रसेन्द्रचूडामणि · अध्याय 16
र्चूम्, 16
अथातो जारणा पुण्या रससिद्धिविधायिनी ।
सुकरा सुलभद्रव्या कृतपूर्वा निगद्यते
{अभ्र:: जारणा}
इह निष्पत्त्रकग्रासं यो रसाय प्रयच्छति ।
तोषितस्तेन गौरीशो जगत्त्रितयदानतः
{पक्षच्छेद => बन्धन}
पक्षच्छेदमकृत्वा यो रसबन्धं समीहते ।
बीजैः स विषयासक्त्या मुक्तिमिच्छति दुष्टधीः
{अभ्र:: सत्त्व:: fओर् पक्षच्छेद}
घनसत्त्वं विना नान्यत्सूतपक्षनिकृन्तनम् ।
कृत्तपक्षो निरुद्धाध्वा रज्यते बध्यते रसः
निश्चन्द्रमपि पत्राभ्रं जारितं खलु पारदे ।
तच्चरेत्सप्तधा भिन्नं चीर्णं चापि समुद्गिरेत्
जीर्णपादांशसत्त्वोऽपि तत्तद्योगेषु योजितः ।
तत्तद्रोगे फलं शीघ्रं रसो धत्तेऽधिकं यतः
यत्र सत्त्वं द्रुतं बीजं रसजारणकर्मणि ।
उत्कृष्टं चापि तद्दिष्टं गुणैरष्टगुणं तथा
शिवयोश्चरमो धातुरभ्रकं पारदस्तथा ।
एतयोर् मेलनान् न्ःणां क्व मृत्युः क्व दरिद्रता
{मेर्चुर्य्:: वेर्zएह्र्त् केइन् रेइनेस् अभ्रसत्त्व}
केवलाभ्रकसत्त्वं हि ग्रसत्येव न पारदः ।
ग्रस्तमप्यतिदुःखेन सर्वाङ्गव्यापि नो भवेत्
तस्माल्लोहान्तरोपेतं युक्तं च धातुसत्त्वकैः ।
अभ्रकक्षारयोः सिद्धः केवलं वपुःसिद्धिदः
अभ्रेणैकत्वकरणं लोहानां परिकथ्यते
{द्वन्द्वमेलापक fओर् मेतल्स्}
कान्तस्य लाक्षागुडसर्जरसैः सधातकीगुग्गुलुटङ्कणैश्च ।
स्त्रीस्तन्यपिष्टैः समभागिकैश्च दुर्मेललोहान्यपि मेलयन्ति
{द्वन्द्वमेलापक fओर् मेतल्स्}
ताप्यचूर्णसमायुक्तं लोहद्वन्द्वं मिलेद्ध्रुवम् ।
द्वित्रिवारं परिध्मानात्क्षीरेऽक्षीरमिव ध्रुवम्
{प्रेपरतिओन् ओf अभ्रसत्त्व fओर् जारण}
अभ्रसत्त्वं हि तुल्यांशताप्यसत्त्वसमन्वितम् ।
अभ्रशेषं कृतं ध्मानाद्भवेत्सुकरजारणम्
{प्रेपरतिओन् ओf अभ्रसत्त्व fओर् जारण}
यद्वा द्विगुणितं ताप्यं निर्व्यूढं घनसत्त्वके ।
तदन्तर्जारितं शीघ्रं रससिद्धिविधायकम्
{प्रेपरतिओन् ओf अभ्रसत्त्व fओर् चारण wइथ् लेअद् अन्द् तिन्}
एवं वङ्गेन नागेन घनसत्त्वं चरेद्रसः ।
तत्सत्त्वं धातुवादार्यं देहसिद्धौ विनिन्दितम्
एतौ पूती महादोषौ नागवङ्गौ निरुत्तमौ ।
रोगांश्च तनुतः शीघ्रं सेव्यमानौ परं खलु
{गर्भद्रुति}
तत्सत्त्वं गालयित्वा च वाससा रवकान्वितम् ।
दशांशताम्रपात्रस्थरसेश्वरविमर्दितम्
तच्चतुःषष्टिभागेन समेतं शुद्धपारदम् ।
क्षाराम्ललवणोपेतं तप्तं खल्वे दिनत्रयम्
क्षालयित्वोष्णसन्धानैः क्षिप्त्वा काचकरण्डके ।
तदूर्ध्वाधो विडं दत्त्वा रसस्याष्टमभागतः
तन्मुखे भूर्जमाधाय वेष्टयेदेकसूत्रतः ।
करण्डं वाससावेष्ट्य दोलायन्त्रविधानतः
सर्वाम्लगोजलोपेतकाञ्जिकैः स्वेदयेत्त्र्यहम् ।
ततो निक्षिप्य लोहाश्मकम्बूनामेव भाजने
क्षालयित्वोष्णसन्धानैर्वस्त्रेणोद्धृत्य तं द्रवम् ।
विशोष्य लग्नं हस्तेन मर्दयित्वा क्षणं रसम्
वस्त्रे चतुर्गुणे क्षिप्त्वा गाढनिष्पीडनाद्रसः ।
सर्वोऽपि यदि निर्गच्छेद् गर्भे ग्रासस्तथा द्रुतः
{गर्भद्रुति:: fऐलुरे:: रेपेतितिओन्}
सावशेषे पुनर्ग्रासे सविडं स्वेदयेत्पुनः ।
एवं ग्रासत्रयं भूयः सम्प्रदाय प्रयत्नतः
षष्टिग्रासेषु शेषेषु गर्भद्रावणतः परम् ।
पञ्चमाध्यायनिर्दिष्टे यन्त्रे कच्छपसंज्ञके
विडेन संयुतं सूतं पुटेन्मृद्वग्निनोपलैः ।
यन्त्रादुद्धृत्य भूयोऽपि क्षालयित्वोष्णकाञ्जिकैः
मर्दनोक्तविधानेन याममात्रं विमर्दयेत् ।
निर्मलत्वविधानाय रागान् गृह्णाति निर्मलः
तस्मान्मर्द्यो रसो यत्नाद् ग्रासं ग्रासे पुटे पुटे ।
संमर्दितो भवेद्वापि रोगनाशनशक्तिमान्
{मेर्चुर्य्:: चारण}
भूसर्जिकालवणवर्गसमेतकाञ्चीसंयुक्तकाञ्जिकयुतं परिचार्यवस्तु ।
{मेर्चुर्य्:: चारण}
सत्त्वोपलादिसकलं वरताम्रपत्रैर्जुष्टं च ह्यम्लमुदितं रसचारणाय
{जारण}
रम्भापटुत्रिफललाङ्गलिकानिशार्धशोभाञ्जनाङ्घ्रिखरमञ्जरिकाङ्घ्रिसंख्यैः ।
सप्ताहकं परिविभावितकाञ्जिकोऽसौ क्लिन्नं हि लोहनिवहं ग्रसतीह सूतः
{बिड fओर् गर्भद्रुति}
क्षारैश्चतुर्भिर् लवणैश्च षड्भिर् द्रवाम्लमिश्रैर् दशधा विभावितैः ।
स्वर्णादिलोहाभ्रकसत्त्वगर्भद्रुतिप्रहीत्यै बिड एष दिष्टः
{दण्डधारी}
वीथीतुल्ये गतमलरसः पञ्चशाणप्रमाणं भुक्त्वा सत्त्वं गगनजनितं षष्टिकाक्षारवह्नौ ।
तत्त्वं ह्येतद् व्रजति स जवात्सारधूमायनानि तत्तुल्योऽसौ मुनिभिरुदितो दण्डधारी च नाम्ना
{दण्डधारिन्:: तेस्त् fओर् ~}
गर्भद्रुतियुते सूते तृणं क्षिप्तं प्रतिष्ठते ।
ऊर्ध्वदण्डधरः सोऽयं दण्डधारी रसो मतः
{मेर्चुर्य्:: अभ्रजीर्ण:: मेदिच्. उसे}
यदि भजति हि मर्त्यस्तुल्यजीर्णाभ्रसूतं प्रतिदिनमिह गुञ्जामात्रया मासमात्रम् ।
शशधरपरिपाट्या ग्रासयोगेन स स्यात् ससुखहितशतायुर्मुक्तवार्धक्यदोषः
वलिपलितविहीनः सोऽपि रोगाद्विहीनः
तेन तेन हि योगेन योजनीयो महारसः ।
{अभ्र:: सत्त्व:: मेदिच्. प्रोपेर्तिएस्}
खसत्त्वः कुरुते तीव्रां क्षुधं रोगगणं हरेत्
{द्वितीयो ग्रासः = मेर्चुर्य्:: द्विगुणाभ्रजीर्ण~}
अष्टमांशप्रकारेण देयं ग्रासं द्वितीयकम् ।
चारणं द्रावणं चैवं यथापूर्वं प्रकल्प्यते
जारणं चापि कर्तव्यं कूर्मनामनि यन्त्रके ।
पञ्चमाध्यायमध्ये च निर्दिष्टं कूर्मयन्त्रकम्
{??}
घनोद्भूतं सत्त्वं पलपरिमितं विंशतिपुटे रसे चत्वारिंशत् परिकलितचारं च जरितम् ।
पयःपङ्कप्रायं द्विगुणजरिताभ्रे वररसे यदा तद्विक्षिप्तं रसितरसरूपं सनिनदम्
{मेर्चुर्य्:: द्विगुणाभ्रजीर्ण:: मेदिच्. प्रोपेर्तिएस्}
द्विगुणगगनजीर्णः सेवितः सूतराजः प्रतिदिनमिह गुञ्जामात्रया वर्षमात्रम् ।
विदधति वरकल्पं सिन्धुकन्दर्पतुल्यं दशशतमितवर्षप्राप्तदीर्घायुषं च
गुञ्जामात्रो रसेन्द्रोऽयम् अर्कवारिनिषेवितम् ।
क्षयाद्यान् अखिलान् रोगान् दुःसाध्यानपि साधयेत्
{मेर्चुर्य्:: त्रिगुणाभ्रजीर्ण~}
अमुना क्रमयोगेन ग्रासो देयस्तृतीयकः ।
पञ्चमाध्यायनिर्दिष्टे यन्त्रे चैवान्तरालिके ।
निरुध्य जारणां कुर्यात् द्रव्यस्य वार्त्तिकः
{3. ग्रास => जलौका(बन्ध?) => ऊर्ध्वपातन => पक्षच्छेद}
परिफलघनयुक्तस् त्रिंशता तुल्यवारैर् ग्रसति यदि रसेन्द्रो यो जलौकाकृतिः सः ।
निखिलनिहितमूर्तिः निष्पतेदुद्गतोऽसौ पुनरपि निजपात्रे छिन्नपक्षः स सूतः
{मेर्चुर्य्:: त्रिगुणाभ्रजीर्ण~:: मेदिच्. उसे}
जातः सूतस् त्रिगुणगगनग्राससंपुष्टमूर्तिर् भस्मीभूतं यवपरिमितं वज्रभस्मादियुक्तम् ।
तं चेन्मर्त्यो भजति हि सदा जायते दिव्यदेहो जीवेत् कल्पत्रिदशशतिकान् वत्सराणां प्रकामम्
सिद्धार्थद्वयमानेन मूर्छितस् ताप्यभस्मना ।
हिनस्ति सकलान् रोगान् सप्तवारेण रोगिणम्
{चतुर्थो ग्रासः}
बद्धो वा भस्मतां नीतः सिद्धार्थप्रमितो नरैः ।
व्योषवेल्लमधूपेतः चतुर्मासनिषेवितः
वलीपलितनिर्मुक्तं मनुष्यं कुरुते ध्रुवम् ।
प्रमत्तद्विपदर्पाढ्यं कन्दर्प इव रूपिणम्
कन्दर्पदर्पजिद्रूपे पापसन्तापवर्जितः ।
जीवेत् त्रिंशच्छतान्यष्टानीह वर्षाणि मानवः ।
सेवनाद्रमते चासावङ्गनानां शतं तथा
वरां लोहसमां स्थूलां स्पर्शमात्रेण लीलया ।
रसोऽसौ बन्धमायातो मोदयत्येव निश्चितम्
मृतमुत्थापयेन्मर्त्यश्चक्षुषोः क्षेपमात्रतः ।
निहन्ति सकलान्रोगान्घ्रातः शीघ्रं न संशयः
{पञ्चमो ग्रासः}
एवं च पञ्चमो ग्रासः प्रदातव्योऽष्टमांशतः ।
स पात्रस्थोऽग्निसंतप्तो न गच्छति कथञ्चन
स पक्षच्छिन्न इत्युक्तः स मुक्तोऽखिलदुर्गुणैः ।
सोऽयं निषेवितः सूतस्त्रिमासं राजिकामितः
विडङ्गत्रिफलाक्षौद्रैः खे देवैः सह सङ्गमम् ।
घ्राणमात्रेण सूतेन्द्रः सर्वरोगनिकृन्तनः
गुणा एते विनिर्दिष्टा रसस्य रसवादिभिः ।
सकलास्ते गुणाः सत्या भैरवेण प्रकीर्तिताः
{षष्ठो ग्रासः}
पलैश्चतुर्भिर्दातव्यो ग्रासः षष्ठोऽपि पूर्ववत् ।
षड्गुणाभ्रकजीर्णोऽसौ सुधातुल्यो गुणोदयः
सर्षपप्रमितो मासं खण्डोपलकसंयुक्तः ।
मासेन कुरुते देहं तच्छतायुषजीविनम्
बद्धोऽयं कुरुते चैव मुखस्थः खेचरीं गतिम् ।
वारयत्यपि शस्त्राणि दिव्यान्यपि सहस्रशः
दशदन्तिबलः श्रीमान् सर्वलोकेषु पूजितः ।
रञ्जितः सारितः सम्यक् क्रामणेन समन्वितः ।
कोटिवेधी भवत्येव अबद्धः कुन्तवेधकः
समर्थो न रसस्यास्य गुणान् वक्तुं महीतले ।
कोऽपि श्रीसोमदेवो वा प्रभावं वेत्ति शङ्करः
{सप्तमो ग्रासः}
ग्रासस्तु सप्तमो देयो वारद्वितययोगतः ।
द्रावणं जारणं तस्य यथापूर्वं प्रकल्पयेत्
अयं भस्मीकृतः सूतो लिक्षामात्रेण सेवितः ।
त्रिफलामल्लखण्डाभ्यां मासस्यार्धेन मानवम्
कोटिकन्दर्परूपाढ्यं शक्रतुल्यपराक्रमम् ।
पूजितं सर्वदेवैश्च वेदकल्पयुगायुषम्
विज्ञानवन्तं कालं च त्रिकालज्ञानसंयुतम् ।
शापानुग्रहणे शक्तं दिव्यस्त्रीशतरञ्जनम् ।
कुरुते नात्र सन्देहो नन्दिनो वचनं यतः
रञ्जितः सारितः सोऽयं क्रामणेन समन्वितः ।
धूमवेधी भवेन्नूनं नात्र कार्या विचारणा
{अष्टमो ग्रासः}
ततश्चैवाष्टमो ग्रासो दातव्यः समभागतः ।
जीर्णाष्टगुणसत्त्वाभ्रो रसेन्द्रो भस्त्रिकाशतैः
प्रध्मातोऽपि न यात्येव नैव किंचित्प्रहीयते ।
सोऽयमग्निसहो नाम्ना संख्यातीतगुणोदयः
संख्यातीतप्रभाढ्यश्च चित्रवीर्यो महाबलः ।
लिक्षामात्रो रसेन्द्रोऽयं सेवितः सितया सह
प्रकरोत्येकवारेण नरं सर्वाङ्गसुन्दरम् ।
रुद्रतुल्यं महैश्वर्यं विष्णुतुल्यं पराक्रमम्
शशाङ्कतुल्यं सत्कान्तिं सूर्यतुल्यप्रतापिनम् ।
चतुर्मुखसमायुष्यं नेत्रे तार्क्ष्यदृशाविव
रञ्जितः सारितः सम्यक् क्रामणेन समन्वितः ।
शब्दवेधी भवेत्सोऽयं शिववत् सर्वतोमुखः
मन्थानभैरवाद्यैश्च शतकोटिप्रविस्तरैः ।
कोटिभिश्चापि कार्त्स्न्येन रसस्यास्य महागुणैः ।
शक्यं तेनैव संस्तोतुं तरङ्गा इव सागरे
साधकस्याल्पभावेन शङ्करस्याप्रसादतः ।
यथावदौषधाज्ञानाद् अयथाहृतभैषजैः
गन्धवत्यपरिज्ञानादयथावच्च साधनात् ।
न सिध्यति कलौ सूतः संशयेन प्रकुर्वताम्
{छिन्नपक्षलक्षण}
ऊर्ध्वाधःपतनेऽशक्तो निरुद्धाध्वा न कुछविः ।
जीर्णाभ्रको भवेत्सूतः छिन्नपक्षः स उच्यते
{मेर्चुर्य्:: "अगे" अच्चोर्दिन्ग् तो अभ्र}
समाभ्रजीर्णे बालः स्यात् किशोरो द्विगुणाभ्रकः ।
युवा चतुर्गुणाभ्राशी षड्गुणाभ्रकजीर्णवान्
वृद्धश्चैवातिवृद्धश्च भवेदष्टगुणाभ्रकः ।
बालस्तु कल्पनीयेन देहलोहविधायकः
कुमारः पिष्टतां प्राप्तो देहलोहकरो भवेत् ।
स्वर्णेन सारितसूतो युवा सिद्धिविधायकः
देहलोहकरो वृद्धो भवेद्भस्मत्वमागतः ।
अतिवृद्धो रसो वृद्धो वक्त्रस्थः सर्वसिद्धिदः
तत्र बालः कुमारश्च नेष्यते तु रसायने ।
तरुणो रोगनाशार्थं देहरक्षाकरस्तथा
वृद्धश्चैवातिवृद्धश्च देहलोहकरावुभौ ।
{मेर्चुर्य्:: इन्fलुएन्चे ओf जीर्णाभ्र ओन् फ्य्स्. प्रोपेर्तिएस्}
किंचिद् अग्निसहसाभो भवेत्तुल्याभ्रजारितः
द्विगुणाभ्रकजीर्णस्तु धूमत्वं नैव गच्छति ।
दधिवद्बन्धमायाति सूतेन्द्रः त्रिगुणाभ्रकः
देहसिद्धिकरः सूतो व्योम्नि जीर्णे चतुर्गुणे ।
जीर्णषष्ठगुणाभ्रस्तु ब्रह्मायुष्यप्रदो रसः
जीर्णसप्तगुणाभ्रस्तु दद्यादायुः सविक्रमः ।
प्रदत्ते शङ्करायुष्यं जारितेऽष्टगुणेऽभ्रके ।
{मेअसुरेस् अगैन्स्त् ग्रासाजीर्ण}
ग्रासाजीर्णरसं पात्य पुनः संदीप्य जारयेत्
ततः शुल्बस्य तीक्ष्णस्य कान्तस्य रजतस्य च ।
सुवर्णस्य च बीजानि विधाय परिजारयेत्
{मेर्चुर्य्:: जारण:: wइथ् चोप्पेर्}
अभ्रकोक्तप्रकारेण द्रावणं जारणं तथा ।
रसस्य रञ्जनी प्रोक्ता तीक्ष्णकान्तार्कजारणा
तत्तत्क्षाराम्लकस्वेदैर् यत्नतो विहितश्चरेत् ।
शतधा दरदव्यूढं ताम्रं हि त्रिगुणं रसे
जारणाज्जायते तेन द्रुतमाणिक्यसन्निभः ।
ताम्रेण बलवान्सूतः सूर्यतुल्यपराक्रमः
त्रिदोषैः कृतनिःशेषं रसोऽयं जीवयत्यलम् ।
सेवितोऽयं रसो मासं गुञ्जया तुलितोऽन्वहम् ।
कुर्याद्भीमसमं मर्त्यं मुक्ते च भुजि विक्रमम्
{मेर्चुर्य्:: जारण:: wइथ् तीक्ष्णलोह}
क्रामणं जारणं वेधो रञ्जनं वेगकारिता ।
हिङ्गुलशतनिर्व्यूढात् तीक्ष्णग्रासाद् रसे भवेत्
समांशतो जारिततीक्ष्णसूतो निषेवितः पादमितो द्विमासम् ।
करोति मर्त्यं गतमृत्युभीतिं महाबलं ध्वस्तरुजं सुपुत्रम्
सूतो द्वित्रिचतुःपञ्चगुणस्तीक्ष्णेन जारितः ।
उत्तरोत्तरतस्तस्य गुणः केनेह वर्ण्यते ।
{मेर्चुर्य्:: जारण:: wइथ् कान्तलोह}
कान्तजीर्णरसश् चैवं गुणैः कोटिगुणं भवेत्
द्विगुणजरितकान्तो व्याधिबाधां हिनस्ति हरति च रस उच्चैर्व्याधिवक्रं क्षणेन ।
वलिपलितविकारं दुःखदारिद्र्यमृत्युं जनयति वरपुत्रं सच्चरित्रं रसेन्द्रः
{मेर्चुर्य्:: जारण:: wइथ् गोल्द्}
पादांशेनार्धभागेन त्रिपादेन समांशतः ।
द्विगुणत्रिगुणांशाभ्यां तथा पञ्चगुणांशतः
शतनिर्व्यूढमाक्षीकस्वर्णजीर्णो महारसः ।
जायते त्रिजगत्पूज्यश् चिन्तामणिसमोदयः
{विड:: fओर् जारण ओf मेर्चुर्य् wइथ् गोल्द्}
पञ्चाङ्गमूलकक्षारक्षिप्तक्षालितगोजलैः ।
शतभावितगन्धाश्म बिडं हेमादिजारणम्
{मेर्चुर्य्:: समस्वर्णजीर्ण:: मेदिच्. प्रोपेर्तिएस्}
समजरितसुवर्णं सर्वशक्त्यातिपूज्या दिनकरदिनमात्रं सेवितो माषमात्रम् ।
बहुविधगदमुक्तं हन्ति वार्धक्यमुच्चैः वृकजठरदृढाशौद्दामम् अग्निं च कुर्यात्
वन्ध्यरोगम् असाध्यत्वं पुरुषस्य समन्ततः ।
विनिहन्ति न सन्देहः कुर्याच्छतधनं नरम्
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0