भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 8

8.1

र्चूम्, 8
{सर्पाक्ष्यादिगणः}
सर्पाक्षी वन्ध्यकर्कोटी जलबिम्बी च जम्बुकी ।
पुनर्नवा च मत्स्याक्षी भृङ्गराजः शतावरी

8.2

शरपुङ्खा च मण्डूकपर्णिका ब्रह्मदण्डिका ।
अनन्ता कुक्कुटी जङ्घा काकमाची शिखण्डिनी

8.3

सहदेवी कपोती च विष्णुक्रान्ता कुरण्टकः ।
महाबला नागबला मूर्वा रास्ना कुरिङ्गिनी

8.4

फणिर्नीली प्रपुन्नाटः समङ्गामलकी तथा ।
ज्वालिनी मेघनादश्च गोजिह्वा पद्मचारिणी

8.5

पाठा च कोकिलाक्षश्च त्रिपत्त्रा चाखुकर्णिका ।
एकपर्णी द्विपर्णी च त्रिपर्णी क्षीरिणी तथा

8.6

तित्तिडी मेषशृङ्गी च तुलसी श्यामपर्णिका ।
श्वेताद्रिपर्णिका चेति सर्पाक्ष्यादिगणो मतः

8.7

षट्चत्वारिंशको नाम पारदस्य नियामकः ।
इहौषधीनां पञ्चाङ्गी गृहीतव्या विधानतः

8.8

रसादिस्वेदने मूषानयने शोधने तथा ।
अष्टोपरि यथालाभं ग्राह्या प्रोक्तेषु कर्मसु

8.9

अष्टकाधिकमाधिक्यं गुणानां कुरुते ध्रुवम् ।
{व्याघ्रिकादिगणः}
व्याघ्रिका राक्षसी वह्निश्चाण्डाली गजकर्णिका

8.10

षट्कारी शङ्खपुष्पी च बृहती हिलमोचकः ।
शृगालजिह्विका वह्निर्मदनी लाङ्गली तथा

8.11

चक्रिका वज्रिणी व्याघ्री कङ्कती पुत्रजीविका ।
कञ्चुकी चैव कर्कोटी कुमारी पद्मचारिणी

8.12

एकवीरा रुदन्ती च लक्ष्मी नरकसा तथा ।
उच्चटा रक्तचित्रा च नागिनी नागवल्लिका

8.13

सक्तुका सक्तुशृङ्गी च रक्तस्नुग् यज्ञवल्लिका ।
शाखोटो मेषशृङ्गी च हेमली व्याघ्रपादिका

8.14

शमी व्याघ्रनखी सोमवल्लरी चार्कपुष्पिका ।
केशिनी कासमारी च वृक्षराजोऽजमारिका

8.15

कोटराक्षी हनूमन्ती नरजीवाङ्गनायकी ।
मालिका काकतुण्डी च मेघपुष्पी च कङ्गुणी

8.16

अन्या तुवरवल्ली च जगती हंसपादिका ।
कुम्भिनी वह्निमारी च सूर्यभक्ता च वाकुची

8.17

रसनिर्जीवकारी च भूशुण्डी कटुतुम्बिका ।
देवदाली विशाला च कार्पासी ब्रह्मरञ्जकम्

8.18

कृष्णाक्षीवं तथा कृष्णधत्तूरो वनपीलुकम् ।
श्वेतार्को यवचिञ्चा च कारवेल्ली च दन्तिका

8.19

गोजिह्वा काकजङ्घा च श्वेतगुञ्जा च शम्बरा ।
महाकाली सिताङ्कोलो मायूरश्च पटोलिका

8.20

व्याघ्रिकादिगणः सोऽयं रसभस्मकरः परः ।
अत्रोक्तौषधिबीजेषु जीर्यते पारदः पृथक्

8.21

{रक्तस्नुह्यादिगणः}
रक्तस्नुही रुदन्ती च रक्ताग्निः सोमवल्लिका ।
वृद्धदारु च शाखोटी मोहिन्यङ्गारवल्लिका

8.22

बर्हिका क्षीरमार्जारी त्रिशूला क्षीरकुक्कुटी ।
जीमूतः काकमाची च नीलिका शङ्खपुष्पिका

8.23

नागवल्लीदलाकारपत्रयुक्ताल्पकन्दिनी ।
श्रीशैलोत्था च वज्रघ्नी नागकर्णीति सा स्मृता

8.24

ज्योतिष्मती द्रुमज्योतिस्तृणज्योतिरथोच्चटा ।
उदुम्बरी त्रिदण्डी च नीलज्योतिस्तथापरा

8.25

हेमवल्लरिका ताम्रवल्लरी चुक्र एव च ।
त्रिदण्डी ब्रह्मदण्डी च क्रौञ्चिका स्थलपद्मिनी

8.26

वरा वर्तुलपर्णा च नागकण्ठी च लाङ्गली ।
नागजिह्वार्कपत्री च काष्ठोदुम्बरिका तथा

8.27

कालदण्डी त्रिपर्णी च रक्तस्नुह्यादिको गणः ।
रसबन्धे वधे शुद्धौ विहितः शम्भुना स्वयम्

8.28

द्रव्यैश्च स्थावरैर् उपस्पर्शगन्धरसान्वितैः ।
शोधितो मर्दितः सूतो म्रियते बध्यते सुखम्

8.29

{कदल्यादिगणः}
कदली सूर्यभक्तश्च कटुकोषातकी तथा ।
द्राविणी काकमाची च शिग्रुका क्षीरकञ्चुकी

8.30

नीरपिप्पलिका चेति कदल्यादिगणस् त्वयम् ।
द्रावणः सर्वलोहानां रसादीनां च निश्चितम्

8.31

{काकमाच्यादिगणः}
काकमाच्यर्कपत्री च कासमर्दः कृताञ्जलिः ।
लक्ष्मणा हंसपादी च नागिनी क्षीरनालिका

8.32

ताम्बूली व्यालिका ब्राह्मी कारवल्ल्यर्जुनी चरा ।
वाराहकर्णिका मेघध्वनिश्च सहदेविका

8.33

तथा कुरुवकश्चेति काकमाच्यादिको गणः ।
क्रामणाय विनिर्दिष्टा देहे लोहे रसस्य हि

8.34

एकवीरा महावीरा प्रयोगो हेमदण्डिका ।
चतुर्भेदमिदं प्रोक्तं निश्चितं रसबन्धने

8.35

देहलोहकरं सर्वं महारोगापकर्षणम् ।
धन्यं पुत्रप्रदं वृष्यं दर्शनस्पर्शनादिभिः

8.36

{एकवीरा}
शवपत्त्रा भवेद्वल्ली पाते चैकफलान्विता ।
एकवीरेति सा प्रोक्ता रसबन्धकरी परम्

8.37

{महावीरा}
एकमेकं फलं यस्याः परे पत्रे प्रजायते ।
प्रवालसदृशीच्छाया महावीरेति सा मता

8.38

{प्रयोगकन्द}
त्रिकन्दस्त्रिशिखश्चैव वृन्तलग्नफलद्वयः ।
वेणुपर्णसदृक्पर्णैः गजविन्ध्याचलोद्भवः

8.39

तस्य मध्यमकन्दो हि प्रयोगो नाम राक्षसः ।
तेन संमर्दितः सूतो म्रियते बध्यते सुखम्

8.40

{हेमवल्ली}
ताम्बूलीपत्त्रवत्पत्रा स्वर्णवर्णपयस्विनी ।
फलपुष्पादिहीना च हेमवल्लीति सा मता

8.41

सम्बन्धसेविता येन तन्मूत्रैर्बद्धपारदः ।
संवत्सरधृतो वक्त्रे प्रधत्ते खेचरां गतिम्

8.42

{वज्रदण्डादिवर्ग}
वज्रलशुनदण्डश्च लोहदण्डश्च ते त्रयः ।
ब्रह्मविष्णुशिवात्मानो जगत्त्रितयरक्षकाः

8.43

पथ्या शुण्ठी शिला मुण्डी निर्गुण्डी च विडङ्गकम् ।
चित्रकस्त्रिकटुर्हेम माक्षिकं विमलं तथा

8.44

वज्रदण्डादिवर्गोऽयं श्रेष्ठोऽतीव रसायने ।
सर्वव्याधिहरः श्रेष्ठो जरामृत्युविनाशनः

8.45

{भूपाटल्यादिवर्गः}
भूपाटली पटोली च योगारी सिंहवल्लिका ।
शूकरी हेमवल्ली च नागधारी च मार्कवः

8.46

भूपाटल्यादिवर्गोऽयं रसबन्धविधायकः ।
{पञ्चरत्नकगणः}
पाटलेन्दीवरी चैव मन्त्रसिंहासनी तथा

8.47

निशाचरी च कङ्कालखेचरी पञ्चरत्नकम् ।
देहलोहकरं सूतवधबन्धविधायकम् ।
वलीपलितविध्वंसि सर्वव्याधिहरं परम्

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc