भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 4

4.1

र्चूम्, 4
कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता

4.2

{धान्वन्तरभाग}
अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं सर्वारोग्यसुखाप्तये निगदितो भागः स धान्वन्तरः

4.3

{रुद्रभाग}
भैषज्यक्रीणितद्रव्यभागश्चैकादशो हि यः ।
वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते

4.4

प्रगृह्याधिकरुद्रांशं योऽसमीचीनमौषधम् ।
दापयेल्लुब्धधीर्वैद्यः स स्याद्विश्वासघातकः

4.5

शास्त्रेषु विहिता शुद्धिर्ब्रह्महत्याकृतामपि ।
विश्वासघातिनां पुंसां न शुद्धिर्मरणं विना

4.6

{कज्जली}
धातुभिर् गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभासः कज्जलीत्यभिधीयते

4.7

{रसपङ्क}
सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः

4.8

{नवनीतपिष्टी}
अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशो ऽभिखल्वे ।
अर्कातपे तीव्रतरे सघर्मे पिष्टी भवेत्सा नवनीतरूपा

4.9

{पिष्टी}
खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ।
पेषणात् पिष्टतां याति सापि पिष्टी मता परैः

4.10

{पातनपिष्टी}
चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ।
भवेत्पातनपिष्टी सा रसस्योत्तमसिद्धिदा

4.11

{हेमतारयोः कृष्टी}
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
समुत्थितं हि बहुशः सा कृष्टी हेमतारयोः

4.12

{स्वर्णकृष्टी}
कृष्टी क्षिप्ता सुवर्णान्तर्न वर्णो हीयते तया ।
स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम्

4.13

{वरलोहक}
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।
सगन्धे लकुचद्रावे निर्गतं वरलोहकम्

4.14

{स्वर्णरक्ती}
तेन रक्तीकृतं स्वर्णं स्वर्णरक्तीत्युदाहृतम् ।
निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी

4.15

{ताररक्ती}
एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी

4.16

{चन्द्रानलयोर् दलम्}
मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।
सितत्वपीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम्

4.17

{सितपीतदल}
आभासकृतबद्धेन रसेन सह योजितम् ।
साधितं चान्यलोहेन सितं पीतं हि तद्दलम्

4.18

{अयोनाग}
ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।
शिलयाप्याहतं नागं वारं वारं समुत्थितम्

4.19

तद् द्वयं द्विपलं चाथ ताप्यभस्म पलद्वयम् ।
सर्वं निक्षिप्य मूषायां सप्तवारं धमेद् दृढम्

4.20

तद् अयोनागमित्युक्तं साधकं देहलोहयोः ।
रसेन सारणायन्त्रे तदीया गुटिका कृता

4.21

सा धृता वदने हन्ति मेहव्यूहमशेषतः ।
कुरुते दन्तदार्ढ्यं च दृष्टिं गृध्रदृशाविव ।
तथान्यान् नेत्रजान् रोगान् रोगान् जत्रूर्ध्वसम्भवान्

4.22

{शुल्बनाग}
माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम्

4.23

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्त्यते

4.24

सारितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः

4.25

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः

4.26

{पिञ्जरी}
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते

4.27

{चन्द्रार्क}
भागाः षोडश तारस्य तथा द्वादश भास्करः ।
एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते

4.28

{निर्वाहण।निर्वापण}
साध्यलोहेऽन्यलोहं चेत् प्रक्षिप्तं वङ्कनालतः ।
निर्वापणं तु यत्प्रोक्तं वैद्यैर्निर्वाहणं खलु

4.29

क्षेप्यं निर्वाहणं द्रव्यं निर्वाह्ये समभागिकम् ।
आवाप्यं वापनीये च भागे दिष्टे च दिष्टवत्

4.30

{वारितर}
मृतं तरति तत्तोये लोहं वारितरं हि तत्

4.31

{रेखापूर्ण}
अङ्गुष्ठतर्जनीघृष्टं तत्तद्रेखान्तरे विशेत् ।
मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः

4.32

{अपुनर्भव}
गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।
नायाति प्रकृतिं ध्मानादपुनर्भवमुच्यते

4.33

{निरुत्थ}
रूप्येण सह संयुक्तं ध्मातं रूप्येण नो लगेत् ।
तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम्

4.34

एवं रूप्यं सनागं चेद् ध्मातं ताम्रे लगेन्न हि ।
तदा निरुत्थं मन्तव्यं रञ्जनं च भिषग्वरैः

4.35

{बीज}
निर्वाहणविशेषेण तत्तद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते

4.36

इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।
{ताडन}
संसृष्टलोहयोर् एकलोहस्य परिनाशनम् ।
प्रध्मानाद् वङ्कनालेन तत्ताडनमुदाहृतम्

4.37

{धान्याभ्र}
चूर्णाभ्रं शालिसंयुक्तं वस्त्रे बद्धं तु काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते

4.38

{सत्त्व}
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते

4.39

{एककोलिशिख}
कोष्ठिका शिखरापूर्णैः कोलिशैर्ध्मानयोगतः ।
मूषाकण्ठमनुप्राप्तैर् एककोलिशिखो मतः

4.40

{छर्चोअल् (स्य्न्.)}
शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोलिशाश्चेति पर्यायास्ते परस्परम्

4.41

द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।
उद्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः

4.42

{हिङ्गुलाकृष्ट}
विद्याधराख्ययन्त्रस्थादार्द्रकद्रावमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते

4.43

{घोषाकृष्ट}
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम्

4.44

{गुह्यनाग}
पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।
रूपिकादुग्धसम्पिष्टशिलया परिलेपितम्

4.45

शरावसम्पुटे रुद्ध्वा पचेत् क्रोडपुटेन तम् ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते

4.46

गुडगुग्गुलुगुञ्जाज्यसारघैः परिमर्द्य तत् ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः

4.47

चक्रान्तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च

4.48

पचेद्गजपुटैरेनं वाराणां खलु विंशतिः ।
पुटे पुटे हि नागस्य कुर्यादुत्थानं खलु

4.49

नीलज्योतिर्द्रवैः सम्यग् दशवाराणि ढालयेत् ।
इति सिद्धं ततः सीसं कर्षमात्रावशेषितम्

4.50

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायनम् ।
{गुह्यनाग:: ग्रास ओf गोल्द्}
निष्कमात्रे तु नागे ऽस्मिन् लोहखार्यां द्रुते सति

4.51

स्वतो लक्षगुणां हैमीं शलाकां ग्रसति ध्रुवम् ।
कुसुम्भतैलतप्तं तत् स्वर्णम् उद्गरिति ध्रुवम्

4.52

गुह्यमार्गो ऽयमुद्दिष्टो वक्ति स्वच्छन्दभैरवः ।
{वरनाग}
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम्

4.53

मृदु कृष्णं द्रुतद्रावि वरनागं तदुच्यते ।
{उत्थापन (देf.)}
मृतस्य पुनरुद्भूतिः सा चोक्तोत्थापनाख्यया

4.54

{ढालन}
द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ।
{नागसंभूतचपल}
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम्

4.55

विमर्द्य पुटयेत्तावद्यावत् कर्षावशेषितम् ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा

4.56

चपलोऽयं समुद्दिष्टो वार्त्तिकैर्नागसम्भवः ।
{वङ्गसंभूतश् चपलः}
इत्थं च चपलः कार्यो वङ्गस्यापि न संशयः

4.57

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने

4.58

अयं हि खर्पणाख्येन लोकनाथेन कीर्तितः ।
{चपल:: प्रेपरतिओन्}
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशरसान्वितम्

4.59

कुमारीमूलतोयेन मर्दयेदेकवासरम् ।
चाङ्गेरीस्वरसेनापि दिनमेकमनारतम्

4.60

एवं भूनागधौतेन मर्दयेद्दिवसत्रयम् ।
अथैकपलनागेन तावता त्रपुणापि च

4.61

दशनिष्करसेन्द्रेण श्लक्ष्णां पिष्टीं समाचरेत् ।
योजयित्वाथ कल्केन यथापूर्वं विमर्दयेत्

4.62

ततः साररसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्केन योजयेत्

4.63

अग्निं प्रज्वाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन भृष्टगुञ्जारसेन च

4.64

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां संधिबन्धं विधाय च

4.65

शिखित्रैर्नवभिः सम्यग्भस्त्राभ्यां च धमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः

4.66

धमेत् प्रकटमूषायां वङ्कनालेन शुद्धये ।
दशशाणं हि तत्सत्त्वं भस्मना लवणेन च

4.67

सकाञ्जिकेन संवेष्ट्य पुटयोगेन शोषयेत् ।
द्विनिष्कप्रमिते तस्मिन् पूर्वप्रोक्तेन भस्मना

4.68

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।
इयता पूर्वसूतोऽसौ जार्यते न कथंचन

4.69

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं बध्यते पूर्ववत् सुखम्

4.70

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि स ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः

4.71

मुखं प्रकटमूषायां भवेच्चातिगुणोत्तरम् ।
जीर्णग्रासो रसो ह्येष देहलोहकरो भवेत् ।
सोऽयं श्रीसोमदेवेन कथितोऽतीव निश्चितम्

4.72

{धौत}
भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः

4.73

{द्वंद्वन}
द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वनं परिकीर्तितम् ।
{??}
भागाद्रूप्यादिके क्षेपमनुवर्णसुवर्णके

4.74

{भञ्जिनी}
दलैर् वा वर्णिकाह्रासो भञ्जिनी वादिभिर्मता ।
{पतङ्गी}
पतंगिकल्कतो जाता लोहे तारत्वहेमता

4.75

{पलिका}
दिनानि कतिचित् स्थित्वा यात्यसौ पलिका मता ।
{पतङ्गीराग}
रञ्जितश्च रसाल्लोहाद् ध्मानाद्वा चिरकालतः ।
विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञिकः

4.76

{आवाप, प्रतीवाप, आच्छादन}
द्रुते द्रव्यान्तरे क्षेपो लोहाद्यैः क्रियते हि यः ।
स आवापः प्रतीवापः स एवाच्छादनं मतम्

4.77

{अभिषेक}
द्रुते वह्निस्थिते लौहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सोऽभिषेक इतीरितः

4.78

{निर्वाप}
तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ।
{zएइत् fंर् प्रतीवाप उस्w.}
प्रतीवापादिकं कार्यं द्रुतलोहे सुनिर्मले

4.79

{शुद्धावर्त}
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे

4.80

{बीजावर्त}
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।
द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते

4.81

{स्वाङ्गशीतल}
वह्निस्थमेव शीतं यत् तदुक्तं स्वाङ्गशीतलम् ।
{बहिःशीतल}
अग्नेराकृष्टशीतं च तद्बहिःशीतमीरितम्

4.82

{स्वेदन}
क्षाराम्लैरौषधैर् वापि दोलायन्त्रे स्थितस्य हि ।
पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम्

4.83

{मर्दन}
उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम्

4.84

{मूर्छन}
मर्दनोद्दिष्टभैषज्यैर्नष्टपिष्टत्वकारकम् ।
तन्मूर्छनं हि वङ्गाद्रिभूजकञ्चुकनाशनम्

4.85

{नष्टपिष्ट}
स्वरूपस्य विनाशेन पिष्टतापादनं हि यत् ।
विद्वद्भिर्निर्जितः सूतो नष्टपिष्टः स उच्यते

4.86

{उत्थापन}
स्वेदातपादियोगेन स्वरूपापादनं हि यत् ।
तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनम्

4.87

{पातन}
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यातनं पातनसंज्ञयोक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम्

4.88

{रोधन}
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।
स्थितिरास्थापनी कुम्भे यासौ रोधनमुच्यते

4.89

{नियमन}
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत्

4.90

{दीपन}
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।
ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः

4.91

{ग्रासमान}
इयन्मानस्य सूतस्य ग्रासद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानमितीरितम्

4.92

{जारणा}
ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः

4.93

ग्रासः पिण्डः परीणामः तिस्रश्चाख्याः पराः स्मृताः ।
समुखा निर्मुखा चेति जारणा द्विविधा पुनः

4.94

{जारण:: निर्मुखजारणा}
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ।
{बीज (-> जारणा)}
शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते

4.95

{मुख।समुखजारणा}
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ।
{समुखरस}
एवं कृते रसो ग्रासलोलुपो मुखवान्भवेत्

4.96

कठिनान्यपि लोहानि भक्षितुं भवति क्षमः ।
इयं हि समुखा प्रोक्ता जारणा मृगचारिणा

4.97

{राक्षसमुख}
दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठिषु ।
भुङ्क्ते निखिललोहाद्यं योऽसौ राक्षसवक्त्रवान्

4.98

{चारणा}
रसस्य वदने ग्रासक्षेपणं चारणा मता ।
{गर्भद्रुति}
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता

4.99

{बाह्यद्रुति}
बहिरेव द्रुतीकृत्य घनसत्त्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते

4.100

{द्रुति (सुब्स्तन्चे)}
निर्लेपत्वं द्रवत्वं च तेजस्त्वं लघुता तथा ।
द्रुतं योगश्च सूतेन पञ्चधा द्रुतिलक्षणम्

4.101

{द्रुति (प्रोचेस्स्)}
तुषधान्यादियोगेन लोहधात्वादिकं सदा ।
संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता

4.102

{जारणा}
द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः

4.103

{विड (देf.)}
क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैश्च पटुभिस्तथा ।
रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम्

4.104

{रञ्जन}
सुसिद्धबीजधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम्

4.105

{सारणा}
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।
वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता

4.106

{वेध}
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः

4.107

{वेधभेदाः}
लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ।
{लेपवेध}
लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा

4.108

लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ।
{क्षेपवेध}
प्रक्षेपणं द्रुते लोहे वेधः स्यात् क्षेपसंज्ञितः

4.109

{कुन्तवेध}
संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।
सुवर्णत्वादिकरणी कुन्तवेधः स कथ्यते

4.110

{धूमवेध}
वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः ।
स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते

4.111

{शब्दवेध}
मुखस्थितरसेनाल्पलोहस्य धमनात्खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः प्रकीर्तितः

4.112

{उद्घाटन}
विद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।
प्रकाशनं च वर्णस्य तदुद्घाटनमीरितम्

4.113

{स्वेदन}
क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ।
भूमौ निखन्यते यत्तत्स्वेदनं संप्रकीर्तितम्

4.114

{संन्यास}
रसस्यौषधयुक्तस्य भाण्डं रुद्ध्वातियत्नतः ।
सदाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते

4.115

{स्वेदनसंन्यासगुणाः}
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।
गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा

4.116

रसनिगममहाब्धेः सोमदेवः समन्तात्स्फुटतरपरिभाषा नाम रत्नानि हृत्वा ।
व्यरचयदतियत्नात्तैर् इमां कण्ठमालां कलयति भिषगग्र्यो मण्डनार्थं सभायाम्

4.117

पठेत् पठितपाठोऽयमध्यायो रसवादिनः ।
रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित्

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc