रसेन्द्रचूडामणि · अध्याय 5
र्चूम्, 5
अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यनेकशः ।
समालोक्य समासेन सोमदेवेन साम्प्रतम्
स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः ।
यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमितीरितम्
{दोलायन्त्र}
विबन्ध्य सौषधं सूतं सभूर्जे त्रिगुणाम्बरे ।
रसपोट्टलिकां काष्ठे दृढं बद्ध्वा गुणेन हि
संधानपूर्णकुम्भान्तः प्रलम्बनगतिस्थिताम् ।
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि ।
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि
{खल्वयन्त्र}
खल्वयन्त्रं त्रिधा प्रोक्तं मर्दनादिककर्मणि ।
निरुद्गाराश्मजश् चैकस्तदन्यो लोहसम्भवः
{अर्धचन्द्राकृतिखल्व}
उत्सेधेन दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् ।
विस्तारेण नवाङ्गुलो रसमितैर्निम्नस्तथैवाङ्गुलैः
कण्ठो द्व्यङ्गुलविस्तृतो ऽतिमसृणो द्रोण्यर्धचन्द्राकृतिः ।
घर्षश्चैव दशाङ्गुलस्तु यदिदं खल्वाख्ययन्त्रं स्मृतम्
अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ।
तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत्
{वर्तुलखल्व}
द्वादशाङ्गुलिविस्तारः खल्वो भवति वर्तुलः ।
चतुरङ्गुलनिम्नश्च मध्ये ऽतिमसृणीकृतः
मर्दकश्चिपिटोऽधस्तात् सुग्रहश्च शिखोपरि ।
{तप्तखल्व}
लौहो नवाङ्गुलः खल्वो निम्नत्वेन षडङ्गुलः
मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्य् अयम् ।
कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्यताम्
तस्यां निवेशितं खल्वं पार्श्वे भस्त्रिकया धमेत् ।
तस्मिन्विमर्दिता पिष्टी क्षारैरम्लैश्च संयुता
प्रद्रवत्यतिवेगेन स्वेदतो नात्र संशयः ।
कृतः कान्तायसा सो ऽयं भवेत्कोटिगुणोत्तरः
{वलभीयन्त्र}
यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।
तादृक्स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम्
पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः
द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे ।
एतत्स्याद्वलभीयन्त्रं रससाद्गुण्यकारणम्
सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।
{ऊर्ध्वपातनयन्त्र}
अष्टाङ्गुलमिता सम्यक् वर्तुला चिपटी तले
चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता ।
चतुरङ्गुलविस्तारनिम्नया दृढबद्धया
तत्पिधानघटी मूले षोडशाङ्गुलविस्तरा ।
नवाङ्गुलकविस्तारकण्ठेन च समन्विता
पूर्वघट्यां रसं क्षिप्त्वा न्युब्जां दद्यात् परां घटीम् ।
सोर्ध्वं निम्नं च परितो दृढपालिकयान्विताम्
पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः ।
ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम्
{अधःपातनयन्त्र}
उपर्यधस्तनस्थाल्यां क्षिपेदन्यामधोमुखीम् ।
स्थालिकां चिपटीभूततलान्तर्लिप्तपारदाम्
क्षिप्त्वा तां पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् ।
अधःपातनयन्त्रं हि तदैतत् परिकीर्तितम्
{तिर्यक्पातनयन्त्र}
क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यत् घटकुक्ष्यन्तरे खलु
तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम्
इतरस्मिन् घटे तोयं प्रक्षिपेत् स्वादु शीतलम् ।
तिर्यक्पातनयन्त्रं हि वार्त्तिकैर् अभिधीयते
{पातनायन्त्रस्:: उसे}
पातनात्रितयं प्रोक्तं यन्त्राणां त्रितयं खलु ।
पातनैश्च विना सूतो न तरां दोषमुझति
त्रिभिरेवोर्ध्वपातैश्च कस्माद्दोषान्न मुच्यते ।
विभागेन विपाके तु द्रव्येणान्येन योगतः
पात्रान्तरपरिक्षेपात् गुणाः स्युर् विविधाः खलु ।
खण्डन्युलूखलाम्भोभिस् तण्डुलाः स्युर् मलोझिताः
पातेनैव महाशुद्धिर्नन्दिना परिकीर्तिता ।
{कच्छपयन्त्र}
विशालवदने भाण्डे तोयपूर्णे निवेशयेत्
खर्परं पृथुकं सम्यक् प्रसरे तस्य मध्यमे ।
आलवालं विडैः कृत्वा तन्मध्ये पारदं क्षिपेत्
ऊर्ध्वाधश्च विडं दत्त्वा मल्लेनारुध्य यत्नतः ।
पुटमौचित्ययोगेन दीयते तन्निगद्यते
यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे ।
{अन्तरालिकयन्त्र}
कृत्वा लोहमयीं मूषां वृन्ताकाकारधारिणीम्
वितस्त्या संमितां कान्तलोहेन परिनिर्मिताम् ।
मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः
द्व्यङ्गुलं वलयं दद्यात् मध्यदेशेन कण्ठतः ।
पिधानधारकं चिञ्चापत्त्रविस्तीर्णकङ्कणम्
पिधानम् अन्तराविष्टं सशिखं श्लिष्टसंधिकम् ।
तले प्रविहितच्छिद्रं भाण्डं कृत्वा ह्य् अधोमुखम्
तत्रैनां लम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च ।
स्थालीकण्ठं ततो दद्यात् पुटमग्निविधायकम्
एवंरूपं भवेद्यन्त्रमन्तरालिकसंज्ञकम् ।
अनेन कारयेद्गन्धद्रुतिं गर्भद्रुतिं तथा
{तापिकायन्त्र}
तापीं मूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् ।
सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम्
कान्तलोहमयीं खारीं दद्याद् गन्धस्य चोपरि ।
तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः
तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं विडद्रवम् ।
पादाङ्गुष्ठमितज्वालं ज्वालयेदनलं ततः
लोहाभ्रकादिकं सर्वं रसस्य परिजारयेत् ।
तापिकायन्त्रमित्युक्तं सुकरं रसजारणे
{प्रतिगर्भयन्त्र}
स्थाल्यां विनिक्षिप्य रसादि वस्तु स्वर्णादि खार्या प्रपिधाय भूयः ।
अम्लेन चोर्ध्वे लवणादि वस्तु चुल्ल्यां पचेत्तत् प्रतिगर्भयन्त्रम्
{गर्भयन्त्र}
खारीं मल्लान्तरस्थालीं निरुन्ध्यादतियत्नतः ।
स्थाल्यां मृदोऽथवा खार्यां क्षिप्त्वा वस्तु निरुध्य च
क्षिप्त्वा चाम्लादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रके ।
{पालिकायन्त्र}
चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम्
एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।
{घटयन्त्र}
चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम्
घटयन्त्रमिति प्रोक्तं तदाप्यायनके मतम् ।
{इष्टिकायन्त्र}
विधाय वर्तुलं गर्तं मल्लमत्र निधाय च
विनिधायेष्टिकां तत्र मध्ये गर्तवतीं शुभाम् ।
गर्तस्य परितः कुर्यात् पालिकामङ्गुलोच्छ्रयाम्
गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।
निक्षिप्य गन्धकं तत्र मल्लेनास्यं निरुध्य च
मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ।
वनोपलैः पुटं देयं कपोताख्यं न चाधिकम्
इष्टिकायन्त्रमेतद्धि गन्धकं तेन जारयेत् ।
{विद्याधरयन्त्र}
स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ।
एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे
{डमरुयन्त्र}
यत्र स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्य च ।
यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम्
{नाभियन्त्र}
मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।
गर्तस्य परितः कुड्यं प्रकुर्याद् द्व्यङ्गुलोच्छ्रयम्
ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया ।
सम्यक् तोयमृदा रुद्ध्वा सम्यग्गर्तोच्चमानया
ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना
अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ।
{तोयमृत्तिका}
लेहवत् कृतबर्बूरक्वाथेन परिमर्दितम्
जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ।
इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु
{वह्निमृत्स्ना}
खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ।
वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु
एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः ।
विदग्धवनिताप्रौढप्रेम्णा बद्धः पुमानिव
नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर्मुनीश्वरः ।
वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले
{ग्रस्तयन्त्र}
मूषां मूषोदराविष्टाम् आद्यन्तसमवर्तुलाम् ।
चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः
सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् ।
{तुलायन्त्र}
वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु
प्रादेशमात्रनलिका मृदालिप्तसुसंधिका ।
तत्रैकस्यां क्षिपेत् सूतम् अन्यस्यां गन्धचूर्णकम्
निरुध्य मूषयोर् वक्त्रं वालुकायन्त्रके क्षिपेत् ।
अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम्
शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् ।
{स्थालीयन्त्र}
स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च
पच्यते स्थालिकासंस्थं स्थालीयन्त्रमितीरितम् ।
{कोष्ठिकायन्त्र}
स्थूलभाण्डोदरस्यान्तर् वालुकां निक्षिपेच्छुभाम्
वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् ।
अपक्वां मृन्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम्
षडङ्गुलकविस्तीर्णां मध्ये ऽतिमसृणीकृताम् ।
पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुटाकृतिम्
न न्यूना नाधिका कोष्ठी कण्ठतो मसृणा बहिः ।
कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम्
ततस्त्रिपादिकां लौहीं विनिवेश्य स्थिरीकृताम् ।
तस्यां च विन्यसेत् खारीं लौहीं वा कान्तलोहजाम्
तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः ।
जीर्णगन्धकसूतं च भावयेल्लशुनद्रवैः
अधःशिखेन पूर्वोक्तपिधानेन पिधाय च ।
संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः
संधिबन्धे विशुष्के च क्षिपेदुपरि वालुकाः ।
भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम्
खरं यामत्रयं यावत्ततो गन्धकसम्भवः ।
पिधानलग्नधूमो ऽसौ गलित्वा निपतेद्रसे
एवं हि षड्गुणं गन्धं भुक्त्वा सूतो गुणी भवेत् ।
करोति कल्पनिर्दिष्टान्विशिष्टान् सकलान् गुणान्
कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् ।
{वालुकायन्त्र}
पञ्चाढवालुकापूर्णे भाण्डे निक्षिप्य यत्नतः
पच्यते रसगोलाद्यं वालुकायन्त्रमीरितम् ।
{लवणयन्त्र}
एवं लवणनिक्षेपात् प्रोक्तं लवणयन्त्रकम्
{धूपयन्त्र}
विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।
कण्ठाधो द्व्यङ्गुले देशे जलाधारं हि तत्र च
तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग् विनिक्षिपेत् ।
तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत्
पात्राधो निक्षिपेद् धूमं वक्ष्यमाणमिहैव हि ।
तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि
मृदा विलिप्य संधिं च वह्निं प्रज्वालयेदधः ।
तेन कृष्णानि पत्त्राणि हतान्युक्तविधानतः
रसश्चरति वेगेन द्रुतिं गर्भद्रुतिं तथा ।
गन्धालकशिलानां हि कज्जल्या वा मृताहिना
धूपनं स्वर्णपत्त्राणां परमं परिकीर्तितम् ।
तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत्
धूपयेच्च यथायोग्यै रसैरुपरसैरपि ।
धूपयन्त्रमिति प्रोक्तं जारणाद्रव्यवाहने
{कुण्डकयन्त्र = कन्दुकयन्त्र}
स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ।
तत्र स्वेद्यं विनिक्षिप्य पिधान्या प्रपिधाय च
अधोऽग्निं ज्वालयेत्तत्र तत्स्यात्कुण्डकयन्त्रकम् ।
स्वेदनं यन्त्रमित्येतत्प्राहुरन्ये मनीषिणः
{कुण्डयन्त्र (2)}
यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं दत्त्वा मुखोपरि ।
स्वेद्यद्रव्यं विनिक्षिप्य पिधान्या प्रपिधाय च
अधस्ताज्ज्वालयेद् अग्निमेतद्वा कुण्डयन्त्रकम् ।
{डेकीयन्त्र}
भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत्
कांस्यपात्रद्वयं क्षिप्त्वा सम्पुटं जलगर्भितम् ।
नालास्यं तत्र संयोज्य दृढं तच्चापि कारयेत्
उक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ।
अग्निना तापितो नालात् तोये तस्मिन् पतत्यधः
यावदुष्णं भवेत्सर्वं भाजनं किंचिदेव हि ।
जायते रससंधानं ढेकीयन्त्रम् इदं भवेत्
{सोमानलयन्त्र}
ऊर्ध्वं वह्निर् अधश्चापो मध्ये तु रससंग्रहः ।
सोमानलम् इदं प्रोक्तं जारयेद् गगनादिकम्
{नालिकायन्त्र}
लोहनालगतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत्प्राज्ञो नालिकायन्त्रमीरितम्
{मूषा}
अथ मूषाभिधा मृत्स्ना संस्थानं विविधाकृतिः ।
विधिना विनियोगश्च सोमदेवेन कीर्त्यते
{च्रुचिब्ले:: स्य्नोन्य्म्स्}
मूषा हि कोष्ठिका प्रोक्ता कुमुदी करहारिका ।
पातनी वह्निमित्रा च रसवादिभिर् ईर्यते
{च्रुचिब्ले:: निरुक्ति}
मुष्णाति दोषान्मूषेयान्सा मूषेति निगद्यते ।
उपादानं भवेत्तस्या मृत्तिका लोहमेव च
मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग् लक्षमपि मानिनाम्
{संधिलेप}
मूषापिधानयोर् बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम्
{च्लय्:: शर्करा}
मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थमति शस्यते ।
तदभावे च वाल्मीकी कौलाली समुदीर्यते
या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थे
श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटे ।
लद्दिः किट्टं यथायोग्यं संयोज्या मूषिकामृदि
{वज्रमूषा}
मृदस्त्रिभागं शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते
{योगमूषा}
दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकसम्भवा ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता
तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः
{वज्रद्रावणमूषा}
गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता
कोथिता पक्षमात्रं हि बहुधा परिवर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकेरिता
{गारमूषा}
दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता
यामयुग्मम् अतिध्मानान्नासौ द्रवति वह्निना ।
{वरमूषा}
वस्त्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका
गारश्च मृत्तिकातुल्यः सर्वैरेतैर् विमर्दिता ।
वरमूषेति निर्दिष्टा यामं वह्निं सहेत च
{वर्णमूषा}
रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुभाविता ।
मृत् तया लेपिता मूषा क्षितिखेचरलेपिता
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।
{रूप्यमूषा}
एवं हि श्वेतवर्गेण रूप्यमूषा प्रकीर्तिता
{विडमूषा}
तत्तद्विडमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता
{वज्रद्रावनामुषा (इइ)}
गारभूनागधौताभ्यां तुषमष्या शणेन च ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता
कोथिता पक्षमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः
बलाब्दधावनीमूलैर् वज्रद्रावणक्रौञ्चिका ।
सहतेऽग्निं चतुर्यामं द्रावणे व्ययिता सती
{मूषाप्यायन}
द्रवीभावमुपेयुः स्यान्मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत् तन्मूषाप्यायनम् उच्यते
{वृन्ताकमूषा}
वृन्ताकारमूषायां नालं दत्त्वा दशाङ्गुलम् ।
धत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टपुष्पवत्
अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत्
{गोस्तनीमूषा}
मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ सा मूषा गोस्तनी भवेत्
{मल्लमूषा}
निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता
{पक्वमूषा}
कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोटल्यादिविपाचने
{गोलमूषा}
निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरं द्रव्यरोधिनी
{महामूषा}
तले या कूर्पराकारा क्रमाद् उपरि विस्तृता ।
स्थूलवृन्ताकवत्स्थूला महामूषेत्यसौ मता ।
सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च
{मञ्जूषमूषा}
मञ्जूषाकारमूषा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मञ्जूषसंज्ञिता ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि
{मूशलमूषा}
मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मुशलाख्या स्याच्चक्रीबद्धरसे हिता
{कोष्ठी (इन्त्र्.)}
सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते
{अङ्गारकोष्ठिका}
राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन हि
एकभित्तौ चरेद्गर्तं वितस्त्याभोगसंमितम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम्
देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिरुत्तरङ्गस्य चोर्ध्वतः
द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च
शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन तु ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत्
सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेदङ्गारकोष्ठीयं खराणां सत्त्वपातिनी
{पातालकोष्ठिका}
दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत्
चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम्
किंचित्समुन्नतं बाह्ये गर्ताभिमुखनिम्नकम् ।
मृच्चक्रं पञ्चरन्ध्राढ्यं गर्भगर्तोपरि क्षिपेत्
आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा धातूनां सत्त्वपातिनी
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ।
{गारकोष्ठी}
द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ।
भूरिछिद्रवतीं चक्रीं वलयोपरि निक्षिपेत्
शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः ।
गारकोष्ठीयमुद्दिष्टा मृष्टलोहविनाशिनी
{वङ्कनाल}
कूपीमृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं तथा
वङ्कनालमिति प्रोक्तं दृढध्मानाय कीर्तितम् ।
{तिर्यक्प्रधमकोष्ठी}
कोष्ठी तद्वद्रसादीनां विधानाय विधीयते
द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनाख्या च मृदुद्रव्यविशोधिनी
{पुट (देf.)}
रसादिद्रव्यपाकानां मारणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम्
लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।
अनप्सुमज्जनं रेखापूर्णता पुटतो भवेत्
पुटाद्रागो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः
यथाश्मनि विशेद्वह्निर् बहिःस्थः पुटयोगतः ।
चूर्णत्वादिगुणावाप्तिस्तथा लोहेषु निश्चितम्
{महापुट}
निम्ने विस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोपलसहस्रेण पूरिते पुटनौषधम्
क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टकोपरि निक्षिपेत् ।
वनोपलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत्
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ।
{गजपुट}
राजहस्तप्रमाणेन चतुरस्रं च निम्नकम्
पूर्णं चोपलसाहस्रैः कण्ठावध्यथ निक्षिपेत् ।
विन्यसेत् कुमुदीं तत्र पुटनद्रव्यपूरिताम्
पूर्वच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम्
{वाराहपुट}
इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते
{कुक्कुटपुट}
पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम्
{कपोतपुट}
यत्पुटं दीयते भूमावष्टसंख्यैर्वनोपलैः ।
तद् बालसूतभस्मार्थं कपोतपुटमुच्यते
{गोवर (देf.; अ किन्द् ओf चोwदुन्ग्)}
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने
{गोवरपुट}
गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये
{भाण्डपुट}
स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते
{वालुकापुट}
अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम्
{भूधरपुट}
वह्निमित्रां क्षितौ सम्यङ् निखन्याद् द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद्भूधराह्वयम्
{लावकपुट}
ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने
{अनुक्तपुट}
अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः
{स्य्नोन्य्म्स् fओर् द्रिएद् चोwदुन्ग्}
पिष्टकं छगणं छाणमुपलं चोत्पलं तथा ।
गिरिण्डोपलसाठी च नवारी छगणाभिधः
{उपसंहार}
यः सोमदेवैर्विहितं प्रकीर्णमध्यायम् एनं प्रकरोति पाठे ।
नासौ समीहेत गुरूपदेशं रसेन्द्रवैद्येऽपि च धातुवादे
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0