भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 9

9.1

र्चूम्, 9
{मधुरत्रय}
घृतं खण्डो माक्षिकं च विज्ञेयं मधुरत्रयम् ।
{मूत्रवर्गः}
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम्

9.2

गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं च योजयेत् ।
{पञ्चमृत्तिका}
इष्टिका गैरिकं लोणं भस्म वल्मीकमृत्तिका

9.3

रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ।
{क्षारत्रय}
टङ्कणं च यवक्षारः सर्जिक्षारस्तृतीयकः

9.4

{क्षारवर्गः}
पलाशकदलीशिग्रुतिलापामार्गमोक्षकाः ।
मूलकस् तिन्तिडीबोधिरक्तराजगिरिस् तथा

9.5

कम्बलोऽपरकुड्यानि क्षारश्चैषां पृथग्विधः ।
क्षारवर्ग इति प्रोक्तः दीपनश्च महाबलः

9.6

रत्नादिजारणश्चापि सर्वलोहादिजारणः ।
{अम्लवर्गः}
अम्लवेतसजम्बीरनिम्बुकं राजनिम्बुकम्

9.7

बदरं बीजपूरं च तिन्तिडी चुक्रिका तथा ।
चणाम्लं काञ्जिकं तद्वदम्लिका चाम्लदाडिमम्

9.8

करमर्दं च कोलाम्लमम्लवर्गोऽयमुच्यते ।
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितः

9.9

{लवणवर्गः}
सामुद्रं सिन्धुसंजातं काचोत्थं विडसंज्ञितम् ।
सौवर्चलमथो रौमं चुल्लिकं च गडादि च

9.10

लवणानामयं वर्गो रुच्यः पाचनदीपनः ।
द्रावणः शोधनः सर्वलोहानां भस्मनामपि

9.11

{विषवर्गः}
शृङ्गिकं कालकूटं च वत्सनाभं च सक्तुकम् ।
पीतं च विषवर्गोऽयं स वरः परिकीर्तितः

9.12

{विषवर्ग:: मेदिच्. प्रोपेर्तिएस्}
रसकर्मणि शस्तोऽयं तद्बन्धनवधेऽपि च ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम्

9.13

{उपविषवर्गः}
लाङ्गली विषमुष्टिश्च करवीरश् च जया तथा ।
नीलकः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः

9.14

{उपविष:: मेदिच्. प्रोपेर्तिएस्}
दीपनः पाचनो भेदी रसे क्वापि च युज्यते ।
विषेषु जङ्गमाद्येषु विषं सर्पस्य नापरम्

9.15

{तैलवर्गः}
तिलातसीकुसुम्भानां निम्बस्य करजस्य च ।
राज्याः सिद्धार्थकस्यापि गुञ्जाकङ्गुणिबीजयोः

9.16

मधूकस्य च तैलैश्च तैलवर्गो रसे हितः ।
{दुग्धवर्गः}
हस्त्यश्ववनिताधेनुगर्दभीछागिकाविकाः

9.17

उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकः ।
दुग्धिका स्नुग्गणं चैतत्तथैवोत्तमकर्णिका

9.18

एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ।
{पित्तवर्गः}
महिषक्रोडमत्स्यानां छागस्य च शिखण्डिनः

9.19

कृष्णाहिरोहितानां च मार्जारस्य च मायुभिः ।
प्रोक्तः पित्तगणः सूतवधबन्धनभावने

9.20

{वसावर्गः}
भेककूर्मवराहाहिनरमांससमुत्थया ।
वसया च वसावर्गो रसकर्मणि शस्यते

9.21

{विड्गणः}
पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः

9.22

शोधनः सर्वलोहानां पुटनाल्लेपनात् खलु ।
{रक्तवर्गः}
कुसुम्भखदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम्

9.23

अद्री च बन्धुजीवं च तथा कर्पूरगन्धिनी ।
माक्षिकं चेति विज्ञेयो रक्तवर्गो ऽतिरञ्जनः

9.24

{पीतवर्गः}
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि

9.25

{श्वेतवर्गः}
तगरः कुटजं कुन्दो गुञ्जा जीवन्तिका तथा ।
सितोऽम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः

9.26

{कृष्णवर्गः}
कदली क्रूरवल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः

9.27

रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु

9.28

{शोधनीयगणः}
काचटङ्कणशिप्राभिः शोधनीयो गणो मतः ।
सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालिकागणध्वंसी रसवादिभिरुच्यते

9.29

{मृदुकरवर्गः}
महिषीमेषशृङ्गोऽत्र कलिङ्गोद्भवबीजयुक् ।
शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः

9.30

{द्रावकवर्गः}
गुडगुग्गुलुगुञ्जाज्यसारघैष्टङ्कणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणेऽयं गणो मतः

9.31

क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc