रसेन्द्रचूडामणि · अध्याय 15
र्चूम्, 15
रसपाथोधिभिः किंचिन्निःशेषं न प्रकाशितम् ।
दशाष्टभिः क्रियां वक्ष्ये रसराजस्य साम्प्रतम्
सुधादिसर्वभैषज्यसारः सूते प्रतिष्ठितः ।
अमर्त्या भवितुं मर्त्या निषेवध्वं मिथो युतम्
{मेर्चुर्य्:: प्रोपेर्तिएस्}
आयुर्वज्रं वितरति नृणाम् अङ्गवर्णं सुवर्णं सत्त्वं व्योम्नो मदकरिबलं ताम्रम् उग्रां क्षुधां च ।
मायोः शान्तिं रजतममलं कान्तमेतत्समस्तं श्रीमान् सूतः सकलगदहृद् देहलोहे तु सिद्धः
{मेर्चुर्य्:: म्य्थ्. ओरिगिन्}
कल्पादौ शिवयोः प्रीत्या परस्परजिगीषया ।
सम्प्रवृत्ते तु सम्भोगे त्रिलोकीक्षोभकारिणि
देवैः संप्रेषितो वह्निः सुरतं विनिवारितुम् ।
काङ्क्षया तत्सुतोद्भूतेर् निहन्तुं तारकासुरम्
कपोतरूपिणं प्राप्तं हिमवत्कन्दरेऽनलम् ।
अपक्षिभावसंक्षुब्धं स्मरस्मेरावलोकितम्
तं वीक्ष्य लज्जितः शम्भुर्विरम्य सुरतात्तदा ।
स्रुतमात्मगतं तेजः सोऽग्रहीदेकपाणिना
निक्षिप्तं वदने वह्नेर् गङ्गायाम् अपतच्च तत् ।
गङ्गया च बहिःक्षिप्तं नितरां दह्यमानया
अतोऽधिकगुणा जाता धातवो हि सुधासमाः ।
शिवहस्तच्युतं यत्तत् समभूत् खलु पारदः
अमर्त्या निर्जरास्तेन संजातास् त्रिदशोत्तमाः ।
तत्तन्मलेन संजाता धातवश्चाष्टसंख्यया
पावकास्याच्च्युतं यत्तु रसस्तत्समभूत् खलु ।
सेवितः स हि नागेन्द्रैर् जरामृत्युजिगीषया
पीयमानं तु नागास्यात्पतितं गौरवेण यत् ।
शतयोजननिम्नेऽसौ न्यपतत्कूपके खलु
ईषत् पीतान्तरो रूक्षः स सूतो देहलोहकृत् ।
{गेwइन्नुन्ग् वोन् ह्ग् मित् नच्क्तेन् fरौएन्}
स्नातामाद्यरजस्वलां हयगतां प्राप्तां जिघृक्षुश्च तां सोऽप्यागच्छति योजनं हि परितः प्रत्येति कूपं पुनः ।
तन्मार्गे कृतगर्त्तके च बहुशः संतिष्ठते सूतराट् सोऽयं तत्र निवासिभिः खलु जनैरेवं समानीयते
{मेर्चुर्य्:: एxत्रच्तिओन् fरोम् एअर्थ्}
नीयमानस्तु गङ्गाया वायुना गौरवेन यत् ।
अपतद् दूरदेशे वै स देशः पारदः स्मृतः
तत्ततो मृद्गतः सूतः पातनाविधिना खलु ।
आनीयते स विज्ञेयः पारदो गदपारदः
एवं चतुर्विधं जातं शंकरं शाङ्करं महः ।
इत्थं सूतोद्भवं ज्ञात्वा न रोगैर् बाध्यते नरः
रसेन्द्रश्च रसश्चैव स्यातां सिद्धरसावुभौ ।
साध्यावन्यौ चिराज्जातौ भूम्यादेर् देशयोगतः
{मेर्चुर्य्:: निरुक्ति}
जरापमृत्युदौर्गत्यव्याधीनां रसनाद्रसः ।
रसास्वादन इत्यस्य धातोरर्थतया खलु
देहलोहमयीं सिद्धिं सूते सूतस्ततो मतः ।
रोगाब्धिं पारयेद्यस्मात्तस्मात् पारद उच्यते
पातनैः शोध्यमानस्य यस्य पादोऽवशिष्यते ।
त्रिपादी च क्षयं याति तेन पादरसः स्मृतः
{मेर्चुर्य्:: दोष:: म्य्थ्. ओरिगिन्}
इत्थं भूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः ।
प्रभावान्मानुषान् दृष्ट्वा देवतुल्यबलायुषः
इन्द्रेणाभ्यर्थितो रुद्रो रसं द्वादशदूषणैः ।
योजयामास तं पूर्वं विना शुद्ध्यापि सिद्धिदम्
{पारददोषाः}
दोषो मलो विषं वह्निर् मदो दर्पश्च तत्फलम् ।
मूर्च्छा मृत्युः सदादाहो विस्फोटश्च शिरोभ्रमः
{मेर्चुर्य्:: कञ्चुकाः}
भूशैलजलताम्रायोनागवङ्गसमुद्भवाः ।
कञ्चुकाः सप्त सूतस्य ताभिः सूतो विषोपमः
कुष्ठं जाड्यं च वातार्तिं दाहं चावृतकण्ठताम् ।
उन्मादं च महाशूलं क्रमात्कुर्वन्ति कञ्चुकाः
एतान् सूतगतान् दोषान् पञ्च सप्त च कञ्चुकाः ।
अनपाकृत्य यो दद्यात् स वैद्यो ब्रह्महा भवेत्
द्वादशैतान् महादोषान् अपनीय रसं ददेत् ।
स लभेत महत्पुण्यम् अगण्यं च महद्यशः
{18 संस्कारस्}
सूते ऽष्टादशसंस्क्रिया निगदिताः स्युः स्वेदनं मर्दनं मूर्च्छोत्थापनपातरोधनियमाः प्रोद्दीपनं ग्रासजम् ।
मानं चारणगर्भबाह्यजनितद्रुतिश्च तज्जारणा रागः सारणकं परिक्रमविधिर् वेधस्ततः सेवनम्
अथ नन्दिप्रदिष्टेन विधानेन प्रकाश्यते ।
दोषाणां कञ्चुकानां च यथावत्परिशोधनम्
सूतः पञ्चपलान्न्यूनः शोधितो ऽल्पफलो भवेत् ।
ऊर्ध्वं दशपलांशेन शुद्धिमाप्नोत्यशेषतः
{मेर्चुर्य्:: शोधन}
स्वेदमर्दनमूर्च्छाभिः सप्तवारोर्ध्वपातनैः ।
सर्वदोषविनिर्मुक्तो रसराजः प्रजायते
स्वेदनं मर्दनं तद्वत्सप्तवारान् विमूर्च्छनम् ।
स हि सिद्धिकरं प्राह गुणकारि च भास्करः
मर्दनस्वेदसंन्यासैः शुध्यतीति दिनेश्वरः ।
ऊर्ध्वाधःपातनाभ्यां हि विशुद्धिर्भालुकेर्मता
स्वेदनं मर्दनं मूर्च्छा प्रत्युत्थानं च पातनम् ।
निरोधो नियमश्चेति शुचिः सप्तविधा मता ।
गोविन्दभगवान् पूज्यैः सूतराजस्य निश्चिता
अथ श्रीनन्दिना प्रोक्तप्रकारेण विशोधनम् ।
रसराजस्य निःशेषदोषघ्नं परिकीर्त्यते
{1. स्वेदनसंस्कार}
मूलकाग्निपटुराजिकार्द्रकैः व्योषकैश्च रसषोडशांशकैः ।
स्वेदितस्त्रिदिवसं हि दोलया काञ्जिकेन मलमुक्तये रसः
{2. मर्दनसंस्कार}
दग्धोर्णागृहधूमाब्जसर्षपैः सगुडेष्टकैः ।
मर्द्यो रसः षोडशांशैस् त्र्यहं तद्वह्निशान्तये
जीर्णे जीर्णे सदाग्रासे मर्दनीयो रसः खलु ।
एतैरेवौषधैर्यस्माद्रागान् गृह्णाति निर्मलः
{3. मूर्छन}
व्योषसौभाग्यसंयुक्तलकुचद्रावमर्दनात् ।
मूर्छितस्त्रिदिनं सूतो मदं मुञ्चति दुर्धरम्
{रेमोवल् ओf विषदोष}
सौभाग्यत्रिफलाश्यामाटङ्कणैः सह काञ्जिकैः ।
त्रिदिनं संस्थितः सूतो विषं संत्यजति स्वकम्
{रेमोवल् ओf दर्पदोष}
सर्पाक्षिकाकमाव्योषरसैर् उत्क्वथितोत्थितः ।
दर्पं मुञ्चति च क्षिप्रमिति दोषविशोधनम्
क्षाराम्लैः सोष्णतोयेन निवातस्थानसंस्थितः ।
रसस्य कुरुते वीर्यशैत्यं तद्वीर्यनाशनम्
{रेमोवल् ओf भूकञ्चुक}
कांक्षीकासीसलुङ्गाम्बुमर्दितः पारदो दिनम् ।
क्षालितः काञ्जिकैः पिष्टस्त्यजति क्षोणिकञ्चुकम्
{अद्रिकञ्चुक}
गिरिकर्ण्या जयन्त्याश्च स्वरसैर्भावितो रसः ।
त्रिभिर्वारैस्त्यजत्येव गिरिजाम् आत्मकञ्चुकाम्
{जलकञ्चुक}
गुडगुग्गुलुनिम्बानां क्वाथेन क्वथितस्त्र्यहम् ।
त्यजत्यम्बुभवां सूतः कञ्चुकां बहुदोषदाम्
{ताम्रकञ्चुक}
सितासार्द्रकतक्रैश्च मर्दयित्वा तथोत्थितः ।
धौतश्चोष्णैर् गवां मूत्रैस्त्यजेत्ताम्रजकञ्चुकम्
{अयःकञ्चुक}
कारवेल्ल्याश्च कर्कोट्या रसैः संमर्दितो रसः ।
कञ्चुकामायसीं मुञ्चेच्चपलः सौहृदं यथा
{नाग-, वङ्गकञ्चुक}
ताम्रपिष्टीकृतः सूतः पातनायन्त्रपातितः ।
मुञ्चेत् कञ्चुलिकां शीघ्रं नागवङ्गसमुद्भवाम्
{वङ्गकञ्चुक}
सूतं वराग्निपटुशिग्रुकराजिकाञ्जनैः पिष्टैर्विलिप्य परिपातनकोर्ध्वभागे ।
भाण्डोदरे भृतजले परितो विमुञ्चेन्मृद्वग्निना त्यजति कञ्चुलिकां हि वाङ्गीम्
इत्थं निपातितः सूतश् चलद्विद्युल्लताप्रभः ।
नागवङ्गविनिर्मुक्तः ततश्चैतत् प्रजायते
यदा यदा भवेत्सूतो ग्रासाजीर्णेन बाधितः ।
अनेनैव प्रकारेण पातनीयस्तदा तदा
{मेर्चुर्य्:: आप्यायन}
स्वेदनाद्यैः पातनान्ते शोधनैः स कदर्थितः ।
मन्दवीर्यो भवेत्सूतस्तस्मादाप्यायनं चरेत्
सोदके सैन्धवे सूतः स्थितस् त्रिदिवसावधिः ।
पुनर् आप्यायनं प्राप्य न स्यात् षण्ढो भवेद्बली
{स्वेदनविधि}
भालुकिः स्वेदसंन्यासौ दिष्टवान्नियमात् परम् ।
भक्षितुं सर्वलोहानि मुखं कर्तुं विनिश्चितम्
अङ्गारस्थापिते पात्रे रसं क्षिप्त्वा प्रजारयेत् ।
षोडशांशेन चित्रां तु तदत्र स्वेदनं मतम्
सर्वरोगान् हरेदेव शक्तियुक्तो गुणाधिकः ।
वेगेन फलदायित्वं जायते नात्र संशयः
{संन्यासविधि}
क्षाराम्ललवणैः सार्द्धं संन्यासाज्जायते तथा ।
चतुर्थाध्यायनिर्दिष्टप्रकारेण रसे खलु
बुभुक्षा व्यापकत्वं च तीव्रता वेगकारिता ।
सर्वव्याधिहरत्वं च त्यक्तदोषत्वमेव च
{दीपनसंस्कार}
मरिचाब्जासुरी चैव शिग्रुभूखगटङ्कणैः ।
ससंधानैस् त्र्यहं स्वेदाद् भवेत्सूतस्य दीपनम्
नवमाध्यायनिर्दिष्टदीपनीयगणेन च ।
रसस्य दीपनं कुर्यात् तद् अत्यन्तगुणावहम्
{मुखकरण}
स्वेदितोऽष्टादशांशेन हेमयुक्तो हि पारदः ।
क्षारैरम्लैरदोषैश्च भोक्तुमास्यं प्रजायते
{राक्षसवक्त्र}
कलांशताप्यसत्त्वेन स्वर्णेन द्विगुणेन च ।
युक्तं युक्तं हि चुक्रेण चूलिकालवणेन च
चणकक्षारतोयेन राजनिम्बुकवारिणा ।
मर्दयेत् तप्तखल्वान्तर्बलेन महता खलु
एकविंशत्यहो यावद्यामं यामं दिने दिने ।
एवं राक्षसवक्त्रः स्यात्सर्वाशी च न संशयः
अष्टादशक्रिया नृणां न सिध्यन्ति रसस्य हि ।
विना भाग्येन तपसा प्रसादेनेश्वरस्य च
सर्वैर्युक्ता विविधविधिभिः संस्कृतीभिः सुरम्यैः सूतो मुञ्चत्यखिलविकृतीन् श्वित्ररोगप्रमाथी ।
तावच्छुद्धिं कृतबहुगुणां नन्दिनोक्तां सुसाध्यां पथ्यायुक्तां पुरवरपतिः सोमदेवोऽभिधत्ते
{रेमोविन्ग् दोषस्}
त्रिक्षारैः पटुपञ्चकाम्लसहितैः संखल्वसूतस्त्र्यहं बाह्लीकासुरिविश्वपिण्डजठरे रुद्ध्वाथ संवेशयेत् ।
सन्धाने त्रिदिनं हि मन्दशिखिना दोलाख्ययन्त्रे पचेद्दोषोन्मुक्तरसः सुधारससमः पथ्यैर् विना सिद्धिदः
किंत्वत्र राजिका विश्वहिङ्गूनां मानसंस्थितिः ।
गुरूपदेशतो नेया नान्यथा फलवाहिनी
{नाग, वङ्ग:: रेमोवल्}
नागवङ्गौ महादोषौ दुर्जयौ शुद्धकोटिभिः ।
पातना शोधयेद्यस्मान्महाशुद्धरसो मतः
दशभिः पातनाभिश्च नागवङ्गसमुद्भवः ।
गन्धो विनाशमायाति रसः स्यान्नैव दुर्गुणः
दशवारात् परं नार्वाक् शतवारं च पातनाः ।
महागुणकराः प्रोक्ताः यथाविधि कृता रसे
महागुणत्वं शिखिनः सखित्वं स्वल्पेषु रोगेषु च तुल्यवीर्यम् ।
रसायनत्वं च महाप्रभावो भवेद्रसेन्द्रस्य च पातनाभिः
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0