भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 10

10.1

र्चूम्, 10
{महारसाः}
महारसाः स्युर् घनराजावर्तवैक्रान्तसस्याः विमलाद्रिजाते ।
तुत्थं च ताप्यं च रसायनास्ते सत्त्वानि तेषाम् अमृतोपमानि

10.2

{अभ्रक:: मेदिच्. प्रोपेर्तिएस्}
गौरीतेजः परमम् अमृतं वातपित्तक्षयघ्नं प्रज्ञोद्बोधि प्रशमितरुजं वृष्यम् आयुष्यम् अग्र्यम् ।
बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि

10.3

राजहस्ताद् अधस्ताद्यत्समानीतं घनं खनेः ।
भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम्

10.4

{अभ्रकभेदाः}
पिनाकनागमण्डूकवज्रम् इत्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम्

10.5

{अभ्र:: पिनाक}
पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।
तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम्

10.6

{अभ्र:: नाग}
नागाभ्रं नागवत्कुर्यात् ध्वनिं पावकसंस्थितम् ।
तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः

10.7

{अभ्र:: मण्डूक}
उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।
तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा

10.8

{अभ्र:: वज्र}
वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।
देहलोहकरं तत्तु सर्वरोगहरं परम्

10.9

{अभ्र:: सुब्त्य्पेस्:: चोलोउर्}
श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।
श्वेतं श्वेतक्रियासूक्तं रक्ताद्यं पीतकर्मणि

10.10

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।
तथापि कृष्णवर्णाभं कोटिकोटिगुणाधिकम्

10.11

{अभ्र:: फ्य्स्. प्रोपेर्तिएस्}
स्निग्धं पृथुदलं वह्निसहं स्याद्भारतोऽधिकम् ।
सुखनिर्मोच्यपत्रं च तदभ्रं शस्तम् ईरितम्

10.12

{अभ्र:: बद् त्य्पेस्}
सचन्द्रं काचकिट्टाभं व्योम न ग्रासयेद्रसम् ।
ग्रासितश्चेन्न योज्योऽसौ लोहे चैव रसायने

10.13

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च ।
सेवितं चन्द्रिकायुक्तं मेहं मन्दानलं चरेत्

10.14

यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् ।
तैर्दिष्टं कालकूटाख्यं विषं जीवनहेतवे

10.15

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।
अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम्

10.16

{अभ्र:: शोधन}
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं निक्षिप्तं वापि गोजले

10.17

त्रिफलाक्वथिते वापि गवां दुग्धे विशेषतः ।
{अभ्र:: मारण}
ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः

10.18

चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे ।
पुटेदेवं हि षड्वारं पौनर्नवरसैः सह

10.19

अभ्रांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।
अर्धेभाख्यैः पुटैस्तद्वत्सप्तवारं पुटेत् खलु

10.20

एवं वासारसेनापि तण्डुलीयरसेन च ।
प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः

10.21

एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ।
{अभ्र:: मारण}
पादांशटङ्कणोपेतं मत्स्याक्षीरसमर्दितम्

10.22

रुन्ध्यात् कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ।
पटचूर्णं विधायाथ गोघृतेन परिप्लुतम्

10.23

भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ।
अग्निवर्णं भवेद्यावद् वारं वारं च चूर्णयेत्

10.24

तृणं क्षिप्तं दहेद्यावत्तावद्वा भर्जनं चरेत् ।
ततः सगन्धकं पिष्ट्वा वटमूलकषायतः

10.25

पुटेद्विंशतिवाराणि वाराहेन पुटेन हि ।
पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः

10.26

त्रिफलामुण्डिकाभृङ्गपथ्यानीलीसुमूलकैः ।
भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया

10.27

सत्त्वाभ्रात् किंचिद् अवरं निर्विकारं गुणाधिकम् ।
एवं चेच्छतवाराणि पुटपाकेन साधितम्

10.28

गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ।
क्षुधं करोति चात्यर्थं गुञ्जार्धमिति सेवया ।
तत्तद्रोगहरैर् योगैः सर्वरोगनिकृन्तनम्

10.29

{अभ्र:: मारण}
धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटेत्तच्छतवाराणि म्रियते नात्र संशयः

10.30

{अभ्र:: मारण}
तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ।
शिवामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम्

10.31

पुटेत्तत् षष्टिवाराणि सिन्दूराभं प्रजायते ।
क्षयाद्यनन्तरोगघ्नं भवेद्योगानुपानतः

10.32

{अभ्र:: मारण}
वटमूलत्वचः क्वाथे ताम्बूलपत्रसारतः ।
वासामत्स्याक्षिकीभ्यां वा मत्स्याक्ष्या सकठिल्लया

10.33

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।
भवेद् विंशतिवारेण सिन्दूरसदृशं घनम्

10.34

{अभ्रकभस्मन् (6)}
सटङ्कणं गवां दुग्धैः पिष्टं प्रपुटितं घनम् ।
निश्चन्द्रिकं भवेद् वारैस् त्रिंशद्भिर्गुणवत्तरम्

10.35

एवं सिद्धानि चाभ्राणि तालेन पुटितानि चेत् ।
भवन्त्यतीव तीव्राणि रसादप्यधिकानि च

10.36

{अभ्र:: भस्मन्:: फ्य्स्. प्रोपेर्तिएस्}
रौक्ष्यं सौक्ष्म्यं जलप्लावः शोणवर्णसमुद्भवः ।
विचित्रगुणदीप्तिश्च जायते बहुभिः पुटैः

10.37

{अभ्र:: सत्त्व:: पातन}
कासमर्दघनध्वनिवासानां च पुनर्भुवः ।
मत्स्याक्ष्याः कारवेल्ल्याश्च हंसपाद्या रसैः पृथक्

10.38

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्घर्मयोगतः ।
खलिं गोधूमचूर्णं च क्षुद्रमत्स्यांश्च टङ्कणम्

10.39

प्रत्येकमभ्रकांशेन दत्त्वा चैव विमर्दयेत् ।
मर्दने मर्दने सम्यक् शोषयेद्रविरश्मिभिः

10.40

पञ्चाजं पञ्चगव्यं च पञ्चमाहिषमेव च ।
क्षिप्त्वा गोलान् प्रकुर्वीत किंचित् तिन्दुकसंमितान्

10.41

{पञ्चाङ्ग}
पयो दधि घृतं मूत्रं विट् च पञ्चाङ्गम् उच्यते ।
अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत्

10.42

{अभ्र:: सत्त्व:: पातन:: सेपरतिन्ग् किट्ट अन्द् सत्त्व}
कोष्ठ्याः किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् ।
तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्दयेत्

10.43

गोलान्विधाय संशोष्य धमेद् भूयोऽपि पूर्ववत् ।
भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत्

10.44

एवमेव पुनः किट्टं ध्मात्वा सत्त्वं समाहरेत् ।
{अभ्रकसत्त्वशोधनम्}
अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः

10.45

शोधनीयगणोपेतं मूषामध्ये निरुध्य च ।
सम्यग् द्रुतं समाहृत्य द्विवारं प्रधमेत् पुनः

10.46

इति सिद्धं भवेत्सत्त्वं योज्यं रसरसायने ।
{अभ्रकसत्त्वमृदुकरणम्}
मधुतैलवसाज्येषु द्रावितं परिवापितम्

10.47

मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ।
{अभ्र:: सत्त्व:: fओर्मुलतिओन्}
सत्त्वस्य गोलकं तप्तं सस्यसंयुक्तकाञ्जिके

10.48

निर्वाप्य तत्क्षणेनैव कण्डयेल्लोहपारया ।
सम्प्रताप्य घनस्थूलान् कणान्क्षिप्त्वा च काञ्जिके

10.49

तत्क्षणेन समाहृत्य खण्डयित्वा रजश्चरेत् ।
गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत्त्रिधा

10.50

धात्रीफलरसैस् तद्वद्धात्रीपत्ररसेन वा ।
भर्जने भर्जने कार्यं शिलापट्टेन पेषणम्

10.51

ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ।
प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः

10.52

एवं संसाधितं व्योमसत्त्वं सर्वगुणोत्तरम् ।
यथेष्टं विनियोक्तव्यं जारणे च रसायने

10.53

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाः शूलामकोष्ठामयम् ।
जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान्

10.54

{अभ्रकद्रुतिः}
द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि ध्रुवम् ।
विना शम्भोः प्रसादेन न सिध्यन्ति कथञ्चन

10.55

{राजावर्तः:: परीक्षा}
राजावर्त्तोऽल्परक्तो ऽरुनीलिमामिश्रितप्रभः ।
गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः

10.56

{राजावर्त:: मेदिच्. प्रोपेर्तिएस्}
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।
दीपनः पाचनो वृष्यो राजावर्त्तो रसायनः

10.57

{राजावर्त:: शोधनम्}
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।
द्वित्रिवारेण शुध्यन्ति राजावर्त्तादिधातवः

10.58

{राजावर्त:: मारण}
भृङ्गाम्भो गन्धकोपेतो राजावर्त्तो विचूर्णितः ।
पुटनात्सप्तरात्रेण राजावर्त्तो मृतो भवेत्

10.59

{धातु (गेन्.):: शोधन}
सूर्यावर्त्तकवज्रकन्दकदलीकोषातकीशिग्रुकाः ।
वन्ध्या नीरकणा घना नृपशमी ध्वांक्षी कुमारी वरा ।
आसाम् एकरसेन साम्लपुटनाच्छुध्यन्ति धात्वादयः ।
स्वेदक्लेदवधान्व्रजन्ति च पुनर्ध्माताश्च सत्त्वानि ते

10.60

अयं योगो हि निःशेषधातुमलविशोधनः ।
{राजावर्त (?):: सत्त्वपातनम्}
क्षारैश्च लवणैर् गेहधूमगुञ्जानिशाफलैः ।
एतैर्युक्ताः शिलाश्मानः सत्त्वं मुञ्चन्त्यशेषतः

10.61

{वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्}
अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते

10.62

{वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्}
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः

10.63

{वैक्रान्त:: मेदिच्. प्रोपेर्तिएस्}
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी

10.64

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वरोगहा

10.65

{वैक्रान्त:: शोधन}
कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
{वैक्रान्त:: मारण}
म्रियतेऽष्टपुटैर् गन्धनिम्बूकद्रवसंयुतः

10.66

{वैक्रान्त:: सत्त्वपातन}
सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत्

10.67

{वैक्रान्त:: fओर्मुलतिओन्}
भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो वल्लोन्मितः सेवितः ।
यक्ष्माणं क्षरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद्देहकृत्

10.68

{वैक्रान्त:: fओर्मुलतिओन्}
सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकम् ।
मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम्

10.69

क्षौद्राज्यसंसृतं प्रातः गुञ्जामात्रं निषेवितम् ।
रसायनविधानेन जीवेच्चन्द्रार्कतारकम्

10.70

तत्तद्रोगानुपानेन यवमात्रं निषेवितम् ।
निहन्ति सकलान्रोगान्दुस्तरानन्यभेषजैः

10.71

त्रिसप्तदिवसैर् न्ःणां गङ्गाम्भ इव पातकम् ।
{सस्यक:: म्य्थ्. ओरिगिन्}
पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता

10.72

विषेणामृतयुक्तेन गिरौ च मरुताह्वये ।
तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु

10.73

{सस्य:: परीक्षा:: गोओद् qउअलित्य्}
मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ।
विषं द्रव्ययुतं यद्वद् द्रव्याधिकगुणं भवेत् ।
हालाहलं सुधायुक्तं सुधाधिकगुणं तथा

10.74

{सस्यक:: मेदिच्. प्रोपेर्तिएस्}
निःशेषदोषविषहृद् गुदशूलशूलदुष्टाम्लपित्तकविबन्धहरं हितं च ।
रासायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम्

10.75

{सस्यक।तुत्थ:: शोधन}
दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।
नृमहिष्यजगोमूत्रैः शुध्यत्येवं च सस्यकम्

10.76

{सस्यक:: मारण}
लकुचद्रवगन्धाश्मटङ्कणेन समन्वितम् ।
निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः

10.77

{सस्यक:: सत्त्वपातन}
निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।
ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम्

10.78

{सस्यक:: सत्त्वपातन}
शुद्धं सस्यं शिखिक्रान्तं पूर्वभेषजसंयुतम् ।
नलिकाध्मानयोगेन सत्त्वं मुञ्चति निश्चितम्

10.79

{सस्यक:: सत्त्व:: रिन्ग्}
सत्त्वमेतत्समादाय वरभूनागसत्त्वयुक् ।
तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद्भवेत्

10.80

चराचरं विषं भूतं डाकिनीं दृग्गतं जयेत् ।
रामवत् सोमसेनानी मुद्रिकेति तथाक्षरम्

10.81

मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ।
हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः

10.82

तत्र शूलं समुत्पन्नं तत्रैव निधनं गतः ।
मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम्

10.83

सद्यः शूलहरं प्रोक्तम् इति भालुकिभाषितम् ।
अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम्

10.84

लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवम् ।
सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम्

10.85

{विमल:: सुब्त्य्पेस्}
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते

10.86

{विमल:: फ्य्स्. प्रोपेर्तिएस्}
वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
{विमल:: मेदिच्. प्रोपेर्तिएस्}
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः

10.87

{विमल:: सुब्त्य्पेस्:: उसे}
पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।
तृतीयो भेषजे तेषु पूर्वः पूर्वगुणोत्तरः

10.88

{विमल:: शोधन}
आटरूषजलस्विन्नो विमलो विमलो भवेत् ।
{विमल:: मारण}
गन्धाश्मलकुचाभ्यां स म्रियते दशभिः पुटैः

10.89

{विमल:: सत्त्व:: पातन}
सटङ्कलकुचद्रावैर् मेषशृङ्गस्य भस्मना ।
पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च

10.90

षट्प्रस्थकोकिलैर् ध्मातो विमलः सीससन्निभम् ।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्तु रसायनः

10.91

{विमल:: सत्त्व:: मेदिच्. उसे}
एतत्सत्त्वं सूतसंयुक्तं पिष्टीकृत्वा सुमर्दितम् ।
विलीने गन्धके क्षिप्त्वा जारयेत् त्रिगुणालकम्

10.92

शिलां पञ्चगुणां चापि नालिकायन्त्रके खलु ।
तारभस्म दशांशेन तावद्वैक्रान्तकं मृतम्

10.93

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।
निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः

10.94

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद् दुर्भगकृज्ज्वरान् श्वयथुकं पाण्डुप्रमेहारुचिम् ।
मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयान् कामलां सर्वान्पित्तमरुद्गदान् किमपरं योगैरशेषान् गदान्

10.95

{शिलाजतु:: सुब्त्य्पेस्}
शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः

10.96

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
{शिलाजतु:: ओरिगिन् fरोम् हेअतेद् रोच्क्स्}
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः

10.97

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर् विनिःसरेत् ।
{शिलाजतु:: fरोम् गोल्द्}
स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु

10.98

स स्वल्पतिक्तं सुस्वादु परमं तद्रसायनम् ।
{शिलाजतु:: fरोम् सिल्वेर्}
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु

10.99

शिलाजं पित्तरोगघ्नं विशेषात् पाण्डुरोगहृत् ।
{शिलाजतु:: fरोम् चोप्पेर्}
ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु

10.100

शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगनुत् ।
{शिलाजतु:: तेस्तिन्ग् fओर् पुरित्य्}
वह्नौ क्षिप्तं भवेद्यत्तु लिङ्गाकारं ह्यधूमकम् ।
सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु

10.101

{शिलाजतु:: मेदिच्. प्रोपेर्तिएस्}
नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूत्रामयोन्मूलनम् ।
गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम्

10.102

{शिलाजतु:: पोस्सेस्सेस् प्रोपेर्तिएस् ओf ओथेर् सुब्स्तन्चेस्}
रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया

10.103

{शिलाजतु:: शोधन}
क्षाराम्लैर्गुग्गुलूपेतैः स्वेदनीयन्त्रमध्यगैः ।
स्वेदितं घटिकामानाच्छिलाधातुर् विशुध्यति

10.104

{शिलाजतु:: मारण}
शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातुर् म्रियते ऽष्टगिरिण्डकैः

10.105

{शिलाजतु:: मृत:: मेदिच्. उसे}
भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तश्च त्रिफलाकटुत्रयघृतैर्वल्लेन तुल्यं भजेत् ।
पाण्डौ यक्ष्मगुदे तथाग्निसदने महेषु मूत्रामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये

10.106

सेवेत यदि षण्मासं रसायनविधानतः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी

10.107

{शिलाजतु:: सत्त्व:: पातन}
पिष्टं द्रावणवर्गेण साम्लेन गिरिसम्भवम् ।
लिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः

10.108

सत्त्वं मुञ्चेच्छिलाधातुः स्वखनेर्लोहसन्निभम् ।
{कर्पूरशिलाजतु:: फ्य्स्. प्रोपेर्तिएस्}
पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु

10.109

{कर्पूरशिलाजतु:: मेदिच्. प्रोपेर्तिएस्}
मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।
{कर्पूरशिलाजतु:: शोधन}
एलातोयेन संस्विन्नं शुष्कं शुद्धिमुपैति तत्

10.110

नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ।
{रसक:: सुब्त्य्पेस्}
रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः

10.111

सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ।
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु

10.112

{रसक:: मेदिच्. प्रोपेर्तिएस्}
रसकः सर्वमेहघ्नः कफपित्तविनाशनः ।
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः

10.113

{रसक:: हिघ् qउअलित्य्}
नागार्जुनेन निर्दिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ स्यातां देहलोहकरौ परौ

10.114

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः

10.115

{रसक:: शोधन}
खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते

10.116

{रसक:: शोधन}
नृमूत्रे मेषमूत्रे वा तक्रे वा काञ्जिके तथा ।
प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति

10.117

{रसक:: रञ्जन wइथ् ~}
नरमूत्रे स्थितो मासं रसको रञ्जयेद् ध्रुवम् ।
शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं तथा

10.118

{रसकसत्त्वपातन (1)}
हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम्

10.119

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः

10.120

खर्परेऽपहृते ज्वाला भवेन्नीला सिता यदि ।
तदा सन्दंशतो मूषां धृत्वा कृत्वा ह्यधोमुखीम्

10.121

शनैरास्फालयेद् भूमौ यथा नालं न भज्यते ।
वङ्गाभं पतितं सत्त्वं तदादाय नियोजयेत्

10.122

एवं हि त्रिचतुर्वारैः सर्वं सत्त्वं विनिःसरेत् ।
{रसकसत्त्वपातन (2)}
यद्वा जलयुतां स्थालीं निखनेत् कोष्ठिकोदरे

10.123

सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् ।
मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद् दृढम्

10.124

पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ।
{रसक:: सत्त्व:: मारणम्}
तत्सत्त्वं तालकोपेतं निक्षिप्य खलु खर्परे

10.125

भर्जयेल्लोहदण्डेन भस्मीभवति निश्चितम् ।
{रसक:: सत्त्व:: मृत:: मेदिच्. उसे}
तद्भस्म मृतकान्तेन समेन सह योजितम्

10.126

अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ।
कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम्

10.127

निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ।
पैत्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च

10.128

रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ।
योनिरोगानशेषांश्च विषमांश्च ज्वरानपि ।
रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम्

10.129

{माक्षिक}
माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।
{स्वर्णमाक्षिक:: ओरिगिन्}
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम्

10.130

{तारमाक्षिक:: ओरिगिन्}
तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् ।
पाषाणबहुलः प्रोक्तस्ताप्याख्योऽसौ गुणाल्पकः

10.131

{माक्षिक:: मेदिच्. प्रोपेर्तिएस्}
माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः

10.132

{माक्षिक:: शोधनम्}
एरण्डतैललुङ्गाम्बुसिद्धे शुध्यति माक्षिकम् ।
{माक्षिक:: शोधन}
सिद्धं च कदलीकन्दतोये च घटिकाद्वयम्

10.133

{माक्षिक:: शोधन}
तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ।
{माक्षिक:: मारण}
मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम्

10.134

पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु ।
{माक्षिक:: मारण}
एरण्डतैलगव्याज्यैर्मातुलुङ्गरसेन च

10.135

खर्परस्थं दृढं पक्वं जायते धातुसन्निभम् ।
एवं मृतं रसे योज्यं रसायनविधावपि

10.136

{माक्षिक:: सत्त्वपातन}
त्रिंशांशनागसंयुक्तं क्षारैरम्लैश्च वर्तितम् ।
ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम्

10.137

{माक्षिक:: सत्त्व:: शोधन}
सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।
माक्षीकसत्त्वसम्मिश्रं नागं नश्यति निश्चितम्

10.138

गुञ्जाबीजसमच्छायं द्रुतद्रावं च सीसवत् ।
ताप्यसत्त्वं विशुद्धं तु देहलोहकरं परम्

10.139

{माक्षिकरसायन (1)}
माक्षीकसत्त्वेन रसस्य पिष्टीं कृत्वा विलीने च बलिं निधाय ।
संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतमभ्रकस्य च

10.140

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।
स्वतः सुशीतं परिचूर्ण्य सम्यग् वल्लोन्मितं खण्डविडङ्गयुक्तम्

10.141

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगाम् अपमृत्युमेव ।
दुःसाध्यरोगानपि सप्तवारैर्नैतेन तुल्योऽस्ति सुधारसोऽपि

10.142

{माक्षिकरसायन (2)}
मृतमाक्षीकपाषाणस् तदर्धं मृतमभ्रकम् ।
तदर्धं कान्तलोहं च तदर्धं ताम्रभस्मकम्

10.143

सर्वमेकत्र संमेल्य समगन्धेन योजयेत् ।
निम्बुद्रवेण संमर्द्य प्रपुटेद्दशवारकम्

10.144

वनोत्पलशतेनैव भावयेत् परिचूर्ण्य तत् ।
व्योषबाह्लीकतोयेन वाराणामेकविंशतिम्

10.145

भवेद्धि मृतमाक्षीकं सर्वव्याधिविनाशनम् ।
क्षयं पाण्डुं च कुष्ठानि ग्रहणीं गुदजां रुजः

10.146

मन्दाग्निं कामलां शोषं स्वरभङ्गमरोचकम् ।
नानारूपान् ज्वरान् उग्रान् आमदोषं विसूचिकाम्

10.147

वातपित्तकफोद्भूतांस्तत्तद्रोगान् अशेषतः ।
तत्तदौचित्ययोगेन प्रयुक्तैरनुपानकैः ।
महारसेषु सर्वेषु ताप्यमेव वरं मतम्

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc