रसेन्द्रचूडामणि · अध्याय 13
र्चूम्, 13
{माणिक्यरसायन}
सुजातिगुणमाणिक्यभस्म कर्षमितं शुभम् ।
कनकाभ्रकताम्राणां कान्तस्य भसितं पृथक्
त्रिगुणत्वेन संवृद्धं मर्दयेत् समगन्धकैः ।
पुटेद्वनगिरिण्डैश्च पञ्चवाराणि यत्नतः
एवं शिलालकाभ्यां च पुटेन्नीलाञ्जनेन च ।
तुल्यगन्धाश्मसूताभ्यां विहितां कज्जलीं शुभाम्
ततस्तां कज्जलीं यत्नाद् गृहीत्वा तदनन्तरम् ।
लोहपात्रे परिद्राव्य बादरेणाल्पवह्निना
माणिक्यादीनि भस्मानि क्षिप्त्वा तत्र विमिश्रयेत् ।
अथार्द्रकरसैस्तां तु मर्दयित्वाथ कज्जलीम्
सम्यक् शुष्कं विचूर्ण्याथ क्षिपेद्रम्यकरण्डके ।
व्योषाज्यसम्मितं ह्येतन्माणिक्याद्यं रसायनम्
व्योषाज्यसहितं लीढं षण्मासं पथ्यभोजिना ।
निहन्ति सकलान् रोगान् जरापलितसंयुतान्
जीवेद्वर्षशतं चैव त्रिवारकृतभोजनः ।
क्षयादिजान् गदान् सर्वांस्तत्तद्रोगानुपानतः
{मौक्तिकरसायनम्}
जयन्तीरसनिष्पिष्टं शुकपिच्छेन मारितम् ।
मौक्तिकं रसमात्रं हि द्विगुणं स्वर्णभस्मकम्
त्रिगुणं कान्तजं भस्म व्योमसत्त्वं चतुर्गुणम् ।
दत्त्वा च गन्धसौभाग्यं शृङ्गवेरेण भावितम्
पुटेद् विंशतिवाराणि विद्राव्य पटगालितम् ।
सर्वतुल्येन बलिना रसेन कृतकज्जलीम्
विद्राव्य पूर्ववद् भस्म मुक्तादीनां परिक्षिपेत् ।
विमिश्र्य निक्षिपेत्तत्र क्षीरं छागीसमुद्भवम्
संशोषितं विचूर्ण्याथ काचकूप्यां विनिक्षिपेत् ।
पिप्पलीमधुना सार्धं सेवितं वल्लमात्रया
रसायनविधानेन कुरुते वत्सरेण हि ।
वलीपलितनिर्मुक्तं वार्धक्येन विवर्जितम्
श्रोत्रदन्तादिसम्पन्नं शतायुष्कं सचक्षुषम् ।
मत्तदन्तिबलोपेतं विवादे विजयान्वितम्
लीढं मध्वाज्यतैलैश्च कणोपेताश्वगन्धया ।
क्षयरोगं निहन्त्येव मण्डलार्धेन निश्चितम्
तत्तद्रोगानुपानैश्च निहन्ति सकलामयान् ।
वन्ध्यापुत्रप्रदं ह्येतत् सूतिकामयनाशनम्
बालानां परमं पथ्यं वृष्यमायुष्यमुत्तमम् ।
नागोदरोपविष्टं च हन्ति स्त्रीणां च वेगतः
हैयङ्गवीनसंयुक्तं तवराजेन संयुतम् ।
गर्भिणीसर्वरोगेषु प्रशस्तं परिकीर्तितम्
{प्रवालरसयन}
चतुष्पलं प्रवालस्य भस्मनो मृततारकम् ।
तत्समं द्विगुणं ताम्रं प्रवालादर्धमाक्षिकम्
त्रिंशद्विभागिकं वज्रं षोडशांशं च नीलकम् ।
व्योमसत्त्वं समं सर्वैस्तालकं सर्वतः समम्
विमर्द्य लुङ्गतोयेन यावद्दिनचतुष्टयम् ।
सर्वार्धशुद्धसूतेन तस्माद् द्विगुणगन्धकैः
विहितां कज्जलीं सम्यक् द्रावयित्वा यथा पुरा ।
प्रवालादीनि भस्मानि विनिक्षिप्य विमिश्र्य च
निर्वाप्य गोघृते सम्यग् द्वादशाब्दपुरातने ।
शरावसम्पुटे रुद्ध्वा घृताक्तं स्वेदयेच्छनैः
विचूर्ण्य भावयेद्भृङ्गरसैर्वाराणि सप्त च ।
व्योषाज्यसहितं हन्ति जूर्तिरोगं दिनैस्त्रिभिः
क्षयं च मण्डलार्धेन ग्रहणीं पाण्डुकामले ।
कुम्भकामलिकारोगम् उदावर्तं महोदरम्
प्रमेहं मेदसो वृद्धिं वातव्याधिं कफामयम् ।
गुदरोगं च मन्दाग्निं मूत्रवातमशेषतः
स्मरमन्दिरजव्याधिं वन्ध्यारोगांस् त्वगामयान् ।
व्योषाज्यचित्रतोयैश्च ह्यनुपानमशेषतः
भूयो भूयो विसूच्यर्तिर् देहिनो यस्य जायते ।
रसोऽयं तस्य दातव्यो मण्डलानां त्रयं खलु ।
आमरोगे च दातव्यो भिषग्भिर्वत्सरावधि
{तार्क्ष्यरसायन}
तार्क्ष्यभस्म तु शाणैकं वज्रभस्म तदर्धकम् ।
मृतस्वर्णार्ककान्तानां निष्कद्वयमितं पृथक्
लोहभस्म मृतं सूतं सर्वमेकत्र मर्दयेत् ।
पुटेद्विंशतिवाराणि पुटैः कुक्कुटसंज्ञकैः
अमृताम्बुसमायुक्तैः शिलागन्धकतालकैः ।
सप्तवारं द्रवैः सार्धं दशभिः पिष्टकैः पुटेत्
एवं सिद्धं प्रभावाढ्यं तार्क्ष्यं नाम रसायनम् ।
चित्रकार्द्रकरसोपेतं पीतं राजिकया मितम्
त्रिदोषजान् गदान्सर्वान् कफवातोद्भवानपि ।
असाध्यान् सर्ववैद्यानां भेषजानां च कोटिभिः ।
करोति क्षुधमत्यर्थं भुक्तं जरयति क्षणात्
{पुष्परागरसायन}
पुष्परागोद्भवं भस्म पलार्धप्रमितं शुभम् ।
तदर्धं पीतकाचं च तदर्धं ताम्रभस्मकम्
ताम्रस्यार्धं च रजतं जातरूपं तदर्धकम् ।
वज्रभस्म तदर्धं च सर्वतुल्यं मृताभ्रकम्
तत्समं सूर्यकान्तं च मारितं बलिना सह ।
तुल्येन बलिना सार्धं दशवारं पुटेत् खलु
नीलाञ्जनालताप्यानां पृथक् तानि पुटानि च ।
इति सिद्धमिदं प्रोक्तं पुष्परागरसायनम्
क्षयादिसर्वरोगघ्नं कुष्ठव्याधिहरं परम् ।
गुदगुल्मार्त्तिशमनं पुत्रीयं वृष्यमुत्तमम्
रसायनं तथा चैतत् क्षिप्रं गुल्महरं स्त्रियाः ।
दीपनं परमं प्रोक्तं कामलापाण्डुनाशनम् ।
बहुनात्र किमुक्तेन सर्वरोगविनाशनम्
{वज्ररसायन}
एककर्षं मृतं वज्रं तावद्भूनागसत्त्वकम् ।
ततश्च द्विगुणं स्वर्णं स्वर्णतुल्यं खसत्त्वकम्
तावन्मात्रं च कान्तायः सर्वं वारितरं कृतम् ।
अष्टमांशश्च सूतस्य सर्वेभ्यः परिकीर्तितः
शुकपिच्छः समः सर्वैर् मर्दयेच्चणकाम्लकैः ।
विधाय गोलकं रम्यं छायाशुष्कं समाचरेत्
ततो भूनागसत्त्वं हि गन्धकेन समं क्षिपेत् ।
पुटितं शतवाराणि शतं वाराणि ताप्यकैः
सूर्यपर्णैश्च दुग्धैर्वा वाराणां विंशतिं ततः ।
गुञ्जाटङ्कणसिक्थैश्च भूनागस्य रजोवृतम्
वर्तयित्वा तु तं गोलं कल्केनानेन लेपयेत् ।
अर्धाङ्गुलदलेनाथ परिशोष्य खरातपे
निक्षिपेद् वालुकायन्त्रे प्रपचेद्दिनपञ्चकम् ।
ततस्त्रिकोणगण्डीरदुग्धैर्गन्धकसंयुतैः
मर्दयित्वा तु तं गोलं पुटेद्वाराणि विंशतिम् ।
पटचूर्णं ततः कृत्वा क्षिपेदन्तःकरण्डके
गुञ्जामितं भजेदेनं रम्यं वज्ररसायनम् ।
ज्ञाताज्ञातेषु सर्वेषु गदेषु विविधेषु च
तत्तद्रोगानुपानेन दातव्यं भिषजा खलु ।
न सोऽस्ति रोगो लोकेऽस्मिन्यो ह्यनेन न शाम्यति
रसायनप्रकारेण सेवितो मण्डलत्रयम् ।
देहसिद्धिं करोत्येव विश्वविस्मयकारिणीम् ।
बिल्वमेकं विना सर्वं पथ्यमत्र प्रकीर्तितम्
{नीलरसायन}
नीलरत्नकृतं भस्म पलमात्रं च हीरकम् ।
स्वर्णं रौप्यं च कान्तं च ताप्यकं नृपवर्तकम्
समांशं सर्वमेतत् स्यात् सर्वतुल्यं च शुल्वकम् ।
सर्वमेतन्मृतं ग्राह्यं समगन्धकसंयुतम्
मर्दयेत् कङ्गुणीतैलैर्यावत्स्याद्दिवसाष्टकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा पुटेद्वाराणि विंशतिम्
श्वेतमुण्डीरसैः पश्चाद्भावयेत् सप्तवारकम् ।
इति सिद्धं प्रभावाढ्यं रम्यं नीलरसायनम्
निहन्ति सकलान्रोगान्गुञ्जामात्रं निषेवितम् ।
ज्वरं पाण्डुं क्षयं कासं शूलमर्शश्च गुल्मकम्
उदरं कुष्ठरोगं च श्वासं पञ्चविधं तथा ।
तत्तद्भैषज्ययोगेन तत्तद्रोगनिबर्हणम्
{गोमेदरसायन}
गोमेदं गन्धयोगेन लकुचद्रवयोगिना ।
पुटित्वा दशवारैश्च जातं भस्म पलोन्मितम्
सुवर्णं रजतं कान्तं सर्वमौषधमारितम् ।
क्रामणं पादपादेन प्रसितं चूलिकाम्बुना
ताप्यं गन्धर्वतैलेन पुटितं दशवारकम् ।
निरुत्थं जायते भस्म सर्वथैव गुणाधिकम्
तदर्धसूतगन्धाभ्यां कृतकज्जलिकाद्रुतौ ।
पूर्वभस्मत्रयं क्षिप्त्वा विमिश्र्य च समाहरेत्
विचूर्ण्य मुण्डिकाद्रावैर्भावयेत् सप्तवारकम् ।
पटचूर्णं विधायाथ क्षिपेदन्तःकरण्डके
इदं हि परमं श्रेष्ठं गोमेदकरसायनम् ।
योज्यं सर्वेषु रोगेषु तत्तद्रोगानुपानतः
करोति दीपनं तीव्रं सर्वार्हं च प्रियंकरम् ।
ददाति परमां पुष्टिं बलं भीमबलोपमम् ।
परमं वृष्यमायुष्यं नेत्र्यं मुखगदापहम्
{वैदूर्यरसायन}
कान्तकल्केन वैदूर्यं सह गन्धेन मारितम् ।
तद्भस्मनाष्टशाणेन तदर्धं मृतहेम च
तयोः समं तीक्ष्णरजो मृतं रूप्यं च तत्समम् ।
मृतं च विमलं सर्वैः समं सर्वं विमर्दितम्
मिलितं मोचसारेण गोलीकृत्य विशोषयेत् ।
अङ्गुलार्धदलेनैव शिलाजेन विमर्दयेत्
वालुकायन्त्रमध्यस्थं पक्षार्धं शनकैः पचेत् ।
स्वतः शीतं समाहृत्य कुमारीमूलसारतः
मर्दयित्वा विशोष्याथ पीलुमूलजलैस्तथा ।
तथैव चित्रमूलाद्भिः कन्थारीमूलसारतः
चिरबिल्वभवैस्तोयैर् विशोष्य च विचूर्ण्य च ।
मृतसंजीवनं ह्येतद् वैदूर्यकरसायनम्
आर्द्रकद्रवसंयुक्तं गुञ्जामात्रं रसायनम् ।
दातव्यं चित्रतोयैर्वा सन्निपाते विसंज्ञके
दन्तबन्धे तु संजाते वल्लमात्रममुं रसम् ।
पादयोर्घर्षयेद्यत्नात् ततश्चेष्टामवाप्नुयात्
जातचेष्टस्य सलिलं मूर्ध्नि शीतं विनिक्षिपेत् ।
शतकुम्भमितं स्वादु तीव्रा क्षुज्जायते ततः
यत् किंचिद् याचते तस्मै तत्तद्देयमभीप्सितम् ।
आयुष्ये विद्यमाने स सुखी जीवति मानवः
त्रिदोषजातरोगेषु दातव्यं तण्डुलोन्मितम् ।
पलार्धसितया युक्तमन्यथा हन्ति रोगिणम्
एकदोषोद्भवे रोगे संसर्गजनिते तथा ।
न दातव्यं हि भिषजा वैदूर्यकरसायनम्
धृतानि वा तानि समर्चितानि सुजातियुक्तानि च संस्तुतानि ।
हरन्ति रत्नान्यखिलं दुरिष्टं कुर्वन्त्यभीष्टं सततं यथेष्टम्
हरन्त्यलक्ष्मीं सततं समस्तान् दुष्कर्मजातान् इह सर्वरोगान् ।
आयुष्यकारीणि हितानि सर्वरत्नप्रसूतानि रसायनानि
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0