भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 7

7.1

र्चूम्, 7
कथ्यन्ते सोमदेवेन साम्प्रतं दर्शिनो रसाः ।
श्रीकण्ठागमनिर्दिष्टा विशिष्टा रससाधने

7.2

{68 प्रकार् की रसौषधियां}
जलोत्पलसमङ्गा च रसा च जलपिप्पली ।
स्थलप्रसारिणी चिञ्ची जालिनी जलमूलका

7.3

चन्द्रोदकार्धचन्द्रा च जलापामार्गतिक्तका ।
तुषाम्बु काकमाची च जलकुम्भी तथा शटी

7.4

उत्तमा हेमपुष्पी च दुर्गन्धा सितगन्धिनी ।
माण्डूकी मोहिनी मांसी पाषाणी चाथ शीशिका

7.5

सारिवालम्बुषा मेघनादी च शुकनासिका ।
पोतकी हीरिणी वज्रकन्दिका चापराजिता

7.6

वनमाला विदारी च कुक्कुटा हलिनीश्वरी ।
वाराही बृहती मूर्वा सर्पाक्षी सदचित्रिका

7.7

मालार्जुनश्च गोजिह्वा गरुडी हंसपादिका ।
नन्दिनी शिखिपादी च काश्मरी तुलसी तथा

7.8

वनकूष्माण्डवल्ली च वृश्चिकाली च वेणुका ।
मुशली चित्रपादी च कर्मस्फोटी तथा विषा

7.9

अजमारी पाटला च पटोली धन्वयासकः ।
भार्ङ्गी विषघ्नी गुडूची वासा भृङ्गी च पागवः

7.10

अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः ।
बन्धने मारणे तद्वज्जारणे च नियामने ।
बन्धादाने च सूतस्य सर्वदोषापकर्मणि

7.11

विन्ध्याद्रौ हिमपर्वते च मलये गोमन्तके श्रीगिरौ सह्याद्रावथ पारियात्रकगिरौ किष्किन्धनामालये ।
माहेन्द्रेऽप्यथ माल्यवत्क्षितिधरे तद्रूपनामाधिकं गोपाभीरकसिद्धवैद्यमुखतो वैद्यैः समावेद्यताम्

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc