रसेन्द्रचूडामणि · अध्याय 14
र्चूम्, 14
{वर्गस् ओf मेतल्स्}
शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर् लोहे लुह इति मतः सोऽपि कषार्थवाची
{गोल्द्:: सुब्त्य्पेस्}
प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ।
रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम्
{प्राकृत}
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ।
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम्
{सहज}
ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा ।
तन्मेरुरूपतां जातं सुवर्णं सहजं हि तत्
{वह्निसम्भव}
विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम्
एतत् स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत् कुर्याच्छरीरम् अजरामरम्
{खनिज}
तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत्
{वेधज}
रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।
रसायनं महाश्रेष्ठं पापघ्नं वेधजं हि तत्
तारार्करीतीतरलोहकुञ्जरं वङ्गाभ्रकं माक्षिकवङ्गपारदम् ।
यत्तारजं हि प्रवदन्ति रागतः स्वर्णं कलावर्णचतुर्गुणं हि
{गोल्द्:: परीक्षा:: गोओद् qउअलित्य्}
घृष्टं वर्णे घुसृणसदृशं रक्तवर्णं च दाहे छेदे किंचित् सितम् अकपिलं निर्दलं भूरिभारम् ।
स्निग्धं स्वर्णं रविविरहितं स्त्यानरक्तप्रभाढ्यं श्रेष्ठं दिष्टम् अतुलितलसच्चारुवर्णं च स्वर्णम्
{गोल्द्:: परीक्षा:: बद् qउअलित्य्}
रूक्षं विवर्णं मलिनं कठोरं कृष्णं च दाहे निकषे च पाण्डु ।
स्थूलाङ्गकं निर्भरकं कडारं स्फुटत्सुवर्णं दशधा न शस्तम्
{मिश्रलोह:: प्रोदुच्तिओन्}
स्वर्णरूप्यादिसंयोगान्मिश्रलोहं प्रजायते ।
{शोधन:: उसे ओf ~}
स्वर्णकार्यं न तेन स्यात्तस्मात् शुद्धिर् विधीयते ।
शोध्यं न केवलं स्वर्णं लोहान्यन्यानि शोधयेत्
{गोल्द्:: रेfरेस्हिन्ग् इत्स् चोलोउर् (?)}
कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसंस्थं प्रहरार्धमानं ध्मातेन तत्स्यान्ननु पूर्णवर्णम्
{मेतल्स्:: मारण:: त्य्पेस्}
लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुर्निकृष्टं गन्धकादिभिः
अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
{गोल्द्:: मारण}
कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत्
लुङ्गाम्बुभस्मसूतेन म्रियन्ते दशभिः पुटैः ।
{गोल्द्:: मारण}
द्रुते विनिक्षिपेत् स्वर्णे लोहमानं मृतं रसम्
विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ।
जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः
{गोल्द्:: मारण:: अपुनर्भव}
श्लेष्मान्तकाण्डेन सकाञ्चनारजटापुटैः कुक्कुटनामधेयैः ।
त्रिंशत्प्रमाणैर् अपुनर्भवं स्यान्निःशेषयोगेषु च योजनीयम्
{गोल्द्:: मारण}
सूतेन पिष्टिकां कृत्वा स्वर्णं रुद्ध्वा शरावके ।
स्वल्पनीलाञ्जनोपेतं दग्धं स्वल्पैर्वनोत्पलैः
कुङ्कुमाभं भवेद्भस्म योज्यं रसरसायने ।
{गोल्द्:: मारण}
स्नुग्दुग्धहिङ्गुहिङ्गूलशिलासिन्दूरकाम्लकैः
पुटितं दशवारेण निर्जीवं हेम जायते ।
रसे रसायने लोहरञ्जने चातिशस्यते
{गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
स्निग्धं मेध्यं विषगरहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि ।
मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितजरं स्वादुपाकं सुवर्णम्
{गोल्द्:: मृत:: मेदिच्. उसे}
एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं सकासारुचिम् ।
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं वृष्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत्
निःशेषरोगविध्वंसि भूतप्रेतभयापहम् ।
बन्धनं भाविरोगाणां विषत्रयभयापहम्
विना बिल्वफलं चात्र सर्वमन्यत् प्रशस्यते ।
दशाब्दसेवितं स्वर्णं स्वेच्छाहारविहारिणम् ।
न कश्चिद्बाधते व्याधिर्यावदायुर्न संशयः
{सिल्वेर्:: सुब्त्य्पेस्}
सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ।
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तमोत्तमम्
{सिल्वेर्:: सहज}
कैलासाद्यद्रिसम्भूतं रजतं सहजं भवेत् ।
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत्
{सिल्वेर्:: खनिज}
हिमाचलाद्रिकूटेषु यद् रूप्यं जायते हि तत् ।
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम्
{सिल्वेर्:: पादरूप्य}
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ।
तत् पादरूप्यम् इत्युक्तं कृत्रिमं सर्वरोगनुत्
{सिल्वेर्:: परीक्षा:: गोओद् qउअलित्य्}
घनं स्निग्धं मृदु स्वच्छं दाहे छेदे सितं गुरु ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम्
{सिल्वेर्:: परीक्षा:: बद् qउअलित्य्}
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यम् अष्टधा
{सिल्वेर्:: शोधन}
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ।
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम्
जातसीसक्षयं यावद्धमेत्तावत् पुनः पुनः ।
स्वच्छं संशोधितं रूप्यं योजनीयं रसादिषु
{सिल्वेर्:: मारण}
लकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ।
ऊर्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ।
स्वाङ्गशीतां च तां पिष्टीं साम्लतालेन मर्दिताम्
पुटेद् द्वादशवाराणि भस्मीभवति रूप्यकम् ।
{सिल्वेर्:: मारण}
माक्षीकचूर्णलुङ्गाम्लमर्दितं पुटितं शनैः
त्रिंशद्वारेण तत्तारं भस्म संजायतेतराम् ।
{एffएच्त् ओf मारण ओf अ भस्मन्}
रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।
रञ्जयन्ति च रक्तानि देहलोहोभयार्थकृत्
{सिल्वेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रुच्यम् ।
स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यप्रदं स्थिरवयस्करणं च वृष्यम्
{सिल्वेर्:: मृत:: मेदिच्. उसे}
भस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटुकलितं सारघाज्येन युक्तम् ।
लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः कासं श्वासं नयनजरुजः पित्तरोगानशेषान्
{चोप्पेर्:: सुब्त्य्पेस्}
म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ।
नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते
{म्लेच्छताम्र:: फ्य्स्. प्रोपेर्तिएस्}
सितकृष्णारुणच्छायं वामि भेदि कठोरकम् ।
क्षालितं च पुनः कृष्णमेतन्म्लेच्छकताम्रकम्
{नेपालताम्र:: फ्य्स्. प्रोपेर्तिएस्}
सुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु ।
निर्विकारं गुणैः श्रेष्ठं ताम्रं नेपालमुच्यते
{चोप्पेर्:: परीक्षा:: बद् qउअलित्य्}
पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् ।
रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि
{चोप्पेर्:: अशुद्ध:: दोष}
उत्क्लेदमोहभ्रमदाहभेदास्ताम्रस्य दोषाः खलु दुर्धरास्ते ।
विशोधनात् तद् विगतस्वदोषं सुधामयं स्याद्रसवीर्यपाके
{चोप्पेर्:: शोधन}
ताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् ।
निक्षिप्तं महिषीतक्रे छगणे सप्तवारकम्
पञ्चदोषविनिर्मुक्तं भस्मयोग्यं च जायते ।
{ताम्रशोधनम्}
ताम्रनिर्दलपत्राणि विलिप्तानि तु सिन्धुना
ध्मात्वा सौवीरके क्षेपाद् विशुध्यन्त्यष्टवारतः ।
{चोप्पेर्:: शोधन}
निम्बाम्बुपटुलिप्तानि तापितान्यष्टवारकम्
विशुध्यन्त्यर्कपत्राणि निर्गुण्ड्या रसमज्जनात् ।
{चोप्पेर्:: शोधन}
तालपत्रसमाभानि ताम्रपत्राणि कारयेत्
निष्क्वाथ्य काञ्जिके यामं भस्मना परिशोध्य च ।
यामं क्षीरेण निष्क्वाथ्य तत्रैव स्थापयेद्दिनम्
दिनैकं लवणोपेतं तिन्तिडीफलकर्दमे ।
जम्बीरनीरनिष्पिष्टपटुना परिवेष्ट्य च
ध्मात्वाजामूत्रमध्ये तु सकृदेव निमज्जयेत् ।
ताम्रस्यार्धं ससिन्धूत्थैः पक्वनिम्बुकवारिभिः
लिप्त्वा ध्मात्वा क्षिपेत्तक्रे महिषीछगणान्विते ।
तत्ताम्रं तुल्यभागेन हेममाक्षिकसंयुतम्
धमेद् अतिदृढाङ्गारैश् चैकवारमतः परम् ।
विना ताप्यैस्त्रिवारं च चक्रिकां कल्पयेत्ततः
ततस्त्रिकटुकक्वाथे त्रिदिनं स्थापयेत्ततः ।
उत्क्वाथ्य भस्मना मृज्य जलैः प्रक्षाल्य सारघैः
विलिप्य सारघोपेतसितया च त्रिवारकम् ।
पुटेद् वनोत्पलैस्ताम्रं भवेत् स्वर्णसमं गुणैः
कुमारीपत्रमध्ये तु शुल्बपत्रं निवेशितम् ।
पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते
इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ।
भवेद्रसायने योग्यं देहलोहकरं परम्
इमां शुद्धिं विजानाति शिवो वा नन्दिकेश्वरः ।
सर्वलोकाश्रयः श्रीमान् सोमदेवो न चापरः
{चोप्पेर्:: मारण}
बलिना निहतं ताम्रं सप्तवारं समुत्थितम् ।
सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम्
विलिप्य लकुचद्रावपिष्टगन्धाश्मपङ्कतः ।
ताम्रपत्राणि संस्थाप्य स्थालीमध्ये निरुध्य च
याममात्रं पचेत् सम्यक् मृतान्याकृष्य चूर्णयेत् ।
{चोप्पेर्:: मृत:: मेदिच्. उसे}
तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम्
भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः ।
ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम्
विषं गरं च वेगेन वामयत्येव निश्चितम् ।
पथ्यमत्र प्रदातव्यं गोतक्रं भक्तसंयुतम्
अतिरेके ऽतिवान्तौ च सन्तापे चातिमात्रके ।
तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम्
अतिवान्तौ भजेद्भृष्टमिक्षुखण्डं तु शीतलम् ।
यद्वा बिल्वभवं क्वाथं सितया सह पाययेत्
बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतम् ।
{चोप्पेर्:: मारण}
शुल्बतुल्येन सूतेन बलिना तत्समेन च
तदर्धांशेन तालेन शिलया च तदर्धया ।
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम्
यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ।
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ।
प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं प्रचूर्णयेत्
{चोप्पेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
ताम्रं तिक्तकषायकं च मधुरं पाके च वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजूर्त्त्यन्तकृत् ।
ऊर्ध्वाधः परिशोधनं विषयकृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम्
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुं ज्वरम् ।
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद् ध्रुवमिदं तत्सोमनाथाभिधम्
एतत्ताम्रसमं नान्यन्मधुरं दोषवर्जितम् ।
नान्यन्निःशेषदोषघ्नं वृष्यं स्वस्थोचितं न्ःणाम्
{चोप्पेर्:: मारण}
बलिना पलमात्रेण तद्द्रव्ये रजसंमितैः ।
विषतिन्द्वग्निशम्याकवत्सनाभपटूत्तमैः
कलिहारिशिलाव्योषतालपूगकरञ्जकैः ।
कृत्वा चूर्णं हि जम्बीरद्रवेणातिद्रवीकृतम्
तत्सर्वं खल्वके भाण्डे विनिक्षिप्य ततः परम् ।
कृतकण्टकवेध्यानि पलताम्रदलान्यथ ।
लिप्तपादांशसूतानि तस्मिन् कल्के निगूहयेत्
एतत् सर्वगुणाढ्यताप्रभवितं श्रीसोमदेवोदितं गुञ्जायुग्ममितं कणाज्यसहितं संसेवितं हन्ति वै ।
गुल्मप्लीहयकृद्विबन्धजठरं शूलाग्निमान्द्यामयं वातश्लेष्मसशोषपाण्डुनिवहं जूर्त्त्यामयं भक्षितम्
पथ्यं रोगोचितं देयं रसमम्लं विवर्जयेत् ।
एतत्सात्म्यीकृतं येन तेन मृत्युर् विनिर्जितः
{इरोन्:: सुब्त्य्पेस्}
मुण्डं तीक्ष्णं च कान्तं च त्रिःप्रकारमयः स्मृतम् ।
{मुण्ड:: सुब्त्य्पेस्}
मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते
{मृदु:: फ्य्स्. प्रोपेर्तिएस्}
द्रुतद्रावम् अविस्फोटं चिक्कणं मृदुलं शुभम् ।
{कुण्ठ:: फ्य्स्. प्रोपेर्तिएस्}
हतं यत्प्रसरेद्दुःखं तन्मुण्डं मध्यमं स्मृतम् ।
{कडार:: फ्य्स्. प्रोपेर्तिएस्}
यन्मुण्डं भज्यते भङ्गे कृष्णं स्यात्तत्कडारकम्
{मुण्ड:: मृदु:: मेदिच्. प्रोपेर्तिएस्}
मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि ।
गुल्मामवातजठरार्त्तिहरं प्रदीपि शोफापहं रुधिरकृत् खलु कोष्ठशोधि
{तीक्ष्णलोह:: सुब्त्य्पेस्}
खरं सारं च होन्नालं तारापट्टं च भाजरम् ।
काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते
{खरलोह:: फ्य्स्. प्रोपेर्तिएस्}
परुषं पोगरोन्मुक्तं भङ्गे पारदसच्छविः ।
नमते भङ्गुरं यत्तत् खरलोहम् उदाहृतम्
{सार:: फ्य्स्. प्रोपेर्तिएस्}
वेगभङ्गुरधारं यत्सारलोहं तदीरितम् ।
योगराभासकं पाण्डु भूमिकं सारमीरितम्
{होन्नाल:: फ्य्स्. प्रोपेर्तिएस्}
कृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुयोगरम् ।
छेदने चातिपरुषं होन्नालम् इति कथ्यते
{भाजर:: फ्य्स्. प्रोपेर्तिएस्}
योगरैर् वज्रसङ्काशैः सूक्ष्मरेखैश्च सान्द्रकैः ।
निचितं श्यामलाङ्गं च भाजरं तत् प्रकीर्तितम्
{काललोह:: फ्य्स्. प्रोपेर्तिएस्}
नीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् ।
लोहाघातेऽप्यभग्नात्मधारं कालायसं मतम्
खरलोहात् परं सर्वमेकैकस्माच्छतोत्तरम्
{खरलोह:: मेदिच्. प्रोपेर्तिएस्}
रूक्षं स्यात् खरलोहकं सुमधुरं पाके च वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपाण्ड्वर्तिनुत् ।
सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नाममेदोऽपहम्
{कान्तलोह:: सुब्त्य्पेस्}
कान्तलोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति तेषु श्रेष्ठं परं परम्
{रोमक:: ओरिगिन्}
खन्यमानाद् यतः कान्तपाषाणान्निःसरन्ति हि ।
सतेजांसि हि रोमाणि कान्तं तद्रोमकं मतम्
{भ्रामक:: ओरिगिन्}
क्वापि क्वापि गिरिश्रेष्ठे सुलभो भ्रामकोपलः ।
तन्मुखे क्षेपणाल्लोहं चक्रवद् भ्रमति ध्रुवम्
{चुम्बक:: ओरिगिन्}
विन्ध्याद्रौ चुम्बकाश्मानश्चुम्बन्त्यायसकीलकम् ।
क्षिप्रं समाहरत्येव यूनां चित्तमिवाङ्गना
{द्रावक:: ओरिगिन्}
यत्स्पृष्ट्वा द्रावयेल्लोहं सुवर्णाद्यमशेषतः ।
लभ्यते तन्महादुःखात्तुषारधरपर्वते
{कान्तलोह:: परीक्षा}
पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाच्यं दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत्
{कान्तलोह:: मेदिच्. प्रोपेर्तिएस्}
कान्तायो ऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् ।
गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत् तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत्
लक्षोत्तरगुणं सर्वं लोहं स्याद् उत्तरोत्तरम् ।
कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम्
{इरोन्:: शोधन}
शशक्षतजसंलिप्तं त्रिवारं परितापितम् ।
मुण्डादिसकलं लोहं सर्वदोषान् विमुञ्चति
{लोहशोधन (2)}
सामुद्रलवणोपेतं तप्तं निर्वापितं खलु ।
त्रिफलाक्वथिते नूनं गिरिदोषम् अयस्त्यजेत्
{लोहशोधन (3)}
चिञ्चाफलदलक्वाथादयो दोषमुदस्यति ।
{लोहशोधन (4)}
यद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम्
{इरोन्:: मारण:: वारितर}
रेतितं घृतसंसिक्तं क्षिप्त्वायः खर्परे पचेत् ।
चालयन् लोहदण्डेन यावत् क्षिप्तं तृणं दहेत्
पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ।
धात्रीपत्ररसैर्यद्वा त्रिफलाक्वथितोदकैः
पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ।
{तीक्ष्णलोह:: मारण}
तीक्ष्णलोहस्य पत्राणि निर्दलानि दृढानले
ध्मात्वा क्षिप्त्वा जले सद्यः पाषाणोलूखलोदरे ।
कण्डयेदतिनिर्घातैः स्थूलया लोहपारया
तन्मध्यात् स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे ।
ध्मात्वा सिक्त्वा जलैः सम्यक् पूर्ववत् कण्डयेत् खलु
तच्चूर्णं गुडगन्धाभ्यां पुटेद् विंशतिवारकम् ।
पुटे पुटे विधातव्यं पेषणं दृढवत्तरम्
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ।
{तीक्ष्णलोह:: मारण}
अथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः
पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः ।
शोणितं जायते भस्म कृतसिन्दूरविभ्रमम्
{लोहभस्म}
यद्वा तीक्ष्णदलोद्भूतं रजस् तत् त्रिफलाजलैः ।
पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च
शोषयित्वातियत्नेन प्रपचेत् पञ्चभिः पुटैः ।
रक्तवर्णं हि तद्भस्म योजनीयं यथायथम्
{इरोन्:: मारण:: निरुत्थ}
मत्स्याक्षीगन्धवाह्लीकैर् लकुचद्रवपेषितैः ।
विलिप्य सकलं लोहं मत्स्याक्षीकल्कगोपितम्
भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि ।
अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके
तस्मादाहृत्य संताड्य मृतमादाय लोहकम् ।
पुनश्च पूर्ववद् ध्मात्वा मारयेदखिलायसम्
कण्डयित्वा ततो गन्धगुडत्रिफलया सह ।
पुटेद् विंशतिवारेण निरुत्थं जायते ध्रुवम्
{लोहभस्म}
समगन्धम् अयश्चूर्णं कुमारीवारिमर्दितम् ।
पुञ्जीकृतं कियत्कालं छायास्थं म्रियते ह्ययः
{इरोन्:: मृत:: मेदिच्. उसे}
एतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक् सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् ।
हन्यान्निष्कमितं जरां च मरणं व्याधींश्च सत्पुत्रदं दिष्टं श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः
एतत्संसेवमानानां न भवन्त्यामयोच्चयाः ।
जायते च सुतः श्रीमान् धीधैर्य्यबलसंयुतः
{काललोह, कान्तलोह:: हिघ् qउअलित्य् ओf भस्मन्}
काललोहेन कान्तेन भस्मैतत्परिकल्पयेत् ।
अन्यलोहकृतं भस्म नैतादृशगुणात्मकम्
{इरोन्:: मारण}
मत्स्याक्षीक्षीरगन्धाश्मपिष्टं वेति तदायसम् ।
विंशतिः पुटितं वारान्निरुत्थं भस्म जायते
{इरोन्:: मृत:: मेदिच्. उसे}
तदष्टपलिकं भस्म मूत्रैर् अष्टगुणैर् गवाम् ।
पचेल्लोहमये पात्रे लोहदर्व्या विघट्टयेत्
इत्थं सिद्धमिदं लोहं वल्लद्वितयसंमितम् ।
निहन्ति सकलान्रोगांस्तत्तद्दोषसमुद्भवान्
क्षयं पाण्डुगदं गुल्मं शूलं मूलामयं तथा ।
मेहं मेदोऽग्निमान्द्यं च यकृत्प्लीहं च कामलाम्
श्वासं कासं च कुष्ठं च ज्वरं शूलान्वितं तथा
{कान्तलोह:: मेदिच्. उसे}
कान्तं तुल्याभ्रसत्त्वं चरणपरिमितं हेम तत्तुल्यमर्कं वैक्रान्तं ताप्यरूप्यं क्रिमिरिपुकटुकैस् तुल्यभागैः समेतम् ।
लीढं देवद्रुतैलैः प्रवितरति नृणां देहसिद्धिं समृद्धां पथ्यं पूर्वोक्तवत् तद्धरति च सकलं रोगपूगं जवेन
तदेतत्सर्वरोगघ्नं रम्यं कान्तरसायनम् ।
बल्यं वृष्यं सुपुत्रीयं मङ्गल्यं दीपनं परम्
{इरोन्:: मारण}
पलार्धं रेतितं लोहं बालबिल्वफलाम्बुना ।
पिष्ट्वा पिष्ट्वा पचेत्क्षिप्रं भस्मसाज्जायते खलु
तथा लिङ्गीफलाम्भोभिर् धात्रीफलरसेन च ।
पूर्ववन्मारयेल्लोहं जायते गुणवत्तरम्
{इरोन्:: मृत:: मेदिच्. उसे}
पुनर्भूसिन्ध्वपामार्गवज्रिणीतिन्तिडीत्वचाम् ।
क्षारैः सर्वायसां भस्म सेवितं शाणमात्रतः
क्वाथं त्रिफलासंयुक्तं प्रतिमासं पिबेन्नरः ।
{मण्डूर}
लोहकिट्टविशुद्ध्यर्थं जायते चान्यथाश्मरी
अविशोधितलोहानां विषवद्वमनं मतम् ।
नन्दिना तु विशुद्ध्यर्थं लोहं प्रोक्तं सुधासमम्
{इरोन् (?):: मेदिच्. उसे}
रात्रौ कान्तशरावके स्थितवरामित्राजलैः स्वादुभिः प्रातर्मुष्टिमितं खलु प्रतिदिनं षण्मासम् आसेवितम् ।
हन्यात्पित्तकफामयान् बहुविधान्कुष्ठप्रमेहांस्तथा पाण्डुं यक्ष्मगदं च कामलगदं मूलामयं वातजान्
{इरोन्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
अशोधितायः सपुनर्भवं तद्गुणं प्रदर्श्याल्पमथ प्रकुर्यात् ।
आमाग्निमान्द्यारुचिगुल्मशोफविड्भेदम् आलस्यम् उरोविबन्धम्
{तिन्:: सुब्त्य्पेस्}
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम्
{खुरक:: फ्य्स्. प्रोपेर्तिएस्}
धवलं च मृदु स्निग्धं द्रुतद्रावं सगौरवम् ।
{मिश्रक:: फ्य्स्. प्रोपेर्तिएस्}
निःशब्दं खुरवङ्गं स्यान् मिश्रकं श्यामशुभ्रकम्
{तिन्:: मेदिच्. प्रोपेर्तिएस्}
वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम् ।
मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम्
{खुर:: शोधन}
द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः
{मिश्रक:: शोधन}
अम्लतक्रविनिष्पिष्टवर्षाभूविषसिन्धुभिः ।
कट्वलाबुगतं वङ्गं द्वितीयं परिशुध्यति
{वङ्गमारणम्}
सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।
बोधिचिञ्चात्वचां क्षारैर्दद्याल्लघुपुटानि च
मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ।
{वङ्गमारणम् (2)}
प्रद्राव्य खर्परे वङ्गं षोडशांशं रसं क्षिपेत्
स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः ।
मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम्
{तिन्:: मृत:: मेदिच्. उसे}
वङ्गभस्मसमं कान्तं व्योमभस्म च तत्समम् ।
मर्दयेत्कन्यकाम्भोभिर् निम्बपत्ररसैर् अपि
भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् ।
गोमूत्रकशिलाधातुजलैः सम्यग्विमर्दयेत्
ततो गुग्गुलुतोयेन मर्दयित्वा दिनाष्टकम् ।
विशोष्य परिचूर्ण्याथ समभागेन योजयेत्
भृष्टबर्बूरनिर्यासैर् वाकुचीबीजचूर्णकैः ।
ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम्
गोतक्रपिष्टरजनीसारेण सह पाययेत् ।
चतुर्भिर्वल्लकैस्तुल्यं रम्यं वङ्गरसायनम्
निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः ।
शालयो मुद्गसूपं च नवनीतं तिलोद्भवम् ।
पटोलं तिक्ततुण्डीरं तक्रं पथ्यं प्रशस्यते
{लेअद्:: शुद्ध:: परीक्षा}
द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् ।
पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा
{लेअद्:: मेदिच्. प्रोपेर्तिएस्}
अत्युष्णं सीसकं स्निग्धं तिक्तं वातापहम् ।
प्रमेहतोयदोषघ्नं दीपनं चामवातनुत्
{सीषशोधन}
सिन्दुवारजटाक्वाथे हरिद्राचूर्णकं क्षिपेत् ।
द्रुतं नागं च निर्गुण्ड्यास्त्रिवारं निक्षिपेद्रसे
नागः शुद्धो भवेदेवं मूर्च्छास्फोटादि नाचरेत् ।
{भ्राष्ट्रयन्त्र}
तिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं क्षिपेत् ।
तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा ।
भ्राष्ट्रयन्त्राभिधं चैतन्नागमारणम् उत्तमम्
{सीसमारणम्}
भ्राष्ट्रयन्त्राभिधे तस्मिन्यन्त्रे सीसं विनिक्षिपेत् ।
पलविंशतिकं नागमधस्तीव्रानलं क्षिपेत्
द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् ।
विघट्ट्य निक्षिपेत् क्षारमेकैकं हि पलं पलम्
अर्जुनाख्यस्य वृक्षस्य महाराजगिरेरपि ।
दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक् पृथक्
एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना ।
विघट्टयन् दृढं दोर्भ्यां दर्व्या चाथ प्रयत्नतः
रक्तं तज्जायते भस्म कपोतच्छायमेव च ।
नागं दोषविनिर्मुक्तं जायते तु रसायनम्
{लेअद्:: मारण:: निरुत्थ (?)}
हतमुत्थापितं सीसं दशवारेण सिध्यति ।
तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम्
{लेअद्:: मृत:: मेदिच्. उसे}
एवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् ।
पादं पादं क्षिपेद्भस्म शुल्बस्य रजतस्य च
कान्ताभ्रसत्त्वयोश् चापि स्फटिकस्य पृथक् पृथक् ।
सर्वमेकत्र संचूर्ण्य पुटेत् त्रिफलवारिणा
त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् ।
व्योषवेल्लकचूर्णैश्च समांशैः सह योजयेत्
मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया ।
अशीतिं वातजान् रोगान् धनुर्वातान् विशेषतः
कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः ।
श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकं ज्वरम्
ग्रहणीमामदोषं च वह्निमान्द्यं च दुर्जयम् ।
सर्वान् गुदजदोषांश्च तत्तद्रोगानुपानतः
{पित्तल}
रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् ।
{रीतिका:: परीक्षा}
संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ।
{राजरीति:: परीक्षा}
एवं प्रजायते कृष्णा काकतुण्डीति सा मता
{रीतिका:: परीक्षा:: गोओद् qउअलित्य्}
गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा ।
सुस्निग्धा मसृणाङ्गी च रीतिका तादृशी शुभा
{रीतिका:: परीक्षा:: बद् qउअलित्य्}
पाण्डुराभा खरा रूक्षा बर्बरा घट्टनाक्षमा ।
पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु
{रीतिका:: मेदिच्. प्रोपेर्तिएस्}
रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ।
क्रिमिकुष्ठहरा योगात् सोष्णवीर्या च शीतला
{राजरीति:: मेदिच्. प्रोपेर्तिएस्}
काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् ।
यकृत्प्लीहहरा शीतवीर्या च परिकीर्तिता
{रीतिका:: शोधन}
तप्ता क्षिप्ता च निर्गुण्डीरसे श्यामारजोऽन्विते ।
पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम्
{रीतिमारणम्}
निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा ।
रीतिरायाति भस्मत्वं ततो योज्या यथायथम्
{रीतिका:: प्रोदुच्तिओन् ओf द्रुति}
सुवर्णरीतिकाचूर्णं भक्षितं विष्ठितं पुनः ।
छागेन कृष्णवर्णेन मत्तेन तरुणेन च
तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् ।
चतुर्दशलसद्वर्णसुवर्णसदृशच्छविः
देहलोहकरी प्रोक्ता युक्ता रसरसायने ।
{ब्रस्स्:: मृत:: मेदिच्. उसे}
मृतारकूटकं कान्तं व्योमसत्त्वं च मारितम्
त्रयं समांशकं तुल्यव्योषजन्तुघ्नसंयुतम् ।
ब्रह्मबीजाजमोदाग्निभल्लाततिलसंयुतम्
सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् ।
विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम्
{ब्रोन्zए:: प्रोदुच्तिओन्}
अष्टभागेन ताम्रेण द्विभागकुटिलेन च ।
विद्रुतेन भवेत् कांस्यं तत् सौराष्ट्रभवं शुभम्
{ब्रोन्zए:: परीक्षा:: गोओद् qउअलित्य्}
तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् ।
निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते
{ब्रोन्zए:: परीक्षा:: बद् qउअलित्य्}
यत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् ।
मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत्
{ब्रोन्zए:: मेदिच्. प्रोपेर्तिएस्}
कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् ।
क्रिमिकोटिहरं वातपित्तघ्नं भाजने हितम्
{ब्रोन्zए:: सुइतब्ले fओर् वेस्सेल्स्}
घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ।
भुक्तम् आरोग्यसुखदं हितं सात्म्यकरं तथा
{कांस्यशोधनम्}
तप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति ।
{ब्रोन्zए:: मारण:: निरुत्थ}
म्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः
{वर्तलोह:: प्रोदुच्तिओन्}
कांस्यार्करीतिलोहाहिजातं तद्वर्त्तलोहकम् ।
तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम्
{वर्तलोह:: मेदिच्. प्रोपेर्तिएस्}
हिमाम्लकटुकं रूक्षं कफपित्तविनाशनम् ।
रुच्यं त्वच्यं क्रिमिघ्नं च नेत्र्यं मलविशोधनम्
{वर्तलोह:: वेस्सेल्स् मदे ओf ~}
तद्भाण्डसाधितं सर्वम् अन्नव्यञ्जनसूपकम् ।
अम्लेन वर्जितं चापि दीपनं पाचनं शुभम्
{वर्तलोहशोधनम्}
द्रुतमश्वजले क्षिप्तं वर्त्तलोहं विशुध्यति ।
{वर्तलोहमारणम्}
म्रियते गन्धतालाभ्यां पुटितं वर्त्तलोहकम्
तेषु तेष्विह योगेषु योजनीयं यथाविधि ।
जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः ।
रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा
{??}
रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् ।
महारसाद्येषु कठोरदेहं भस्मीकृतं तत्खलु सूतयोग्यम्
{भूनाग:: सत्त्व:: उसेद् fओर् द्रावण}
वज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे ।
सदेव परमं तेजः सूतराजेन्द्रवज्रयोः
{भूनाग:: सत्त्व:: पातन}
धौतं भूनागसम्भूतं मर्दयेद् भृङ्गजै रसैः ।
निम्बुद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक्
तद् द्रावणगणोपेतं संमर्द्य वटकीकृतम् ।
निरुध्य दृढमूषायां द्विदण्डं प्रधमेद् दृढम्
स्वतः शीतं समाहृत्य पट्टके विनिवेश्य यत् ।
रवकान् राजिकातुल्यान् रेणूनपि भरान्वितान्
द्वादशांशार्कसंयुक्तान् धमित्वा रवकांश्चरेत् ।
वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम्
खरसत्त्वमिदं प्रोक्तं रसायनमनुत्तमम् ।
द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम्
{भूनाग:: सत्त्व:: पातन}
सुवर्णरूप्यताम्रायःकान्तसम्भूतभूमिजान् ।
भुजङ्गमान् उपादाय चतुःप्रस्थसमन्वितान्
प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि ।
उपोषितं मयूरं वा शूरं वा चरणायुधम्
क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् ।
क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे
ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् ।
मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम्
निरुध्य कोष्ठिकामध्ये प्रधमेद् घटिकाद्वयम् ।
शीतलीभूतमूषायाः खोटमुद्धृत्य पेषयेत्
प्रक्षाल्य रवकानाशु समादाय प्रयत्नतः ।
सुवर्णमानवद् ध्मात्वा रवं कृत्वा नियोजयेत्
{भूनाग:: सत्त्व:: रिन्ग् ओf ~}
भूनागोद्भवसत्त्वम् उत्तमतमं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनके कुर्वीत तेनोर्मिकाम् ।
तद्धौताम्बुविलेपनं स्थिरचरोद्भूतं विषं नेत्ररुक् शूलं मूलगदं च कर्णजरुजो हन्यात् प्रसूतिग्रहम्
{अङ्कोलतैलपातनम् (1)}
कथ्यतेऽङ्कोलतैलं च रसभस्मादिनिर्मितौ ।
पुण्यश्लोकमहामात्यैः श्रीमद्भिर्देवसूनुभिः
पुराणाङ्कोलबीजानां पेषं कृत्वा तु दुर्घनम् ।
आढकप्रमितं कुम्भे विनिधाय निरुध्य च
कुम्भस्य च तलच्छिद्रे शलाकामायसीं क्षिपेत् ।
सार्धहस्तप्रविस्तारे निम्ने गर्ते सुगर्त्तके
तत्र प्रादेशिके गर्त्ते सीसपात्रं निधाय च ।
पटं च परिबद्ध्वा तु सन्धिबन्धं समाचरेत्
लद्दिभिः पूरयेद् गर्तं कण्ठावधि ततः परम् ।
षण्मासात् सीसपात्रस्थं तत्तैलं समुपाहरेत्
{अङ्कोल:: ओइल्:: (मेदिच्.) उसे}
तेन तैलेन संक्लिन्नाः पाषाणा ये भुवर्तिकाः ।
कूपे प्रक्षालिताः क्षिप्ता ज्वलन्ति निशि ते चिरम्
तेन लिप्तं तथैवोक्तं बीजमुद्भवति ध्रुवम् ।
वध्यते म्रियते सूतस्तैलेनानेन निश्चितम्
तत्तैले मासमात्रं हि स्थिता दालिश्चणोद्भवा ।
भक्षितास्याच्चतुर्थांशा षष्टिवारं विरेचयेत्
तक्रं भक्तं ततः पथ्यं दातव्यं रेकशान्तये ।
पक्षान्ते दालिकार्धेन पूर्ववद्रेचयेत् खलु
ततो दाली त्रिपादेन चूर्णार्धेन ततः परम् ।
पक्षे पक्षे विरेकेण सर्वं कुष्ठं विनश्यति
रेकसाध्यगदाः सर्वे विनश्यन्ति न संशयः ।
रेकसाध्यगदाः सर्वे श्वेतकुष्ठं विशेषतः
{अङ्कोल:: ओइल्:: मेदिच्. उसे}
बिन्दुमात्रेण तैलेन शुद्धो गुञ्जामितो रसः ।
मर्दितोऽहिलतापत्रे पत्रेण सह भक्षितः
तत्क्षणाद् एव कुरुते ह्यनलं दीप्तमुद्धतम् ।
संसेविनं नरं चापि वृकस्येवाति भोजिनम्
अङ्कोलतैलमेतद्धि देहलोहविधायकम् ।
एतत्तैलविलेपेन श्वेतकुष्ठं विनश्यति
एतदङ्कोलकं तैलं महत्सत्त्वमुदाहृतम् ।
घृतवज्जायते स्त्यानं तत्सर्वमिति कथ्यते
{अङ्कोलतैलपातनविधिः (2)}
निस्त्वचाङ्कोलबीजानि किंचिज्जर्जरितानि च ।
रुद्ध्वा विद्याधरे यन्त्रे दण्डार्धं प्रपचेच्छनैः
ऊर्ध्वस्थालीगतं तैलं नागवल्लीदले क्षिपेत् ।
{अङ्कोल:: ओइल्:: मेदिच्. उसे}
तस्मिन्गुञ्जामितं सूतं विमर्द्य सदलं ग्रसेत्
कुर्याद् दीपनम् उद्धतं गुरुतरद्रव्यादिसंचूर्णनं हन्यादष्टविधं च गुल्मम् अरुचिं प्लीहामयं स्वामयम् ।
श्वित्राद्यं सकलं च कुष्ठमचिरात्पाण्ड्वामयं च ज्वरं शूलं मूलगदं तथा श्वयथुकं श्वासं च कासं नृणाम्
{अङ्कोलतैलपातनविधिः (3)}
निरस्थ्यङ्कोलबीजानि सूक्ष्माण्युष्णेन वारिणा ।
गोण्यां निक्षिप्य निस्त्वञ्चि विधाय तदनन्तरम्
भाण्डस्थिते ततः क्षारे प्रक्षिपेत्सलिले खलु ।
तिलपर्णीजटां क्षुण्णां निक्षिपेत्तत्र मात्रया
द्विरात्रमुषितं तत्र भाजनेऽन्ये विनिक्षिपेत् ।
शुष्के तु निर्गतं तैलं क्षिपेन्नागकरण्डके
चणानां दालयस्तत्र स्थिता मासत्रयं ततः ।
तत्राद्ये पादमात्रं हि प्रदद्यात्कुष्ठरोगिणे
तेनाशु रेचितस्त्रिंशद्वाराणि तदनन्तरम् ।
ससंभक्तं तथा पथ्यं दातव्यं शाकवर्जितम्
एवं विरेचितो नूनं सततं दशभिर्दिनैः ।
सर्वकुष्ठैर् विमुच्येत वारैः षट्सप्तभिः खलु
पूर्वप्रोक्तेन तैलेन गुणैस्तुल्यं प्रकीर्तितम् ।
{अङ्कोलतैलपातनविधिः (4)}
मूलान्युत्तरवारुण्या जर्जरीकृत्य काञ्जिकैः
क्षिपेदङ्कोलबीजानां पेषिकां जर्जरीकृताम् ।
तत्तैलं घृतवत्स्त्यानं परं ग्राह्यं यथाविधि
{अङ्कोलतैलपातनविधिः (5)}
सम्पिष्योत्तरवारुण्या पेटकार्या दलान्यथ ।
काञ्जिकेन ततस्तेन कल्केन परिमर्दयेत्
रजश्चाङ्कोलबीजानां तद्बद्ध्वा विरलाम्बरे ।
तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत्
तत्र निपतितं तैलमादेयं श्वित्रनाशनम् ।
{अङ्कोलतैलपातनविधिः (6)}
अङ्कोलबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः
एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् ।
स्वेदयेत् कन्दुके यन्त्रे घटिकाद्वितयं ततः
तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः ।
अधः पात्रस्थितं तैलं समाहृत्य नियोजयेत् ।
एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत्
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0