5.13

ज्ञानपूर्वंगमं कर्म त्र्यध्वज्ञानमनावृतम् ।
इत्येते ऽष्टादशान्ये च गुरोरावेणिका गुणाः

5.14

नास्ति प्रस्खलितं रवो मुषितता चित्ते न संभेदतः
संज्ञा न स्वरसाध्युपेक्षणमृषेर्हानिर्न च च्छन्दतः ।
वीर्याच्च स्मृतितो विशुद्धविमलप्रज्ञाविमुक्तेः सदा
मुक्ति ज्ञाननिर्दशनाच्च निखिलज्ञेयार्थसंदर्शनात्

5.15

सर्वज्ञानुपुरोजवानुपरिवर्त्यर्थेषु कर्मत्रयं
त्रिष्वध्वस्वपराहत सुविपुलज्ञानप्रवृत्तिर्ध्रुवम् ।
( र्ग्व् 94 ) इत्येषा जिनता महाकरुणया युक्तावबुद्धा जिनैर्
यद्बोधाज्जगति प्रवृत्तमभयदं सद्धर्मचक्रं महत्

5.16

आकाशवदिति ।
या क्षित्यादिषु धर्मता न नभसः सा धर्मता विद्यते
ये चानावरणादिलक्षणगुणा व्योम्नो न ते रूपिषु ।
क्षित्यम्बुज्वलनानिलाम्बरसमा लोकेषु साधारणा
बुद्धावेणिकता न चाश्वपि पुनर्लोकेषु साधारणा

5.17

द्वात्रिंशन्महापुरुषलक्षणरूपधारीति ।
सुप्रतिष्ठितचक्राङ्कव्यायतोत्सङ्गपादता ।
दीर्घाङ्गुलिकता जालपाणिपादावनद्धता

5.18

त्वङ् मृदुश्रीतरुणता सप्तोत्सदशरीरता ।
एणेयजङ्घता नागकोशवद्वस्तिगुह्यत

5.19

सिंहपूर्वार्धकायत्वं निरन्तरचितांशता ।
संवृत्तस्कन्धता वृत्तश्लक्ष्णानुन्नामबाहुता

5.20

( र्ग्व् 95 ) प्रलम्बबाहुता शुद्धप्रभामण्डलगात्रता ।
कम्बुग्रीवत्वममलं मृगेन्द्रहनुता समा

5.21

चत्वारिंशद्दशनता स्वच्छाविरलदन्तता ।
विशुद्धसमदन्तत्वं शुक्लप्रवरदंष्ट्रता

5.22

प्रभूतजिव्हतानन्ताचिन्त्यरसरसाग्रता ।
कलविङ्करुतं ब्रह्मस्वरता च स्वयंभुवः

5.23

नीलोत्पलश्रीवृषपक्ष्मनेत्रसितामलोर्णोदितचारुवक्त्रः ।
उष्णीषशीर्षव्यवदातसूक्ष्मसुवर्णवर्णच्छविरग्रसत्त्वः

5.24

एकैकविश्लिष्टमृदूर्ध्वदेहप्रदक्षिणावर्तसुसूक्ष्मरोमा ।
महेन्द्रनीलामलरत्नकेशो न्यग्रोधपूर्णद्रुममण्डलाभः

5.25

नारायणस्थामदृढात्मभावः समन्तभद्रो ऽप्रतिमो महर्षिः ।
द्वात्रिंशदेतान्यमितद्युतीनि नरेन्द्रचिन्हानि वदन्ति शास्तुः

5.26

दकचन्द्रवदिति ।
व्यभ्रे यथा नभसि चन्द्रमसो विभूतिं
पश्यन्ति नीलशरदम्बुमहाह्रदे च ।
( र्ग्व् 96 ) संबुद्धमण्डलतलेषु विभोर्विभूतिं
तद्विज्जिनात्मजगणा व्यवलोकयन्ति

5.27

इतीमानि दश तथागतबलानि चत्वारि वैशारद्यान्यष्टादशावेणिका बुद्धधर्मा द्वात्रिंशच्च महापुरुषलक्षणान्यकेनाभिसंक्षिप्य चतुःषष्टिर्भवन्ति ।
गुणाश्चैते चतुःषष्टिः सनिदानाः पृथक् पृथक् ।
वेदितव्या यथासंख्यं रत्नसूत्रानुसारतः

5.28

एषां खलु यथोद्दिष्टानामेव चतुःषष्टेस्तथागतगुणानामपि यथानुपूर्व्या विस्तरविभागे निर्देशो रत्नदारिकासूत्रानुसारेण वेदितव्यः । यत्पुनरेषु स्थानेषु चतुर्विधमेव यथाक्रमं वज्रसिंहाम्वरदकचन्द्रोदाहरणमुदाहृतमस्यापि पिण्डार्थो द्वादशभिः श्लोकैर्वेदितव्यः ।
निर्वेधिकत्वनिर्दैन्यनिष्कैवल्यनिरीहतः ।
वज्रसिंहाम्बरस्वच्छदकचन्द्रनिदर्शनम्

5.29

बलादिषु बलैः षड्भिस्त्रिभिरेकेन च क्रमात् ।
सर्वज्ञेयसमापत्तिसवासनमलोद्धृतेः

5.30

भेदाद्विकरणाच्छेदाद्वर्मप्राकारवृक्षवत् ।
गुरुसारदृढाभेद्यं वज्रप्रख्यमृषेर्बलम्

5.31

गुरु कस्माद्यतः सारं सारं कस्माद्यतो दृढम् ।
दृढं कस्माद्यतो ऽभेद्यमभेद्यत्वाच्च वज्रवत्

5.32

निर्भयत्वान्निरास्थत्वात्स्थैर्याद्विक्रमसंपदः ।
पर्षद्गणेष्वशारद्यं मुनिसिंहस्य सिंहवत्

5.33

( र्ग्व् 97 ) सर्वाभिज्ञतया स्वस्थो विहरत्यकुतोभयः ।
निरास्थः शुद्धसत्त्वेभ्यो ऽप्यात्मनो ऽसमदर्शनात्

5.34

स्थिरो नित्यसमाधानात् सर्वधर्मेषु चेतसः ।
विक्रान्तः परमाविद्यावासभूमिव्यतिक्रमात्

5.35

लौकिकश्रावकैकान्तचारिधीमत्स्वयंभुवाम् ।
उत्तरोत्तरधीसौक्ष्म्यात् पञ्चधा तु निदर्शनम्

5.36

सर्वलोकोपजीव्यत्वाद्भूम्यम्ब्वग्न्यनिलोपमाः ।
लौक्यलोकोत्तरातीतलक्षणत्वान्नभोनिभाः

5.37

गुणा द्वात्रिंशदित्येते धर्मकायप्रभाविताः ।
मणिरत्नप्रभावर्णसंस्थानवदभेदतः

5.38

द्वात्रिंशल्लक्षणाः काये दर्शनाह्लादका गुणाः ।
निर्माणधर्मसंभोगरूपकायद्वयाश्रिताः

5.39

शुद्धेर्दुरान्तिकस्थानां लोके ऽथ जिनमण्डले ।
द्विधा तद्दर्शनं शुद्धं वारिव्योमेन्दुबिम्बवत्

5.3

इति रत्नगोत्रविभागे महायानोत्तरत्नत्रशास्त्रे गुणाधिकारो नाम त्रितीयः परिच्छेदः

मूल पाठ: Ratnagotravibhāga · Edition: E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc