रसेन्द्रचूडामणि · अध्याय 3
र्चूम्, 3
रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।
सर्वौषधमये देशे रम्ये कूपसमन्विते
यक्षराजसहस्राक्षदिग्विभागे सुशोभने ।
नानोपकरणोपेतां प्राकारेण सुशोभिताम्
{रस्शाला में कहां क्या करें?}
शालायाः पूर्वदिग्भागे स्थापयेद्रसभैरवम् ।
वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च
नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्मोत्तरे तथा
स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके ।
पदार्थसंग्रहः कार्यो रससाधनहेतुकः
{रस्शाला में संग्रहणी उपकरण्}
सत्त्वपातनकोष्ठीं च गारकोष्ठीं सुशोभनाम् ।
भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोणीस्वनेकशः
भस्त्रिकायुगलं तद्वन्नलिके वंशलौहयोः ।
स्वर्णायोघोषशुल्बाश्मकुण्ड्यश्चर्मकृतां तथा
करणानि विचित्राणि सर्वाण्यपि समाहरेत् ।
मन्थानः पेषणी खल्वा द्रोणीरूपाश्च वर्तुलाः
आयसास्तप्तखल्वाश्च मर्दकाश्च तथाविधाः ।
सूक्ष्मछिद्रसहस्राढ्या द्रव्यचालनहेतवे
चालनी च कटत्राणी शिला लौली च कण्डनी ।
मूषामृत्तुषकार्पासवनोपलपिष्टकम्
त्रिविधं भेषजं धातुजीवमूलमयं तथा ।
शिखित्रा गोवरं चैव शर्करा च सितोपला
काचायोमृद्वराटानां कूपिकाश्चषकाणि च ।
शूर्पादिवेणुपात्राणि क्षुद्रक्षिप्राश्च शङ्खकाः
क्षुरप्राश्च तथा पाल्यो यच्चान्यत्तत्र युज्यते ।
पालिका कर्णिका चैव शाकच्छेदनशस्त्रिका
शालासम्मार्जनार्थं हि रसपाकान्तकर्म यत् ।
तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया
श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समाहरेत् ।
अन्यथा तद्गतं तेजः परिगृह्णाति भैरवः
{चालिनी}
चालिनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।
वैणवीभिः शलाकाभिनिर्मिता ग्रथिता गुणैः
कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ।
चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा
कर्णिकारस्य शाल्मल्याः पारिजातस्य कम्बया ।
चतुरङ्गुलविस्तारयुक्त्या निर्मिता शुभा
कुण्डल्यरत्निविस्तारा छागचर्माभवेष्टिता ।
वाजिवालाम्बरानद्धतला चालनिका परा
तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ।
{अङ्गार}
शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिलाः मताः
कोकिलाश्चेति तेऽङ्गाराः निर्वाणाः पयसा विना ।
{उपल}
पिष्टकं छगणं छाणमुपलं चोत्पलं तथा
करण्डोपलसारी च संशुष्कछगणाभिधाः ।
{बोत्त्ले}
कूपिका छम्पिका सिद्धा गोला चैव करण्डिका
{चषक}
चषका च कटोरी च वाटिका घोटिका तथा ।
कचोली ग्राहिका चेति नामान्येकार्थकानि हि
{रस्कर्म् में कैसा वैद्य् को रखे}
रससंहितयोर् वैद्याः निघण्टुज्ञाश्च वार्त्तिकाः ।
सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः
धर्मिष्ठः सत्यवाग् विद्वान् शिवकेशवपूजकः ।
सदयः पद्महस्तश्च संयोज्यो रसवैद्यके
पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।
अनामाधः स्थरेस्वाङ्कः स स्यादमृतहस्तवान्
{अल्छेमिस्त्:: बद् वरिअन्त्}
अदेशिकः कृपामुक्तो लुब्धो युक्तिविवर्जितः ।
कृष्णरेखाकरो वैद्यो दग्धहस्तो विवर्जितः
रसपाकावसाने हि सदाघोरं च जापयेत् ।
{अस्सिस्तन्त्}
सोद्यमाः शुचयः शूराः बलिष्ठाः परिचारकाः
भूतविग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ।
बलिष्ठाः सत्त्ववन्तश्च रक्ताक्षाः कृष्णविग्रहाः
भूतत्रासनविद्याश्च ते योज्याः बलिसाधने ।
निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः
यमिनः पथ्यभोक्तारो योजनीया रसायने ।
धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः
गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ।
{चोल्लेच्तोर्स् ओf द्रुग्स्}
तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः
नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ।
शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम्
सन्देहोज्झितचित्तानां रसः सिध्यति नान्यथा ।
दशाष्टक्रियया सिद्धे रसे ऽसौ साधकोत्तमः
महारसो ऽयम् इत्युक्त्वा सेवेतान्यत्र तं रसं ।
रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।
जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0